महाभारतम्-02-सभापर्व-007
← सभापर्व-006 | महाभारतम् द्वितीयपर्व महाभारतम्-02-सभापर्व-007 वेदव्यासः |
सभापर्व-008 → |
|
इन्द्रसभावर्णनम्।। 1।।
नारद उवाच।। 2-7-1x
शक्रस्य तु सभा दिव्या भास्वरा कर्मनिर्मिता।
स्वयं शक्रेण कौरव्य निर्जितार्कसमप्रभा।। 2-7-1
विस्तीर्णा योजनशतं शतमध्यर्धमायता।
वैहायसी कामगमा पञ्चयोजनमुच्छ्रिता। 2-7-2
जराशोकक्लमापेता निरातङ्का शिवा शुभा।
वेश्मासनवती रम्या दिव्यपादपशोभिता।। 2-7-3
तस्यां देवेश्वरः पार्थ सभायां परमासने।
आस्ते शच्या महेन्द्राण्या श्रिया लक्ष्म्या च भारत। 2-7-4
बिभ्रद्वपुरनिर्देश्यं किरीटी लोहिताङ्गदः।
विरजोम्बरश्चित्रमाल्यो ह्रीकीर्तिद्युतिभिः सह।। 2-7-5
तस्यामुपासते नित्यं महात्मानं शतक्रतुम्।
मरुतः सर्वशो राजन्सर्वे च गृहमेधिनः।। 2-7-6
सिद्धा देवर्षयश्चैव साध्या देवगणास्तथा।
मरुत्त्वन्तश्च सहिता भास्वन्तो हेममालिनः।। 2-7-7
एते सानुचराः सर्वे दिव्यरूपाः स्वलङ्कृताः।
उपासते महात्मान देवराजमरिन्दमम्।। 2-7-8
तथा देवर्षयः सर्वे पार्ते शक्रमुपासते।
अमला धूतपाप्मानो दीप्यमाना इवाग्नयः।। 2-7-9
तेजस्विनः सोमसुतो विशोका विगतज्वराः।
पराशरः पर्वतश्च तथा सावर्णिगालवौ।। 2-7-10
`एकतश्च द्वितश्चैव त्रितश्चैव महामतिः'।
शङ्खश्च लिखितश्चैव तथा गौरशिरा मुनिः।
दुर्वासाः क्रोधनः श्येनस्तथा दीर्घतमा मुनिः।। 2-7-11
पवित्रपाणिः सावर्णिर्याज्ञवल्क्योऽथ भालुकिः।
उद्दालकः श्वेतकेतुस्ताण्डो भाण्डायनिस्तथा।। 2-7-12
हविष्मांश्च गरिष्ठश्च हरिश्चन्द्रश्च पार्थिवः।।
हृद्यश्चोदरशाण्डिल्यः पाराशर्यः कृषीवलः।। 2-7-13
वातस्कन्धो विशाखश्च विधाता काल एव च।
करालदन्तस्त्वष्टा च विश्वकर्मा च तुम्बुरुः।। 2-7-14
अयोनिजा योनिजाश्च वायुभक्षा हुताशिनः।
ईशानं सर्वलोकस्य वज्रिणं समुपासते।। 2-7-15
सहदेवः सुनीथश्च वाल्मीकिश्च महातपाः।
समीकः सत्यवाक्चैव प्रचेताः सत्यसङ्गरः।। 2-7-16
मेधातिथिर्वामदेवः पुलस्त्यः पुलहः क्रतुः।
मरुत्तश्च मरीचिश्च स्थाणुश्चात्र महातपाः।। 2-7-17
कक्षीवान्गौतमस्तार्क्ष्यस्तथा वैश्वानरो मुनिः।
मुनिः कालकवृक्षीय आश्राव्योऽथ हिरण्मयः।। 2-7-18
संवर्तो देवहव्यश्च विष्वक्सेनश्च वीर्यवान्।
दिव्या आपस्तथौषध्यः श्रद्धा मेधा सरस्वती।। 2-7-19
अर्थो धर्मश्च कामश्च विद्युतश्चैव पाण्डव।
जलवाहास्तथा मेघा वायवः स्तनयित्नवः।। 2-7-20
प्राचीदिग्यज्ञवाहाश्च पावकाः सप्तविंशतिः।
अग्नीषोमौ तथेन्द्राग्नी मित्रश्च सविताऽर्यमा।। 2-7-21
भगो विश्वे साध्याश्च गुरुः शुक्रस्तथैव च।
विश्वावसुश्चित्रसेनः सुमनस्तरुणस्तथा।। 2-7-22
यज्ञाश्च दक्षिणाश्चैवं ग्रहास्तोभाश्च भारत।
यज्ञवाहाश्च ये मन्त्राः सर्वे तत्र समासते।। 2-7-23
तथैवाप्सरसो राजन् `रम्भोर्वश्यथ मेनका।
घृताची पञ्चचूडा च विप्रचित्तिपुरोगमाः।। 2-7-24
विद्याधराश्च राजेन्द्र' गन्धर्वाश्च मनोरमाः।
नृत्यवादित्रगीतैश्च हास्यैश्च विविधैरपि।। 2-7-25
रमयन्ति स्म नृपते देवराजं शतक्रतुम्।
स्तुतिभिर्मङ्गलैश्चैव वस्तुवन्तः कर्मभिस्तथा।। 2-7-26
विक्रमैश्च महात्मानं बलवृत्रनिषूदनम्।
ब्रह्मराजर्षयश्चैव सर्वे देवर्षयस्तथा।। 2-7-27
विमानैर्विविधैर्दिव्यैर्दीप्यमाना इवाग्नयः।
स्रग्विणो भूषिताः सर्वे यान्ति चायान्ति चापरे।। 2-7-28
बृहस्पतिश्च शुक्रश्च नित्यमास्तां हि तत्र वै।।
एते चान्ये च बहवो महात्मानो यतव्रताः।। 2-7-29
विमानैश्चन्द्रसङ्काशैः सोमवत्प्रियदर्शनाः।
ब्रह्मणो वचनाद्राजन्भृगुः सप्तर्षयस्तथा।। 2-7-30
एषा सभा मया राजन्दृष्टा पुष्करमालिनी।
शतक्रतोर्महाबाहो याम्यामपि सभां शृणु।। 2-7-31
।। इति श्रीमन्महाभारते सभापर्वणि
मन्त्रपर्वणि सप्तमोऽध्यायः।। 7।।
2-7-13 पाराशर्यः कपिष्ठल इति घ. पाठः।।
2-7-21 नीलण्ठधृतवाक्येभ्यः तानि च “ब्रह्मणोऽङ्गात् प्रसूतोऽग्निरङ्गिरा १ इति विश्रुतः । दक्षिणाग्निर्गार्हपत्याहवनीयाविति २ । ३ । ४ त्रयी । निर्मन्थ्यो ५ वैद्युतः ६ शूरः ७ संवर्त्तो ८ लौलिक ९ स्तथा । जाठरो १० विषगः ११ क्रव्यात् १२ क्षेमवान् १३ वैष्णव १४ स्तथा । दस्युमान् १५ बलद १६ श्चैव शान्तः १७ पुष्टो १८ विभावसुः १९ । ज्योतिष्मान् २० भरतो २१ भद्रः २२ २३ स्विष्टकृदृसुमान् २४ क्रतुः २५ । सोमश्च २६ पितृमां २७ श्चैव पावकाः सप्तविंशतिः” । (वाचस्पत्यम् )
2-7-31 पुष्करमालिनी नामतः।।
सभापर्व-006 | पुटाग्रे अल्लिखितम्। | सभापर्व-008 |