स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः १५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १४ स्कन्दपुराणम्
अध्यायः १५
वेदव्यासः
अध्यायः १६ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥वरांग्युवाच॥
नाशितास्म्यपविद्धास्मि त्रासिता पीडितास्मि च॥
रौद्रोण देवनाथेन नष्टनाथेन भूरिशः॥ १५.१ ॥

दुःखपारमपश्यंती प्राणांस्त्यक्तुं व्यवस्थिता॥
पुत्रं मे घोरदुःखस्य तारकं देहि चेत्कृपा॥ १५.२ ॥

एवमुक्तस्तु दैत्येंद्रो दुःखितोऽचिंतयद्धृदि॥
आसुरेष्वपि भावेषु स्पृहा यद्यपि नास्ति मे॥ १५.३ ॥

तथापि मन्ये शास्त्रैभ्यस्त्वनुकंप्या प्रियेति यत्॥
सर्वाश्रमानुपादाय स्वाश्रमेण कलत्रवान्॥ १५.४ ॥

व्यसनार्णवमत्येति जलयानैरिवार्णवम्॥
यामाश्रित्येंद्रियारातीन्दुर्जयानितराश्रयैः॥ १५.५ ॥

गेहिनो हेलया जिग्युर्दस्यून्दूर्ग पतिर्यथा॥
न केऽपि प्रभवस्तां चाप्यनुकर्तुं गृहेश्वरीम्॥ १५.६ ॥

अथायुषा वा कार्त्स्न्येन धर्मे दित्सुर्यथैव च॥
यस्यां भवति चात्मैव ततो जाया निगद्यते॥ १५.७ ॥

भर्तव्या एव यस्माच्च तस्माद्भार्येति सा स्मृता॥
सा एव गृहमुक्तं च गृहीणी सा ततः स्मृता॥ १५.८ ॥

संसारकल्मषात्त्रात्री कलत्रमिति सा ततः॥
एवंविधां प्रियां को वै नानुकंपितुमर्हति॥ १५.९ ॥

त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत्॥
भार्या कर्म च विद्या च संसाध्यं यत्नतस्त्रयम्॥ १५.१० ॥

तदेनां पीडितां चेद्यः पतिर्भूत्वा न पालये॥
ततो यास्ये शास्त्रवादान्नरकांतं न संशयः॥ १५.११ ॥

अह मप्येनमिंद्रं वै शक्तो जेतुं यथाऽनृणाम्॥
पुनः कामं करिष्येऽस्या दास्ये पुत्रऊं महाबलम्॥ १५.१२ ॥

इति संचिंत्य वज्रांगः कोपव्याकुललोचनः॥
प्रतिकर्तुं महेंद्राय तपो भूयो व्यवस्यत॥ १५.१३ ॥

ज्ञात्वा तु तस्य संकल्पं ब्रह्मा क्रूरतरं पुनः॥
आजगाम त्वरायुक्तो यत्राऽसौ दितिनंदनः॥ १५.१४ ॥

उवाचैनं स भगवान्प्रभुर्मधुरया गिरा॥ १५.१५ ॥

॥ब्रह्मोवाच॥
किमर्थं भूय एव त्वं नियमं क्रूरमिच्छसि॥
आहाराभिमुखो दैत्य तन्मे ब्रूहि महाव्रतः॥ १५.१६ ॥

यावदब्दसहस्रेण निराहारेण वै फलम्॥
त्यजता प्राप्तमाहारं लब्धं ते क्षणमात्रतः॥ १५.१७ ॥

त्यागो ह्यप्राप्तकामानां न तथा च गुरुः स्मृतः॥
यथा प्राप्तं परित्यज्य कामं कमललोचन॥
श्रुत्वैतद्ब्रह्मणो वाक्यं दैत्यः प्रांजलिरब्रवीत्॥ १५.१८ ॥

॥दैत्य उवाच॥
पत्न्यर्थेऽहं करिष्यामि तपो घोरं पितामह॥
पुत्रार्थमुद्यतश्चाहं यः स्याद्गीर्वाणदर्पहा॥ १५.१९ ॥

एतच्छ्रुत्वा वचो देवः पद्मगर्भोद्भवस्तदा॥
उवाच दैत्यराजानं प्रसन्नश्चतुराननः॥ १५.२० ॥

॥ब्रह्मोवाच॥
अलं ते तपसा वत्स मा क्लेशे विस्तरे विश॥
पुत्रस्ते तारकोनाम भविष्यति महाबलः॥ १५.२१ ॥

देवसीमंतिनीकाम्यधम्मिल्लकविमोक्षणः॥
इत्युक्तो दैत्यराजस्तु प्रणम्य प्रपितामहम्॥ १५.२२ ॥

विसृज्य गत्वा महिषीं नंदया मास तां मुदा॥
तौ दंपती कृतार्थौ च जग्मतुश्चाश्रमं तदा॥ १५.२३ ॥

आहितं च ततो गर्भं वरांगी वरवर्णिनी॥
पूर्णं वर्षसहस्रं तु दधारोदर एव हि॥ १५.२४ ॥

ततो वर्षसहस्रांते वरांगी समसूयत॥
जायमाने तु दैत्येंद्रे तस्मिँल्लोकभयंकरे॥ १५.२५ ॥

चचाल सकला पृथ्वी प्रोद्धूताश्च महार्णवा॥
चेलुर्धराधराश्चापि ववुर्वाता विभीषणाः॥ १५.२६ ॥

जेपुर्जप्यं मुनिवरा व्याधविद्धा मृगा इव॥
जहुः कांतिं च सूर्याद्या नीहाराश्छांदयन्दिशः॥ १५.२७ ॥

जाते महासुरे तस्मिन्सर्व एव महासुराः॥
आजग्मुर्हर्षितास्तत्र तथा चासुरयोषितः॥ १५.२८ ॥

जगुर्हर्षसमाविष्टा ननृतुश्चासुरांगनाः॥
ततो महोत्सवे जाते दानवानां पृथासुत॥ १५.२९ ॥

विषण्णमनसो देवाः समहेंद्रास्तदाभवन्॥
जातामात्रस्तु दैत्येंद्रस्तारकश्चंडविक्रमः॥ १५.३० ॥

अभिषिक्तोऽसुरो दैत्यैः कुरंगमहिषादिभिः॥
सर्वासुरमहाराज्ये युतः सर्वैर्महासुरैः॥ १५.३१ ॥

स तु प्राप्तमहाराज्यस्तारकः पांडुसत्तम॥
उवाच दानवश्रेष्ठान्युक्तियुक्तमिदं वचः॥ १५.३२ ॥

श्रृणुध्वमसुराः सर्वे वाक्यं मम महाबलाः॥
श्रुत्वा वः स्थेयसी बुद्धिः क्रियतां वचने मम॥ १५.३३ ॥

अस्माकं जातिधर्मेण विरूढं वैरमक्षयम्॥
करिष्याम्यहं तद्वैरं तेषां च विजयाय च॥ १५.३४ ॥

किं तु तत्तपसा साध्यं मन्येहं सुरसंगमम्॥
तस्मादादौ करिष्यामि तपो घोरं दनोः सुताः॥ १५.३५ ॥

ततः सुरान्विजेष्यामो भोक्ष्यामोऽथ जगत्त्रयम्॥
युक्तोपायोऽहि पुरुषः स्थिरश्रीरेव जायते॥ १५.३६ ॥

अयुक्तश्चपलः प्राप्तामपि रक्षितुमक्षमः॥
तच्छ्रुत्वा दानवाः सर्वे वाक्यं तस्यासुरस्य तु॥ १५.३७ ॥

साधुसाध्वित्यथोचुस्ते वचनं तस्य विस्मिताः॥
सोऽगच्छत्पारियात्रस्य गिरेः कंदरमुत्तमम्॥ १५.३८ ॥

सर्वर्तुकुसुमाकीर्णनानौषधिविदिपितम्॥
नानाधातुरसस्राविचित्रनानागृहाश्रयम्॥ १५.३९ ॥

अनेकाकारबहुलं पृथक्पक्षिकुलाकुलम्॥
नानाप्रस्रवणोपेतं नानाविधजलाशयम्॥ १५.४० ॥

प्राप्य तत्कंदरं दैत्यश्चकार विपुलं तपः॥
वहन्पाशुपतीं दीक्षां पंच मंत्राञ्जजाप सः॥ १५.४१ ॥

निराहारः पंचतपा वर्षायुतमभूत्किल॥
ततः स्वदेहादुत्कृत्त्य कर्षंकर्षं दिनेदिने॥ १५.४२ ॥

मांसस्याग्नौ जुहावैव ततो निर्मांसतां गतः॥
ततो निर्मांसदेहः स तपोराशिरजायत॥ १५.४३ ॥

जज्वलुः सर्वभूतानि तेजसा तस्य सर्वतः॥
उद्विग्नाश्च सुराः सर्वे तपसा तस्य भीषिताः॥ १५.४४ ॥

एतस्मिन्नंतरे ब्रह्मा परमं तोषमागतः॥
तारकस्य वरं दातुं जगाम शिखरं गिरेः॥ १५.४५ ॥

प्राप्य तं शैलराजानं हंसस्यंदनमास्थितः॥
उवाच तारकं देवो गिरा मधुरया तदा॥ १५.४६ ॥

॥ब्रह्मोवाच॥
उत्तिष्ठ पुत्र तपसो नास्त्यसाध्यं तवाधुना॥
वरं वृणीष्वाभिमतं यत्ते मनसि वर्तते॥ १५.४७ ॥

इत्युक्तस्तारको दैत्यः प्रांजलिः प्राह तं विभुम्॥ १५.४८ ॥

॥तारक उवाच॥
वयं प्रभो जातिधर्माः कृतवैराः सहमरैः॥
तैश्च निःशेषिता दैत्याः कृताः क्रूरैनृशं सवत्॥ १५.४९ ॥

तेषामहं समुद्धर्ता भवेयमिति मे मतिः॥
अवध्यः सर्वभूतानामस्त्राणां च महौजसाम्॥ १५.५० ॥

स्यामहं चामरैश्चैष वरो मम हृदिस्थितः॥
एतन्मे देहि देवेश नान्यं वै रोचये वरम्॥ १५.५१ ॥

तमुवाच ततो दैत्यं विरंचोऽमरनायकः॥
न युज्यते विना मृत्युं देहिनो देहधारणम्॥
जातस्य हि ध्रुवो मृत्युः सत्यमेतच्छ्रुतीरितम्॥ १५.५२ ॥

इति संचिंत्य वरय वरं यस्मान्न शंकसे॥
ततः संचिंत्य दैत्येंद्रः शिशुतः सप्तवासरात्॥ १५.५३ ॥

॥तारक उवाच॥
वासराणां च सप्तानां वर्जयित्वा तु बालकम्॥
देवानामप्यवध्योऽहं भूयासं तेन याचितः॥ १५.५४ ॥

वव्रे महासुरो मृत्युं ब्रह्माणं मानमोहितः॥
ब्रह्मा प्रोचे ततस्तं च तथेति हरवाक्यतः॥ १५.५५ ॥

जगाम त्रिदिवं देवो दैत्योऽपि स्वकमालयम्॥
उत्तीर्णं तपसस्तं च दैत्यं दैत्येश्वरास्तदा॥ १५.५६ ॥

परिवव्रुः फलाकीर्णं वृक्षं शकुनयो यथा॥
तस्मिन्महति राज्यस्थे तारके दितिनंदने॥ १५.५७ ॥

ब्रह्मणाभिहि तस्थाने महार्णवतटोत्तरे॥
तरवो जज्ञिरे पार्थ तत्र सर्वर्तवः शुभाः॥ १५.५८ ॥

कांतिर्द्युतिर्धृतिर्मेधा श्रीरखंडा च दानवम्॥
परिवव्रुर्गुणा कीर्णं निश्छिद्राः सर्व एव हि॥ १५.५९ ॥

कालागरुविलिप्तांगं महामुकुटमंडितम्॥
रुचिरांगदसन्नद्धं महासिंहासने स्थितम्॥ १५.६० ॥

नृत्यंत्यप्सरसः श्रेष्ठा गन्धर्वा गाययंति च॥
चन्द्रार्कौ दीपमार्गेषु व्यजनेषु च मारुतः॥
ग्रहा अग्रेसरास्तस्य जीवादेशप्रभाषिणः॥ १५.६१ ॥

एवं स्वकाद्बाहुबलात्स दैत्यः संप्राप्य राज्यं परिमोदमानः॥
कदाचिदाभाष्य जगाद मंत्रिणः प्रोद्धृत्तसर्वांगबलेन दर्पितः॥ १५.६२ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकखण्डे कुमारेशमाहात्मये तारकासुरोत्पत्तिवर्णनंनाम पंचदशोऽध्यायः॥ १५ ॥ छ ॥