सामग्री पर जाएँ

वाचस्पत्यम्/पारु

विकिस्रोतः तः
पृष्ठ ४३१७

पारु पु० पिबति जले रश्मिभिः पा--क । १ आदित्ये २ वह्नौ च उणादि०

पारुच्छेपि पु० आवापभेदे आश्व० श्रौ० ७ । १२ । १ ।

पारुष्ण स्त्री पशुभेदे यजु० २४ । २४ स्त्रियां ङीष् ।

पारुष्य न० परुषस्य भावः परुषि भबो वा ष्यञ् । १ निष्ठु-

रत्वे २ दुर्वाक्ये च मेदि० । ३ इन्द्रवने विश्वः ४ अगुरुच-
न्दने शब्दच० ५ वृहस्पतौ पु० मेदि० । ६ विरुद्धाचरणे
दण्डपारुष्यशब्दे ३५३४ पृ० दृश्यम् ।

पारेगङ्ग अव्य० गङ्गायाः पारम् अव्ययी० एदन्तत्वं निपा० ।

गङ्गायाः पारे पारेसमुद्रादयोऽपि तत्तत्पारे ।

पार्घट न० पादे घटते घट--अच् पृषो० । पांशौ हारा० ।

पार्थ पु० पृथायाः कुन्त्या अपत्यम् शिवा० अण् । १ कुन्तीपुत्रे

युधिष्ठिरादौ २ अर्जुननामवृक्षे शब्दच० । पृथेः पृथिव्या
ईश्वरः अण् । ३ पृथिवीपाले

पार्थक्य न० पृथक् इत्यस्य भावः ष्यञ् भत्वे अव्ययस्य

टिलोपस्यानित्यत्वात् न टिलोपः । पृथक्त्वे

पार्थव न० पृथोर्भावः पृथ्वा० इमनिजोऽभावपक्षे अण् ।

१ पृथुत्वे । पृथोरयम् अण् । २ पृथुसम्बन्धिनि स्त्रियां
ङीप् । अस्य कार्त्तकौजपा० द्वन्द्वे न अन्तीदात्तता ।

पार्थसारथि पु० ६ त० । १ श्रीकृष्णे २ मीमांसाग्रन्थकारके

मिश्रोपाधिके विद्वद्भेदे च ।

पार्थिव पु० पृथिव्या ईश्वरः अण् । १ राजनि पृथिव्याविकारः

इदं वा उत्सा० अञ् । २ भूमिभवे त्रि० ३ सीतायां स्त्री
ङीप् । ४ तगरपुष्पे न० राजनि० । पृथिव्याः निमित्तं
संयोग उत्पातो वा अण् । ५ पृथिवीनिमित्ते ६ तत्संयोगे
७ तदुत्पाते च पशरीरे पु० त्रिका० ।

पार्थ्य पु० पृथेरपत्यं बा० यक् । पृथिवंश्ये नृपभेदे ऋ० १० । ९३ । १५ भा० ।

पार्य्य पु० पारे भवः ष्यञ् । रुद्रभेदे यजु० १६ । ४२ ।

पार्य्याप्तिक त्रि० पर्य्याप्तिरेव स्वार्थे क सा अस्त्यस्य प्रज्ञा०

अण् । १ सम्पूर्णे २ मृगभेदे पुंस्त्री० शब्द० स्त्रियां ङीष्
पर्य्याप्तिमाह ठक् । ३ पर्य्याप्तिर्जातेति वादिनि ।

पार्वण त्रि० पर्वणि क्रियते शैषिकोऽण् पर्वणि भवे तु कालाट्ठ-

ञेव स्यात् तेन पार्विक इत्येव अतएव “न शारदः पार्विक
शर्वरीश्वरः” इति नैषधे पठित्वा मल्लिनाथेन तथोक्तम् ।
१ पर्वविहिते २ अमावास्यानिमित्तके श्राद्धे न० यथोक्तं
श्रा० त० “अमावास्याकर्त्तव्यपर्वकर्त्तव्ययोः पार्वणत्व-
माह भविष्यपुराणम् “अमावास्यां यत् क्रियते
तत्पार्वणमुदाहृतम् । क्रियते वा पर्वणि यत् तत्पार्वण-
मिति स्मृतिः” । अत्र यदित्यादेरुभयत्राभिधानेन विक-
ल्पार्थवाशब्देन च पार्वणस्य लक्षणं द्वितीयमुक्तं
पर्वणि यत् क्रियते इत्यनेनामावास्यायाः पर्वत्वात्तच्छ्राद्धस्य
वैदिकप्रयोगाधीनयौगिकत्वेन पार्वणत्वप्राप्तौ अमवा-
स्यायां यत् पृथगुपादानं तदमावास्याश्राद्धस्य रूढित्वार्थं
तेन पार्वणेन विघानेन इत्यादौ यौगिकनानावयव-
शक्त्यपेक्षया एकस्या एव समुदायशक्तेर्लघुत्वात्
अमावास्यापार्वणधर्मातिदेशो लभ्यते न तु पूपादिद्रव्याष्टका-
दिपार्वणधर्मातिदेशः । अतः अमावास्यायामष्टम्यादि
पर्वणि च तन्निमित्तकश्राद्धे पार्वणश्राद्धम् अन्यत्र पार्ब-
णविधिना श्राद्धमित्यभिलापे विशेषः” । कालमाधवीये च
शातातप आह “दर्शश्राद्धन्तु यत् प्रोक्तं पार्वणं तत्
प्रकीर्त्तितम् । अपराह्णे पितॄणां तु तत् प्रदानं विशे-
ष्यते” इति । यद्यप्येतादृशं पार्वणं प्रतिपदि न प्राप्नोति
तथापि तद्विकृतिरूपतया त्रिपुरुषोद्देशेन कर्त्तव्यादि-
काम्यश्राद्धादेः पार्बणत्वं व्यवहर्त्तुं शक्यम् । अतएव
काण्ववाक्यं पूर्वमुदाहृतम् “त्रीनुद्दिश्य तु यत्तद्धि पार्वणं
मुनयी विदुः” इति । तस्य कालभेदाश्च नि० सि० निर्णीताः
यथा वृद्धपराशरः “श्राद्धं वृद्धावचन्द्रेभच्छायाग्रह-
णसंक्रमे । नवोदके नवान्ने च नवच्छन्ने तथा गृहे ।
नवैक्षवेषु चेहन्ते पितरो हि मघास्वपि” । “पितरः
स्पृहयन्त्यन्नमष्टकासु मघासु च” इति शातातपपाठः
नवोदके नवक्पवाप्यादाविति केचित् । वर्षोपक्रमे आर्द्रा-
प्रवेशे इति गौडाः “वृश्चिके शुक्लपक्षे तु नवान्नं शस्यते
बुधैः” अतः कृष्णपक्षे नेति गौड़ाः मैथिलास्तु “अकृ-
ताग्रयणं चैव धान्यजातं नरोत्तम!” इति वाराहोक्तेः
प्रतिधान्यं श्राद्धमाहुः तन्न जातपदस्य श्राद्धयोग्यसमूह-
परत्वात् । हेमाद्रौ जातूकर्ण्यः “ग्रहोपरागे च सुते च
जाते पित्र्ये गयायामयनद्वये च । नित्यं च शङ्खे च
तथैव पद्मे दत्तं भवेन्निष्क्रसहस्रतुल्यम् । शङ्खं प्राहु-
रमावास्यां क्षीणचन्द्रां द्विजोत्तमाः । अष्टकासु भवेत्पद्म
तत्र दत्तं तथाऽक्षयम्” । तत्रैव शङ्खः “यदाविष्टिर्व्यती-
पातो भानुवारस्तथैव च । पद्मकं नाम तत्प्रोक्तमय-
नाच्च चतुर्गुणम्” । याज्ञवल्क्यः “अमावस्याष्टकावृद्धिः
कृष्णपक्षोऽयनद्वयम् । द्रव्यं ब्राह्मणसम्पत्तिर्विषुवत्सूर्य-
संक्रमः । व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्य्ययोः ।
श्राद्धं प्रति रुचिश्चैव श्राद्धकालाः प्रकीर्त्तिताः” कृष्ण-
पक्ष सर्वोऽपि “शाकेनापरपक्षं नातिक्रमेत मासि मासि
वाऽशनमिति” श्रुतेः “ऊर्द्धं वा चतुर्य्या यदहः सम्पद्यते
पृष्ठ ४३१८
ऋते चतुर्दशीमिति” कात्यायनोक्तेः “मासि मासि कार्य-
मपरपक्ष्स्यापराह्णः श्रेयान्” इत्थापस्तम्बोक्तश्च वीप्सया
सर्वकृष्णपक्षेषु नित्यम् “तेनोपसंहारान्महालयपरत्व
परास्तम् अत्र प्रत्यहं पञ्चम्यादि यदहःसम्पत्तिर्वेति त्रय
पक्षाः यदैकैकदिने श्राद्धं तदा दार्शं पृथगेव याज्ञवल्क्ये-
नामावास्यायाः पृथङ्निर्देशात् । एतेन कृष्णपक्षे यदहः
सम्पद्यते अमावास्यायां तु विशेषेणेति निगमोक्तेर्गुणो-
ऽपरपक्षश्राद्धस्यामावास्येति शूलपाणिमतमप्यपास्तम् ।
अशक्तौ दर्शेनापि मासि श्राद्धसिद्धिरिति नारायणवृत्तिः ।
निरग्निकानां कस्मिंश्चिद्दिने आहिताग्नेस्तु दर्शे एव “न
दर्शेन विना श्राद्धमाहिताग्नेर्हिजन्मन” इति मनूक्तेः
सर्वकृष्णपक्षाशक्तौ मात्स्ये “अनेन विधिना श्राद्धं त्रि-
रव्दस्येह निर्वपेत् । कन्याकुम्भवृषस्थेऽर्के कृष्णपक्षे च
सर्वदा” । कर्कोऽपि “आहिताग्नेः संवत्सरे त्रिः श्राद्ध-
नियम” इति । देवलः “अनेन विधिना श्राद्धं कुर्य्यात्
संवत्सरं सकृत् । द्विश्चतुवां यथाश्रद्धं मासे मासे
दिने दिने” । कृष्णपक्षेष्वपि महालयस्य श्रेष्ठत्वं
तच्चोक्तं प्राक् । व्यतीपाते विशेषमाह हेमाद्रौ शङ्खः “फलं
लक्षघ्नमुत्पत्तौ भ्रमणे कोटिरुच्यते । पतने शतकोट्यस्तुं
पाते वै दत्तमक्षयम्” ज्योतिःशास्त्रे “द्वाविंशतिस्तथो-
त्पत्तौ भ्रसणे चैकविंशतिः । पतने दश नाड्यस्तु पतिते
सप्त नाडिकाः” अन्यौ च द्वौ व्यतीपातौ प्रागुक्तौ ।
हेमाद्रौ मार्कण्डेयः “यदा च श्रोत्रियोऽभ्येति गृहं
वेदविदग्निचित् । तेनैकेनापि कर्त्तव्यं श्राद्धं च विषुव-
च्छुभम्” । इदं चापिण्डं कार्यमिति हेमाद्रिः एतज्जीव
पितृकोऽपि “उद्वाहे पुत्रजनने पित्र्येष्ट्यां सौमिके
मखे । तीर्थे ब्राह्मण आयाते षडेते जीवतः पितुः”
इति मैत्रायणीयपरिशिष्टोक्तेः । तिथिविशेषे फलवि-
शेषो याज्ञव् क्येनोक्तः “कन्यां १ कन्यावेदिन २ श्च पशू ३
न्वै भर्तृसुतानपि ४ । द्यूत ५ कृषिं ६ च वाणिज्य ७
दिशफैकशफां ८ । ९ स्तथा । ब्रह्मवर्चस्विनः पुत्रान् १०
स्रणरौप्ये सकुप्यके ११ । १२ । ज्ञानिश्रैष्ठ्य १३ सर्व-
कामानाप्रोति १५ श्राद्धदः सदा । प्रतिपत्प्रभृति-
ष्वेका वजयित्वा वतुर्दशीम्” एताः कृष्णपक्षस्था एव
महालये तु फलभूमेति पृथ्वीचन्द्रीदयः । पोर्णमास्यां
हैमाद्रौ पितामहः “अमावास्याव्यतीपाते पौर्णमा-
स्यष्टकसि च । विद्वान् श्रामकुर्वाणो नरकं प्रतिप-
द्यते” एतन्माव्यादिपरम् “व्रीहिपाके च कर्त्तव्यं यव-
पाके च पार्थिव! । पौर्णमासी तथा माथी श्रावणी च
नृपोत्तम! । प्रोष्ठपद्यामतीतायां तथा कृष्णत्रयोदशी ।
एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः” इति
विष्णुधर्मोक्तेः । विष्णुः “माघी प्रोष्ठपद्यूर्द्धं कृष्णा त्रयो
दशीति” । अत्र माथी पौर्णमासीति कल्पकरुः । श्रावण्यू-
र्द्ध्वमपि मघायोगसम्भवात्त्रयोदशी विशेषणमिति गौडाः
नक्षत्रेष्वपि याज्ञवल्क्यः “स्वर्गं ह्यषत्यमोजश्च शौर्यं क्षेत्रं
बलं तथा । पुत्रान् श्रैष्ठ्यं च सौभाम्यं सखद्धि मुख्यत
शुभम् । प्रवृत्तचक्रता वापि बाणिज्यप्रभृतीनपि ।
अरोगित्वं यशोवीतशोकतां परमाङ्गतिम् । धनं वेदान्
भिषक्सिद्धिं कुप्यङ्गाभप्यजाविकम् । अश्वानायुश्च विधि
वद्यः श्राद्धं संप्रयच्छति । कृत्तिकादिभरण्यन्तं
सकामान् प्राप्नुयादिमान्” । फलान्तराण्यपि महामारत
कौर्मादेर्ज्ञेयानि । माधवीये मरीचिः “कृत्तिकादिषु
ऋक्षेषु श्राद्धे यत् फलमीरितम् । विष्कम्भादिषु योगेषु
तदेव फलमिष्यते” वृहस्पतिः “आरोग्यं चैव सौभाग्यं
शत्रूणां च पराजयम् । सर्वान् कामान् प्रियां विद्या
धनमायुर्यथाक्रमम् । सूर्य्यादिदिवसेष्वेतच्छ्राद्धकृल्लभते
फलम् । बवादिकरणेष्वेतच्छ्राद्धकृल्लभते फलम्”
अन्यानि च वण्णवतिश्राद्धादीनि प्रागुक्तानि मार्कण्डेयपु-
राणे श्राद्धार्हद्रव्यसम्पत्तौ तथा दुःस्वप्नदर्शने । जन्मर्क्षे
ग्रहपीड़ासु श्राद्धं कुर्वीत चेच्छया” ।
“संक्रान्तान्नावुपरामे च पर्वण्यपि महालये । निर्वा-
प्यास्तु त्रयः पिण्डा एकतस्तु क्षयऽहनि । एकोद्दिष्टं
परित्यज्य पार्वणं कुरुते द्विजः । अकृतं तद्वीजानीयात्
स नरः पितृघातकः । अमावस्यां क्षयो यस्य प्रेतपक्षे-
ऽथ वा यदि । सपिण्डोकरणादूद्धं तस्योक्तः पार्वणो
विधिः । त्रिदण्डग्रहणादेव प्रेतत्वं नैव जायते ।
अहन्येकादशे प्राप्ते पार्वणन्तु विधीयते” लिखितस० । एतेषां
व्याख्यानतात्पर्यकथनपूर्वकं विकृतिपार्वणविधानम् श्रा० त०
निर्णीतं यथा “त्रयं सम्प्रदानानां त्रय कुर्य्यात् त्रिभ्यो
दद्यादित्यर्थः । सृताहपर्युदस्तत्रिदैवतत्वस्य प्रतिप्रसवमाह
अमावास्यामिति प्रेततक्षोऽत्र पितृपक्षा अश्वयुक्कृष्णपक्ष
इति यावत् न तु कृष्णपक्षमात्र कृष्णपक्षसामान्यपरत्वेऽ-
माबास्यापदवैयर्थ्यापत्तेः पितृपक्ष विशपयति हेमाद्रिमा-
धवाचार्य्यधृतं नागरखण्डम “नभो वाथ नभस्यो वा
भलमासो यदा भवेत् । सप्तमः पिवृपक्षः स्यादन्यत्रैव तु
पञ्चमः” । अत्र श्रावणभाद्रयोरन्यतरस्य मखमासत्वे
पृष्ठ ४३१९
आपाढापेक्षया सप्तमपक्षस्य पितृपक्षत्वात् अत्र
मृतस्यैव प्रोतपक्षमृतत्वं न तु मलमासभाद्रकृष्णपक्षमृतस्य ।
ततश्च तत्र मृतस्य वर्षान्तरेऽश्वयुक्कृष्णपक्षेऽपि तच्छ्रा-
द्धकरणे न पार्वणं किन्त्वेकोद्दिष्टमिति । अत्र पार्वणो
विधिः पार्वणेतिकर्त्तव्यताकैकोद्दिष्टविधिरिति नव्यव-
र्द्धमानप्रभृतयः तन्न पूर्ववचनोक्तत्रैप्रुरुषिकस्य मृताहे
पर्युदस्तस्य पार्वणो विधिरित्यनेन प्रतिप्रसवात् तस्मात्
तदेकोद्दिष्टं त्रैपुरुषिकं न तु षाट्पौरुषिकं “कर्षूसम-
न्वितं मुक्त्वा तथाद्यं श्राद्वषोड़शम् । प्रत्याव्दिकञ्च शेषेषु
पिण्डाः स्युः षड़िति स्थितिः” इति छन्दोगपरिशिष्टवच-
नेन प्रत्याव्दिकव्यतिरेकेण षट्संख्यानियमात् । एवममा-
वास्यादिमरणनिमित्तेन मातुरपि पत्याव्दिकं पार्वण-
विधिनैव “अपुत्रा ये मृताः केचित् स्त्रियो वा पुरुषाश्च
ये । तेषामपि च देयं स्यादेकोद्दिष्टं न पार्वणम्” इति
आपस्तम्बवचने अपुत्त्रा इति विशेषणोपादानात्
सपुत्त्राणां पार्वणाभ्यनुज्ञानात् । एतच्च भात्रादित्रितयदैव तं
कार्य्यम् “मात्रे पितामह्यै प्रपितामह्यै च पूर्ववत् ब्राह्म-
णान् भोजयित्वा” इत्यन्वष्टकायां तथा दर्शनात् अवसा-
नदिननिमित्तत्वेन पार्वणविधिना छन्दोगैरपि मात्रादि-
त्रिकाणां श्राद्धं कर्त्तव्यं “न योषिद्भ्यः पृथग्दद्यादव-
सानदिनादृते” इति छन्दोगपरिशिष्टवचने विशेषतः
प्रतिप्रसवात् । एवं सपिण्डीकरणेऽपि । एतच्च मृताह
पार्वणं मातापित्रोरेव । तथा च हेमाद्रिधृतकात्यायन-
वचनं “सपिण्डीकरणादूर्द्ध्वं पित्रोरेव हि पार्वणम् ।
पितृव्यभ्रातृमातॄणामेकोद्दिष्टं सदैव तु” । मातृपदं
सपत्नीमातृपरम् । सपत्नीमात्रित्यत्र मातृपदस्य
राजदन्तादित्वात् परनिपातः ततश्च वाक्ये मातृसपत्नीति
न प्रयोज्यं किन्तु सपत्नीमातरित्यादिकम् । एवं साग्नि-
कौरसक्षेत्रजाभ्यां मृताहे पार्वणं कर्त्तव्यम् “औरस-
क्षेत्रजौ पुत्रौ विधिना पार्वणेन तु । प्रत्यव्दमितरे कुर्यु-
रेकोद्दिष्टं सुता दश” इति जावालवचनस्य “यत्र यत्र
प्रदातव्यं सपिण्डीकरणात् परम् । पार्वणेन विधानेन
देयमग्निमता सदा” इति मत्स्यपुराणवचनस्य चैकवा-
क्यत्वात् । उशना च “प्रत्यव्दं दर्शवच्छ्राद्धं साग्निः
कुर्वीत वै द्विजः । एकोद्दिष्टं सदा कुर्य्यान्निरग्निः श्राद्धदः
सुतः” ।

पार्वत त्रि० पर्वते भवः अण् । १ पर्वतजातमात्रे (घोड़ा-

निम) २ निम्बभेदे ३ दुर्गायां स्त्री ङीप् अमरः । ४ श-
ल्लक्यां ५ गोपालपूतिकायां स्त्री मेदि० ६ जीवन्त विश्वः
७ द्रौपद्यां ८ सौराष्ट्रमृत्तिकायाम् रत्नमाला ९ क्षुद्रपा
षाणभेदायां १० धातक्यां राजनि० तत्र दुर्गायां पार्व-
तीशब्दनिरुक्तिर्यथा
“तिथिभेदे कल्पभेदे पर्वभेदप्रभेदतः । ख्यातौ तेषु च
विख्याता पार्वती तेन कीर्त्तिता । महोत्सवविशेषश्च
पर्वस्विति प्रकीर्त्तितम् । तस्याधिदेवी या सा च पार्वती
परिकीर्त्तिता । पर्वतस्य सुता देवी साविर्भूता
च पर्वते । पर्वताधिष्ठातृदेवी पार्वती तेन कीर्त्तिता” इति
प्रकृतिखण्डे दुर्गोपाख्याने ५४ अ० । ११ अन्ने स्त्री ब० व०
निघण्टुः तत्र वार्वत्यः इति पाठान्तरं तत्रार्थे ।

पार्वतायन पुंस्त्री० पर्वतस्यर्षेः गोत्रापत्यम् फक् वा । पर्व-

तर्षेर्गोत्रापत्ये पक्षे इञ् । पार्वति तत्रार्थे

पार्वतीनन्दन पु० ६ त० । कार्त्तिकेये अमरः पार्वतीसुता-

दयोऽप्यत्र तस्य तत्सुतत्वकथा अग्निकुमारशब्दे ५५ पृ०
भा० व० २२४ अ० वाक्ये दृश्या । तत्र उभायोन्यां तु
रुद्रेणेत्यशुद्धम् उमायोन्यां तु रुद्रेणेत्येव पाठः साधुः ।

पार्वतीश्वर न० १ काशीस्थे शिवलिङ्गभेदे काशीख० २ शिवे पु०

पार्वतेय न० पर्वते भवं ढक् । १ सौवीराञ्जने २ सूर्य्यावर्त्तवृक्षे

पु० रत्नमाला ।

पार्वायनान्तीया स्त्री पर्वणोऽयनस्य चान्ते विहिता

छण् । इष्टिभेदे सा च इष्टिर्दर्शपौर्णमासाग्रायणस्य
काले विहिता” “इष्टी पार्वायनान्तीयाः केवला निर्व
पेत् सदा” मनु० कुल्लूकव्याख्याने ।

पार्शव पु० पर्शुः प्रहरणमस्य । पर्शुप्रहरणयुक्ते

पार्श्व पु० न० स्पृश--श्वण् धातोः पृ--च । १ कक्षाधोभागे

अमरः २ समीपे च । पर्शूनां पार्श्वासथ्नां समूह पर्शू-
अण । पर्शूसमूहे न० मेदि० ४ जिने पु० ५ सन्निकृष्टे
त्रि० हेमच० । ६ अनृजूपाये शाठ्ये सि० कौ० ।

पार्श्वक त्रि० पार्श्वेन अनृजूपायेन शाठ्येनान्विच्छति कन् ।

शाठ्येनान्विच्छायुक्ते ।

पार्श्वतस् अव्य० पार्श्व + सार्बविभक्तिकस्तसिल् । तत्तद्विभ-

क्त्यर्थयुते पार्श्वशब्दार्थे ततो भवार्थे गहा० छ भत्वे
टिलोपः । पार्श्वतीय पार्श्वतोभवे त्रि० ।

पार्श्वद त्रि० पार्श्वं ददाति दा--क । पार्श्वचरे भा० श० ४६ अ०

पार्श्वनाथ पु० परेशनाथे जैनदेवभेदे

पृष्ठ ४३२०

पार्श्वपरिवर्त्तन न० पार्श्वेन परिवर्त्तनम् । यत्पार्श्वमधः

स्थापयित्वा शयितः तत्पार्श्वस्योर्द्धोन्नयने (पाशमोड)
१ पार्श्वस्य परावृत्तौ । सुप्तस्य हरेः भाद्रशुक्लैकादश्यादौ
कर्त्तव्ये पार्श्वपरिवर्त्तनाख्ये २ उत्सवभेदे च “प्राप्ते
भाद्रपदे मासि एकादश्यां सितेऽहनि । कटिदानं भवेद्वि-
ष्णोर्महापातकनाशनम् । जलाशयान्तिकं नीत्वा संपू-
ज्याभ्यर्च्य च प्रभुम् । कर्णिकापरिवृत्तिञ्च दक्षिणाङ्गे
प्रकल्पयेत्” हरिभ० भवि० पु० । एकादश्यामिति सन्ध्यायां
श्रवणमध्यपादलाभे वोध्यमन्यथा “द्वादश्यामेव कारयेत्”
तत्र व्यवस्था उत्थानशब्दे ११०३ पृ० दृश्या ।

पार्श्वपिप्पल न० पार्श्वेपिप्पलमिव । हरीतकीभेदे (गजाठ) भावप्र० ।

पार्श्वभाग पु० कर्भ० । १ पक्षभागे हस्त्यादेः २ पार्श्वदेशे अमरः

पार्श्वल त्रि० पार्श्व + अस्त्यर्थे सिध्मा० लच् । पर्शुसमुदाययुते

पार्श्ववक्त्र पु० पार्श्वे वक्त्रमस्य । महादेवे हरिवं० २१७ अ० ।

पार्श्वशय त्रि० पार्श्वाभ्यां शेते शी--अच् । पार्श्वाभ्यां

क्रमेण शायिनि ।

पार्श्वशूल पु० सुश्रुतोक्ते शूलरोगभेदे तल्लक्षणादि यथा

“रुणाद्धि मारुतं श्लेष्मा कुक्षिपार्श्वव्यवस्थितः । स संरुध्य-
करोत्याशु ध्मानं गुडगुडायनम् । सूचीभिरिव निस्तोदः
कृच्छोच्छासी तदा नरः । नान्नं वाञ्छति नो निद्रा-
मुपैत्यार्त्तिनिपीडितः । पार्श्वशूलः स विज्ञेयः कफानिल
समुद्भवः” ।

पार्श्वस्थ त्रि० पार्श्वे तिष्ठति स्था--क ७ त० ।

१ समीपस्थिते २ तथाभूते नटे पारिपार्श्विके हेमच० ।

पार्श्वादि “पार्श्वादिषूपसंख्यानम्” वार्त्ति० उक्ते शेतेरच्प्र-

त्ययनिमित्ते शब्दगणे स च गणः “पार्श्व उदर
पृष्ठ उत्तान अवमूर्द्ध” ।

पार्श्वास्थि न० ६ त० । देहपार्श्वस्थिते अस्थ्नि (पाँजर) अमरः

पार्श्विक त्रि० पार्श्वे भवः ठक् । १ पार्श्वभवे २ सन्धिजीवके हारा०

पार्श्वी स्त्री द्वि० व० । द्यावापृथिव्योः निघण्टुः ।

पार्श्वेकादशी स्त्री पार्श्वस्य हरेः पार्श्ववर्त्तनस्य निमित्तमे-

कादशी । पार्श्ववर्त्तनैकादश्याम् भाद्रशुक्लैकादश्याम् ।
पार्श्ववत्त नशब्दे दृश्यम् ।

पार्श्वोदराप्रय पाश्व मुदरञ्च ताभ्यां प्रीणाति भोजिनं प्रीक । कर्कटे हेमच० ।

पार्षिक पु० गोत्रप्रवर्त्तकर्षिभेदे प्रवराध्यायः ।

पार्षत त्रि० पृषतस्य विराटनृषस्येदम् अण् । १ विराटनृपसम्ब-

न्धिनि २ तत्पुत्रे धृष्टद्युम्ने पु० ३ द्रौपद्यां स्त्री ङीप् त्रिका०

पार्षद् स्त्री परि द् + पृषो० । सभायां त्रिका० ।

पार्षद त्रि० पार्षदमर्हति अण् । पारिषदे शब्दच० । ष्यञ् ।

पार्षद्योऽप्यत्रार्थे भरतः ।

पार्षदंश त्रि० पृषदंशे भवः उत्सा० अञ् । पृषदंशे विन्दोरंशे भवे ।

पार्षदश्व पु० पृषदश्वस्य वायोर्नृपभेदस्य वेदम् अण् । १ वायु-

सम्बन्धिनि २ नृपभेदसम्बन्धिनि च ३ गोत्रप्रवर्षिभेदे पु०
आश्व० श्रौ० १२ ११

पार्ष्ठिक त्रि० पृष्ठे षडहे भवः ठञ् । षडहसम्बन्धिनि कात्या० श्रौ० २२ ७१

पार्ष्णि पुंस्त्री० पृष--नि नि० वृद्धिः । १ पादग्रन्थेर्गुल्फस्याधो-

भागे अमरः । (गोडारि) २ पृष्ठे मेदि० ३ सैन्यपृष्ठे
हला० ४ जिगीषायाञ्च पु० रत्नकोषः ५ उन्मदस्त्रियां स्त्री
मेदि० कुन्त्यां स्त्री धरणिः ।

पार्ष्णिक्षेम पु० विश्वदेवभेदे भा० अनु० ९१ अ० ।

पार्ष्णिग्राह पु० पार्ष्णिं पृष्ठपदं गृह्णाति अण् । विजयार्थ

जिगमिषोः पश्चात्पदग्राहिणि पृष्ठस्थे १ शत्रौ २ द्वादशरा-
जचक्रमध्ये पृष्ठस्थायिनृपे च अरिशब्दे ३५५ पृ० दृश्यम् ।

पार्ष्णिवाह त्रि० पार्ष्णिं वहति वह--अण् । पृष्ठस्थे

कार्यनिर्वाहके भा० सौ० १३० अ० ।

पार्ष्णील त्रि० पार्ष्णिरस्त्यस्य सिध्मा० लच् दीर्घश्च । पार्ष्णियुक्ते

पाल रक्षणे चु० उभ० सक० सेट् । पालयति ते अपीपलत् त ।

पाल त्रि० पालयति पाल--अच् । १ रक्षके “पालदोषविनाशे

च पाले दण्डो विधीयते” इति स्मृतिः । भावे अच् ।
२ रक्षणे पु० ।

पालक पु० पालयति पाल--ण्वुल् । १ अश्वरक्षके जटा०

२ चित्रकवृक्षे पु० राजनि० ३ पालनकर्त्तरि त्रि० स्त्रियां
टाप कापि अतैत्त्वम् एतदन्तस्य पुंयोगेऽपि टाप्
गोपालकस्य पत्नी गोपालिका इत्येव न ङीष् ।

पालकाव्य पु० १ करेणुभुवि मुनिभेदे हेमच० । २ तत्कृते

हस्त्यश्वादिलक्षणज्ञापके अर्थशास्त्रभेदे न०

पालक्या स्त्री पालाय कायति कै--क । (पालङ्) शाकभेदे हेमच० ।

पालघ्न पु० पालं जलादितो रक्षकं छत्रं हन्ति हन--ठक् ।

१ छत्राख्ये २ जलजतृणभेदे अमरः ।

पालङ्क पु० पाल--सम्प० क्विप् पाला अङ्क्यते अङ्क--घञ् ।

(पालङ) १ शाकभेदे अमरः । स्त्रीत्वमपि स्त्रियां ङीष् ।
अत्रैव “पालङ्की कथिता रूक्षा वातादित्रयबन्धनुत्
राजवल्लभः २ कुन्दुरुवृक्षे स्त्री अमरः गौरा० ङीष् ।

पालङ्क्य न० पालङ्क + स्वार्थेष्यञ् । (पालङ्) १ शाके राजनि

२ कुन्दरौ स्त्री अमरः । “पालङ्क्या वातला शीता श्लेष्मला
भेदिनी गुरुः । विष्टम्मिनी मदश्वासपित्तरक्तविषापहा”
भावप्र० । २ श्येनखगे मेदि० ।

पालन न० पाल--भावे ल्युट् । १ रक्षणे करणे ल्युट् । सद्यः-

प्रसूतायाः गोः क्षीरे पेयूषे शब्दचन्द्रिका । तत्क्षी
रस्य पानद्वारा वत्मपालनकरत्वात् तथाभूतत्वम् ।
पृष्ठ ४३२१

पालबणिज् पु० पाले कन्यारक्षणे वणिक् । कन्यापाले त्रिका०

पालल त्रि० पललस्य तिलचूर्णस्य विकारः अण् । तिलचू

र्णपिष्टके “पाललाः श्लेष्मजननाः शष्कुल्यः कफपि-
त्तलाः” सुश्रु० ।

पालाश त्रि० पलाशस्य विकारः अवयवो वा अख् । १ पलाशा-

वयवे २ तद्विकारे च “पालाशो दण्ड आषाढः” अमरः ।
३ तमालपत्रे (तेजपात) राजनि० तद्वर्णः अंस्त्यस्य अण् ।
४ हरिद्वर्णे पु० ५ तद्विशिष्टे त्रि० अमरः पलाशेन
निर्वृत्तम् सङ्काशा० ण्य । पालाश्य पलाशनिर्वृत्ते त्रि० ।
पलाशस्यादूरदेशादि वराहा० कक् । पालाशक
तत्सन्निकृष्टदेशादौ । स्वार्थे क । तत्रार्थे

पालाशखण्ड पु० मगधदेशे शब्दरत्ना० ।

पालाशि पु० पलाश गोत्रप्रवर्षिभेदे प्रवराध्यायः ।

पालि(ली) स्त्री पल--बा० इण् । १ कर्णलताग्रे २ अश्रौ कोणे

३ श्रेणौ ४ अङ्कभेदे ५ छात्रादिदेये च मेदि० ६ यूकायां
७ पोटायां ८ प्रशसायां ९ प्रस्थे १० उत्सङ्गे क्रोड़े च
हेमच० वा ङीप् दीर्घान्तः ११ स्थाल्याम् शब्दच० ।

पालिंहिर स्त्री मण्डलिसर्पभेदे सुश्रुतः अहिशब्दे दृश्यम् ।

पालिका स्त्री पालि + स्वार्थे क । १ पालिशब्दार्थे संज्ञायां

कन् । २ कर्णपत्रे शब्दच० ३ दध्यादिच्छेदन्यां हारा० ।
४ पालनकर्त्त्र्यां स्त्रियां च ।

पालित त्रि० पाल--क्त । १ रक्षिते क्रोष्टुवंश्ये २ नृपभेदे

३ देशभेदे च पु० हरिवं० ३७ अ० । ४ शाखोटवृक्षे पु० शब्दा-
थंकल्प० ५ कुमारानुचरमातृभेदे स्त्री भा० श० ४७ अ० ।

पालित्य न० पलितस्य भावः ष्यञ् । केशादेः शुभ्रतादौ ।

पलितस्यादूरदेशादि सङ्काशा० ण्य । पलितस्य सन्निकृष्ट-
देशादौ त्रि० ।

पालिन् त्रि० पालयति पालि--णिनि । १ पालके २ पृथुपुत्रनृपभेदे पु० हरिवं० २ अ० ।

पालिन्द पु० पालि--वा० किन्दच् । १ कुन्दुरुवृक्षे राजनि० ।

२ श्यामालतायां स्त्री अमरः गौरा० ङीष् । पलिन्धीति
पाठान्तरम् पृषो० । ३ त्रिवृतायां द्विरूपकोषः ।

पालिशायन पु० गोत्रप्रवर्षिभेदे प्रवराध्यायः ।

पालीवत काण्डरोप्ये वृक्षभेदे वृ० सं० ५४ अ० ।

“द्राक्षापालीवताश्चैब वीजपूरातिमुक्तकाः । एते द्रुमाः
काण्डरोप्या गोमयेन प्रलेपिताः । मूलच्छेदेऽथ वा स्कन्धे
रोपणीयाः प्रयत्नतः” ।

पालोहय पु० गोत्रप्रवरर्षिभेदे प्रवराध्यायः ।

पाल्लक त्रि० पल्ल्यां भवः धूमा० वुञ् । पल्लीभवे जानदौ

पाल्वलतीर त्रि० पल्वलतीरे भवः अञ् । पल्वलतीरभवे

पावक पु० पुनाति पू--ण्वुल् । १ वह्नौ अमरः “अपावनानि

सर्वाणि वह्निसंसर्गतः क्वचित् । पावनानि भवन्त्येव
तस्मात स पावकः स्मृतः” इति काशीख० ९ अ० उक्ते-
त्तस्य तथात्वम् । २ वेद्युताग्नौ च “पावकः पवमानश्च
शुचिरग्निश्च ते त्रयः । निमन्थ्यः पवमानः स्यात् वैद्युतः
पावकः स्मृतः । यश्चासौ तपते सूर्य्यः शुचिरग्निश्च स
स्मृतः” कूर्मपु० । ३ सदाचारे ४ वह्निमन्थे ५ चित्रकवृक्षे
६ भल्लातके ७ विड़ङ्गे च मेदि० । ८ शोधके त्रि० हेमच० ।
९ रक्तचित्रके १० कुसुम्मे च पु० राजनि० ११ वरुणे
१२ सूर्ये च ऋ० १ । ५० । ६ भा० तयोश्च शोधकत्वात् तथात्वम् ।
१३ ऋषिभेदे भा० व० १२५ अ० । पावः पवनं शुद्धिस्तं कायति
कै--क । १४ सरस्वत्यां स्त्री ऋ० १ । ३ । २० भा० । पावकाश्च
सप्तविंशतिः “पावकाः सप्तविंशतिः” भा० स० ७ अ० व्या-
ख्यायां नीलण्ठधृतवाक्येभ्यः तानि च “ब्रह्मणोऽङ्गात्
प्रसूतोऽग्निरङ्गिरा १ इति विश्रुतः । दक्षिणाग्निर्गा-
र्हपत्याहवनीयाविति २ । ३ । ४ त्रयी । निर्मन्थ्यो ५ वैद्युतः ६
शूरः ७ संवर्त्तो ८ लौलिक ९ स्तथा । जाठरो १० विषगः ११
क्रव्यात् १२ क्षेमवान् १३ वैष्णव १४ स्तथा । दस्युमान् १५
वलद १६ श्चैव शान्तः १७ पुष्टो १८ विभावसुः १९ । ज्योति-
ष्मान् २० भरतो २१ भद्रः २२ २३ स्विष्टकृदृसुमान् २४
क्रतुः २५ । सोमश्च २६ पितृमां २७ श्चैव पावकाः सप्त-
विंशतिः” । अन्ये पावकभेदा अग्निशब्दे ५३ पृ० दृश्याः
ति० त० गृह्यपरिशिष्टे कर्मभेदे तस्य नामभेदा उक्ता यथा
“लौकिके पावकॊ ह्यग्निः प्रथमः परिकल्पितः ।
अग्निस्तु मारुतो२ नाम गर्भाधाने विधीयते । पुंसवने
चन्द्रनामा ३ शुङ्गाकर्मणि शोभनः ४ । सीमन्ते मङ्गलो ५
नाम प्रगल्भो ६ जातकर्मणि । नाम्नि स्यात् पार्थिवो ७
ह्यग्निः प्राशने च शुचि ८ स्तथा । सत्यनामा ९ थ चूड़ायां
व्रतादेशे समुद्भवः १० । गोदाने सूर्य्यनामा ११ च केशान्ते
ह्यग्नि १२ रुच्यते । वैश्वानरो १३ विसर्गे तु विवाहे
योजक १४ स्तथा” । गोदाने गोदानाख्य संस्कारे । “चतु-
र्थ्यान्तु शिखी १५ नाम धृति १६ रग्निस्तथाऽपरे” । अपरे
धृतिहोमादौ । “प्रायश्चित्ते विधु १७ श्चैव पाकयज्ञे तु
साहसः” १८ । प्रायश्चित्ते तदात्मकमहाव्याहृतिहो-
मादौ । पाकयज्ञे पाकाङ्गकवृषोत्सर्गगृहहोमादौ ।
“लक्षहोमे च वह्निः १९ स्यात् कोटिहोमे हुताश-
पृष्ठ ४३२२
नः २० । पूर्णाहुत्यां मृड़ो २१ नाम शान्तिके वरदः २२
सदा । पौष्टिके वलद २३ श्चैव क्रोधो २४ ऽग्निश्चाभिचा-
रके । कोष्ठे तु जठरो २५ नाम क्रव्यादो २६ मृतभक्ष-
णे । आहूय चैव होतव्यो यत्र यो विहितोऽनलः” ।

पावकात्मज पु० ६ त० । १ कार्त्तिकेये पावकसुतादयोऽप्यत्र

इक्ष्वाकुवंश्यदुर्य्योधनकन्यवोढरि सुदर्शनाख्ये २ मुनिभेदे च

पावकारणि पुंस्त्री० ६ त० । अग्निमन्थनकाष्ठे शब्दमाला ।

अरणिशब्दे दृश्यम् ।

पावकि पु० पावकस्यापत्यम् इञ् । १ कार्त्तिकेये सुदर्शनाख्ये

मुनिभेदे च भा० आनु० २ अ० तत्था दृश्या ।

पावकेश्वर पु० १ तीर्थभेदे शिवपु० । काशीस्थे पावकस्थापिते

२ शिवलिङ्गभेदे न० ।

पावन त्रि० पावयति पू--णिच्--ल्यु । १ पवित्रीकारके २ प्राय-

श्चित्ते ३ जले च न० मेदि० ४ गोमये न० शब्द च० ।
५ रुद्राक्षे ६ कुष्ठौषधे न० राजनि० ७ चित्रकवृक्षे
८ अध्यासे न० विश्वः । पावके ८ वह्नौ ९ वेदव्यासे पु० मेदि० ।
१० सिह्लके विश्वः । ११ पीतभृङ्गराजे पु० राजनि० । १२ सिद्धे
१३ पावयितरि त्रि० हेमच० १४ विष्णौ पु० विष्णुसं०
पवनशब्दे दृश्यम् तस्य स्मृतिमात्रेण पवित्रताकरणात्
तथात्वम् “पवनः पावनोऽनलः” इति द्विधापाठस्तु
पावयतीति “भीषास्माद्वातः पवते” इति श्रुतेः पवनव्या-
पारनियोक्तृत्वात् पावनत्वम् इति अर्थभेदान्नामद्वयम् ।
करणे ल्युट् ङीप् । १५ हरीतक्यां १६ स्त्रीगव्यां
१७ तुलस्यां च स्त्री राजनि० १८ गङ्गायां च स्त्री ।

पावनध्वनि पु० पावनो ध्वनिरस्य । १ शङ्खे राजनि० २

पावनशब्दयुक्ते त्रि० ।

पावमान त्रि० पवमानमधिकृत्य प्रवृत्तम् अण् । १ पवमानव-

ह्न्याद्यधिकारेण प्रवृत्ते सूक्ते २ ऋचि स्त्री ङीप् ।

पावित्रायण पुंस्त्री पवित्रस्यर्षेर्गोत्रापत्यम् अश्वा० फञ् ।

पवित्रर्षेर्गोत्रापत्ये ।

पावीरवी स्त्री १ शोधयित्र्यां स्त्रियां ऋ० ६ । ४९ । ७ भा०

“आयुधवान् पवीरवान् इन्द्रो देवताऽस्य अण् ङीप् । २
दिव्यायां ३ वाचि निरु० १२ । ३० “इन्द्रः पावीरवान् तद्देवता
का पावीरवी पावीरवी च दिव्या वाक्” इत्युक्तम् ।

पाश पु० पश्यते बध्यतेऽनेन पश--करणे घञ् । १ मृगवि-

हगादिबन्धने रज्ज्वुभेदे (फाँद) २ रज्ज्वुमात्रे च ।
केशादुत्तरं पाशशब्दः संघार्थः । यथा केशपाशः । कर्णात्
परः शोभार्थः यथा कर्णपाशः शोभनकर्ण इत्यर्थः ।
छात्रादिभ्यः पाशप् । छात्रपाश अपकृष्णच्छात्र इत्याद्यर्थे
३ शस्त्रभेदे शब्दरत्ना० । तल्लक्षणं हेमा० परि० औशनसशा-
स्त्रोक्तं यथा “शाणं क्षौमं कार्पासं सूत्रं तथा
रोमाणि चर्म च सर्वकालिकस्य पाशस्य द्रव्याणि भवन्ति
तानि द्रव्याणि स्नायुमिश्राणि ग्रैष्मस्य पाशस्य योग्यानि
स्युः । नालिकेलवल्कलादिबन्धनादि प्रावृषेण्यस्य नारि-
केलाश्मन्तक तालवृन्तवल्कलानि हैमनस्य पाशस्य भवन्ति ।
त्रिवृतादृढवृतगुणसयुक्तः पाशः प्रयोगिकः । पाशो
भवेदामूलात् सङ्गपाशः षड़ङ्गुलः स्याद्रक्षासुप्रमाणः सुखा-
वहः सुखस्पर्शश्च पाशस्थाने सुमृष्टोऽनुपूर्वबलान्वितो
भवति । रज्ज्वुपाशस्तु नवकानुवर्त्तितः स्यात् ।
एकहस्तस्त्रिहस्तः पादहीनः सह कर्णाभ्यां च पाशो
दशपलिकः पादान्ते पञ्चकार्मुकः श्रेष्ठो भवति पञ्चद-
शपलो वा तथा रथाश्वयोरपि विज्ञेयो । विंशतिपलिकः
कर्त्तव्यः प्रमाणे सप्तकार्मुकस्त्रिंशत्पलिको वा स्यन्दिनां
मतङ्गजस्य नवपलको हस्तिनि प्लवे च पाशो भवति
भावविकृते नागारत्निगुणः पाशः” इति ।

पाशक पु० पश--ण्वुल् । द्यूतक्रीडासाधने गुडिकादौ (पाशा)

अमरः ।

पाशद्युम्न पु० वयतः पुत्रे एतन्नामके नृपे ऋ० ७३३२ भा० दृश्यम् ।

पाशधर पु० पाशं धारयति धारि--अच् ह्रस्वः । १ वरुणे

हरिवं० ४८० अ० तद्देवताके २ शततारके ३ पाशधारिमात्रे त्रि०

पाशन न० पाशि--भावे ल्युट् । बन्धने भा० द्रो० ५९ अ० ।

पाशपाणि पु० पाशः पाणौ यस्य । १ वरुणे हला० २ शतभे च

पाशहस्तादयोऽप्यत्र पाश + अस्त्यर्थे इनि । पाशीत्यप्यत्र

पाशभृत् पु० पाशं बिभर्त्ति भृ--क्विप् । १ वरुणे २ तद्देवताके

शतभिषानक्षत्रे न० । ३ पाशधारिमात्रे त्रि० । “हंसा-
रूढः पाशभृद्वरुणः” वृ० सं० ५० अ० ।

पाशमुद्रा स्त्री तन्त्रसारोक्ते मुद्राभेदे “वाममुष्टेस्तु तर्जन्या

दक्षमुष्टेस्तु तर्जनीम् । संयोज्याङ्गुष्ठकाग्राभ्यां तर्जन्यग्रे
स्वके क्षिपेत् । एषा पाशाह्वया मुद्रा विद्वद्भिः परिकी-
र्त्तिता” ।

पाशव त्रि० पशोरिदम् अण् । १ पशुसम्बन्धिनि तन्त्रोक्ते

२ पश्वाचारे च पशूनां समूहः अण् । ३ पशुसमूहे न०

पाशवपालन न० पाशवं पशुसंघंपालयति पालि--ल्यु । घासे शब्दच०

पाशवासन न० “पाशवासनमावक्ष्ये कृत्वा पशुपतिर्भवेत् ।

पृष्ठे हस्तद्वयं बद्ध्वा कर्पराग्रे स्वमस्तकम्” रुद्रजा० उक्ते
आसनभेदे ।
पृष्ठ ४३२३

पाशवीज न० (आँ) इत्याकारके वीजे देवप्र० रघु० ।

पाशहस्त पु० पाशः हस्ते यस्य । १ वरुणे २ शतभे च ३ हस्त-

स्थितपाशके त्रि० ।

पाशादि (पाशादिभ्योयः) पा० उक्तयप्रत्ययनिमित्ते शब्द

गणे स च गणः “पाश तृण धूम वात अङ्गार
पाटल पोत गल पिटक पिटाक शकट हल नट वन” ।
तदन्तः स्त्रीलिङ्गः पाश्या वात्या इत्यादि ।

पाशान्त पु० पार्श्वस्यान्तः पृषो० । वस्त्रस्य पार्श्वान्ते वृ० सं० ७१ अ० ।

पाशिक त्रि० पाशः प्रहरणमस्य ठक् । पाशवन्धनरूपप्रह-

रणयुक्ते मृगयौ वृ० सं० ७५ अ० ।

पाशिन् पु० पाशोऽस्त्यस्य इनि । १ वरुणे २ शतभे ३ पाशवति

त्रि० । स्त्रियां ङीप् । ४ व्याधे पु० मेदि० ५ धृतराष्ट्रपुत्रभेदे
पु० भा० आ० ११७ अ० ।

पाशिल त्रि० पाशस्यादूरदेशादि० काशा० इल । पाशस्य सन्निकृष्टदेशादौ ।

पाशिवाट पु० देशभेदे भा० भी० ९ अ० । सोऽभिजनोऽस्य अण् ।

तस्य बहुषु लुक् । पित्रादिक्रमेण तद्देशवासिषु ब० व० ।

पाशुक पु० पशोर्यागज्ञापकग्रन्थस्य व्याख्यानो ग्रन्थः द्व्यच्-

कत्वात् ठक् । १ पशुयागज्ञापकग्रन्थव्याख्याने । पशोरिदम्
ठक् । २ पशुसम्बन्धिनि त्रि० कात्या० श्रौ० ३१ । २० “नाना-
पाशुकमज्जमांसरुधिरैः कृत्वा नवम्यां वलिम्” ति० त० ।

पाशुपत त्रि० पशुपतिर्देवताऽस्य तस्येदं तेन प्रोक्तम्

वा अश्वपत्या० अण् । १ पशुपतिदेवताके अस्त्रादौ २ तद्दैवते
हविरादौ ३ पशुपतिसम्बन्धिनि ४ तेनोपदिष्टे शास्त्रभेदे न०
तन्मतं पशुपतिशब्दे दर्शितम् । ५ वकवृक्षे पु० मेदि० तस्य
तत्प्रियत्वात्तथात्वम् ।

पाशुपाल्य न० पशुपालस्य भावः ष्यञ् । वैश्यवृत्तौ याज्ञ० १ । ११९

पाशुबन्धक त्रि० पशुबन्धः प्रयोजनमस्य ठक् । यज्ञे १

आलम्भनार्थपशुबन्धनस्थानादौ २ वेद्यां स्त्री कापि अतैत्त्वम्
आश्व० श्रौ० ३ । १ । ६

पाश्चात्त्य त्रि० पश्चाद् भवः त्यक् । पश्चिमदेशभवे ।

पाश्चात्त्याकरसम्भव न० पाश्चात्त्ये आकरे सम्भवति सम् +

भू--अच् ७ त० । (सामरी) लवणभेदे रत्नमाला ।

पाषक न० पष--बब्धे ण्वुल् । पादाभरणभेदे

पाषण्ड त्रि० पाति रक्षति दुरितेभ्यः पा--क्विप् पाः वेदध-

र्मस्तं षण्डयति निष्फलं करोति । “पालनाच्च त्रयी-
धर्मः पाशब्देन निगद्यते । षण्डयन्ति तु तं यस्मात्
पाषण्डस्तेन कीर्त्तित” इत्युक्ते वेदाचारत्यागिनि अमरः
ण्वुल् । पाषण्डक तत्रार्थे त्रि० ।

पाषण्डिन् पु० पां वेदधर्मं षण्डयति षण्ड + णिच--इनि

पाषण्डे शब्दच० तस्य लक्षणं यथा
“येऽन्यदेवं परत्वेन वदन्त्यज्ञानमोहिताः । नारायणादु
जगद्वन्द्यात् ते वै पाषण्डिनस्तथा । कपालभस्मास्थिधरा
ये ह्यवैदिकलिङ्गिनः । ऋते वनस्थाश्रमांश्च जटावल्कल
धारिणः । अवैदिकक्रियोपेतास्ते वै पाषण्डिनस्तथा ।
शङ्खचक्रोर्द्ध्वपुण्ड्रादिचिह्नैः प्रियतमैर्हरेः । रहिता ये
द्विजा देवि! ते वै पाषण्डिनो मताः । श्रतिस्मृत्युक्तमा-
चारं यस्तु नाचरति द्विजः । स पाषण्डीति विज्ञेयः
सर्वलोकेषु गर्हितः । समस्तयज्ञभोक्तारं विष्णुं ब्रह्म-
ण्यदैवतम् । उदस्य देवतान्येभ्यो जहोति च ददाति च ।
स पाषण्डीति विज्ञेयः स्वतन्त्रो वापि कर्म्मसु । स्वात-
न्त्र्यात् क्रियते यैस्तु कर्म वेदोदितं महत् । विना वै
भगवत्प्रीत्या ते वै पाषण्डिनः स्मृताः । यस्तु नारायणं
देवं व्रह्मरुद्रादिदैवतैः । समत्वेनैव जानाति स पाषण्डी
भवेत् सदा । अनास्था क्रियते यैस्तु मनोवाक्कायकर्मभिः ।
वासुदेवं न जानाति स पाषण्डी भवेत् द्विजः ।
हरेर्नामकमन्त्राभ्यां लोकाः सद्भिर्विवर्जिताः । यदि वर्णाश्र-
माद्या ये ते वै पाषण्डितः स्मृताः । वर्णानां गुरवो
नित्यं शिवे! यद्यप्यवैष्णवाः । भगवद्धर्मरहिता वैष्णवा-
दिविनिन्दकाः । रजस्तमोमया जीवहिंसका जीवभ-
क्षकाः । असत्प्रतिग्रहरता देवला ग्रामयाजकाः ।
भ्रष्टाचारास्तथा व्रात्या नानाविबुधपूजकाः । देवतो-
च्छिष्टश्राद्धादिभोजिनः शूद्रवत्क्रियाः । विविधासत्क-
र्मरता भक्षणाद्यविचारिणः । लोभमोहमदक्रोधकामा-
हङ्कारिणः सदा । एवंविधाः पारदारिकाद्या येऽत्र
शुभानने! । अन्येषां का कथा तत्र पाषण्डा ब्रा-
ह्मणाः स्मृताः । वर्णाश्रमाद्या ये मर्त्याः स्वस्वधर्मविव-
र्जिताः । ते वै पाषण्डिनो देवि! नारायणबहिर्मु-
खाः । सर्वाशिनो द्विजा येऽपि सर्वविक्रयिणस्तथा ।
ये वेदाचाररहितास्ते वै पाषण्डिनो मताः । ये त्वस-
द्भक्ष्यपानादिरता लोका निरन्तरम् । शिवे! पाषण्डिनो
ज्ञेया इह नास्त्यत्र संशयः । विष्णुवैष्णवगोभूमिदेवा-
दिषु विशेषतः । अश्वत्थतुलसीतीर्थक्षेत्रादिषु महा
गुरौ । लक्ष्मीसरस्वतीगङ्गायमुनासु वरानने! । स्मृताः
पाषण्डिनस्तेऽपि ये न सेवापरायणाः । रुद्राक्षेन्द्रा-
क्षभद्राक्षस्फटिकाक्षादिधारिणः । जटिला भस्मलि-
प्ताङ्गास्ते वै पाषण्डिनः प्रिये! । असिजीवी मसीजीवी-
पृष्ठ ४३२४
घावकः पाचकस्तथा । एते पाषण्डिनो विप्रा मादक
द्रव्यभोजिनः । देवि! कार्ष्णादयो भक्ता अनन्यशरणास्तु
ये । पाषण्डसङ्गं न कुर्युस्तद्गेहे पानभोजने । तत्
स्पर्शजलपानञ्च चक्रुस्तत्सङ्गमादिकम् । तत्पानभो-
जनालापसङ्गालिङ्गनतोऽचिरात् । पाषण्डिनो वैष्णवाः
स्युरन्येषामपि का कथा । किमत्र बहुनोक्तेन ब्राह्मणा
ये ह्यवैष्णवाः । असदाचरणाश्चेत् स्युस्तदा पाषण्डिनः
स्मृताः । एतद्भोजनपानादिकर्मभिर्वैष्णवा जनाः ।
पाषण्डिनस्तथा स्युर्वै जटामस्मादिधारिणः” पाद्मोत्तरखण्डे
पाषण्डाचरणं नाम ४२ अ० । एतच्च वैष्णवप्रशंसार्थंशैव
लिङ्गधारणस्यापि शास्त्रसिद्धत्वात् । तत्संसर्गादिनिषेधो
यथा “तस्मात् पाषण्डिभिः प्रापैरालापं स्पर्शनं त्यजेत् ।
विशेषतः क्रियाकाले यज्ञादौ चापि दीक्षितः । क्रि-
याहानिर्गृहे सूर्यं पश्येत सतिमान् नरः । किं पुनर्येस्तु
सन्त्यक्ता त्रयी सर्वात्मना द्विज! । पाषण्डभोजिभिः
पापैर्वेदवादविरोधिभिः । पाषण्डिनो विकर्मस्थान्
वैडालव्रतिकान् शठान् । हैतुकान् वकवृत्तींश्च वाङ्-
मात्रेणापि नार्च्चयेत् । दूरापास्तस्तु संसर्गः सहास्या
वापि पापिभिः । पाषण्डिभिर्दुराचारैस्तस्मात्तान्
परिवजयेत् । एते नग्नास्तवाख्याता दृष्ट्या श्राद्धोपघातकाः ।
येषां सम्भाषणात् पुंसां दिनपुण्यं प्रणश्यति । एते
पाषण्डिनामानो ह्येतान्न चालपेद्बुधः । पुण्यं नश्यति
सम्भाषादेतेषां तद्दिनोद्भवम् । पुसां जटाधरणमौण्ड्यवतां
वृथैव मोघाशिनामखिलशौचनिराकृतानाम् । तोयप्र-
दानपितृपिण्डबहिष्कृताना सम्भाषणादप्रि नरा नरकं
प्रयान्ति” विष्णु पु० ३ अंशे १८ अ० ।

पाषाण पु० पिनष्टि पिष--संचूर्णने आनच् पृषो० । १ प्रस्तरे

अमरः अल्पार्थे ङीप् । २ पाषाणी (वाटखारा) २
तुलामानपाषाणे स्त्री शब्दच० ।

पाषाणगर्दभ पु० सुश्रुतोक्ते क्षुद्ररोगभेदे “हनुसन्धौ

समुद्भूतं शोफमल्परुजं स्थिरम् । पाषाणगर्ढ़भं विद्याद्
बलासपबनात्मकम्” ।

पाषाणचतुर्दशी स्त्री वृश्चिकस्थरविके मासे शुक्लचतुर्दश्याम्

तस्यां पाषाणाकारपिष्टकभोजनात्तस्यास्तन्नामता यथोक्तं
भविष्ये “वृश्चिके शुक्लपक्षे तु या पाषाणचतुर्दशी ।
तस्यामाराधयेद्गौरीं नक्तं पाषाणभोजनैः” । पाषाण-
भोजनैः पाषाणाकारपिष्टकमोजनैः” ति त० रघु० ।

पाषाणदारक पु० पाषाणं दारयति दारि--ण्वुल् । टङ्कास्त्रे

(पाथरकाटाछेनी) अमरः । ल्यु । पाषाणदारणोऽप्यत्र ।

पाषाणभेदन पु० पाषाणं भिनत्ति ल्यु । (हाडजोडा)

१ वृक्षभेदे राजनि० ण्वुल् । पाषाणभेदकोऽप्यत्र “पाषा-
णभेदकोऽश्मघ्नो गिरिभिद्भिन्नयोजनी । अश्मभेदो
हिमस्तिक्तः कषायो वस्तिशोधनः । भेदनो हन्ति दोषार्शो
गुल्मकृच्छ्राश्महृद्रुजः । योनिरोगान् प्रमेहांश्च प्लीहा
शूलव्रणानि च” भावप्र० । २ प्रस्तरभेदकमात्रे त्रि० ।

पाषाणभेदिन् पु० पाषाणं भिनत्ति भिद--णिनि (पाथुर-

चुर) १ वृक्षभेदे रत्नमा० २ शिलाभेदके त्रि० स्त्रियां ङीष् ।

पाषी स्त्री पाष्यते वध्यतेऽनया पष--बन्धे करणे घञ् ।

१ शक्त्यां २ शिलायाञ्च ऋ० १ । ५६ । ६ भा० । पाषाणवद्दृढा-
याञ्च ऋ० ९ १०३ । २ भा० ।

पास्त्य त्रि० पस्त्ये गृहे वसति शैषिकोऽण् । गृहवासिनि ऋ० ८ । २१ । ६ भा० ।

पाहत पु० अपाहन्ति अप + आ + हन--ड अपेरल्लोपः पाहः

स इव अतति अत--अच् शक० । ब्रह्मदारुवृक्षे शब्दच० ।

पि गतौ तु० सक० पर० अनिट् । पियति । अपैषीत् । पिपाय ।

पिप्यतु ।

पिक पुंस्त्री० अपि कायति कै--क अपेरतोलोपः । कोकिले अमरः स्त्रियां ङीष् ।

पिकप्रिया स्त्री ६ त० । महाजम्ब्य्वाम् राजनि० ।

पिकबन्धु पु० ६ त० । आम्रवृक्षे त्रिका० ।

पिकराग पु० पिकोरज्यतेऽत्र रन्ज--आधारे घञ् कुत्वम् ।

आम्रवृक्षे राजनि० ।

पिकवल्लभ पु० ६ त० । आम्रवृक्षे भावप्रकाशः ।

पिकाक्ष पु० पिकस्याक्षीवास्त्यस्य ममानवर्णत्वात् अच् । १

रोचन्याम् शब्दच० पिकस्याक्षीवाक्षि अस्य षच् समा० ।
२ पिकतुल्यरक्तनेत्रयुक्ते त्रि० स्त्रियां षित्त्वात् ङीष् ।

पिकाङ्ग पुंस्त्री० पिकस्याङ्गमिवाङ्गमस्य । पक्षिभेदे शब्दच० ।

पिकानन्द पु० पिकमानन्दयति आ + नन्दि--अण् उप० स० ।

वसन्तकाले राजनि० ।

पिकेक्षणा स्त्री पिकस्येक्षणं तद्वर्णोऽस्त्यस्याः अच् । १

कोकिलाक्षे करवीरभेदे राजनि० । पिकस्येक्षणमिवेक्षण-
मस्य । २ रक्तनेत्रे त्रि० स्त्रियां स्वाङ्गत्वेऽपि बह्वच्क-
त्वात् न ङीष् किन्तु टाप् ।

पिक्क पु० पिक इव कायति कै--क पृषो० । १ हस्तिशावके

शब्दमा० । २ मुक्तापरिमाणमेदे स्त्री वृ० सं० ८१ अ० ।

पिङ्ग पु० पिजि--वर्णे--अच् न्यङ्का० कुत्वम् । १ मूषिके मेदि०

स्त्रियां ङीष् । २ दीपशिखाभे वर्णे पु० “पिङ्गो दीपशि-
खामः स्यात् पिङ्गलः पद्मधूलिबत्” । ३ तद्वति त्रि०
पृष्ठ ४३२५
अमरः गौरा० पाठात् स्त्रियां ङीप् । कड़ारा० पाठात्
अस्य पूर्वनिपातः । ४ ऋषिभेदे पु० तेन प्रोक्तः कल्पः णिनि
पैङ्गिन् तत्प्रोक्ते कल्पे । पिङ्ग + अस्त्र्यर्धे सिध्मा० वा लच् ।
प्रिङ्गल तद्वर्णयुते त्रि० पक्षे मतुप् मस्य वः । पिङ्गवत्
तत्रार्थे त्रि० स्त्रियां ङीप् ।

पिङ्गकपिशा स्त्री पिङ्गा च कपिशा च “वर्णोवर्णेन” पा०

स० । १ तैलपायिकायां स्त्री हेमच० २ पिङ्गवर्णयुते अथच
कपिशबर्णयुते त्रि० ।

पिङ्गचक्षुस् पु० पिङ्गं चक्षुरस्य । कूम्भीरे हेमच० । २ पिङ्गनेत्रे त्रि० ।

पिङ्गजट पु० पिङ्गा जटाऽस्य । शिवे हेमच० ।

पिङ्गतीर्थ न० तीर्थभेदे भा० व० ८२ अ० ।

पिङ्गल पु० पिङ्ग + सिध्मा० लच् पिङ्गं लाति--क वा । १

नीलपीतमिश्रितवर्णे ३ तद्वति त्रि० अमरः । अस्मिन् परे घोषा०
पूर्वपूर्वपदमाद्युदात्तम् । प्राकृतभाषयाच्छन्दोग्रन्थकारके
३ नागभेदे ४ रुद्रे ५ सूर्यपारिपार्श्विकभेदे ६ निधिभेदे ७
वानरे नकुले ८ स्थावरविषभेदे च हेमच० । ९ क्षुद्रोलूके
राजनि० “देशभङ्गोऽथ दुर्भिक्षं समासात् कथयाम्यहम् ।
पिङ्गले चारुपद्माक्षि! दुर्भिक्षं नर्मदातटे” इति ज्यो० त०
उक्ते प्रभवादिबर्षमध्ये १० वर्षभेदे च । ११ नागराजभेदे
भा० आ० ३५ अ० । १२ यक्षभेदे भा० व० २३० अ० । १३ रीतौ
पित्तले १४ शिंशपायां च स्त्री राजनि० । १५ वामनदिग्-
गजस्य स्त्रियां कुमुदस्य १६ करिण्यां मेदि० । १७ कर्णि-
कायां तन्त्रोक्ते १८ नाडीभेदे हेमच० । इड़ाशब्दे दृश्यम्

पिङ्गलक पु० पिङ्गल + स्वार्थे क । पिङ्गलशब्दार्थे २ यक्षभेदे

पु० भा० स० १० अ० । ततः उपका० द्वन्द्वे अद्वन्द्वे च
गोत्रप्रत्ययस्य बहुत्वे वा लुक् ।

पिङ्गला स्त्री १ वेश्याभेदे संज्ञायां कन् । कापि अतैत्त्वम् ।

पिङ्गलिका बलाकायां त्रिका०

पिङ्गललौह न० नित्यकर्म० । पित्तले राजनि० ।

पिङ्गसार पु० पिङ्गं सारमस्य । हरिताले राजनि० ।

पिङ्गस्फटिक पु० नित्यकर्म० । गोमेदमणौ राजनि० ।

पिङ्गा स्त्री पिङ्ग--अस्त्यर्थे अच् । १ गोरोचनायां २ हिङ्गौ

३ नालिकायां ४ चण्डिकायां मेदि० ५ हरिद्रायां शब्दच०
६ वंशरोचनायां राजनि० ।

पिङ्गाश पुंस्त्री० पिङ्गं वर्णमश्नुते अश--व्याप्तौ अण् ।

(पाङ्गाश) १ मत्स्यभेदे स्त्रियां ङीष् । २ पल्लीपतौ ३ उत्तम-
खर्णे न० मेदि० ४ नीलिकायां स्त्री मेदि० ।

पिङ्गास्य पुंस्त्री पिङ्गमास्यमस्य । (पाङ्गाश) मत्स्यभेदे

शब्दच० । स्त्रियां योगधत्वात् टाप् । २ पिङ्गमुखयुक्ते त्रि०

पिङ्गाक्ष पु० पिङ्गे अक्षिणी यस्य षच्समा० । १ शिये काशी०

ख० १२ अ० उक्ते २ व्याधभेदे । ३ पिङ्गवर्णनेत्रयुक्ते त्रि०
स्त्रियां ङीष् । २ कुमारानुरमातृभेदे स्त्री भा० श० ४७०

पिङ्गी स्त्री पिङ्ग + अस्त्यर्थे अच् गौरा० ङीष् । शमीवृक्षे

मेदि० ।

पिङ्गोक्षण पु० पिङ्गमीक्षणमस्य । १ शिये हेमच० । २ पिङ्गनेत्रयुक्ते त्रि० ।

पिचण्ड पु० अपि + चम--ड तस्य तेत्त्वम् अपेरल्लोप । १ उदरे

२ पशोरवयवे च हेमच० । पृषो० इत्त्वम् । पिचिण्डोऽप्यत्र
ततः तुन्दादि० इलच् । पिचण्डिल वृद्धोदरे तुन्दिले
त्रि० पक्षे ठन् । पिचण्डिक तत्रार्थे त्रि० । “भोगाढ्या
समजठरा निःस्वाः स्युर्घटसन्निभाः । सर्पोदरा दरिद्राः
स्युः गरुड़े तस्याशुभसूचकत्वत्वमुक्तम् ।

पिचण्डक त्रि० पिचण्डे कुशलः आकर्षा० कन् । औदरिके

उदरपूर्त्तौ कुशले उदरम्भरौ ।

पिचव्य पु० पिचवे तूलाय साधुः यत् । कार्पासवृक्षे हेमच० ।

पिचु पु० पच--उ पृषो० । १ कार्पासतूले (तूला) अमरः २ कुष्ठ-

भेदे ३ कर्षे ४ असुरभेदे मेदि० ५ भैरवे ६ शस्यभेदे विश्वः ।

पिचुक पु० पिचुरिव कायति कै--क । १ मदनवृक्षे (मयना)

रत्नमाला । ततः अस्त्यर्थे उत्करा० छ । पिचुकीय
तद्युते देशादौ त्रि० ।

पिचुतूल न० ६ त० । तूले (तुला) त्रिका० ।

पिचुमन्द(र्द्द) पु० पिचुं कुष्ठं मन्दयति मृद्गाति वा अण्

उप० स० । निम्बवृक्षे (र्दान्तः) अमरः (न्दान्तः) हेमच० ।

पिचुल पु० पिचुं लाति ला--क । १ झावुकवृक्षे (झाउ) २ इज्वले

३ जलवायसे च मेदि० ४ तूले अमरटीका ।

पिच्च छेदे चु० उभ० सक० सेट् । पिच्चयति ते अपिपिच्चत् त ।

पिच्चट न० पिच्च--अटन् । १ सीसके २ रङ्गे ३ नेत्ररोगभेदे पु०

पिच्चा स्त्री मुक्तापरिमाणभेदे वृ० सं० ८१ अ० ।

पिच्चिट पु० कीटभेदे कीटशब्दे २०५८ पृ० सुश्रुतवाक्यम् ।

पिच्चित न० सुश्रुतोक्ते काण्डभग्नभेदे “पिच्चितं पृथुतां

गतमनल्पशोफम्” इति तल्लक्षणम् ।

पिच्छ बाधे तु० पर० सक० सेट । पिच्छति अपिच्छीत् पिपिच्छ

पिच्छ न० पिच्छ--अच् । १ मयूरपुच्छे २ चूडायां ३

लाङ्गूले पु० मेदि० ४ शाल्मलीवेष्टे स्त्री अमरः । ५ पूगे
६ छटायां ७ कोषे ८ मोचायां ९ पङ्क्तौ १० भक्तमण्डे
११ हयपदामये च स्त्री मेदि० १२ कोलिकायां १३
फणिनालायां हारा० । १४ शिंशपावृक्षे च स्त्री शब्दच०
पृष्ठ ४३२६

पिच्छबाण पु० पिच्छं वाण इव यस्य । श्येनखगे राजनि०

पिच्छल पु० वासुकिवंश्ये सर्पभेदे भा० आ० ५७ अ० ।

पिच्छलदला स्त्री पिच्छ--कलच् तादृशं दलमस्याः ।

वदरीवृक्षे त्रिका० ।

पिच्छादि अस्त्यर्थे इलच्प्रत्ययनिमित्ते शब्दगणे यथा

“पिच्छा उरस् धुवक् ध्रुवक (जटाघटाकालाः क्षेपे)
वर्ण उदक पङ्क प्रज्ञा” ।

पिच्छितिका स्त्री पिच्छ--भावे क्तिन् तया कायति कै--क । शिंशपावृक्षे शब्दच० ।

पिच्छिल त्रि० पिच्छ--बा० इल । (पिचल) १ पदार्थे २ भक्त-

३ मण्डे तद्युक्ते च ३ स्निग्धसूपादौ । पिच्छा + अस्त्यर्थे
पिच्छा० इलच् । ४ चूडायुक्ते त्रि० ५ श्लेष्मातकवृक्षे पु०
राजनि० संज्ञायां कन् । पिच्छिलक धन्वनवृक्षे पु०
राजनि० ।

पिच्छिलच्छदा स्त्री पिच्छिलः च्छदोऽस्याः । उपोदक्यां

राजनि० ।

पिच्छिलत्वच् पु० पिच्छिला श्लक्ष्णा त्वच् यस्य । नागरङ्गवृक्षे त्रिका० ।

पिच्छिलसार पु० पिच्छिलः सारोऽस्य । मोचरसे राजनि०

पिच्छिला स्त्री पिच्छ--इल पिच्छा + अस्त्यर्थे इलच् वा ।

१ पोतिकायां २ शिंशपायां ३ शाल्मलौ ४ सिन्धुभेदे मेदि०
५ कोकिलाक्षे ६ वृश्चिकाक्षुपे ७ अतस्यां ८ शूलीतृणे च
राजनि० ९ कटुकायां शब्दच० ।

पिज दीप्तौ वासे बले (सामर्थ्ये) च अक० हिंसायां दाने च

सक० चु० उभ० सेट् इदित् । पिञ्जयति ते अपिपिञ्जत् त ।

पिजवन पु० स्पर्द्धनीयजये विश्वामित्रयाज्ये नृपभेदे निरु०

२ । २४ दृश्यम् ।

पिज्वल पु० ऋषिभेदे ततः अश्वा० गोत्रे फञ् । पैज्वलायन तद्गोत्रापत्ये पुंस्त्री० ।

पिञ्छ न० पिच्छ--पृषो० । पिच्छशब्दार्थे हेमच० ।

पिञ्ज न० पिजि--अच् । १ बले २ व्याकुले त्रि० मेदि० ३ वधे

अमरः ४ कर्पूरभेदे पु० ५ तूले ६ हरिद्रायां स्त्री मेदि०
७ हिंसायां स्त्री त्रिका० । भावे अच् । ८ छटायां स्त्री
रत्नमाला ।

पिञ्जट पु० पिजि--अटन् । नेत्रमले (पिँचुटी) शब्दरत्ना० ।

पिञ्जन न० पिजि--करणे ल्यु । तूलस्फोटने १ यन्त्रभेदे ।

भावे ल्युट् । २ तूलादेः स्फोटने ।

पिञ्जर न० पिजि--अरच् । १ हरिताले अमरः २ स्वर्णे मेदि०

३ नागकेशरे राजनि० ४ विहगादिबन्धनस्थाने ५ देहास्थि-
वृन्दे च रामाश्रमः । ६ अश्वभेदे पु० ७ पीतरक्तवर्णे
८ पीतवर्णे च पु० हेमच० । ९ तद्वति त्रि० १० सर्पभेदे पु०
भा० आ० ३५ अ० । स्वार्थे क । पिञ्जरक तत्रार्थे न० ।

पिञ्जल न० पिजि--कलच् । १ हरिताले २ कुशपत्रे च धरणिः

३ अत्यन्ताकुलसैन्यादौ पु० अमरः ४ कुशान्तरवेष्टिते साग्र-
कुशपत्रद्वये स्त्री ङीप् । “एतदेव पिञ्जल्या लक्षणं
समुदाहृतम्” कर्मप्रदीपे तत्र पवित्रलक्षणातिदेशात्तथात्वम् ।

पिञ्जाल न० पिजि--बा० आलच् । स्वर्णे राजनि० ।

पिञ्जिका स्त्री पिजि--ण्वुल् अतैत्त्वम् । तूलनालिकायां

(पाँइज) त्रिका० ।

पिञ्जूल पु० पिजि--ऊलच् । १ कुशवर्त्तिकायाम् उज्ज्वलद० ।

संज्ञायां कन् । पिञ्जूलक २ ऋषिभेदे ततः । उपका०
गोत्रप्रत्ययस्य बहुत्वे द्वन्द्वे अद्वन्द्वे च वा लुक् ।

पिञ्जूष पु० पिजि--बा० ऊषन् । कर्णमले हेमच० ।

पिञ्जेट पु० पिञ्जे अटति अट् अच् अलुक्स० । नेत्रमले

शब्दरत्ना० ।

पिञ्जोला स्त्री पिजि--बा० ओल । पत्रशब्दे हारा०

पिट संहतौ ध्वनौ च भ्वा० पर० अक० सेट् । पेटति अपेटीत् पिपेट ।

पिट न० पिट--क । १ चाले त्रिका० (पेटारा) २ पेटके पु० धरणिः

पिटक पु० पिट--बा० क्वुन् । (पेटरा) वेत्रादिनिर्मिते

समुद्गकाकारे पदार्थे अमरः । तेन हरति उत्ससङ्गा० ठञ् ।
पैटकिक पेटकेन हारिणि त्रि० । २ स्फोटके पु० मेदि० ।
देहजातस्फोटशुभाशुभादिकं वृ० सं० ५२ अ० उक्तं यथा
“सितरक्तपीतकृष्णा विप्रादीनां क्रमेण पिटका ये ।
ते क्रमशः प्रोक्तफला वर्णानामग्रजादीनाम् । सुस्निग्ध-
व्यक्तशोभाः शिरसि धनचयं मूर्ध्नि सौभाग्यमाराद्-
दौर्भाग्यं भ्रूयुगोत्थाः प्रियजनघटनामाशु दुःशीलतां
च । तन्मध्योत्थाश्च शोकं नयनपुटगता नेत्रयोरिष्टदृष्टिं
प्रव्रज्यां शङ्खदेशेऽश्रुजलनिपतनस्थानगाश्चातिचिन्ताम् ।
घोणागण्डे वसनसुतदाश्चोष्ठयोरन्नलाभं कुर्युस्तद्वच्चिवु-
कतलगा भूरि वित्तं ललाटे । हन्वोरेवं गलकृतपदा
भूषणान्यन्नपाने श्रोत्रे तद्भूषणगणमपि ज्ञानमात्मस्वरू-
पम् । शिरःसन्धिग्रीवाहृदयकुचपार्श्चोरसि गता अयोघातं
घातं सुततनयलाभं शुचमपि । प्रियप्राप्तिं स्कन्धेऽप्यटन-
मथ भिक्षार्थमसकृद्विनाशं कक्षोत्था विदधति धनानां
बहुसुखम् । दुःखशत्रु निचयस्य विघातं पृष्ठबाहुयुगजा
रचयन्ति । संयमं च मणिबन्धनजाता भूषणाद्यमुपबा-
हुयुगोत्थाः । धनाप्तिं सौभाग्यं शुचमपि कराङ्गुल्युद-
रगाः सुपानान्नं नाभौ तदथ इह चौरैर्धनहृतिम् । धनं
धान्य नस्तौ युवतिमथ मेढ्रे सुतनयान् धनं सोभाग्यं
पृष्ठ ४३२७
वा गुदवृषणजाता विदधति । ऊर्वोर्यानाङ्गनालाभं
जान्वोः शत्रुजनात् क्षतिम् । शस्त्रेण जङ्घयोर्गुल्फे
ऽध्वबन्धक्लेशदायिनः । स्फिक्पार्ष्णिपादजाता धनना-
शागम्यगमनमध्वानम् । बन्धनमङ्गुलिनिचयेऽङ्गुष्ठे च
ज्ञातिलोकतः पूजाम् । उत्पातगण्डपिटका दक्षिणतो
वामतस्त्वभीघाताः । धन्या भवन्ति पुंसां तद्विपरीतास्तु
नारीणाम् । इति पिटकविभागः प्रोक्त आमूर्द्धतोऽयं
व्रणतिलकविभागोऽप्येवमेव प्रकलप्यः । भवति
मशकलक्ष्मावर्तजन्मापि तद्वन्निगदितफलकारि प्राणिनां
देहसंस्थम्” ।

पिटक्या स्त्री पिटकानां समूहः पाशा० य । पिटकसमूहे

पिटङ्कोकी स्त्री पिटं कोकते कु--वा० ख मुम् । इन्द्रवा-

रुण्यां रत्नमाला ।

पिटाक पु० पिट--बा० काक । १ मुनिभेदे ततः शिवा०

अण पैटाक तदपत्ये पुंस्त्री० । २ पेटके च तेन हरति
उत्सङ्गा० ष्ठन् । पैटाकिक तेन हारिणि त्रि० । संघार्थे
पाशा० य । पिटाक्या तत्समूहे स्त्री ।

पिट्टक न० पिट--ण्वुल् पृषो० । दन्तकिट्टके शब्दर० ।

पिट्ट कुटनभेदे (पेटा) कुट्टनेनाधःप्रवेशने चु० उभ० सक० सेट् ।

पिट्टयति त अपिपिट्टत त । कात्या० श्रौ० ६ । ३ । ११ कर्कः ।

पिट्टिक त्रि० पिट्ट--इन् स्वार्थे क । कुट्टनेन अधःप्रवे-

शिते मेदि० ।

पिठ क्लेशे अक० वधे सक० भ्वा० पर० सेट् । पेठति अपेठीत् पिपेठ ।

पिठर पु० पिठ--करन् । १ गृहभेदे त्रिका० २ मुस्तायां ३ म

न्थानदण्डे च न० मेदि० । ४ स्थाल्यां पुंस्त्री० स्त्रीत्वे ङीप् ।
अमरः । ५ दानवभेदे पु० भा० स० ९ अ० । संज्ञायां कन् ।
पिठरक ६ नागभेदे पु० भा० आ० ३५ अ० । पीलुपाकशब्दे
दृश्यम् ।

पिठीनस् पु० ऋषिभेदे ऋ० ६ । २६ । ६ भा० तस्यापत्यम् इञ पैठीनसि तदपत्ये उपस्मृतिकारके ऋषिभेदे ।

पिड राशीकरणे भ्वा० आत्म० सक० सेट् इदित् । पिण्डते

अपिण्डिष्ट । अय चुरादिरपि तत्रार्थे उभ० । पिण्डयति
ते अपिपिण्डत् त ।

पिडका स्त्री पीड़यति पीड़--ण्वुल् क्षिपकादि० नि०

कुष्ठाधिकारे पीड़ादायके क्षुद्रस्फोटके भावप्रका० । सुश्रु
तादौ रोगभेदे नानाविधैव पिडका उक्ता तत्र भगन्दरे
“अपक्वाः पिडकाः पक्वास्तु भगन्दराः” इत्युपक्रमे
पित्तादिपिड़का उक्ता यथा “पित्तन्तु प्रकुपितमनिलेना-
धःप्रेरितं पूर्ववदवस्थितं रक्ता तन्वीमुच्छितामुष्ट्रग्रीवा-
कारां पिडकां जनयति । सास्य चोषादीन् वेदनावि-
शेषान् जनयत्यप्रतिक्रियमाणा च पाकमुपैति व्रण-
श्चाग्निक्षाराभ्यामिव दह्यते दुर्गन्धमुष्णमास्रावं स्रवति”
“श्लेष्मजालक्षणादिकं तु परिस्रोविन्शब्दे दर्शितम्
वायुजालक्षणादि तत्रोक्तं यथा
“वायुः प्रकुपितः प्रकुपितौ पित्तश्लेष्माणौ परिगृह्यापो
गत्वा पूर्ववदवस्थितः पादाङ्गुष्ठप्रमाणां सर्वलिङ्गां पिडका
जनयति सास्य तोददाहकण्ड्वादीन् वेदनाविशेषान्
जनयत्यप्रतिक्रियमाणा च पाकमुपैति व्रणश्च नानाविधवर्ण-
मास्रावं स्रवति पूर्णनदीशम्बूकावर्त्तवच्चात्र समुत्ति-
ष्ठन्ति वेदनाविशेषाः” । मेहजास्तु भावप्र० उक्ता यथा
“शराविका कच्छपिका जालिनी विनताऽलजी ।
मसूरिका सर्षपिका पुत्रिणी सविदारिका । विद्रधिश्चेति
पिडकाः प्रमेहापेक्षर्यां दश । सन्धिमर्मसु जायन्ते
मांसलेषु च धामसु । अन्तोन्नता च तद्रूपा निम्रमध्या
शराविका १ । सदाहा कूर्मसंस्थाना ज्ञेया कच्छपिका २
बुधैः । जालिनी ३ तीव्रदाहा तु मांसजालसमावृता ।
अविमाढरुजाक्लेदा पृष्ठे वाप्युदरेऽपि वा । महती
पिडका नीला सा वुवैर्विनता ४ स्मृता । रक्ताऽसिता
स्फोटचिता विज्ञेया त्वलजी ५ बुधैः । मसूरदलसंस्थाना
विज्ञेया तु मसूरिका ६ । गौरसर्षपसंस्थाना तत्प्रमाण ।
च सर्षपी ७ । महत्यल्पचिता ज्ञेया षिडकापि च
पुत्रिणी ८ । विदारीकन्दवद्वृत्ता कठिना च विदारिका ९ ।
विद्रधेर्लक्षणैर्युक्ता ज्ञेया विद्रधिका तु सा । ये यन्मयाः
स्मृता मेहास्तेषामेतास्तु तन्मयाः । विना प्रमेहमप्येता
जायन्ते दुष्टमेदसः । तावच्चैता न लक्ष्यन्ते यावद्वास्तु
परिग्रहः । गुदे हृदि शिरस्यंसे पृष्ठे मर्मसु चोत्थि-
ताः १० । सोपद्रर्वा दुर्बलाग्नेः पिडकाः परिवर्जयेत् ।
तृट्च्छासमांससङ्कोचमेहहिक्कामदज्वराः । विसर्पध-
र्मसंरोधाः पिड़कानामुपद्रवाः” ।
कुष्ठाधिकारे भावप्र० पिडकानां वृहत्त्वे स्फोटत्वम्
क्षुद्रत्वे पिडकत्वमुक्त्वा तद्भेदा उक्ता यथा
“यवाकारा सुकठिना ग्रथिता मांससंश्रिता । पिडका
श्लेष्मवाताभ्यां यवप्रख्येति १ सोच्यते । घनामवक्रो
पिडकामुन्नतां परिमण्डलाम् २ । अन्त्रालजीमल्पपयां तां
विद्यात् कफवातजाम् । विवृतास्यां महादाहां पक्वो-
डुम्बरसन्निभाम् । परिमण्डलां पित्तकृतां विवृता ३ नाम
तां विदुः । ग्रथिताः पञ्च वा षड्वा दारुणाः कच्छ-
पृष्ठ ४३२८
पोपमाः । कफानिलाभ्यां पिड़का ज्ञेयाः कच्छपिका ४
बुधैः । ग्रीवांसकक्षाकरपाददेशे सन्धौ गले वा त्रि-
भिरेव दीषैः । ग्रन्थिः स वल्मीकवदक्रियाणां जातः
क्रमेणैव गतप्रवृद्धिः । मुखैरनेकैः श्रुतितोदवद्भिर्विसर्प-
वत् सर्पति चोन्नताग्रैः । वल्मीक ५ माहुर्भिषजोवि-
कारं निष्प्रत्यनीकं चिरजं विशेषात् । पद्मकर्णिक-
वन्मध्ये पिड़काभिः सदाचिताम् १ इन्द्रवृद्धान्तु ६ तां
विद्याद्वातपित्तोत्थितां भिषक् । मण्डलं वृत्तमुत्सन्नं स रक्तं
पिडकाचितम् । रुजाकरीं गर्दभिकां ७ तां विद्याद्
वातपित्तजाम् । वातश्लेष्मसमुद्भूतः श्वयथुर्हनुसन्धिजः ।
स्थिरो मन्दरुजः स्निग्धो ज्ञेयः पाषाणगर्दभः ८ ।
कर्णस्याभ्यन्तरे जातां पिडकामुग्रवेदनाम् । स्थिरां
पनसिका९ न्तान्तु विद्यादन्तःप्रपाकिनीम् । विसर्पवत्
सर्पति यः शोथस्तनुरपाकवान् । दाहज्वरकरः पित्तात्
स ज्ञेयो जालगर्दभः १० । पिडकामुत्तमाङ्गस्थां वृत्ताम-
त्युग्ररुग्ज्वराम् । सर्वात्मिकां सर्वलिङ्गां जानीयादि-
रिवेल्विकाम् ११ । बाहुपार्श्वांसकक्षेषु कृष्णस्फोटां
सवेदनाम् । पित्तप्रकोप्रसम्भूतां कक्षा १२ मित्यभिनिर्दिशेत् ।
एकामेतादृशीं दृष्ट्वा पिडकां स्फोटसन्निभाम् । तद्गतां
पित्तकोपेन गन्धनामां १३ प्रचक्षते । कक्षभागेषु ये स्फोटा
जायन्ते मांसदारुणाः । अन्तर्दाहज्वरकरा दीप्तपा-
वकसन्निभाः । सप्ताहाद्द्वादशाद्वा पक्षाद्वा घ्नन्ति
मानवम् । तामग्निरोहिणीं १४ विद्यादसाध्या सन्निपाततः ।
नखमांसमधिष्ठाय वातपित्तञ्च देहिनाम् । कुरुते दाह
पाकौ च व्याधिन्तं चिप्य १५ मादिशेत् । तदेवाल्पतरैर्दोषैः
कुनखं परुषं १६ वदेत् । गम्भीरामल्पसंरम्भां सवर्णा-
मुपरिस्थिताम् । पादस्यानुशयीं १७ तान्तु विद्यादन्तः-
प्रपाकिनीम् । विदारीकन्दवद्वृत्तां कक्षावङ्क्षणसन्धिषु ।
विदारी १८ मिति तां विद्यात् सर्वजां सर्वलक्षणाम्” ।

पिण्ड त्रि० पिडि--अच् । १ संहते २ घने च ततः गौरा० स्त्रियां

ङीष् । तस्या अपत्यं कुर्वा० ण्य । पैण्ड्य संहतायाः स्त्रिया
अपत्ये पुंस्त्री० । ३ वोले ४ बले ५ देहैकदेशे ६ गृहैकदेशे
७ देहमात्रे ८ अन्नादिमये पितृभ्यो देये गोलाकारे
९ पदार्थे १० गोले ११ सिह्लके १२ जवापुष्पे च पु० मेदि०
१३ वृन्दे (अव्दिपिण्डम्) १४ कवले पु० हेमच० १५ गजकुम्भे
१६ अमरः १७ मदनवृक्षे पु० राजनि० । १८ आजीवने
१९ अयसि न० मेदि० । तत्र श्राद्धशेषद्रव्यान्नादिनिर्मिते पदार्थे
सामगानां पुंस्त्वेन प्रयोगः “पिण्डानोद्वाहनात्तेषाम्”
छन्दोगपरिशिष्टे पुंस्त्वेन प्रयोगात् । यजुर्वेदिभिः “असा-
वेतत्ते पिण्डंस्यधेति” यजुःश्राद्धप्रयोगात् क्लीवत्वम् ।
“तेभ्यःपिण्डं मया दत्तमक्षय्यमुपतिष्ठताम्” वा युपु० प्रयोगः
यजुर्वेदिविषयः । तत्र देयद्रव्यादि श्रा० त० निरूपितं यथा
“यावदन्नमुपादाय हविषोऽर्भकमर्भकम् । चरुणा सह
सन्नीय पिण्डदानमुपक्रमेत्” । श्राद्धार्थाद्धविषोऽन्नादेः
सकाशाद् यावत् भक्ष्यमोदनव्यञ्जनादि ततोऽल्पाल्पं
गृहीत्वा अग्नौकरणचरुशेषेण सह मिश्रीकृत्य पिण्ड-
दानमारभेदित्यर्थः । एकस्मिन् पात्रेऽन्नं मध्वादिद्रव्येण
मिश्रयेत् । “मध्वाज्यतिलसंयुक्तं सर्वव्यञ्जनसंयुतम् ।
उष्णमादाय पिण्डन्तु कृत्वा बिल्वफलोपमम् । दद्यात्
पितामहादिभ्यो दर्भमूले यथाक्रमम्” इति ब्रह्मपुराण
वचनात् । अत्र पितामहपदं पितृपरं वचनान्तरैकवा-
क्यत्वात् । “स्वपित्रे प्रथमं पिण्डं दद्यादुच्छिष्टसन्निधौ ।
पितामहाय चैवाथ तत्पित्रे च ततःपरम् । दर्भमूले
लेपभाजस्तर्पयेल्लेपघर्षणैः” ।
अत्र पिण्डमात्रस्य विल्वफलोपमत्वश्रुतेः छन्दोगप-
रिशिष्टे च पित्रादीन् मातामहादीनुपक्रम्य “अवनेज-
नवत् पिण्डान्कृत्वा बिल्वप्रमाणकानिति” श्रुतेश्च सामग
यजुर्वेदिनोर्विल्वप्रमाणकत्वम् “पृथङ्मातामहानाञ्च
केचिदिच्छन्ति सत्तमा । त्रीन् पिण्डानानुपूर्व्येण साङ्गुष्ठ
मुष्टिवन्धनात्” इति वायुपुराणीयं शाख्यान्तरीयं श्रा० त० ।
वायवीये “मधुसर्पिस्तिलयुतांस्त्रीन् पिण्डान्निर्वपेद्बुधः ।
त्रिस्थली सेतौ “तिलमन्नं च पानीयं धूपं दीषं पयस्तथा ।
मधु सर्पिः खण्डयुक्तं पिण्डमष्टाङ्गमुच्यते” । याज्ञवल्क्यः
“सर्वमन्नमुपादाय सतिलं दक्षिणामुखः । उच्छिष्ट
सन्निधौ पिण्डान् दद्याद्वै पितृयज्ञवत्” । केचित्तु पिण्डेषु
माषान् वर्जयन्ति “माषाः श्राद्धेषु वै ग्राह्या वज्यांश्चैवा-
ग्निपिण्डयोः । व्राह्मणेषु यथा मद्यं तथा माषोऽग्नि
पिण्डयोः” इति । स्मृतिसारात् “माषान् सर्वत्र वै दद्यात्
पिण्डेऽग्नौ च विवर्जयेत्” इति स्मृतेश्च । अथ पिण्डप्र-
माणभेदः हेमाद्रावङ्गिराः “कपित्थविल्वमात्रान् वा
पिण्डान् दद्याद् विधानतः । कुक्कुटाण्डप्रमाणान्
वामलकैर्बदरैः पुमान्” इति । तत्रैव धूम्रः “कपित्थस्य प्रमा-
णेन पिण्डान् दद्यात् समाहितः । तत्समं विकिरं
दद्यात् पिण्डान्ते तु षडङ्गुलैः” । अन्त्येष्टिपद्धतौ
भट्टास्तु “एकोद्दिष्ट सपिण्डे तु कपित्थन्तु विधीयते ।
नारिकेलप्रमाणन्तु प्रत्यव्द मासिके तथा । तीर्थे दर्शे
पृष्ठ ४३२९
च सप्राप्ते कुक्कुटाण्डप्रमाणतः । महालये गयाश्राद्धे
कुर्य्यादामलकोपमम्” इत्याहुः कलिकायामाचार्य्यः
“यत्र स्युर्वहवः पिण्डास्तत्र विल्वफलोपमाः । यत्र
चैको भवेत् पिण्डस्तत्र लाङ्गलिसन्निभः” । प्रेतपिण्डस्तु
दैर्घ्येण द्वादशाङ्गुल उच्यते” इति । वायवीये “पत्नी
पिण्डांस्तु मृद्गीयात् त्रिवर्गस्य सहायिनी” । हेमाद्रौ
लौगाक्षिः “महालये गयायां च प्रेतश्राद्धे दशाहिके ।
पिण्डशब्दप्रयोगः स्यादन्नमन्यत्र कीर्त्तयेत्” नि० सि०
पिण्डदानद्रव्यभेदाः आग्नेये उक्ता यथा “पायसेनाज्य
युक्तेन सक्तुना चरुणा तथा । पिण्डदानं तण्डुलैश्च
गोधूमैस्तिलमिश्रितैः” इति । देवीपुराणे च “सक्तुभिः
पिण्डदानञ्च संयावैः पायसेन च । कर्त्तव्यमृषिभिः
प्रोक्तं पिण्याकेन गुड़ेन वा” अथ प्रेतपिण्डसंख्या
यद्यपि हेमाद्रौ पारस्करेण
“ब्राह्मणे दश पिण्डास्तु क्षत्रिये द्वादश स्मृताः । वैश्ये
पञ्चदश प्रोक्ताः शूद्रे त्रिंशत् प्रकीर्त्तिता” इत्युक्तं तथापि
“प्रेतेभ्यः सर्ववर्णेभ्यः पिण्डान् दद्याद्दशैव तु” इति ।
तेनैवोक्तेः सर्वेषां दशैव ज्ञेयाः । भदरत्नेऽप्येवम् तथा च
हेमाद्रौ ब्राह्मपाद्मयोः “जात्युक्ताशौचतुल्यांस्तु वर्णानां
क्वचिदेव हि । देशधर्मान् पुरस्कृत्य प्रेतपिण्डान्
वपन्त्यपि” इत्युक्त्वा विप्राद्येषु दशमपिण्डोत्कर्षः उक्तः
“देयस्तु दशमः पिण्डो राज्ञां बै द्वादशेऽहनि । वैश्यानां
वै पञ्चदशे देयस्तु दशमस्तथा । शूद्रस्य दशमः पिण्डो
मासे पूर्णेऽह्नि दीयते” । प्रेतपिण्डदानस्थानम् “असं-
स्कृतानां भूमौ पिण्डं दद्यात् संस्कृतानां कुशेषु” इति
पाचेतसोक्तम् मिताक्षरायां “स्मृत्यन्तरे भूमौ माल्यं
पिण्डं पानीयमुपले वा दद्युः” पिण्डं प्रेतपिण्डम् ।
शुनःपुच्छः “फलमूलैश्च पयसा शाकेन च गुड़ेन च ।
तिलमिश्रन्तु दर्भेषु पिण्डं दक्षिणती हरेत् । तूष्णीं
प्रसेकं पुष्पं च धूपं दीपं तथैव च । शालिनासक्तुभि-
र्वापि शाकैर्वाप्यथ निर्वपेत् । प्रथमे नियतं द्रव्यं तदेव
स्याद्दशाहिकम्” । पिण्डशब्दस्य देहतदैकदेशपरता तु
असपिण्डशब्दे उक्ता । दायभागमते तु निर्वाप्यषिण्डप-
रतेति । भावे अच् । २० संघाते पिण्डारकशब्दे दृश्यम्

पिण्डक पु० पिण्ड इव कायति कै--क । १ पिण्डालौ स्वार्थे

क । २ सिह्लकगन्धद्रव्ये ३ वोले ४ पिण्डमूले मूलभेदे
राजनि० ।

पिण्डकन्द पु० पिण्डाकारः कन्दः । पिण्डालो राजनि० ।

पिण्डखर्जूर पु० पिण्डाख्यः खर्जूरः । स्वनामख्याते वृक्षे

(छोहारा) प्रसिद्धे २ खर्जूरे स्त्री ङीप् । अथ पिण्डख-
र्ज्रीभेदः “सुनेपाली तु मृदुला बलिहीनकफला च
सा । सुनेपाली श्रमभ्रान्तिदाहमूर्च्छास्रपित्तनुत्” भावप्र० ।
“पिण्डखर्जूरिका त्वन्या सा देशे पश्चिमे भवेत् । खर्जूरी
गोस्तनाकारा पराद्द्वीपादिहागता । जायते पश्चिमे
देशे सा च्छोहारेति कीर्त्त्यते । खर्जूरीत्रितयं शीतं
मधुरं रसपाकयोः । स्निग्धं रुचिकरं हृद्यं क्षतक्षयहरं
गुरु । तर्पणं रक्तपित्तव्नं पुष्टिविष्टम्भि शुक्रदम् । कोष्ठ-
मारुतकृद्बल्यं बाह्यवातकफापहम् । ज्वराभिघातक्षुत्-
तृष्णाकासश्वासनिवारकम् । मदमूर्च्छामरुत्पित्तमद्यो-
द्भूतगदान्तकृत् । महतीभ्यां गुणैरल्पं स्वल्पखर्जूरिका
स्मृता । खर्जूरी तरुतोयन्तु मदपित्तकरं भवेत् ।
वातश्लेष्महरं रुच्यं दीपनं बलशुक्रकृत्” ।

पिण्डगोस पु० गां जलं सनोति सन--ड पिण्डः संहतो

गोसः । गन्धरसे रमानाथः ।

पिण्डतर्कुक पु० पिण्डं तर्कयति तर्क--बा० उक । पिण्ड-

लेपभागिषु वृद्धप्रपितामहादिषु त्रिषु “प्रपितामहाः
दक्षिणतः पृष्ठतः पिण्डतर्कुकाः” गृह्यसाम० ।

पिण्डतैलक पु० पिण्डं संहतं तैलं यस्य कप् । तुरस्क

गन्धद्रव्ये राजनि० ।

पिण्डद पु० पिण्डं ददाति दा--क । श्राद्धे पिण्डदातरि

पुत्रादौ “पिण्डदोऽंशहरश्चैव पूर्वाभावे परः परः” याज्ञ०
तृच् पिण्डदातृ तत्रार्थे “उभयोरप्यसौ रिक्थी पिण्ड-
दाता च धर्मतः” मनुः ।

पिण्डपद न० पिण्डस्य संहतस्य पदम् । १ अङ्कभेदे ज्यो० ति०

गृहशब्दे दृश्यम् । २ पिण्डस्थाने च ।

पिण्डपाद पुंस्त्री० पिण्ड इव पादोऽस्य । गजे त्रिका० ।

स्त्रियां जातित्वात् ङीष् ।

पिण्डपितृयज्ञ पु० पिण्डैः पितॄणां यज्ञः । साग्निकगृहस्थ-

कर्त्तव्ये पित्र्युद्देश्यके पिण्डदानात्मके यज्ञभेदे आश्व० श्रौ०
२ ६ सूत्रादौ कात्या० श्रौ० ४ । १ । १ सूत्रादौ च दृश्यम् ।
तत्कालश्च “अपराह्णे पिण्डपितृयज्ञश्चन्दादर्शनेऽमा-
वास्यायाम्” तत्रत्यं प्रथमसूत्रम् ।

पिण्डपुष्प न० पिण्डं संहतं पुष्पम् । १ अशोकपुष्पे २

जवापुष्पे ३ पद्मपुष्पे ४ तगरपुष्पे च रेदि० शब्दच० ।

पिण्डपुष्पक पु० पिण्डेन संहतेन पुष्पेण कायति कै--क ।

वास्तूकशाके शब्दमाला ।
पृष्ठ ४३३०

पिण्डफला स्त्री पिण्डमिव फलं यस्याः । कटुतुम्ब्याम् जटा०

पिण्डमुस्ता स्त्री पिण्डा संहता मुस्ता । नागरमुस्तायाम्

राजनि० ।

पिण्डमूल न० पिण्डमिव मूलमस्य । गर्जरे (गाँजर) राजनि०

पिण्डयज्ञ पु० पिण्डेन यज्ञः । पिण्डदानरूपे यज्ञरूपे श्राद्धे

याज्ञ० ३ । १६ पिण्डपितृयज्ञे च ।

पिण्डल पिडि--बा० कलच् । सेतौ हारा० ।

पिण्डलेप पु० पिण्डस्य लेपः करसंलग्नांशभेदः ।

करसंस्थे पिण्डांशभेदे तद्भागिनश्च वृद्धप्रपितामहादयः त्रयः
यथाह “लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः”
मनुवाक्यम् “लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभा-
गिनः । पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम्”
कुल्लू० धृत मात्स्यवचनम् ।

पिण्डस पु० पिण्डं सनति यस्मै सन--सम्भक्तौ सम्प्रदाने

बा० ड । परपिण्डोपजीविनि भिक्षोपजीविनि शब्दर०

पिण्डसम्बन्ध पु० पिण्डेन देहेन देयपिण्डेनवा सम्बन्धः ।

देहेन सह जन्यजनकतारूपे १ सम्बन्धे मिता० देयपि-
ण्डस्य २ दातृत्वभोक्तृत्वान्यतरसम्बन्धे च दायभागादयः ।

पिण्डसेक्तृ पु० सर्पभेदे भा० अ० ५७ अ० ।

पिण्डा स्त्री पिण्डि--अच् । २ पिण्डायसे २ कस्तूरीभेदे च

राजनि० । ३ वंशपत्र्यां भावप्र० ।

पिण्डात पु० पिण्ड इवातति अत--मातत्ये अच् । पिण्डं

संहननं वा अतति + अत--गतौ अच् । सिह्लके पु० ।

पिण्डान्वाहार्य्यक न० पिण्डानां पिण्डपितृयज्ञानां

पश्चादाह्रियते अनु + आ + हृ--ण्यत् स्वार्थे क । पार्वणश्राद्धे
“पिण्डान्वाहर्य्यकं श्राद्धं कुर्य्यान्मासानुमासिकम्” मनुः ।

पिण्डाभ पु० पिण्डः संघात इवाभाति आ + भा क ।

सिह्लके रत्नमालायां पाठान्तरम् ।

पिण्डाभ्र न० अभ्रस्येदम् अण् आभ्रं पिण्डमिव घनमा-

भ्रम् । मेघजातकरकायाम् शब्दच० ।

पिण्डायस न० पिण्डं संहतमयः अच् समा० । तीक्ष्णायसे राजनि० ।

पिण्डार पु० पिण्डं संघातमृच्छति ऋ--अण् । १ विकङ्कत

वृक्षे राजनि० २ क्षपणके ३ गोपे ४ महिषीरक्षके ४ द्रुम-
भेदे मेदि० ६ शाकभेदे न० “पिण्डारं शीतलं बल्यं
पित्तनाशि रुचिप्रदम् । पाके लघु विशेषेण विषशान्ति
करं मतम्” भावप्र० । ७ सर्पभेदे पु० भा० उ० १०२ अ०
स्वार्थे क पिण्डारक तत्रार्थे ८ नागभेदे भा० आ० ३६ अ० ।
९ वलरामानुजभेदे पु० हरिवं० ३६ अ० १० तीर्थभेदे न०
“पिण्डारके नरः स्नात्वा लभेद्बहु सुवर्णकम्” भा०
व० ८२ अ० ।

पिण्डालु पु० पिण्डाकार आलुः । (गोलआलु) राजनि० ।

१ कन्दभेदे २ कन्दगुडूच्याञ्च स्वार्थे क अत्रैव । “पिण्डा-
लुर्मधुरः शीतः मूत्रकृच्छ्रविनाशनः । दाहशोषप्रमेहघ्नो
वृष्यः सन्तर्पणो गुरुः” राजनि० संज्ञायां कन् । (चुवडि
आलु) आलुभेदे न० “पिण्डालुकं कफहरं गुरु वात
प्रकोपकृत्” राजवल्लभः ।

पिण्डाह्वा स्त्री पिण्डां कस्तुरीभेदमाह्वयते स्पर्दते गन्धेन

आ + ह्वे--क । नाडीहिङ्गुनि राजनि० ।

पिण्डि(ण्डी) स्त्री पिडि--इन् वा ङीप् स्वार्थे क वा ।

सर्वकाष्ठासञ्जनाधारे रथचक्रमध्ये स्थाने १ रथनाभौ
अमरः । २ पीठे जानुनोऽधःस्थे ३ मांसलप्रदेशे च हेमच०
४ श्वेताम्लौ राजनि० ५ देवादेः पीठिकाभेदे तल्लक्षणादि
मत्स्यपु० २५२ अ० उक्तं यथा
“पिण्डिकालक्षणं वक्ष्ये यथावदनुपूर्वशः । पीठोच्छ्रायं
यथावच्च भागान् षोडश कारयेत् । भूमावेकः प्रविष्टः
स्याच्चतुर्भर्जगती मता । वृत्तोभागस्तथैकः स्थात् वृत्त
पट्टस्य भागतः । भागैस्त्रिभिस्तथा कण्ठः कण्ठपट्टस्त्रिभा-
गतः । भागाभ्यामूर्द्ध्वपट्टश्च शेषभागेन पट्टिका । प्रविष्टं
भागमेकैकं जगती यावदेव तु । निर्गमस्तु पुनस्तस्य
यावद्वै शेषपट्टिका । वारिनिर्गमणार्थन्तु तत्र कार्या प्रणा-
लिका । पीठिकानान्तु सर्वासामेतत्सामान्यलक्षणम् ।
विशेषान् देवताभेदान् शृणुध्वं द्विजसत्तमाः! । स्थण्डिला
वाथ वापी वा यक्षी देवी च मण्डला । पूर्णचन्द्रा च वज्री
च पद्मा वार्धशशी तथा । त्रिकोणा दशमी तासां
सस्थानं वा निबोधत । स्थण्डिला १ चतुरस्रा तु वर्जिता
मेखलादिभिः । वापी २ द्विमेखला ज्ञेया यक्षी ३ चैव त्रिमे-
खला । चतुरस्रायता वेदी ४ न तां लिङ्गेषु योजयेत् ।
मण्डला ५ वर्तुला या तु मेखलाभिर्गणप्रिया । रक्ता द्विम-
ला मध्ये पूर्णचन्द्रा ६ तु मा भवेत् । मेखलात्रयसंयुक्ता
षडस्रा वज्रिका ७ भवेत् । षोडशास्रा भवेत्पद्मा । ८ किञ्चि-
द्ध्रस्वा तु मूलतः । तथैव धनुराकारा सार्द्धचन्द्रा ९ प्रश-
स्यते । त्रिशूलसदृशी १० तद्वत् प्रशस्तलक्षणान्विता । परिवेषं
त्रिभागेण निर्गमं तत्र कारयेत् । विस्तारं तत्प्रमाणञ्च
भूले चाग्रे ततोऽर्द्धतः । जलमार्गश्च कर्त्तव्यस्त्रिभागेण
सुशोभनः । लिङ्गस्यार्द्धत्रिभागेण स्थौल्येर समधिष्ठिता ।
मेखला तत्त्रिभागेण खातश्चैव प्रमाणत । अथ वा
पृष्ठ ४३३१
पादहीनन्तु शोभनं कारयेत्सदा । उत्तरस्थं प्रणालञ्च
प्रमाणादधिकारयेत् । स्थण्डिलायामथारोग्यं घनं
धान्यञ्च पुष्कलम् । गीप्रदा च भवेद्यक्षी वेदी सम्पत्-
प्रदा भयेत् । मण्डलायां भवेत्कीर्त्तिर्वरदा पूर्णचन्द्रिका ।
आयुःप्रदा भवेद्वज्री पद्मा सौभाग्यदा भवेत् । पुत्रप्रदार्द्ध-
चन्द्रा स्यात्त्रिकोणा शत्रुनाशिनी । देवस्य यजनार्थन्तु
पीठिका दश कीर्त्तिताः । शैले शैलमयीं दद्यात् पार्थिवे
पार्थिवीं तथा । दारुजे दारुजां कुर्य्यात् मिश्रे मिश्रां
तथैव च । नान्ययोंनिस्तु कर्तव्या सदा शुभफलेप्सुभिः ।
अर्च्चायामसमन्दैर्घ्यं लिङ्गायामसमन्तथा । यस्य देवस्य
या पत्नी तां पीठे परिकल्पयेत् । एतत्सर्वं समाख्यातं
समासात् पीठलक्षणम्” ।

पिण्डित त्रि० पिडि--क्त । १ संहते २ गणिते मेदि० ३ गुणिते

४ तुरस्के पु० राजनि० ।

पिण्डिल पु० पिण्ड + अस्त्यर्थे--इलच् । सेतौ शब्दच० । २ गणके त्रि० उणादि० ।

पिण्डी स्त्री पिड़ि--इन् ङीप् । १ पिण्डीतगरे २ अलाबुल-

तायां ३ खर्जूरभेदे (छोहारा) मेदि० ४ तत्त्वज्ञानार्थोप-
देशे धरणिः ।

पिण्डीजङ्घ पु० ऋषिभेदे । तस्य गोत्रापत्यम् इञ् । पैण्डीज-

ङ्घि तदपत्ये बहुत्वे तु अस्त्रियां यस्का० तस्य लुक् ।

पिण्डीतक पु० पिण्डीं स्वल्पपिण्डं फलपुष्पद्वारा तकति

अनुकरोति तक--हासे अच् । १ मदनवृक्षे २ तगरे च
अमरः ३ फणिज्झके विश्वः ।

पिण्डीतगर पु० पिण्ड्या स्वल्पपिण्डेनोपलक्षितस्तगरः ।

तगरवृक्षे त्रिका० ।

पिण्डीपुष्प पु० पिण्ड्या उपलक्षितं पुष्पमस्य । संहतस्तवकपुष्पे अशोकवृक्षे राजनि० ।

पिण्डीर पु० पिण्डं पिण्डाकारं फलमीरयति ईर--अण् ।

१ दाड़िमवृक्षे त्रिका० २ नीरमे हारा० । ३ हिण्डीरे रायमु०

पिण्डीशूर पु० पिण्ड्यां भोजने एव नान्यत्र शूरः । गेहे-

नर्द्दिनि युद्धादावसमर्थे हेमच० । भट्टिः ५ । ८७ उदा०

पिण्या स्त्री पण्यते स्तूयते रोगहन्तृत्वेन यत् पृषो० इत्त्वम्

ज्योतिष्मतीलतायाम् अमरः ।

पिण्याक पु० न० पण--व्यवहारे आकन् नि० । १ तिलफाल्के

२ हिङ्गुनि ३ वाह्नीके च । ४ सिह्लके पुंस्त्री० मेदि० ।
स्त्रीत्वे ङीप् तस्त व्रतार्थभक्षणे न दोषः मनुः ११ । ९२
अन्यत्र दोषो यथा “पिण्याकं भक्षयित्वा तु यो वै
मामुपसर्पति । तस्य वै शृणु मुश्रोणि! प्रायश्चित्तं
मुशोभनम् । उलूको दश वर्षाणि कच्छ्रपस्तु समात्रयम् ।
जायते मानवस्तत्र मम कर्मपारायणः” वराहपु० ।

पितरिशूर पु० पात्रेसमिता० अलुक्स० । पिर्तृविषये-

एव शूरे नान्यत्रेति । क्षेपेऽस्य प्रयोगः ।

पितापुत्र पु० द्वि० व० द्वन्द्वे पूर्वपदे आनङ् । पितरि पुत्रे च

पितामह पु० पितुः पिता पितृ + डामह । पितुः पितरि

पितृपित्रादयोऽप्यत्र । तत्पत्न्यां स्त्री० ङीप् अमरः ।

पितु पु० पा--रक्षणे तुन् पृषो० । अन्ने निघण्टुः । पातेवां

पिबतेः पायतेर्वा” निरु० ९ । २४ । ऋ० १० । ७६ । ५ उदा० ।

पितुःपुत्र पु० ६ त० अलुक्स० । विख्यातात् (वापेर मत वेटा)

पितुरुत्पन्ने पुत्रे क्षेपे तु वा अलुक्स० ।

पितुःस्व(ष्व)सृ स्त्री ६ त० अलुक्स० वा षत्वम् । पितृभगिन्यां

तस्या अपत्यं छ । पितुःस्व(ष्व)स्त्रीय तदपत्ये पुंस्त्री० ।

पितृ पु० पाति रक्षति पा--तृच् नि० । १ जनके । मात्रा स०

होक्तौ पितृशेषः द्वि० व० । मात्रापित्रोः अमरः । पञ्च-
पितृशब्दे ४१८८ पृ० दृश्यम् । पितरः श्राद्ध्वदेवता इत्युक्तेः
श्राद्धोद्देश्ये २ प्राप्तपितृलोकके । पितृलोकः पितृयाणम्

पितृक त्रि० पैतृक + पृषो० । १ पितुरागते शब्दमा० । पितृदत्त

एव ठच् वा दत्तलोपः । २ पितृदत्ते च ।

पितृकर्मन् न० पितॄनुद्दिश्य कर्म । श्राद्धादौ मनुः ३ । २५२

श्लो० । पितृकार्य्यादयोऽप्यत्र ।

पितृकल्प पु० पितॄनुद्दिश्य कल्पो विधानम् । पितॄणाम्

श्राद्धादिकर्मणि । हरिवं० १७ अ० उक्ते पितॄणामु-
त्पत्त्यादिज्ञापके २ ग्रन्थभेदे च हरिवं० २३ अ० । ईषदूने
कल्पप् । ३ पितृतुल्ये च

पितृकानन न० ७ त० । श्मशाने जटा० ।

पितृकुल्या स्त्री पितृकृता कुल्या । तीर्थभेदे भा० व० ५७ अ० ।

पितृगण पु० ६ त० । अग्निष्वात्तादिषु “मनोर्हैरण्यगर्भस्य

ये मरीच्यादयः सुताः । तेषामृषीणां सर्वेषां पुत्राः
पितृगणाः स्मृताः । विराट्सुताः सोमसदः साध्यानां
पितरः स्मृताः । अग्निष्वात्ताश्च देवानां मारीच्या लोक
विश्रुताः । दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
सुपर्णानां नराणाञ्च स्मृता बर्हिषदोऽत्रिजाः । सोमपा
नाम विप्राणां क्षत्त्रियाणां हविर्भुजः । वैश्यानामा-
ज्यपा नाम शूद्राणान्तु सुकालिनः । सोमपास्तु कवेः पुत्रा
हविष्मन्तोऽङ्गिरःसुताः । पुलस्त्यस्याज्यपाः पुत्रा
वशिष्ठस्य सुकालिनः । अग्निदद्घानग्निदग्धान् काव्यान्
वर्हिषदस्तथा । अग्निष्वात्तांश्च सौम्याश्च विप्राणामेव
निर्दिशेत् । य एते तु गणा मुख्याः पितृणां परिकी-
र्त्तिताः । तेषामपीह विज्ञेयं पुत्रपौत्रमनन्तकम्” । एते
च दिव्यपितरः ।
पृष्ठ ४३३२

पितृगाथा स्त्री पितृभिः पठिता गाथा । पितृभिः पठिते

श्लोकसमुदाये मार्क० पु० ३२ अ० यथा
“पितृगाथास्तथैवात्र गीयन्ते व्रह्मवादिभिः । या गीताः
पितृभिः पूर्वमैलस्यासीन्महीपतेः । कदा नः सन्तता-
वग्र्यः कस्यचिद्भविता सुतः । यो योगिभुक्तशेषान्नो
भुवि पिण्डं प्रदास्यति । गयायामथं वा पिण्डं खड्ग-
मांसं महाहविः । कालशाकं तिलाढ्यं वा कृसरं
मासतृप्तये । वैश्वदेवञ्च सौम्यञ्च खड्गमांसं परं हविः ।
विषाणवर्जं स्वर्गत्वा आसूर्यञ्चाश्नुवामहे ।
दद्यात् श्राद्धं त्रयोदश्यां मघासु च यथाविधि ।
मधुसर्पिः समायुक्तं पायसं दक्षिणायने” । अन्या अपि
पितृगाथा शास्त्रान्तरे दृश्याः ।

पितृगृह न० ६ त० । श्मशाने हेमच० ।

पितृग्रह पु० स्कन्दानुचरे ग्रहभेदे ग्रहशब्दे २७४५ पृ०

सुश्रुतवाक्ये १७७६ भारतवाक्ये च दृश्यम् ।

पितृतर्पण न० ६ त० । १ पितॄणां जलदानरूपे तृप्तिजनन-

व्यापारभेदे । करणे ल्युट् । २ पितृतीर्थे शब्दच० ३ तिले
राजनि० ।

पितृतिथि पुंस्त्री० पितृप्रिया तिथिः । अमाबास्यायाम् ।

पितृतीर्थ न० पितृप्रियं तीर्थम् शा० त० । “अन्तराङ्गुष्ठदेशिन्योः

पितॄणां तीर्थमुत्तमम्” कूर्मपु० उक्ते १ तर्जन्यङ्गुष्ठमध्य-
स्थाने अमरः । २ गयादौ तीर्थे च यथोक्तं मत्स्यपु० २२ अ०
“पितृतीर्थं गया१ नाम सर्वतीर्थवरं शुभम् । यत्रास्ते
देवदेवेशः स्वयमेव पितामहः । तत्रैषा पितृभिर्गीता
गाथा भागमभीप्सुभिः । एष्टव्या बहवः पुत्रा यद्येकोऽपि
गयां व्रजेत् । यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ।
तथा वाराणसी २ पुण्या पितॄणां वल्लभा सदा । यत्रावि-
मुक्तसान्निध्यं भुक्तिमुक्तिफलप्रदम् । पितॄणां वल्लभं तद्वत्
पुण्यञ्च विमलेश्वरम् ३ । पितृतीर्थं प्रयाग ४ न्तु सर्वकामफ-
लप्रदम् । वटेश्वर ४ स्तु भगवान् माधवेन समन्वितः । योग
विद्राशयस्तद्वत् सदा वसति केशवः । दशाश्वमेधिकं ६ पुण्यं
गङ्गाद्वारं ७ तथैव च । नन्दा ८ थ ललिता ९ तद्वत्तीर्थं
मायापुरी १० शुभा । तथा मित्रपदं ११ नाम ततः केदा-
र१२ मुत्तमम् । गङ्गासागर १३ मित्याहुः सर्वतीर्थमयं
शुभम् । तीर्थं ब्रह्मसर १४ स्तद्वच्छतद्रुसलिले ह्रदे ।
तीर्थन्तु नैमिषं १५ नाम सर्वतीर्थफलव्रदम् । गङ्गोद्भेद १६ स्त
गोमत्यां यत्रोद्भूतः सनातनः । तथा यज्ञवराह १७ स्तु
देवदेवश्च शूलभृत् । यत्र तत्काञ्चनं द्वारमष्टादशभुजो
हरः । नेमिंस्तु हरिचक्रस्य शीर्णा यत्राभवत्पुरा ।
तदेतन्नैमिषारण्यं १८ सर्वतीर्थनिषेवितम् । देवदेवस्य
तत्रापि वाराहस्य तु दर्शनम् । यः प्रयाति स पूतात्मा
नारायणपदं व्रजेत् । कृतशौचं महा पुण्यं सर्वपाप-
निषूदनम् । तत्रास्ते नारसिंहस्तु स्वयमेव जनार्द्दनः ।
तीर्थमिक्षुमती १९ नाम पितॄणां वल्लभं सदा । सङ्गमे
यत्र तिष्ठन्ति गङ्गायाः पितरः सदा । कुरूक्षेत्रं २०
महापुण्यं सर्वतीर्थसमन्वितम् । तथा च सरयूः २१
पुण्या सर्वदेवनमस्कृता । इरावती २२ नदी तद्वत् पितृ-
तीर्थाधिवासिनी । यमुना २३ देविका २४ काली २५
चन्द्रभागा २६ दृषद्वती २७ । नदी वेणुमती २८ पुण्या परा
वेत्रवती २९ तथा । पितॄणां वल्लभा ह्येताः श्राद्धे
कोटीगुणा मताः । जम्बूमार्गं ३० महापुण्यं यत्र
मार्गो हि लक्ष्यते । अद्यापि पितृतीर्थं तत्सर्वकामफ-
लप्रदम् । नीलकुण्डमिति ३१ ख्यातं पितृतीर्थं द्विजो-
त्तमाः! । तथा रुद्रसरः ३२ पुण्यं सरोमानस ३३ मेव
च । मन्दाकिनी ३४ तथाऽच्छोदा ३५ विपाशा ३६ थ
सरस्वती ३७ । पूर्वमित्रपदं ३८ तद्वद्वैद्यनाथं ३९ महाफ-
लम् । शिप्रा ४० नदी महाकाल ४१ स्तथाकालञ्जरं ४२
शुभम् । वंशोद्भेदं ४३ हरोद्भेदं ४४ गङ्गोद्भेदं ४५
महाफलम् । भद्रेश्वरं ४६ विष्णुपदं ४७ नर्मदाद्वार ४८ मेव
च । गयापिण्डप्रदानेन समान्याहुर्महर्षयः । एतानि
पितृतीर्थानि सर्वपापहराणि च । स्मरणादपि लोकानां
किमु श्राद्धकृतां नृणाम् । ओङ्कारं ४९ पितृतीर्थञ्च
कावेरी ५० कपिलीदकम् ५१ । सम्भेद ५२ श्चण्डवेगायास्त-
थैवामरकण्टकम् ५३ । कुरुक्षेत्राच्छतगुणं तस्मिन् स्ना-
नादिकं भवेत् । शुक्रतीर्थ ५४ ञ्च विख्यातं तीर्थं सीमे-
श्वरं ५५ परम् । सर्वव्याधिहरं पुण्यं शतकोटिफला-
धिकम् । श्राद्धे दाने तथा होमे स्वाध्याये
जलसन्निधौ । कायावरोहणं ५६ नाम तथा चर्मण्वती ५७
नदी । गोमती ५८ वरुणा ५९ तत्तद्वत्तीर्थमौशनस ६०
म्परम् । भैरवं ६१ भृगुतुङ्ग ६२ ञ्च गौरीतीर्थ ६३ मनुत्तमम् ।
तीर्थं वैनायकं ६४ नाम भद्रेश्वर ६५ मतःपरम् । तथा
पापहरं ६६ नाम पुण्याथ तपती ६७ नदी । मूलता-
पी ६८ पयोष्णी ६९ च पयोष्णीसङ्गम ७० स्तथा ।
महाबोधिः ७१ पाटला ७२ च नागतीर्थ ७३ मवन्तिका ७४ ।
पृष्ठ ४३३३
तथा वेणा ७५ नदी पुण्या महाशालं ७६ तथैव च ।
महारुद्र ७७ महालिङ्गं दशार्णा ७८ च नदी शुभा ।
शतरुद्रा ७९ शताह्वा ८० च तथा विश्वपदं ८१ परम् ।
अङ्गारवाहिका ८२ तद्वन्नदौ च शोण ८३ वर्घरौ ८४ ।
कालिका ८५ च नदी पुण्या वितस्ताऽ ८६ तो नदी तथा ।
एतानि पितृतीर्थानि शस्यन्ते स्नानदानयोः । श्राद्धमे-
तेषु यद्दत्तन्तदनन्तफलं स्मृतम् । द्रोणी ८७ वाटनदीं ८८
धारा ८९ सरित् क्षीरनदी ९० तथा । गोकर्णं ९१
गजकर्ण ९२ ञ्च तथा च पुरुषोत्तमः ९३ । द्वारका ९४ कृष्णती-
र्थञ्च ९५ तथार्बुदसरस्वती ९६ । नदी मणिमती ९७ नाम
तथा च गिरिकर्ण्णिका ९८ धूतपापं ९९ तथा तीर्थ
समुद्रो १०० दक्षिणस्तथा । एतेषु पितृतीर्थेषु श्राद्धमा-
नन्त्यमश्नुते । तीर्थं मेघकरं १०१ नाम स्वयमेव
जनार्दनः । यत्र शार्ङ्गधरो विष्णुर्मेखलायाभवस्थितः ।
तथा मन्दोदरीतीर्थं १०२ तीर्थं चम्पा १०३ नदी शुभा ।
तथा मामलनाथ १०४ श्च महाशालनदी १०५ तथा ।
चक्रवाकं १०६ चर्मकोटं १०७ तथा जन्मेश्वरं १०८ महत् ।
अर्जुनं १०९ त्रिपुरं ११० चैव सिद्धेश्वर १११ मतःपरम् ।
श्रीशैलं ११२ शाङ्करं ११३ तीर्थं नारसिंह ११४ मतःपरम् ।
महेन्द्र ११५ ञ्च तथा पुण्यमथ श्रीरङ्गसंज्ञितम् ११६ ।
एतेष्वपि सदा श्राद्धमनन्तफलदं स्मृतम् । दर्शनादपि
चैतानि सद्यः पापहराणि वै । तुङ्गभद्रा ११७ नदी
पुण्या तथा भीमरथी ११८ सरित् । भीमेश्वरं ११९ कृष्ण
वेणा १२० कावेरी १२१ कुड्मला १२२ नदी । नदी
गोदावरी १२३ नाम त्रिसन्ध्यातीर्थ १२४ मुत्तमम् । तीर्थं
त्रैयम्बकं १२५ नाम सर्वतीर्थनमस्कृतम् । यत्रास्ते
भगवानीशः स्वयमेव त्रिलोचनः । श्राद्धमेतेषु सर्वेषु
कोटिकोटिगुणं भवेत् । स्मरणादपि पापानि नश्यन्ति
शतधा द्विजाः! । श्रीपर्णी १२६ ताम्रपर्णी १२७ च
जयाबीर्थ १२८ मनुत्तमम् । तथा मत्स्यनदी १२९ पुण्या
शिवधारं १३० तथैव च । भद्रतीर्थ १३१ ञ्च विख्यातं
पम्पातीर्थ १३२ ञ्च शाश्वतम् । पुण्यं रामेश्वरं १३३ तद्व-
देलापुर १३४ मलम्पुर १३५ म् । अङ्गभूत १३६ ञ्च विख्या-
तमानन्दकमलं पुरम् १३७ । आम्रातकेश्वरं १३८ तद्वदे-
काम्रक १३९ मतःपरम् । गोवर्धनं १४० । हरिश्चन्द्रं १४१ कृपु-
चन्द्रं १४२ पृथूदकम् १४३ । सहस्राक्षं १४४ हिरण्या-
क्ष १४५ तथा च कदली १४६ नदी । रामाधिवास १४७
स्तत्रापि तथा सौमित्रिसङ्गमः १४८ । इन्द्रकीलं १४९ महा-
नाद १५० न्तथा च प्रियमेलकम् १५१ । एतान्यपि सदा
श्राद्धे प्रशस्तान्यधिकानि तु । “एतेषु सर्वदेतानां
सान्निध्यं दृश्यते यतः । दानमेतेषु सर्वेषु दत्तं कोटिशता-
धिकम् । बाहुदा १५२ च नदी पुण्या तथा सिद्ध-
वनं १५३ शुभम् । तीर्थं पाशुपतं १५४ नाम नदी
पार्वतिका १५५ शुभा । श्राद्धमेतेषु सर्वेषु दत्तं कोटिश-
तोत्तरम् । तथैव पितृतीर्थन्तु यत्र गोदावरी नदी ।
युता सिङ्गसहस्रेण सर्वान्तरजलावहा १५६ । जामद-
ग्म्यस्य तत्तीर्थं १५७ क्रमादायातमुत्तमम् । प्रतीकस्य
भयाद्भिन्ना यत्र गोदावरी नदी । तत्तीर्थं हव्यकव्यानामप्-
सरोयुगसंज्ञितम् १५८ । श्राद्धाग्निकार्य्यदानेषु तथा
कोटिशताधिकम् । तथा सहस्रलिङ्ग १५९ ञ्च राघवेश्वर १६०
मुत्तमम् । सेन्द्रफेना १६१ नदी पुण्या यत्रेन्द्रः पतितः
पुरा । निहत्य नमुचिं शक्रस्तपसा स्वर्गमाप्तवान् ।
तत्र दत्तं नरैः श्राद्धमनन्तफलदं भवेत् । तीर्थन्तु
पुष्करं १६२ नाम शालग्रामं १६३ तथैव च । सोमपा-
न १६४ ञ्च विख्यातं यत्र वैश्वानरालयः । तीर्थं
सारस्वतं १६५ नाम स्वामितीर्थं १६६ तथैव च ।
मलन्दरा १६७ नदी पुण्या कौशिकी १६८ चन्द्रिका १६९
तथा । वैदर्भा १७० वाथ वैरा १७१ च पयोष्णी १७२
प्राङ्मुखा परा । कावेरी १७३ चोत्तरा पुण्या तथा
जालन्धरो १७३ गिरिः । एतेषु श्राद्धतीर्थेषु श्राद्धमान-
न्त्यमश्नुते । लोहदण्डं १७५ तथा तीर्थं चित्रकूट १७६
स्तथैव च । विन्ध्ययोग १६७ श्च गङ्गायास्तथा
नदीतटं १७८ शुभम् । कुब्जाभ्र १७९ न्तु तथा तीर्थं उर्व-
शीपुलिनं १८० तथा । संसारमोचनं १८१ तीर्थं तथैव
ऋणमोचनम् १८२ । एतेषु पितृतीर्थेषु श्राद्धमानन्त्यम-
श्नुते । अट्टहासं १८३ तथा तीर्थं गौतमेश्वर १८४ मेव
च । तथा वशिष्ठतीर्थ १८५ न्तु हारीतं १८६ तु ततःष-
रम् । ब्रह्मावर्तं १८७ कुशावर्त्तं १८८ हयतीर्थं १८९
तथैव च । पिण्डारकञ्च १९० विख्यातं शङ्खीद्धारं १९१
तथैव च । घण्टेश्वरं १९२ विल्वकञ्च १९३ नीलपर्वत १९४
मेव च । तथा च घरणीतीर्थं १९५ रामतीर्थं १९६
तथैव च । अश्वतीर्थ १९७ ञ्च विख्यातमनन्तं श्राद्धदा-
नयोः । तीर्थं वेदशिरो १९८ नाम तथैवौघवती १९९
नदी । तीर्थं वसुप्रदं २०० नाम छागलाण्डं २०१ तथैव
च । एतेषु श्राद्धदातारः प्रयान्ति परमं पदम् । तथा
च वदरीतीर्थं २०२ गणतीर्थं २०३ तथैव च । जयन्तं २०४
पृष्ठ ४३३४
विजय २०५ ञ्चैव शुक्रतीर्थं २०६ तथैव च । श्रीपतेश्च २०७
तथा तीर्थं तीर्थं रैवतकं २०८ तथा । तथैव शारदा-
तीर्थं २०९ भद्रकालेश्वरं २१० तथा । वैकुण्ठतीर्थ २११ ञ्च
परं मीमेश्वर २१२ मथापि वा । एतेषु श्राद्धदातारः
प्रयान्ति परमा गतिम् । तीर्थं मातृगृहं २१३ नाम
करवीरपुरं २१४ तथा । कुशेश्वर २१५ ञ्च विख्यातं गौरी-
शिखर २१६ मेव च । नकुलेशस्य २१७ तीर्थञ्च कर्दमालं
२१८ तथैव च । दण्डिपुण्यकरं २१९ तद्वत् पुण्डरीक-
पुरं २२० तथा । सप्तगोदावरीतीर्थं २२१ सर्वतीर्थेश्वरेश्व-
रम् २२२ । तत्र श्राद्धं प्रदातव्यमनन्तफलमीप्सुभिः” ।

पितृदान न० पित्रे दानम् । निवापे श्राद्धे अमरः स्वार्थे

क । पितृदानक तत्रार्थे न० शब्दच० ।

पितृदिन न० ६ त० । १ अमावास्यायाम् । पक्षद्वयात्मके २

तत्सम्बन्धिदिने च “मानेनानेन यो मासः पक्षद्वयसम-
न्वितः । पितॄणां तदहोरात्रमिति कालविदो विदुः ।
कृष्णपक्षस्त्वहृस्तेषां शुक्लपक्षस्तु शर्वरी । कृष्णपक्षे
त्वहः श्राद्धं पितृणां वर्त्तते नृप!” हरिवं० ७ अ० ।

पितृपक्ष पु० पितॄणां प्रियः पक्षः । गौणाश्विनकृष्णपक्षे

“नभा वाथ नभस्यो वा मलमासो यदा भवेत् । सप्तमः
पितृपक्षः स्यादन्यत्र तु च पञ्चमः” नागरख० । २ पितृ-
कुलजे च “पितृपक्षः प्रभुः स्त्रियाः” दायभागे नारदः
पार्वणादौ ३ पित्रादित्रिके च ।

पितृपति पु० ६ त० । यमे अमरः ।

पितृपितृ पु० ६ त० । पितामहे अमरः ।

पितृप्रसू स्त्री ६ त० । १ पितामह्याम् पितृणां प्रस्तूरिव ।

२ सन्ध्यायाम् अमरः । पितृकृत्ये सन्ध्यागामितिथेर्ग्राह्यत्वात्
तस्याः प्रसूवत् पालकत्वात् तथात्वम् ।

पितृप्रिय पु० ६ त० । मृङ्गराजे राजनि० ।

पितृबन्धु पु० ६ त० । “पितुः पितुःस्वसुः पुत्राः पितुर्सातुः

स्वसुःसुताः । पितुर्मातुलपुत्राश्च विज्ञेयाः पितृबन्धव”
इत्युक्तेषु पितुः पितृष्वसृपुत्रादिषु ।

पितृभोजन पु० पितृभिर्भुज्यते कर्मणि ल्युट् । १ माषे श्राद्धे

तद्दानस्य प्रशस्तत्वात् तथात्वम् । भावे ल्युट् ६ त० । २
पितृभक्षणे न० राजनि० ।

पितृमघ पु० कात्या० श्रौ० २१ । ३२१ सूत्रादिषुक्ते पित्र्युद्देशके

कर्ममेदे ।

पितृयज पु० पित्युद्देश्यको यज्ञः शा० त० ।

पञ्चमहायज्ञान्तर्गते पितृतर्पणे “पितृयज्ञस्तु तर्पणम्” मनुः ।

पितृयाण पु० पितरी यान्ति अनेन या--करणे ल्युट् संज्ञा-

त्वात् णत्वम् । पितॄणां चन्द्रलोकगमनमार्गे । तत्प्रापक-
कर्मरूपहेतुसहितः तद्यानप्रकारः छान्दो० ५ । ३ उक्तो यथा
“अथ य इमे ग्राम इष्टापूर्त्ते दत्तमित्युपासते ते
धूममभिसम्भवन्ति धूमाद्रात्रिं रात्रेरपरपक्षमपरपक्षाद्यान्
षड्दक्षिणैति मासांस्तान् नैते संवत्सरमभिप्राप्नुवन्ति ।
मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमस-
मेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति”
उप“य इमे गृहस्थाः । ग्राम इति गृहस्थानामसाधारणं
विशेषणमरण्यवासिभ्यो व्यावृत्त्यर्थम् । यथा वानप्रस्थ-
परिव्राजकानामरण्यं विशेषणं गृहस्थेभ्यो व्यावृत्त्यर्थ
तद्वत् । इष्टापूर्त्ते इष्टमग्निहोत्रादि वैदिकं कर्म । पूर्त्तं
वापीकूपतड़ागारामादिकरणम् । दत्तं च बहिर्वेदि
यथाशक्त्यर्हेभ्यो द्रव्यसम्भागो दत्तम् । इत्येवंविधं परिचर-
णपरित्राणाद्युपासते इतिशब्दस्य प्रकारदर्शनार्थत्वात् ।
ते दर्शनजितत्वाद्धूमं धूमाभिमानिनीं देवतामाभिमुख्येन
सम्भवन्ति प्रतिपद्यन्ते । तयाऽतिवाहिता धूमाद्रात्रिं
रात्रिदेवतां, रात्रेरपरपक्षदेवताम् एवमेव कृष्णपक्षाभिमा-
निनीमपरपक्षाद्यान् षण्मासान् दक्षिणा दक्षिणां
दिशमेति सविता । तान् माषान्, दक्षिणायन षण्मासा-
भिमानिनीर्देवताः प्रतिपद्यन्त इत्यर्थः । सङ्घचारिण्यो
हि षण्मासदेवता इति मासानिति बहुवचनप्रयोग-
स्तासु । नैते कर्मिणः पुण्यकृतः संवत्सरं संवत्सराभि-
मानिनीं देवतामभिप्राप्नुवन्ति । कुतः पुनः सवत्सरप्राप्ति-
प्रसङ्गो यतः प्रतिषिध्यते । अस्ति हि संवत्सरस्य प्रस-
ङ्गोह्येकम्यावयवमूते दक्षिणोत्तरायणे तत्रार्चिरादिमा-
र्गप्रवृत्तानामुदगयनमासेम्योऽवयविन संवत्सरस्य प्राप्ति-
रुक्ता । अत इहापि तदवयवभूतानां दक्षिणायनमा-
सानां प्राप्तिं श्रुत्वा तदवयविनः संवत्सरस्यापि पूर्ववत्प्रा-
प्तिरापन्नेत्यतस्तत्प्राप्तिः प्रतिषिध्यते नैते संवत्सरमभि-
प्राप्नुवन्तीति । मासेभ्यः पितृलोकं पितृलाकादाकाश-
माकाशाच्चन्द्रमसम् । कोऽसौ यस्तैः प्राप्यः चन्द्रमा य
एष दृश्यतेऽन्तरीक्षे सोमो राजा ब्राह्मणानां तदन्नं
देवानां तं चन्द्रमसमन्नं देवता इन्द्रादयो भक्षयन्ति ।
अतस्ते धमादिनो गत्वा चन्द्रभूताः कर्मिणो देवैर्मक्ष्यन्ते
नन्वनर्थायेष्टादिकरणं यद्यन्नभूता देवैर्भक्ष्येरन् नैष
दोषः अन्नमित्युपकरणमात्रस्य विवक्षितत्वात् । न हि
ते कवलोत्क्षेपेण देवैर्भक्ष्यन्ते । किं तर्ह्युपकरणमात्रं
ते देवाना भवन्ति स्त्रीपशुभृत्यादिवत् । दृष्टश्चान्नशब्द
पृष्ठ ४३३५
उपकरणेषु स्त्रियोऽन्नं पशवोऽन्नं विशोऽन्नं राज्ञामि-
त्वादि । न च तेषां ख्यादीनां पुरुषोपमोग्यत्वेऽप्युप-
भोगो नास्ति । तस्मात्कर्मिणो देवतानामुपभोग्या अपि
सन्तः सुखिनो देवैः क्रोडन्ते । शरीरञ्च तेषां सुखोप-
भोगयोग्यं चन्द्रमण्डले लाव्यमारभ्यते । तदुक्तं पुरस्ता-
च्छ्रद्धाशब्दा आपोद्युलोकाग्नौ हुताः सोमो राजा
तम्भवतीति । ता आपः कर्मसमवायिन्य इतरैश्च भूतैरनु-
गताः द्युलोकं प्राप्य चन्द्रत्वमापन्नाः शरीराद्यारम्मिका
इष्टाद्युपासकानां भवन्ति” शाङ्करमाष्यम् ।

पितृराज पु० ६ त० टच्समा० । यमे भा० स० ६ अ० ।

पितृरूप पु० ईषदूनः जनकः पिता पितृ + रूपम् । शिवे भा०

अनु० १५० अ० । तस्य सर्वजनकत्वेन पितृतुल्यत्वात् तथात्वम्

पितृलोक पु० ६ त० । चन्द्रलोकोपरिस्थे १ भुवनभेदे “विधू-

र्ध्वभागे पितरो वसन्तः स्वाधः सुधादीधितिमामनन्ति ।
पश्यन्ति तेऽर्कं निजमस्तकोर्ध्वे दर्शे यतोऽस्माद् द्युदलं
तदैषाम् । भार्धान्तरत्वान्न विधोरधःस्थं तस्मान्निशीथः
खलु पौर्णमास्याम् । कृष्णे रविः वक्षदलेऽभ्युदेति शुक्ले
ऽस्तमेत्यर्थत एव सिद्धम्” सि० शि० । पितृयाणशब्दे
दृश्यम् । कर्म० । २ पितृरूपे लोके ३ अग्निष्वात्तादौ च ।

पितृवन पु० ६ त० प्रेतावासे श्मशाने शब्दार्थक० ।

पितृवनेचर त्रि० पितृवने चरति चर--ट । श्मशानवासिनि शिवे ।

पितृवर्त्तिन् पु० ब्रह्मदत्तनामके नृपभेदे हरिवं० २० अ० ।

पितृव्य पु० पितृर्णाता पितृ + व्यत् । ज्येघे कनिष्ठे वा पितु-

चांतरि ।

पितृषदन न० पितरः सीदन्ति उपविशन्त्यत्प सद--आघारे ल्युट् वेदे यत्वम् । कुशे यजु० ५ । २६

पितृष्व(स्व)सृ स्त्री ६ त० वा षत्वम् । पितुर्भगिन्याम् ।

पितृष्वस्रीय पु० स्त्री० पितुः स्वसुरपत्यम् छ । पितृष्वसुरपत्ये

पितृसन्निभ पु० पित्रा गुरुणा सन्निभा तुल्यता यस्य ।

पितृतुल्ये गुरुतुल्याश्च प्रा० वि० देवकोक्ता यथा “आचा-
य्यश्च पिता ज्येष्ठो भ्राता चैव महीपतिः मातुलः
श्वशुरस्त्राता मातामहयितामहौ । यर्णज्येष्ठो पितृ-
व्यश्च पुंस्वेते गुरवो मताः” ।

पितृसू स्त्री पितरं सूते सू--किप् । १ पितामह्यां २ सव्यायां शब्दमाला ।

पितृह पु० “पितृहूर्दक्षिणः कर्ण उत्तरो देवहूः स्मृतः” भात०

४ । १९ उक्ते दक्षिणकर्णे तस्य तथात्वञ्च समर्थितं
“शास्त्रश्रवणकाले बलाधिक्यात् दक्षिणकर्सः प्रथसं प्रवर्त्तते ।
शास्त्रे च प्रथमं श्रोतव्यं कर्मकाण्यम् इत्येतावता
साम्येन प्रवृत्तसंज्ञस्य कर्मकाण्डस्य दक्षिणमर्णेन अवण-”
मिष्यते । अथ तदर्थमतुष्ठाय पितृभिराहूतः पितृलोक-
प्रापकं पितृयाणं प्रपद्यते । तदनेन प्रकारेण पितॄणामा-
ह्वानं भवतीति पितृहूर्दक्षिणकर्णः” ४ । १५ । ४८ श्नीधरेख

पित्त न० अपि + दो--क्त तादेशः अल्लोपः न दीर्घः । देहस्थे

धातुभेदे तत्स्वरूपादि भावप्र० उक्तं यथा
“पित्तमुष्णं द्रवं पीतं नीलं सत्त्वगुणोत्तरम् । सरं कटु
र्लघु स्निग्धं तीक्ष्णमम्लन्तु पाकतः” । पीतन्निरामम् नीलं
सामम् । एकं पित्तंवातवन्नानास्थानकर्मभेदैः पञ्चविधम् ।
तेषां पित्तानां नामान्याह “पाचकं रञ्जकञ्चापि
साधकालोचके तथा । भ्राजकञ्चेति पित्तस्य नामानि
स्थानभेदतः” अथ पाचकादीनां स्थानान्याह “अग्न्या-
शये यकृत्प्लीह्नोर्हृदये लोचनद्वये । त्वचि सर्वशरी-
रेषु पित्तं निवसति क्रमात्” अथ तेषां कर्माण्याह ।
“पाचकं तचते भुक्तं शेपाग्निबलवर्द्धनम् । रसमूत्र-
पुरीषाणि विरेचयति गित्यशः” । पाचकं पित्तमाम-
पक्वाशयमध्यस्थं षड्विधनाहारं भोज्यं भक्ष्यं चर्व्यं
लेह्यं चूष्यं पेयं पचति दोषरसमूत्रपुरीषाणि पृथर्क्क-
रोति च । तदग्न्याशयस्थमेव स्वशक्त्या रसरञ्जनहृद-
यस्थकफतमोपनोदनरूपग्रहणप्रभाप्रकाशनाभ्यङ्गलेपादि-
पाचनाद्यग्निकर्मणां विशेषाणां पित्तस्थानानामनुग्रहं
करोति । शेषाण्यपि पित्तस्थानानि यकृत्श्लीहादीनि
भागेन गत्वा तत्र तत्र रसरञ्जनादिकर्ममिरुपकरोती-
त्यर्थः । कथम्मूतं पाचकं पित्तं शेषाग्नियलवर्द्धनम् शेषा
अग्नयः पृथिव्यादिमहाभूतगणाः । यत उक्तं चरकेण
“भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनामसाः” इति ।
ऊष्माणः अग्नयः । यत उक्तं वाग्भटेम “दोषधातुमका-
दीनामूष्मेत्यात्रेयशासगम्” इति । दोषधातुमलादीनामूष्मै-
वाग्निरित्यर्थः । रसादिसप्तधातुगताः तेषां यलबर्द्ध-
नम् यथा गृहे स्थापितानि रत्नानि सृद्योतवद्दूर-
भास्वराणि तान्यवि दीपज्योतिषा दूरप्रकाशकानि
मवन्ति तथा अग्न्याशयस्थपाचकाग्नितेजसा सर्वे अग्नयो
बलवन्तो भवन्ति तथा च वाग्भटः “अन्नस्य पक्ता
सर्वेषां पक्तॄणामधिको मतः । तन्मूलास्ते च तद्वृद्धिक्षय-
वृद्धिक्षयात्मकाः” इति । ननु पित्तादन्योऽग्निराहोस्वि-
त्पित्तमेवाग्नरिति सन्देहः । उच्यते पित्तस्योष्णादिगुण-
द्वाराहारपाचनरञ्जनदर्शनादिकर्माणि न खलु पित्तष्य
तिरेकेणान्योऽग्निः । तस्मादग्निरूपस्यैव पित्तस्य स्थान
भेदात्पाचकरञ्जकसाधकालोचकभ्राजकसज्ञाः । तथा च
पृष्ठ ४३३६
वाग्भटः “पाचकं तिलमानं स्यात् काठिन्यान्नास्य
दोषता । अनुगृह्णात्यविकृतं पित्तं पाकोष्मदर्शनैः । क्षु-
त्तृट्रुचिप्रमामेधाधीशौर्य्यतनुमार्दवैः । पित्तं पञ्चात्मकं
तच्च पक्वामाशयमध्यगम् । पञ्चभूतात्मकत्वेऽपि यत्तैज-
सगुणोदयम् । त्यक्तद्रवत्वं पाकादिकर्मणानलशब्दितम् ।
पचत्यन्नं विभजते सारकिट्टौ पृथक् तथा । तत्रस्थमेव
पित्तानां शेषाणामप्यनुग्रहम् । करोति बलदानेन
पात्तकं नाम तत्स्मृतम् । ननु यदि पित्ताग्न्योरभेदस्तदा
कथं घृतं पित्तस्य शमकभग्नेर्दीप्रकमिति । तथा मत्स्याः
पित्तं कुर्वन्ति न च तेऽग्निदीप्तिकरा इति । तथा
समदोषः समाग्निश्चेत्यपि वक्तुं न युज्यते । तथा “द्रवं
स्निग्धमधोगञ्च पित्तं वह्निरतोऽन्यथेति” । अत्रोच्यते ।
पित्तमग्नेः सन्तताधिष्ठानम् । तथा चोक्तं तन्त्रान्तरे
“अग्निर्भिन्नगुणैर्युक्तः पित्तं भिन्नगुणैस्तथा । द्रवं स्निग्ध-
मधोगञ्च पित्तं वह्निरतोऽन्यथा । तस्मात्तेजोमयं पित्तं
पित्तोष्मा यः स शक्तिमान् । स सञ्चरति कुक्षिस्थः सर्वतो
धमनीमुखैः । स कायाग्निः स कायोष्मा स पक्ता स
च जीवनम् । अनन्यगतिरित्येवं देहे कायाग्निरुच्यते”
अन्यच्च “वामपार्श्वाश्रितं नाभेः किञ्चित् सोमस्य मण्ड-
लम् । मन्मध्ये मण्डलं सौर्य्यं तनम्ध्येऽग्निर्व्यव-
स्थितः । जरायुमात्रप्रच्छन्नः काचकोशस्थ दीपवत्” । तथा
च मधुकोषे “द्रवतेजःसमुदायात्मकस्यापि पित्तस्य तेजो
भागोऽग्निरिति” । तेन पित्तमप्यग्निवन्मन्यते अतिता-
पितायोगोलकवत् । परमार्थतस्तु अग्निः पित्ताद्भिन्न
एयेति सिद्धान्तः । अतएवाह रसप्रदीपे “जाठरो भगवा-
नग्निरीश्वरोऽन्नस्य पाचकः । सौक्ष्म्याद्रसानाऽऽददानो
विभक्तुं नैव शक्यते । नाभौ मध्ये शरीरस्य विशेषात्
सोममण्डलम् । सोममण्डलमध्यस्थं विद्यात्सूर्य्यस्य
मण्डलम् । प्रदीपवत्तत्र नॄणां स्थितो मध्ये हुताशनः ।
सूर्य्यो दिवि यथा तिष्ठं स्तेजोयुक्तैर्गभस्तिभिः । विशोष-
यति सर्वाणि पल्वलानि सरांसि च । तद्वच्छरीरिणां भुक्तं
ज्वलनो नामिमाश्रितः । मयूखैः पचते क्षिप्रन्नानाव्य-
ञ्जनसंस्कृतम् । स्थूलकायेषु सत्त्वेषु यवमात्रः प्रमाणतः ।
ह्रस्वकायेषु सत्त्वेषु तिलमात्रः प्रमाणतः । कृमकीट-
पतङ्गेष्र बालमात्रोऽवतिष्ठते” इति । पुनः प्रकृतमनुसरति
“रञ्जकं नाम यत्पित्तं तद्रसं शोणितं नयेत् । यत्तु
साधकसंज्ञं तत्कुर्य्याद् बुद्धि धृतिं स्मृतिम्” । धृतिं मेधाम्
“यदालोचकसंज्ञं तद्रूपग्रहणकारणम् । “भ्राजकं का-
न्तिकारि स्याल्लेपाम्यङ्गादिपाचकम” वातापत्तादिनिरूपणे ।
स्थानान्तरे तत्रैव पित्तप्रकृतिक उक्तो यथा “पित्तप्रकृ-
तिको यादृक् तादृशोऽथ निगद्यते । अकालपलितो गौरः
क्रोधी स्वेदी च बुद्धिमान् । बहुभुक् ताम्रनेत्रश्च स्वप्ने
ज्योतींषि पश्यति । श्यामकेशः क्षमी स्थूलो बहुवीर्यो
महावलः । पित्तं वह्निर्वह्निजं वा तदस्मात् पित्तोद्रिक्त-
स्तीव्रतृष्णो बुभुक्षुः । गौरोष्णाङ्गस्ताम्रहस्तोङ्घ्रिरक्तः
शूरोमानी पिङ्गकेशोऽल्पलोमा” । पित्तस्योपशमहेतुरुक्त-
स्तत्रैव “तिक्तस्वादुकषायशीतपवनच्छायानिशावीजनज्यो-
त्स्नाभूगृहयन्त्रवारिजलदस्त्रीगात्रसंस्पर्शनम् । सर्पिः-
क्षीरविरेकसेकरुधिरस्रावप्रदेहादिकं पानाहारविहारभे-
षजमिदं पित्तं प्रशान्तिं नयेत्” । पित्तप्रकोपकारणा-
न्युक्तानि “कद्वम्लोष्णविदाहितीक्ष्णलवणक्रोधोपवा-
सातपस्त्रीसम्भोगतृषाक्षुधाभिहननव्यायाममद्यादिभिः ।
भुक्तेऽजीर्य्यति भोजने च शरदि ग्रीष्मे तथा प्राणिनां
मध्याह्ने च यथार्द्धरात्रसमये पित्तप्रकोपो भवेत्” भावप्र०
“पित्तञ्च तिक्ताम्लरसञ्च सारकं तूष्णं द्रवं तीक्ष्णमिदं
मधौ बहु । वर्षान्तकाले मृशमर्द्धरात्रे मध्यन्दिने
ऽत्राप्युदिते च कुप्यति” राजनि० ।

पित्तघ्न त्रि० पित्तं हन्ति हन--ठक् । १ पित्तनाशकद्रव्ये स्त्रियां

ङीप् । सा च २ गुडूच्यां शब्दच०

पित्तज्वर पु० पित्तनिमिचो ज्वर० शाक० त० । शैत्तिके ज्वरे

ज्वरशब्दे ३१७१ पृ० माघवकरोक्तं तल्लक्षणं दृश्यम् ।

पित्तद्राविन् पु० पित्तं द्रावयति द्रु--णिच् णिनि । मघुर-

जम्बीरे राजनि० ।

पित्तधरा स्त्री सुश्रुतोक्ते कलाभेदे “षष्ठी पित्तधरा गाम

या कला परिकीर्तिता । पक्वामाशयमध्यस्था ग्रहणी
सा प्रकीर्त्तिता” ।

पित्तरक्त न० पित्तसंसृष्टं रक्तम् । रक्तपित्ते रोगे राजनि० रक्तपित्तशब्द लक्षणादि दृश्यम् ।

पित्तल त्रि० पित्तमस्त्यस्याधिक्ये न सिध्मा० लच् । १ पित्त

बहुले । पित्तं लाति ला--क । २ उपधातुभेदे रीतौ ३ भूर्ज-
पत्रे शब्दमा० ४ तोयपिष्पल्यां स्त्री मेदि० । रीतिश्च द्विविधा
यथोक्तं राजनि० “शुक्ला स्निग्धा मृदुः शीता सुरङ्गा
सूत्रपत्रिणी । हेमोपमा शुभा खच्छा जात्या रीतिः
प्रकीर्त्तिता” । “रीतिरप्य पधातुः स्यात्ताम्रस्य यसदस्य
च । पित्तलस्य गुणा ज्ञेया स्वयोनिसदृशा जनैः ।
संयोगस्य प्रभावेन तस्यान्येऽपि गुणा स्मृताः । रीति-
कायुगलं रूक्षं तिक्तञ्च लवणं रसे । शोधनं पाण्डुरो-
गघ्नं कृमिघ्नं नातिलेखनम् भावप्र० । तन्मारणशोधन-
विधिः कांस्यशब्दे १८४२ पृ० दृश्यः ।
पृष्ठ ४३३७

पित्तातिसार पु० पित्तजनितोऽतिसारः शाक० त० । पित्त-

जनिते अतिसाररीगभेदे अतिसारशब्दे १०७ पृ० दृश्यम् ।

पित्ताभिष्यन्द पु० पित्तकृतः अभिष्यन्दः शाक० त० । पित्तकृते

नेत्रजलक्षरणरूपे रोगभेदे अभिष्यन्दशब्दे ३०४ पृ० दृश्यम्

पित्तारि पु० ६ त० । १ पर्पटे (क्षेतपापडा) २ लाक्षायां

३ वर्वरे च राजनि० ।

पित्र्य त्रि० पितुः इदं प्रियं वा पितृत आगतं वा यत् ।

१ पितृसम्बन्धिनि । २ पितृतीर्थे तर्जन्यङ्गुष्ठयोर्मध्यस्थाने
३ मधुनि ४ मघानक्षत्रे च राजनि० । तस्य पितृदैवतत्वात्तत्स-
म्बन्धित्वम् । ५ पितृप्रिये माषे पु० ६ अमावास्यायां तिथौ स्त्री
हेमच० ७ ज्येष्ठभ्रातरि पु० ८ पौर्णमास्यां स्त्री शब्दच० ।

पित्र्यावत् त्रि० पित्र्यः तत्सम्बन्धि अस्त्यस्य मतुप मस्य

वः दीर्घः । १ पितृसम्बन्धियुक्ते २ कन्यायां स्त्री ङीप् ।
ऋ० ९ । ४६ । २ भा० ।

पित्सत् त्रि० पतितुमिच्छति पत--सन् इस् अभ्यासलोपः ।

१ पतितुमिच्छायुते २ खगे पुंस्त्री० अमरः ।

पित्सल पु० पतितुमिच्छत्यत्र पत--सन् पित्स + आधारे

कलच् । पथि मार्गे उणादि० ।

पिद्व पु० मृगभेदे यजु० २४ । ३२

पिधान न० अपि + धा--ल्युट् अक्लोपः । १ छादने अमरः २ उदञ्चने च हेमच० ।

पिधानक पु० पिधानाय कायति कै--क । खड्गकोषे हेमच०

पिनद्ध त्रि० अपि + नह--क्त अल्लोपः । परिहिते वस्त्रादौ

हेमच० ।

पिनाक पु० न० पा--रक्षणे आकन् नुट् धातोरात इत्त्वम् ।

१ शिवधनुपि उज्ज्वलद० । २ शूलास्त्रे अमरः ३ दिश उत्त-
रनामसु निघण्टुः ।

पिनाकिन् पु० पिनाक + अस्त्यर्थे इनि । महादेवे अमरः

पिनाकधृगादयोऽप्यत्र ।

पिन्यास न० अपिगतो न्यासोऽत्र प्रा० व० अल्लोपः । हिङ्गुनि जटा० ।

पिपतिषत् त्रि० पतितुमिच्छति पत--सन्--शतृ । १ पतितुमि

च्छति । २ खगे मेदि० ।

पिपतिषु त्रि० पतितुमिच्छुः पत--सन उ । १ पतितुमिच्छौ २ खगे राजनि०

पिपासा स्त्री पातुमिच्छा पा--पाने सन् भावे अ । पातुमिच्छा-

याम् सा च प्राणवृत्तिः ऊर्मिभेदः “बभुक्षा च पिपासा
च प्राणस्य, मनसः स्मृतौ । शीकमोहौ, शररस्य ज्वरा-
मृत्यू षडूर्मयः” शा० यि० । तद्वेतुः पित्तमेदस्तच्छब्दे
दृश्यम् । तारका० इतच् । पिपासित संजातपिपासे त्रि० ।

पिपीतक पु० ब्राह्मणभेदे येन पिपीतकीद्वादशीव्रतमाचरितम्

पिपीतकी स्त्री पिपीतको ब्राह्मणभेदः स प्रवर्त्तकतयास्त्यस्य

अच गौरा० ङीष् । वैशाखशुक्लद्वादश्याम् तद्विधानं
भविव्यपु० “वैशाखे शुक्लपक्षस्य द्वादशी वैष्णवी तिथिः । तस्यां
सुशीतलजलैः स्नापयेत् केशवं प्रभुम् । पूजयेद्गन्ध-
पुष्पाद्यैर्धूपदीपैर्विधानतः । नैवेद्यैर्विविधैश्चैव ताम्बूलै-
रथ वाससा । जप्त्वा तु वैष्णवं मन्त्रं दण्डवत् प्रणमे-
त्ततः । दद्याद्विजेभ्यो विधिवत् कुम्भाँस्तोयसम-
न्वितान् । प्रघमेऽव्दे चतुःकुम्भान् दद्याल्लवणसंयुतान् ।
मालाभिरङ्कितग्रीवान् सुशीतलजलान्वितान् । शुक्ल-
वस्त्रावृतमुखानुपवीतसुसंयुतान् । धनुर्वाणसमायुक्तान्
सभोज्यदक्षिणान्वितान् । द्वितीयेऽष्टौ घटान् दद्याद्द-
धिशर्करसंयुतान् । तृतीये द्वादश घटान् तिलमोदकसंयु-
तान् । चतुर्थे षोडश घटान् दुग्धलड्डुकसंयुतान् ।
दद्यात् संपूज्य देवेशं द्विजातिभ्यः प्रयत्नतः । दक्षिणां
शक्तितो दद्यात् भोज्यञ्चैव विशेषतः” पिपीतकव्रह्मणं
प्रति यमोपदेशः । तत्कालस्तु ति० त० उक्तः द्वादशीशब्दे
३७९९ पृ० दृश्यः । अधिकं तत्कथायां दृश्यम् ।

पिपीलक पु० अपि--पील--ण्वुल् अल्लोफ । (डेओपिप्पड़ा)

ख्याते १ कीटे (क्षुदेपिप्ड़ा) २ ख्यात कीटे स्त्री टाप् ।
हेमच० । अच्--पिपीलोऽप्यत्र शब्दच० गौरा० ङीष्
पिपीलीत्यप्यत्र हेम० । क्षुद्रकीटे राजनि० ।

पिपीलिकामध्य न० पिपीलिकायामध्यमिव मध्यमस्य ।

चान्द्रायणभेदे पुंस्त्री० चान्द्रायणशब्दे ३९ । ३ पृ० दृश्यम् ।

पिप्पक पुंस्त्री० शरव्यादेवतोद्देशन आलभ्ये पक्षिणि अजादि०

टाप् । स्त्रीपक्षिभेदे स्त्री यजु० २४ । ४० ।

पिप्पटा स्त्री खाद्यमेदे त्रिका० ।

पिप्पल न० पा--अलच् पृषो० । १ जले निघण्टुः २ वस्त्रख-

ण्डभेदे च मेदि० ३ अश्वत्थवृक्षे अमरः ४ बन्धनशून्ये
षक्षिणि च पु० शब्दच० । ५ कणायां (पिपुल) स्त्री गौरा०
ङीष ह्रस्वः पिप्पलिः पिप्पली चात्र । तस्याः फलम्
अण् हरीतक्या० तस्य लुप् । तत्फलेऽपि स्त्री ।
अस्त्यर्थे उत्करादि० छ । पिप्पलीय तद्युते त्रि० । रेवत्यां
जाते ६ मित्रपुत्रभेदे पु० भाग० ६ । १८ । ६

पिप्पलाद पु० ऋषिभेदे भाग० १ । १९ । ९

पिप्पलायन पु० भरतानुजे भागवतप्रघाने नृपमेदे भाग० ५ । ४ । ११

पिप्पलीघृत न० चक्रदत्तोक्ते घृतभेदे “पिप्पलीगुडसंसिद्धं

छागक्षीरयुतं घृतम् । एतदग्निविवृद्यर्थं सपिश्च क्षयका-
सिनाम्” ।
पृष्ठ ४३३८

पिप्पलीश्रोणि स्त्री नदोभेदे मार्क० पु० ५७ अ०

पिप्पलीमूल न० पिप्पल्या इव मूलमस्य । (पिपुलमूल)ख्याते

वृक्षे राजनि० “दीपनं पिप्पलीमूलं कटूष्णं पाचनं
लघु । रूक्षं पित्तकरं भेदि कफवातोदरापहम् ।
आमाहप्लीहगुल्मघ्नं कृमिश्वासक्षयापहम्” भावप्र० । ततः
मत्वर्थे उत्करा० छ । पिप्पलमूलीय तद्युते त्रि० ।

पिप्पलु पु० ऋषिभेदे तस्य गोत्रापत्यं गर्गा० यञ् । यैप्प-

लव्य तद्गोत्रापत्ये पुंस्त्री० ।

पिप्पल्याद्य न० चक्रदत्तोक्ते तैलभेदे “पिप्पलीं मधुकं विल्वं

शताह्वां मदनं वचाम् । कुष्ठं शटीं पुष्कराख्यं चित्रकं
देवदारु च । पिद्वा तैलं विपक्तव्यं द्विगुणक्षीरसंयु-
तम् । अर्शसां मूढ़वातानां तच्छेतमनुवासनम् ।
गुदनिःसरण शूलं मूत्रकृच्छ्रं नवाहिकाम् । कट्यूरुपृष्ठदौर्व-
ल्यमानाहं वङ्क्षणाश्रयम् । पिच्छास्रावं गुदे शोथं
वातवर्च्चोविनिग्रहम् । उत्थानं बहुदोषञ्च जयेच्चैवानु-
वासनात्” ।

पिप्पिका स्त्री दन्तमले हेमच० ।

पिप्पीक पुंस्त्री० खगभेदे वृ० सं० ८६ अ० तस्य दक्षिणदिक्स्थत्वे शुमसूचकत्वमुक्तम् ।

पिप्रु पु० असुरभेदे ऋ० १ । ५१ । ५ भा० ।

पिप्लु पु० अपि + प्लु--डु अपेरल्लोपः । जटुले अमरः ।

पिब्दमाना स्त्री अपि + शब्द--शानच् पृषो० । शब्दायमाने

पिब्दन त्रि० अपि + शब्द--ल्युट् पृषो० । अव्यक्तं शब्दाय-

माने २ रक्षोभेदे पु० ऋ० ६ । ४६ । ३

पियारु पी--हिंसावा बा० आरुक् । हिंस्रे अ० १ । १९० । ५

“पीयतिर्हिंसाकर्मेति” निरु० ४ । २५

पियाल पु० पी--पाने कालन् । पीतसाले (पेयासाल) (मुर-

गा) वृक्षभेदे अमरः “पियालस्तु खरःस्कन्धसारो
बहुलवल्कलः । राजादनस्तापसेष्टः सन्नकद्रुर्द्धनुष्पटः ।
सारः पित्तकफास्रघ्नस्तत्फलं मधुरं मुरु । स्निग्धं सरं
मरुत्पित्तदाहज्वरतृषापहम् । पियालमज्जा मधुरो
दुष्यः पित्तानिलापहः । हृद्योऽतिदुर्ज्वरः स्निग्धो
विष्टम्भी चामवर्द्धनः” भावार० ।

पिल प्रेरण चु० उभ० सक० षेट् । पेलयति ते अपीविलत्--त ।

पिलिप्पनी स्त्री चिक्कणायां भुवि । यजु० २३ । १२ “श्रीर्वै

पिलिप्पनी” शत० ब्रा० १३ । २६ । ११ “श्रयत्येनामिति
श्रीशब्देन पृथिवीति” वेददीपः ।

पिलु पु० अपि + ला--बा० डु । पीलुवृक्षे शब्दरत्नावली ।

पिलुनी स्त्री अपि + ला ना० डुन गौरा० ङीष् । मूर्वायां

रत्नमाला ।

पिलुपर्णी स्त्री पीलोरिव पर्णमस्याः ङीप् पृषो० । मोरटालतायां रत्नमाला ।

पिल्ल न० क्लिद--ल पिलादेशः । १ क्लिन्नचक्षुषि । २ तद्युते

त्रि० अमरः ।

पिल्लका स्त्री पिल्ला इव कायति कै--क । हस्तिन्यां शब्दमा०

पिव सेचने भ्वा० पर० सक० सेट् इदित् । पिन्वति अपिन्वीत् ।

पिपिन्व पिन्व्यते । पिन्वनम्

पिश अवयये समूहस्यांशभावे अक० दीपनायां सक० तुदा०

मुचा० पर० सेट् । पिंशति घटः समूहीभवतीत्यर्थः ।
“त्वष्टा रूपाणि पिंशतु” ऋ० १० । १८४ । १ दीपयतु इत्यर्थः
अपेशीत् पिपेश ।

पिश(स) त्रि० पिश--क । १ पापनिर्मुक्ते २ बहुरूपे न० ।

पिशङ्ग पु० पिश--अङ्गच् किच्च । पद्मधूलितुल्ये १ पिङ्गलवर्णे

२ तद्वति त्रि० अमरः ।

पिशङ्गक पु० पिशङ्ग + स्वार्थे क । १ पिशङ्गशब्दार्थे पिशङ्गेव

कायति कै--क । २ विष्णौ ब्रह्मपु० ।

पिशङ्गभृष्टि त्रि० भ्रसज--कर्मणि क्तिच् पिशङ्ग शव भृष्टिः

सारभूतोऽस्य । शुद्धपिङ्गलवर्णे ऋ० १ । ३३ । ५ भा० ।

पिशङ्गराति त्रि० पिशङ्गः बहुरूपो रातिर्धनमस्य । बहुध-

नखामिनि ऋ० ६ । ३१ । २ भा० ।

पिशङ्गिला स्त्री पिशं बहुरूपं गिलति ख मुम् । रीतौ पित्तले ।

पिशाच पु० पिशितमाचामति आ + चम--बा० ड पृषो० ।

१ देवयोनिभेदे २ प्रेते च अमरः “अन्तरीक्षचरा ये च
भूतप्रेत पिशाचकाः । वर्जयित्वा रुद्रनणांस्ते तत्रैव
चरन्ति हि । नोर्द्ध्वं विक्रमणे शक्तिस्तेषां सम्भृतया-
व्मनाम् । अत ऊर्द्ध्वं हि विप्रेन्द्र! राक्षसा ये कृतै-
नसः । ते तु सूर्य्यादधः सर्वे विहरन्त्यूर्द्धवर्जिताः” इति
पाद्मे खर्गखण्डे १५ अ० । प्रेते यथा “अशौचान्ताद्वि-
तीयेऽह्नि यस्य नोत्सृज्यत वृषः । पिशाचत्वं भवेत्तस्य
दचैः श्राद्धशतैरपि” शु० त० । तन्निवारणे कुशलः
आकर्षा० कन् । पिशाचक तन्निबारणकुलमे त्रि० स्वार्थे
पर्श्वा० अण् । पैशाच तदर्थे पिशाच इव कायति
कै--क । पिशाचतुल्ये यक्षगुह्यकादौ ।

पिशाचकिन् पिशाचकः यक्षादिरस्त्यस्य स्वत्वेन पिनाचक +

इनि । यक्षेश्वरे कुवेरे हेमच० ।

पिशाचद्रु पु० पिशाचप्रियः चनान्धकारत्वात्द्रुः शा० त० शाखीटवृक्षे त्रिका०

पृष्ठ ४३३९

पिशाचमोचन न० स्वनामख्याते तीर्थभेदे स्कन्दपुराणम् ।

पिशाचसभ न० ६ त० क्लीवता । पियाचानां सभायाम

पिशाची स्त्री पिशाचजातिः स्त्री ङीष् । १ पिशाचजाति

स्त्रियां तद्वगन्धयुक्तायां ३ गन्धमांस्यां राजनि० ।

पिशिक पु० देशभेदे स च वृ० सं० १४ कूर्भविभागे दक्षिणस्यामुक्तः ।

पिशित न० पिश--क्त । १ मांसे अमरः । २ जटामांस्यां स्त्री वा

ङीप् मेदि० ।

पिशितभुज् त्रि० पिशितं भुङ्क्ते भुज--क्विन् । क्रव्यादे राक्षसादौ पिशिताशादयोऽप्यत्र ।

पिशी स्त्री पिश--क गौरा० ङीष् । जटामांस्यां राजनि० ।

पिशील न० पिस--बा० ईल । शरावे मृण्मयपात्रे शत० ब्रा०

२ । ५ । ३ । ६ भा० । कात्या० ५ । ३ । ४३ कर्कः ।

पिशुन न० पिश--उनन् किच्च । १ कुङ्कुमे अमरः । २ नारदे

३ काके च पु० ४ सूचके ५ क्रूरे च त्रि० (पिड़िङ्)
६ शाकभेदे स्त्री० टाप् मेदि० ।

पिष चूर्णने रु० पर० सक० अनिढ् । पिनष्टि ऌदित् अपिषत्

पिपेष पेष्टा पिष्टः पेषः पेषणम् । “शुष्कचूर्णरूक्षेषु
पिघः” पा० एषूपपदेषु कर्मसु णमुल् कसा० यथाविध्यनु-
प्रयोगः “शुष्कपेषं पिनष्मुर्वीम्” भट्टिः “स्नेहने
पिषः” पा० स्नेहसाधने करणे उपपदे णमुल् ।
उदपेषम् पिनष्टि उदकेन पिनष्टीत्यर्थः पेषमादिपरे
उदकस्योदादेशः ।

पिष्ट न० पिष--क्त । १ सीसके रत्नमाला २ पिष्टके पु० न०

“अन्नादष्टगुणं पिष्टं पिष्टादष्टगुणं पयः । पयसोऽष्टगुणं
र्मासं मांसादष्टगुणं घृतम् । घृतादष्टगुणं तैलं मर्दनान्न
च भक्षणात्” वैद्य० अस्य गुणाः “पिष्टं प्राणकरं रूक्षं
विदाहि गुरु दुर्जरम् । शालिपिष्टमया भक्ष्याः कफपि-
त्तविनाशनाः । वैदला गुरवो भक्ष्या विष्टम्भिसृष्ट-
मारुताः । सगुड़ाः सतिलाश्चैव सक्षौद्रक्षारशर्कराः ।
मक्ष्या बल्याश्च हृद्याश्च गुरवोवृंहणा परम् । सस्नेहाः
स्नेहसिक्ताश्च भक्ष्मा गोधूमसम्भवाः । गुरवस्तर्पणा
हृद्या वलोपचयवर्द्धनाः । मर्दितां समितां क्षीर
नारिकेलघृतादिभिः । अवग्राह्य घृते पक्त्वा घृतपूरोय-
मुच्यते । घृतपूरो गुरुर्वृष्यः कफकृद्रक्तमांसदः । रक्त-
पित्तहरो हृद्यः स्वादुः पित्तहरोऽग्निदः” । गोधूमचूर्णं
समिता । “समिता मधुदुग्धेन खण्डैलामरिचादिभिः ।
एते पक्ता क्षिपेत् खण्डे संयावो वृंहणो गुरुः । समिता
वेष्टिता मध्ये मधु दत्त्वा घृते शृता । मधुमस्तकमुद्दिष्टं
तदृष्यं गुरु दुर्जरम्” राजवल्लभः । ३ रूपे न० निघण्टुः
४ चूर्णिते त्रि० । ५ ऋषिभेदे पु० । तस्यापत्यम शिवा० अण् ।
पैष्ट तदपत्ये पुंस्त्री० । ततः गोत्रप्रत्ययस्य बहुत्वे मुन्ते
अद्वन्द्वे च उपषा० लुक् ।

पिष्टक त्रि० पिष्टस्य विकारः कन् । १ पिष्टस्य विकारभेदे

संज्ञायां कन् । २ अपूपे अस्त्री अमरः । कृतान्नशब्दे
मावप० वाक्यं दृश्यम् । ३ तिलचूर्णे न० राजनि० । ४ नेत्र-
रोगभेदे मेदि० “श्लेष्मा मारुतकोपेन शुक्ले पिष्टसम-
न्नतम् । विष्टवत् पिष्टकं विद्धि मलाक्तादर्शसन्निभम्”
माधवकरः ।

पिष्टप न० विश्यत्यत्र विश--कप निपा० । मुवने अमरः ।

पिष्टपचन न० पिष्टं पच्यतेऽनेन पच--करणे ल्युट् । पिष्ट-

कपाकपात्रे कटाहादौ अमरः ।

पिष्टपाककृत् न० पिष्टस्य पाकं करोति आधारस्य कर्तृ-

त्वविवक्षायां कृ--कर्त्तरि क्विप् तुक् च । १ पिष्टपाकाधारे
पात्रे हेमच० कर्त्तरि किप् । २ पिष्टपाचके त्रि० ।

पिष्टपूर पु० पिष्ट इव पूर्य्यते पूरि--कर्मणि अच । वटके

घार्त्तिके हेमच० ।

पिष्टपाकभृत् न० पिष्टपाकं निभर्त्ति भ--क्विप । पिष्टपा-

कपात्रे हेमच० ।

पिष्टमय त्रि० पिष्टस्य विकारः भयट् । पिष्टविकारे भस्मादौ सि० कौ० ।

पिष्टमेहिन् पु० पिष्टमिव मेहति मिह--णिनि । सुश्रुतोक्ते

प्रमेहभेदरोगयुते “पिष्टरसतुल्यं पिष्टमेही मेहति”
सुश्रुतः ।

पिष्टवर्त्ति पु० पिष्टं वर्त्तयति वर्त्ति--इन् । मुद्गमाषादिचूर्णे (धूमसी) हेमच० ।

पिष्टसौरभ न० पिष्टस्येव सौरभमस्य । चन्दने हारा० ।

पिष्टात पु० पिष्टमितातति अत--अच् । १ पटवासे पटवासनार्थे

सुगन्धद्रव्ये (आवीर) ख्याते २ पदार्थे च अमरः ।

पिष्टिक न० पिष्टमस्त्यस्य उत्पत्तिसाधनत्वेन ठन् । तण्डुल-

चूर्णभवे द्रवात्मके (पिठालि) ख्याते पदार्थे राजनि०
(पिठी) प्रसिद्धायां पिष्टद्विदले स्त्री “दालिः संस्थापिता
तोये ततोऽपहृतकञ्चुका । शिलायां साधु संपिष्टा
पिष्टिका कथिता बुधैः” भावप्र० ।

पिष्टोडी स्त्री श्वेताम्लिकायां राजनि० ।

पिष्टोदक न० पिष्टमिश्रितमुदकं शात० त० । चूर्णतण्डुल-

मिश्रितजले भा० आ० १३१ अ० ।

पिस गतौ भ्वा० पर० सक० सेट् । पेसति अपेसीत् पिपेस ऋदित् अपिपेसत्--त ।

पिस दीप्तौ वा चु० उभ० पक्षे भ्वा० पर० अक० सेट् इदित् ।

पिंसयति ते अपिपिंसत् त । पक्षे पिंसति अपिंसीत् ।
पृष्ठ ४३४०

पिस वासं बले च अक० बधे दाने गतौ च सक० चु० उम०

सेट् । पेसयति--ते अपीसिसत् त ।

पिसङ्ग पु० पिस--अङ्गच् किच्च । पिशङ्गशब्दार्थे

पिहित त्रि० अपि + धा--क्त अपेरल्लोपः । १ तिरोहिते

२ आच्छादिते च हेमच० ।

पी पागे दि० सक० आत्म० अनिट् । पीयते अपेष्ट । ल्यप्

“निपीक्ष यस्य क्षितिरक्षिणः कथाम्” नैषधः पिबतेस्तु
निपाय इत्येव ।

पीठ पु० न० पीयते पिठ्यते वा अत्र पा--ठक् पिठ--क वा

पृषो० दीर्घः । (पीँड़े) १ आसनभेदे अमरः । २ व्रतिनामा-
सने त्रिका० तत्रार्थे स्त्री रत्नमाला गौरा० ङीष् ।
पीठलक्षणादिकं युक्तिकल्पतरो दर्शितं यथा
“घातुपाषाणकाष्ठैश्च पीठस्त्रिविध उच्यते । घातवश्च
शिलाश्चैव काष्ठानि विविधानि च । तदत्र संप्रवक्ष्यामि
यद्येषामुपयुज्यते” । तस्य मानम् “हस्तद्वयञ्च दैर्घ्येण
तदर्द्धे परिणाहतः । तदर्द्धेनोन्नतः पीठः सुख इत्य-
भिधीयते । हस्तद्वयद्वयाधिक्यात् पञ्च पीठा भवन्ति हि ।
सुखो जयः शुभः सिद्धिः सम्बच्चेति यथाक्रमम् ।
धनभोगमुखैश्वर्य्यवाञ्छितार्थप्रदायकः । समदीर्घे सुखा
वाप्तिर्विषमे विषमापदः । आयामपरिणाहाभ्यां हस्त-
द्वयमितो हि यः । अर्द्धहस्तोन्नतः पीठो जारको नाम
विश्रुतः । दैर्व्योलतिपरीखाहैश्चतुर्हस्तमितो हि यः ।
राजपीठ इति ज्ञेयः सकलार्थप्रसाधकः । अत्राभिषेक-
मिच्छन्ति क्षितिपस्य पुराविदः । दैर्घ्योन्नतिपरीणाहैः
षढस्तसंमितो हि यः । राज्ञां चित्तप्रसादार्थं
केलिपीठाभिधानकः । दैर्घ्योन्नतिपरीणाहैरष्टहस्तमितो
हि यः । अङ्गपीठो ह्ययं नाम्ना भवेत् स च सुखप्रदः ।
कानको राजपीठः स्याज्जयो वा राजतः सुखः । राज्ञा-
मेवोपयोक्तव्यो लक्षवश्चोत्तरोत्तरम् । राजपीठे
चिरायुः स्याज्जये सर्वां महीं जयेत् । जारको जायये-
च्छत्रून् सुखे सुखमवाप्नुयात् । राजतः कीर्त्तिजननो
धनवृद्धिकरः परः । तामः प्रतापजननो विपक्षक्षय-
कारकः । लौहस्तूच्चाटने सार्वः सर्वकर्मसु युज्यते ।
त्रपुसीसकरङ्गाद्याः शत्रुक्षयफलप्रदाः” इति धातु
पीटाः । अथ शिलापीठाः “वज्रपीठो वज्रप्राणेरेव
नान्यस्य दृश्यते । पद्मरागो दिनेशस्य चान्द्रकान्तो
विघोरपि । राहोर्मारकतः पीठः शनेर्नीलसमुद्भवः ।
गोमेदकस्तु सौम्बख स्फाटिकस्तु वृत्तुस्फतेः । शुक्रस्य
वैदूर्यमवः प्रायालो भङ्गलस्य हि” । पुराणप्रसिद्धाः ।
“यो यस्य हि दशाजातः पीठस्तस्य हि तन्मयः ।
स्फटिकस्तु महीन्द्राणां सर्वेषामेव युज्यते । अभिषेके च
यात्रायामुत्सवे जयकर्मणि । अयस्कान्तोपघटितः
संग्रामे पीठ इष्यते । गरुडोद्गाररचिते वर्षासु नृपति-
र्वसेत् । शुद्धरत्नमयं पीठं भजते घनगर्जिते ।
सामान्यः प्रास्तरः पीटो विलासाय महीभुजाम् । एषां
मानं गुणाश्चापि विज्ञेया चातुपीठवत्” । काष्ठ-
पीठानां मानं पूर्ववदेव । “सम्पत्तिसुखवृद्ध्यर्थं
सम्भारजनितो जयः । जारको रोगनाशाथ सुखः
शत्रुविनाशनः । सिद्धिः सर्वार्थसंसिद्ध्यै विजयाय च
वैरिणाम् । शुभः स्यादभिषेके च सम्पद्वैरिनिवारिणी ।
पालाशो जारकः पीठः सुखसम्पत्तिकारकः । जयः
स्यादभिषेके च शुभः शत्रुविनाशनः! सुखो रोगवि-
नाशाय सिद्धिः सर्वार्थदायिका । सम्पदुच्चाटनविधौ
विज्ञेया पीठलक्षणम् । चान्दनस्त सुखः पीठो
अभिषेके महीभुजाम् । जयः स्वाद्रोगनाशाय शुभः सौख्यं
प्रयच्छति । जारको ग्रहतुष्ट्यर्थमन्ये तु रतिदु-
ष्कराः । यत्नतो निर्मितास्ते तु साम्नाज्यफलदा-
यकाः । कालेयकी जायको हि भूमुजामभिषेचने ।
पीठानगुरुकादीनामन्ये चन्दनवद्विदुः । बाकुलस्तु
शुभः पीठो भूमुजाममिषेचने । जयो रोगविनाशाय
सुखः सम्पत्तिकारकः । सिद्धिः सिद्धिप्रदा सम्पत् संग्रामे
विजयप्रदा । जारको जरणाय स्यादिति भोजस्य सम्म-
तम् । एवं सुगन्धिकुसुमाः ससारा ये च पादपाः ।
बाकुलेम समः कार्य्य एवं पीठस्य निर्णयः । ये शुष्क-
काष्ठा वृक्षास्तु मृदवो लघवोऽथ वा । गाम्भरोसदृशः
पीठस्तेषां कार्थ्यस्तथा गुणः । फलिनश्च ससाराश्च रक्त-
साराश्च ये नगाः । तेषां पानसवत् पीठस्तथैव गुणमाव-
हेत्” । अथ निषिद्धपीठाः “विज्ञेयो निन्दितः पीठो
लौहोत्थः सर्वधातुजे । शिलोत्थः शार्करो वर्ज्यः कर्करश्च
विशेषतः । काष्ठजेषु च पीठेषु नासारा नातिसारिणः
तथा च “आम्रजम्बुकदम्बानामासनं वशनाशनम्”
भोजस्त्वाह “गुरुः पीठो गौरवाय लमुर्लाघवकारकः”
पराशरस्तु “नाग्रन्थिर्नातिग्रन्थिश्च नागुरुर्नातुमा-
कृतिः । पीठः स्यात् सुखसम्पत्त्यै नातिदीर्घो न वामनः ।
ये चान्ये पीटसदृशा दृश्याः शिल्पिविनिर्मिताः । गुणान्
दोषांच मानञ्च तेषां पीठवदादिशेत् । वितार्य्यामेन
पृष्ठ ४३४१
विघिना यः शुद्धं पीठमाचरेत् । तस्य लक्ष्मीः स्वयं वेश्म
कदाचिन्न विमुञ्चति । अज्ञानादथ वा मोहाद्योऽन्यथा
पीठमाचरेत् । एतानि तस्य नश्यन्ति लक्ष्मोरायुर्बलं
कुलम्” । ३ कंसामात्ये पु० हरिवं० १६१ अ० । ४ असुरभेदे
पु० भा० द्रो० १७ अ० । ५ देवतामूर्त्तिस्थापनाधारे
पिण्डिकायां स्त्री ङीप् स्वार्थे क पीडिका तत्रार्थे
पिण्डिकाशब्दे तृश्यम् । ६ देवतापूजनाङ्गे हृदयरूपे
आघारे तत्र पूज्यपदार्थाः पूज्यदेवताञ्च तन्त्रसारे उक्ता
यथा “पीठपूजां ततः कुर्य्यात् आधारशक्तिपूर्वकम् ।
प्रकृतिं कमठञ्चैव शेषं पृथ्वीं तथैव च । सुधाम्बुधिं
मणिद्वीपं चिन्तामणिगृहं तथा । श्मशानं पारिजातञ्च
तन्मूले रत्नवेदिकाम्” । शारदायाम् “अनन्तं हृदये
पद्मं तस्मिन् सूर्य्येन्दुपावकान् । एषु खखकलां न्यस्य
नामाद्यक्षरपूर्वतः । सत्त्वादीन् त्रिगुणान्न्यस्य यथैवात्र
गुरूत्तभः । आत्मानमन्तरात्मानं परमात्मानमेव च ।
ज्ञानात्मार्न प्रविन्यस्य न्यसेत् पीठमनुन्ततः” ।
पीठशक्तयश्च देवताभेदे इच्छाज्ञानादयस्तत्तत्कल्पोक्ताः
शारदादो दृश्याः । ७ मन्त्रसिद्ध्यर्थजपस्थानभेदे तत्रापि
विष्णुचक्रेण विभक्तस्य सतीदेहस्य तत्तदङ्गभेदपत-
नात् तत्तत्स्थानस्य पूज्यता तत्र पीठानि अङ्गप्रत्यङ्गभेद-
पतनं च तन्त्रचुडामणावुक्तं यथा
“एकपञ्चाशच्च पीठाः शक्तिर्मैरवदेवताः । अङ्गप्रत्यङ्गपा-
तेन विष्णुचक्रक्षतेन च । ममास्य वपुषो देव! हिताय
त्वयि कथ्यते । ब्रह्मरन्धं हिङ्गलायां भैरवो भीमलो-
चनः । कीट्टरीशा महादेव! त्रिगुणा या दिगम्बरी । १
करवीरे त्रिनेत्रं मे देवी महिघर्मर्द्दिनी । क्राधीशो
भेरवस्तत्र २, सुगन्धायाञ्च नासिका । देवस्त्र्यम्बकनामा
च सुनन्दा तत्र देवता ३ काश्मीरे कण्ठदेशश्च त्रिसन्ध्ये-
श्चरभैरवः । अहामाया भगवती गुणातीता वरप्रदा ४ ।
ज्वालामुख्यां महाजिह्वा देव उन्मत्तभैरवः । अम्बिका
सिद्धिदानाम्नी ५, स्तनो जालान्धरे मम । मीषणो
भैरवस्तत्र दवौ त्रिपुरमालिनौ ६ । हृद्यपीठं वैद्यनाथे
यैद्यनाथस्तु भैरवः । देवता जयदुर्गाख्या ७, नेपाले जानु
म क्षिव! । कपाजी भेरवः श्रीमान् महामाया च
देवता ८ । मालवे दक्षहस्तो मे देवी दाक्षायणी हर! ।
अमरो भैरवस्तत्र सर्वसिद्धिप्रदायकः ९ । उत्कले नाभि-
देशस्तु विरजाक्षेत्रमुच्यते । विमला सा महादेवी
जनन्नाथस्तु भेरवः । भण्डक्यां गण्डपातश्च तत्र सितिर्न
सशयः । तत्र सा गण्डकी चण्डी चक्रपाणिस्तु
भैरवः ११ । बहुलायां नामवाहुर्बहुलाख्या च देवता ।
भीसको भैरवस्तत्र सर्वसिद्धिप्रदायकः १२ । उज्जयिन्यां
कूर्परञ्च माङ्गल्यकपिलाम्बरः । भैरवः सिद्धिदः
साक्षाद्देवी मङ्गलचण्डिका १३ । चट्टले दक्षबाहुर्मे भैरव-
श्चन्द्रशेखरः । व्यक्तरूपा भगवतो भवानी तत्र देवता ।
विशेषतः कलियुगे वसामि चन्द्रशेखरे १४ । त्रिपुरायां
दक्षपादो देवी त्रिपुरसुन्दरी । भैरवस्त्रिपुरेशश्च सर्वा-
भीष्टप्रदादयकः १५ । त्रिस्नोतायां वामपादो भ्रामरो
भैरवेश्वरः १६ । योनिपीठं कामगिरौ कामाख्या तत्र
देवता । यत्रास्ते त्रिगुणातीता रक्तपाषाणरूपिणी ।
यत्रास्ते माधवः साक्षादुमानन्दोऽथ भैरवः । सर्वदा
विहरेद्देवा तत्र मुक्तिर्न संशयः । तत्र श्रीभैरवी देवी
तत्र च क्षेत्रदेवता । प्रचण्डचण्डिका तत्र मातङ्गी
त्रिपुरात्मिका । वगला कमला तत्र भुवनेशी सभूमिनी ।
एतानि नवपीठानि शंसन्ति नव भैरवाः १७ । अङ्गुल्यश्चैव
हस्तस्य प्रयागे ललिता भवः १८ । जयन्त्यां वामजङ्घा
च जयन्ती क्रमदीश्वरः १९ । भूतधात्री महामाया भैरवः
क्षीरकण्ठकः । युगाद्या सा महामाया दक्षाङ्गुष्ठः पदो
मम २० । नकुलीशः कालिपीठे दक्षपादाङ्गुली च मे ।
सर्वसिद्धिकरी देवी कालिका तत्र देवता” २१ ।
भुवनेशी सिद्धिरूपा किरीटस्था किरीटतः । देवता
बिमलानाम्नी संवर्त्तो भैरवस्तथा २२ । वाराणस्यां विशा-
लाक्षी देवता कालभैरवः । मणिकर्णीति विख्याता
कुण्डलञ्च मम श्रुतेः २३ । कन्याश्रमे च मे पृष्ठं निमिषो
भैरवस्तथा । सर्वाणी देवता तत्र २४, कुरुक्षेत्रे च
गुलफतः । स्थाणुर्गाम्ना च सावित्री २५ मणिवेदिकदेशतः ।
मणिबन्धे च गायत्री सर्वानन्दस्तु भैरवः २६ । श्रीशैले च
मम ग्रीवा महालक्ष्मीस्तु देवता । भेरवः संवरानन्दो
देशेदेशे व्यवस्थितः २७ । काञ्चीदेशे च कङ्कालो भैरवो
रुरुनामकः । देवता देवगर्भाख्या २ ८ नितम्बः कालमाधवे ।
मैरवश्चासिताङ्गश्च देवी काली सुसिद्धिदा २९ । दृष्ट्वा दृष्ट्वा
नमस्कृत्य मन्त्रसिद्धिमवाप्नुयात् । शोणाख्ये भद्रसनस्तु
नर्मदाख्या नितम्बकम् ३० । रामगिरौ तथा नाला
शिवानी चण्डभैरवः ३१ । वृन्दावन कशजाले उमानाम्नी
च दवता । भूतशो भैरवस्तत्र सर्वसिद्धिप्रदायकः ३२ ।
संहाराख्य उर्द्ध्वदन्ते देवी नारायणी शुचौ ३३
अधोदन्ते महारुद्रो वाराही पञ्चसागरे ३४ । करतोयातटे
पृष्ठ ४३४२
तल्पं वामे वामनभैरवः । अपर्णा देवता तत्र ब्रह्मरूपा
करोद्भवा ३५ । श्रीपर्वते दक्षगुल्फं तत्र श्रीसुन्दरी परा ।
सर्वसिद्धीश्वरी सर्वा सुनन्दानन्दभैरवः ३६ । कपालिनि
भीमरूपा बामगुल्फविभागतः । भैरवश्च महादेव! सर्वा-
नन्दः शुभप्रदः ३७ । उदरञ्च प्रभासे मे चन्द्रभागा
यशखिवी । वक्रतुण्डो भैरवश्चो ३८ र्द्धोष्ठो भैरवपर्वते ।
अवन्त्याञ्च महादेवी लम्बकर्णस्तु भैरवः ३९ । चिबुके
भ्रामरी देवी विकृताख्या जलेस्थले । भैरवः सर्वसिद्धी-
शस्तत्र सिद्धिरनुत्तमा ४० । गण्डोगोदावरीतीरे
विश्वेशी विश्वमातृका । दण्डपाणिर्मेरवस्तु ४१ वामगण्डे
तु राकिणी । भैरवो वत्सनागस्तु तत्र सिद्धिर्न संशयः ४२ ।
रत्नावल्यां दक्षस्कन्धे कुनारी भैरवः शिवः ४३ । मिथि-
लायां महादेवी वामस्कन्धे महोदरा ४४ । नलाहाट्यां
नलापातो योगीशो मैरवस्तथा । तत्र सा कालिका देवी
सर्वसिद्धिपदायिका ४५ । कर्णाटे चैव कर्णोमे त्वभीरुर्नाम
भैरवः । देवता जयदुर्गाख्या नानाभोगप्रदायिनी ४६ ।
वक्रेश्वरे मनःपातो वक्रनाथस्तु भैरवः । नदी पापहरा
तत्र देवी महिपमर्द्दिनी ४७ । यशोरे पाणिपद्मञ्च देवता
यशोरेश्वरी । चण्डव भैरवस्तत्र यत्र सिद्धिमवाप्नु-
यात् ४८ । अट्टहासे चौष्ठपातो देवी सा फुल्लरा स्मृता ।
विश्वेशो मैरवस्तत्र सर्वाभीष्टप्रदायकः ४९ । हारपातो
नन्दिपुरे मैरवो नन्दिकेश्वरः । नन्दिनी सा महादेवी
तत्र सिद्धिर्न मंशयः ५० । लङ्कायां नुपूरञ्चैव भैरवो
राक्षसेश्वरः । इन्द्राक्षी देवता तत्र इन्द्रेणोपासिता पुरा ५१
विराटदेशमध्ये तु पादाङ्गुलिनिपातनम् । भैरवश्चामृता-
ख्यश्च देवी तत्राम्बिका स्मृता ५२ । मागधे दक्षजङ्घा
मे व्योमकेशस्तु भेरवः । सर्वानन्दकरी देवी सर्वानन्द
फलपदा ५३” । (पुस्तकान्तरपाठसंवादात् पीठद्वयाधिक्यं
लिपिकरप्रमादात् पीठद्वयस्य निर्मूलता तत्र कयार्निर्मू-
लता तन्न शक्नुमोविवेचयितुम्) । एतास्ते कथिताः-
पुत्र! पीठनाथाधिदेवताः । क्षेत्राधीर्श विना देव ।
पूजयेच्चान्यदेवताम् । भैरवैर्ह्रियते सर्वं जपपूजादिसाध-
नम् । अज्ञात्वा भैरवं पीठे पीठशक्तिञ्च शङ्कर! ।
प्राणनाथ! न सिध्येत् तु कल्पकोटिजपादिभिः” ।
अन्यान्यपि सिद्धपीठानि कुन्धिकातन्त्रे ७ पटलोक्तानि यथा
“श्रूयतां सावधानेन सिद्धपीठं पतिव्रते! । यस्मिन्
साधनमात्रेण सर्वसिद्धीप्वरी भवेतु । मायावती मधुपुरी
ताशी गोरक्षचारिणी । हिङ्गला च महापीठं तथा
जालन्धरं पुनः । ज्वालामुखी महापीठं पीठ
नगरसम्भवम् । रामभिरिर्महापीठं तथा गोदावरी प्रिये! ।
नेपालं कर्णसूत्रञ्च महाकर्णं तथा प्रिये । अयोध्या च
कुरुक्षेत्रं सिंहलाख्यं मनोरमम् । मखिपुरं हृशीव शं
पयागञ्च तपोवनम् । वदरी च महापीठमम्बिका अर्द्ध-
नालकम् । त्रिवेणी च महापीठं गङ्गासागरसङ्गमम ।
नारिकेलञ्च विरजा उड्दीयानं महेश्वरी । कमला
विमला चैव तथा माहेष्मती पुरी । वाराही त्रिपुरा चैव
वाग्मती नीलवाहिनी । गोवर्द्धनो विन्ध्यगिरिः
कामरूपं कलौ पुगे । घण्टाकर्णोऽक्षयग्रीवो माधवश्च सुरे-
श्वरि! । क्षीरग्रामं वैद्यनाथं जानीयाद्वामलोचने! ।
कामरूपं महापीठं सर्वकामफलप्रदम् । कलौ शीघ्रफलं देवि!
कामरूपे जपः स्न तः” । “पीठप्रसङ्गाद्देवेशि! पीठानि
शृणु भैरवि! । शृणु तानि महाप्राज्ञे । श्रेष्ठस्थानानि
यानि च । सिद्धिप्रदानि साधूना सहद्भिः सेविनानि
च । पुष्करञ्च गयाक्षेत्रं अक्षयाख्यवटस्तथा । वराह
पर्षतश्चैव तीर्धञ्चामरकण्टकम् । नर्मदां यमुनां पिङ्गां
गङ्गाद्वारं तथा प्रिये! । यङ्गासागरसङ्गञ्च कुशावर्त्तल
बिल्वकम् । श्रीनीलपर्वतञ्चैव कलम्बकुब्जिके तथा । भृगु-
तुङ्गञ्च केदारं शर्वपियमहाचलम् । ललिता च
सुगन्धा च शाकम्भरीपुरप्रियम् । कर्णतीर्थं लहारङ्गा
तण्डिकाश्रम एव च । कुमाराख्यप्रभासौ च तथा
धन्या सरस्वती । अगस्त्याश्रममिष्टं मे कन्थाश्रममतः-
परम् । कौशिकी करयूशोणज्योतिः सरः पुरःसरम् ।
कालादकं प्रियं श्रीमत मियमुत्तरमानमम् । मतङ्गवापी
सप्तार्चिर्महाविष्णु पदं महत् । वैद्यनार्थं महातीर्थं
प्रियः काजञ्जरो गिरिः । रामोद्भेदं गङ्गोद्भेदं
हरोद्भेदं महावनम् । भदेश्चरमहांतीर्थं लक्ष्मणोद्भेदमेव
च । जानीहि प्रियश्रेष्ठा च कावेरी कपिलोदका ।
सोमेश्वरं शुक्लतीर्यं कृष्णवेण्वाप्रभेदकम् । पाटला च
महाबोधिर्नगतीर्थं गदन्तिके । पुण्यं रामेश्वरं देवि ।
तथा मेघवनं हरेः । ऐलेयकवगञ्चैव गोवर्द्धनमजप्रि-
यम् । हरिश्चन्द्रं पुरश्चन्द्रं पृथूदकमथ प्रिये । इन्द्र-
नीलं महानादं तथैव प्रियमैनकम् । पञ्चाप्सरः पञ्चवटी
वटी पर्वटिका तथा । गङ्गाविऌपसङ्गश्च प्रियनादिवटं
तथा । गङ्गारामाचलञ्चैव तथैव ऋणनोचनम् । गौतमे
श्वरतीर्थञ्च यशिष्ठतीर्थमेव च । हारीतञ्च तथा देवि ।
ब्रह्मावर्त्त शिवप्रियम् । कुशावर्त्तमभिश्रेष्ठं” हंसतीर्थं
पृष्ठ ४३४३
तथैव च । पिण्डारकवनं ख्यातं हरिद्वारं तथव च ।
तथैव वदरीतीर्थं रामतीर्थं तथैव च । जयन्तो
विजयन्तञ्च सर्वकल्याणदं प्रिये! । विजया सारदातीर्थं भद्र-
कालेश्वरं तथा । अश्वतीर्थं सुविख्यातं तथा देवि!
शिवप्रियम् । ओथवती नदी चैव तीर्थमश्वप्रदं तथा ।
छागलिङ्गमातृगणं करवीरपुरं तथा । सप्तगोदावरं तीर्थं
लिङ्गाख्यं सर्वमोहनम् । किरीटमुत्तरे तीर्थं दक्षिणे
तीर्थमुत्तमम् । विशालतीर्थं काल्याश्च वनं वृन्दावनं
तथा । ज्वालामुखी हिङ्गुला च महातीर्थं गणेश्व-
रम् । जानीहि सर्वतीर्थानां हेतुस्थानानि सुन्दरि! ।
अत्र सन्निहिता नित्यं सर्वदेवा महर्षयः । पितरो योगि-
नश्चैव ये ये सिद्धिपरायणाः । आशु सिद्ध्यन्ति कर्माणि
श्रद्धाभक्तिमतां प्रिये! । पुण्यकाले पठेद्यस्तु तत्पुण्यम-
क्षयं भवेत् । श्राद्धकाले पठेद्यस्तु जुहुयाद्वापि
भक्तितः । अक्षयं तद्भवेत् सर्वं पितॄणां परमं सुखम् ।
अस्मिन् स्थाने पठेद्यस्तु सिद्धिर्भवति तत्क्षणात् । अथ
वक्ष्ये महेशानि! यत्र या देवता शृणु । यत्र ते यानि
नामानि कथायष्यामि तत् शृणु । मग्नोऽहं परमानन्दे
तत्कथामृतवारिधौ । पुष्करे कमलाक्षी च भयायाञ्च
गवेश्वरी । अक्षया चाक्षयवटेऽमरेशोऽमरकण्टके ।
वराहपर्वते च त्वं वराही घरणीप्रिया । नर्मदा नर्मदा-
याञ्च कालिन्दी यमुनाजले । शिवामृता च गङ्गाया
मश्वा देहलिकाश्रमे । शारदा सरयूतीरे शोणे च
कनकेश्वरी । अप्रकाशा सदा देवी ज्योतिर्मय्यब्धिसङ्गमे ।
श्रोनामा श्रीगिरौ चैव काली कालोदके तथा ।
महोदरी महातीर्थे मीला चोत्तरमानसे । मातङ्गिनी
मतङ्गे च गुप्तार्चिर्विष्णुपादके । स्वर्गदा स्वर्गभार्गे च
गोदावर्व्यां गवेश्वरी । विमुक्तिश्चैव गोमत्यां विष्टाशायां
महाबला । शतद्र्वां शतरूपा च चन्द्रभागा च तत्र वै ।
ऐरावत्याञ्च ईर्नाम सिद्धिदः सिद्धितीरके । दक्षा पञ्चनदे
चैव दक्षिणा त्व प्रकीर्त्तिता । औजसे वीर्य्यदा च त्वं
सङ्गमा तीर्थसङ्गमे । बाहुदायामवन्ता त्वं कुरुक्षेत्रेऽरुणे-
क्षणा । तपस्विनी पुण्यतमा भारती भारताश्रमे ।
सुकथा नैमिषारण्ये पाण्डौ च पाण्डरानना । विशा-
लायां विशालाक्षी मुण्डपृष्ठे शिवात्निका । श्रद्धा कन
खले तीर्थे शुद्धबुद्धिर्मुनीश्वरी । मुवेशा सुमना गौरी
मानसे च सरोवरे । नन्दापुरे सहानन्दा ललिता
लसितापुरे । ब्रह्माणी तह्मशिरणि म हादायककाद्धिनां
पूर्णिमा चेन्दुमत्याञ्च सिन्धौरतिप्रिया सदा । जाह्नवी-
सङ्गमे वृत्तिः स्वधा च पितृतुष्टिदा । पुण्या बहुसि-
तायाञ्च प्रपायां पापनाशिनी । शङ्खसंहरणे चैव
थोररूपा महोदरी । स्वर्गोद्भेदे महाकाली प्रवला च
महावने । भद्रा च भद्रकाली च भद्रेश्वरी शिवप्रिया ।
भद्रेश्वरे रमा विष्णुप्रिया विष्णुपदे तथा । दारुणा नर्म-
दोद्भेदे कावेर्य्यां कपिलेश्वरी । भेदिनी कृष्णवेण्वायां
सभेद शुभवाविनी । श्रद्धा च शुक्रतीर्थे च प्रभासे श्वे-
श्वरी तथा । महाबोधौ महाबुद्धिर्पाटले पाटलेश्वरी ।
सुबला नागतीर्थे च नागेशी नागवन्दिता । मदन्तौ च
मदन्ती च प्रमदा च मदन्तिका । मेघस्वना मेघवासे
विविद्युत्सौदामनीच्छदा । रामेश्वरे महाबुद्धिर्वीरा चैला-
पुरे सती । पियालमार्गके दुर्गा सुवेशा सुरसुन्दरी ।
काव्यायनी महादेवी गोवर्द्धनेऽखिलात्मिका । शुभेश्वरी
हरिश्चन्द्रे, पुरश्चन्द्रे पुरेश्वरी । पृथूदके भहावेगा मैना-
केऽखिलवर्द्धिनी । इन्द्रनीले महाकान्ता रत्नवेशा
सुशोभता । माहेश्वरी महानादे, महातेजा महांवने ।
पञ्चाप्सरसि सारङ्गा पञ्चवट्यां तपस्विनी । वटीशी
वटिकायाञ्च सर्ववर्णे सुरङ्गिर्णा । सङ्गमे विन्ध्यगङ्गाख्या,
विन्ध्ये श्रीविन्ध्यवासिनी । महानन्दा नन्दवटे, गङ्गवा-
टाचले शिवा । आर्य्यावर्त्ते महार्य्या त्वं, विमुक्तिरृण-
मोचने । अट्टहासे च चामुण्डा, तन्त्रे श्रीगौतमेश्वरी ।
वेदमयी ब्रह्मविद्या वाशिष्ठे त्वमरुन्धती । हारीते
हरिणाक्षी च ब्रह्मावर्त्ते व्रजेश्वरी । गायत्नी चैव साबित्री
कुशावर्त्ते कुशप्रिया । हंसेश्वरी महातीर्थे परहंसेश्वरे-
श्वरी । पिण्डारकबने धन्या सुरसा सुखदामिनी ।
नारायणी वैष्णवी च गङ्गाद्वारे विमुक्तिदा । श्रीविद्या
वदरीतीर्थे, रामतीर्थे महाधृतिः । जयन्ती च
जयन्ते त्वं, विजयन्तेऽपराजिता । विजया च महाशुद्धिः
सारदायाञ्च सारदा । सुभद्रे भद्रदा, भव्या भद्रकालेश्वरे
तथा । महाभद्रा महाकाली हयतीर्थे गवीश्वरी ।
वेददा वेदमाता च विदेशे वेदमस्तके । युवत्याञ्च
महाविद्या, महानद्यां महोदया । चण्डा च त्रिपदे चैब
छागलिङ्गे बलिप्रिया । मातृदेशे जगन्माता, करवीरपुरे
सती । मालवे रङ्गिणी रामा परमा परमेश्वरी ।
सप्तगोदावरे तीर्थे देवर्षावश्चिलेश्वरी । अयोध्यायां
भवानी च जयदा जयमङ्गला । माधवी मथुरायाञ्च देवकी
याद्रवेश्वरो । वृब्दागोपेश्वरी राधा रासवृन्दावने रमा! ।
पृष्ठ ४३४४
कात्यायनी महामाया भद्रकाली कलावती । चन्द्रमाला
महायोगा महायोगिन्यधीश्वरी । वज्रेश्वरी यशोदेति
वज्रश्रीगोकुलेश्वरी । काञ्च्यां कगकमाञ्ची स्यादवन्त्या-
मतिपावनी । विद्या विद्यापुरे चैव विमला नीलपर्वते ।
रामेश्वरी सेतुबन्धे, विमला पुरुषोत्तमे । विरजा
नागपूर्थ्याञ्च भद्राश्वे भद्रकर्णिका । तमोलिप्ते तसोघ्नी च
स्वाहा सागरसङ्गमे । कुलश्रीर्वंशवृद्धिश्च माधवी
माधवप्रिया । मङ्गला मङ्गले कोटे, राढ़े मङ्गलचण्डिका ।
ज्वालामुखी शिवापीठे मन्दरे भुवनश्वरी । कालीघाटे
गुह्यकाली, किरीटे च महेश्वरी । किरीटेश्वरी
महादेवी लिङ्गाख्ये लिङ्गवाहिनी । साक्षात् सर्वत्र भक्तानाम
भक्ताना कुतोऽपि न । अथान्यत्संप्रवक्ष्यामि सिद्धस्था-
नानि सुन्दरि! । सर्वपापविनाशार्थं सर्वसिद्धिप्रदं
नृणाम् । निर्मितानि शिवेनेह सिद्धस्थानानि यानि च ।
श्रुत्वा मनसि भाव्यानि प्रकाश्यान्यधिकारिषु । अमरेश
महापीठे कुशतुङ्गारसंज्ञकः । तत्र दुर्गाद्वयं नाम
चण्डिका च महेश्वरी । प्रभासे सोमनाथोऽसौ देवी च
पुष्करक्षणा । देवदेवाधिष शम्भुर्नैमिषे च महेश्वरः ।
तत्र प्रज्ञा च देवी च शिवानी लिङ्गधारिणी । पुष्करे च
राजगन्धिः पुरहूता महेश्वरी । श्रीपर्वते श्रिया नाम्ना
शङ्करस्त्रिपुरान्तकः । मायावी शङ्करी तत्र मक्तानाम-
खिलार्थदा । जप्येश्वरे महास्थाने शङ्करी च त्रिशू-
लिनी । त्रिशूली शङ्करस्तत्र सर्वपापविमोचकः ।
आम्रातकेश्वरे सूक्ष्मः सूक्ष्माख्या परमेश्वरी । गखक्षेत्रे
मङ्गलाख्या शिवो यः प्रपितामहः । कुरुक्षेत्रे शिवःस्थाणुः
शिवा स्थाणुप्रिया परा । इष्टनाभे स्वयम्भूश्च देवी स्या-
यम्भुवा मता । उग्रः कनखले प्रोक्तः शिवोऽग्रे शिवव-
ल्लभा । विमलेश्वरे विश्वशम्भुरिष्टा विश्वप्रिया सदा ।
अट्टहावे महानन्दो महानन्दा महेश्वरी । महान्तको
महेन्द्रे च पार्वती च महान्तका । भीमेश्वरो भीमपीठे
शिवा भीमेश्वरी तथा । वस्त्रपादे भवो नाम भवानी
मवनेश्वरी! अद्रिकूटे महायोगी रुद्राणी परमेश्वरी ।
अविमुक्ते महादेवो विशालाक्षी शिवा परा । महामाये
हरोरुद्रो महाभागा शिवा तथा । महाबलश्च गोकर्णे
शिवमद्रा च चण्डिका । भद्रकर्णे मडादेवो भद्रा च
कर्णिका तथा । सुपर्णाख्ये सहस्राक्षः उत्पला परमे-
श्वरी । स्थाणुसंज्ञे शिवः स्थाणुरीशस्था श्रीघरा शिवा ।
कलासये महास्थाने कमलाख्यो महेश्वरः । कमलाक्षी
मांशानी सकलार्थप्रदायिनी । छागला तु कपर्दी च
प्रसमा च महेश्वरी । जर्द्ध्वरेता अरण्ये च सन्ध्याख्या
परमेश्वरी । साकोटे च महाकोटः शिवा च मुण्डके-
श्वरी । मातुलेश्वरपीठे च करवीरार्च्य शेखरा । श्रीम-
द्व्याघ्रपुरे साक्षाद्धरनामा सभापतिः । शिवः सभापति-
र्नाम यत्र नृत्यति शङ्खरः । आत्मानन्दमहानाद पूर्णा-
नन्दमहार्खवम् । नृत्यन्तं यत्र देवेशं देवेशी
परिपश्यति । तत्र चाशु महादेवो भक्तानां वरदो भवेत् ।
नृत्यन्तं यत्र सर्वेशं वीक्ष्य लोको विमुच्यते । पुण्यख्यानेषु
सर्वेषु स्थानमेतन्मनोरमम् । यद्यत्कर्माणि सर्वाणि
अक्षयाणि भवन्ति वै । तस्मिन् महोत्तमे स्थाने
शिवगङ्गाख्यनद्भुतम् । तडागमस्ति तत्तीरे दक्षिणे नृत्यती-
श्वरः । तटाकेऽस्विन् वलन् खात्वा समानाथं समीक्ष्य च ।
अष्टोत्तरसहस्रन्तु जपेच्छुद्धोमुदान्वितः । यानि ते
कथितान्यत्र सदा तिष्ठन्ति देवताः । पिवतः सिद्धगन्धर्वा
सिद्धयः सर्वसिद्धिदाः । अत्र दत्तं हुतं जप्तं स्नानमक्षय-
पुण्यदम् । यद्वत् प्रकीर्त्तित नाम तैरेव परिपूज्य च ।
प्रणवादिहृदन्तेन लमतेऽभीष्टमुत्तमग् । पोजयेद्ब्रा-
ह्मणान् योऽत्र अक्षयं फलमश्नुते । इह नानासुखं
भुक्ता हरगौरीपुरं व्रजेत् । शीकदुःखविनाशोऽयं
करुणानिधिरीश्वरः । निर्ममे सर्वसग्यत्त्यै पुण्यक्षेत्राणि
भूतले । अकाले पुण्यशुद्धानामनेकपुण्यसाधनैः । आ
स्तिकानां भवेदत्र निवासः साधनं प्रति । तस्काद्यत्नेन
कर्त्तव्यमत्र साधनमुत्तमैः” ।
कालिकापु० १९ अ० एकपञ्चाशत्पीठोत्पत्तिर्द्वश्या ।

पीठकेलि पु० पीठमर्द्दे नायकसहायसेदे त्रिका० ।

पीठगात्र न० लेख्यव्रताङ्गाष्टदलकमलाययवभेदे ब्रत० त० ।

पीठचक्र न० पीठ इव चक्रमस्य । शकटादौ “पीठचक्रेण

गोयुक्तेनेत्येके” आश्व० गृ० ४ । २ । ६ “गोयुक्तेन पीठच-
क्रेण शकटादिना” नारा० ।

पीठन्यास पु० पीठे न्यासः । पीठदेवतानां आधारशक्तिप्रकृ-

त्यादीनां प्रणवादिनमीऽन्तेन हृदये न्यासभेदे तन्त्रसारः

पीठभू स्त्री प्राकारसमीपस्थे भूभागे वप्रे हेमच० ।

पीठमर्द्द पु० नायकसहायभेदे “दूरावर्त्तिनि स्यात् तस्य

प्रासङ्गिकेतिवृत्ते तु । किञ्चित्तद्गुणहीनः सहाय
एवास्य पीठमर्दाख्यः” । “तस्य नायकस्य बहुव्यापिनि
प्रसङ्गागतेतिवृत्तेऽनन्तरोक्तैर्नायकसामान्यगुणै किञ्चि-
दूनः पीठमर्दनामा सहायो भवति । यथा राम-
चन्द्रादीनां सग्रीवादयः” साहित्यदर्पणे उक्तम् ।
पृष्ठ ४३४५

पीठसंर्प त्रि० पीठे सर्पति सृप--अच् । खञ्जे भा० व० ३५ अ० ।

णिनि पीठसर्पिन् तत्रार्थे हारा० ।

पीड बधे विलोडने च चु० उभ० सक० सेट् । पीडयति ते ऋदित्

अपिपीडत् त । पीडा पीडनम् । धान्यादेर्मर्दने च ।
  • आ + भूषणे सक० । आपीडयति आपीडा ।
  • अवादिपूर्वकस्तु तत्तदुपसर्गद्योत्यार्थयुक्ते विलोडने ।

पीडन न० पीड + भावे ल्युट् । १ दुःखोत्पादने २ शस्यादीनां

मर्दने (माडा) (देपा) ३ व्यापारभेदे “गर्भोऽभिघातविष-
माशनपीडनाद्यैः पक्वं द्रुमादिव फलं पतति क्षणेन”
माधवकरः ।

पीडा स्त्री पीड--भावे भिदा० अङ् । १ व्यधायां २ दुःखे च

३ कृपायां ४ शिरोमालायां ५ सरलवृक्षे च मेदि० ।

पीडित त्रि० पीड--क्त । १ व्यथिते २ मर्दिते ३ स्त्रीणां करणभेदे

मेदि० “सहखार्णाधिका मन्त्रा दण्डकाः पीडिता ह्वयाः”
तन्त्रसारोक्ते ४ मन्त्रभेटे पु० भावे क्त । ५ पीडायां न० ।

पीत त्रि० पा--कर्मणि क्त । १ पानकर्मणि भावे क्त । २ पाने न०

पिवति वर्णान्तरं पा--ऊणा० कर्त्तरि क्त । ३ वर्णभेदे पु०
४ तद्वति त्रि० अमरः । ५ हरिताले न० मेदि० । पीतं
पानमस्त्यस्य अच् । ६ पानकर्त्तरि त्रि० “वनाय पीत
प्रतिबद्धवत्साम्” रघुः । काव्ये वर्णनीयपीतवर्णद्र-
व्याणि कविकल्पलतायामुक्तानि यथा “पीतानि ब्रह्म १
जीवे २ न्द्र ३ गरुडे ४ श्वरदृ ५ ग्जटाः ६ । गौरी ७ द्वापर ८
गोमूत्र ९ मधु १० वीररसा ११ रजः १२ । हरिद्रा १३
रोचना १४ रीति १५ गन्धके १६ दीप १७ चम्पके १८ । किञ्ज-
ल्क १९ वल्कले २० शालि २१ हरिताल २२ मनःशिलाः
२३ । कर्णिकावं २४ चक्रवाक २५ वानरौ २६ शारिका-
मुखम् २७ । केशवांशुक २८ मण्डूक २९ सराग ३०
कनकादयः ३१ ।

पीतक त्रि० पीत + स्वार्थे क । १ पीतशब्दार्थे संज्ञायां कन् ।

२ हरिताले अमरः ३ कुसुम्भें जटाघरः । ४ असुरभेदे
५ पद्मकाष्ठे ६ रीतौ पित्तले ७ माक्षिके ८ पीतचन्दने न०
राजनि० ९ नन्दीवृक्षे १० पीतशाले च पु० रत्नमाला ।
११ श्योनाकभेदे १२ हरिद्रुवृक्षे १३ अशोकवृक्षे च पु०
राजनि० । पीतेन हरितालेन रक्तं “तेन रक्तं रागात्”
सा० इत्यधिकारे “पीतात् कन्” वार्त्ति० कन् । १४
हरितालेन रक्ते त्रि० । १५ अव्यक्तराशैः संज्ञाभेदे वीजगणि-
तम् । अव्यक्तशब्दे दृश्यम् ।

पीतकदली स्त्री नित्यकर्म० । स्वर्णकदल्याम् (चाँपाकला)

राजनि० ।

पीतकद्रुम पु० नित्यकर्म० । हरिद्रुवृक्षे राजनि० ।

पीतकन्द न० पीतः कन्दो यस्य । गर्जरे (गाँजर) राजनि०

पीतकरवीरक पु० नित्यकर्म० । स्वार्थे क । पीतवर्णकरवी-

रवृक्षे राजनि० ।

पीतकावेर न० कुत्सितं वेरं कावेरं पीतं कावेरं यस्मात् यस्य

वा । कुत्सिताङ्गं पीतं कुर्वति १ कुङ्कुमे २ पित्तले च मेदि० ।

पीतकाष्ठ न० नित्यकर्म० । पीतचन्दने पीतागुरुणि राजनि० ।

पीतकाला स्त्री पीता अथ च काला । आवर्त्तकलतायां

राजनि० ।

पीतकुष्ठ न० नित्यकर्म० । पीतवर्णकुष्ठरोगे “भगिनी गमने चैव पीतकुष्ठं प्रजायते” शाता० ।

पीतगन्ध न० पीत्यमघच गन्धं गन्धयुक्तम् । पीतचन्दगे राजनि०

पीतघोषा स्त्री नित्यकर्म० । पीतपुष्पवत्यां घोषातक्याम् राजनि०।

पीतचन्दन न० नित्यकर्म० । कालेयकेतिप्रसिद्धे चन्दनभेदे राजनि० ।

पीतचम्पक पु० पीतः चम्पक इव । प्रदीपे जटा० ।

पीततण्डुल पु० पीतस्तण्डुलो यस्य । (काङ्गनी) १ घान्यभेदे

हेमच० । २ क्षीरिकावृक्षे स्त्री टाप् । राजनि० ।

पीततुण्ड पु० पीतं तुण्डमस्य । कारण्डवखगे त्रिका० स्त्रियां ङीष् ।

पीततैला स्त्री पीतं तैलं यस्याः । १ ज्योतिष्मतीलतायां जटा०

२ महाज्योतिष्मतीतलायां राजनि० । पीतं तैलं येन
राजद० वा परनि० । पीततैल तैलपीत वा तैलपायिनि त्रि०

पीतदारु न० नित्यकर्म० । १ सरलवृक्षे रत्नमाला २ देववा-

रुणि ३ हरिद्रुवृक्षे च राजनि० । तस्य विकारः रजतादि०
अञ् । पैतदारव तद्विकारे त्रि० स्त्रियां ङीप् ।

पीतदुग्धा स्त्री पीतं दुग्धं यस्याः । वृद्धिपरिवर्त्तनेन

वृद्धिरूपेण यस्या दुग्धमुत्तमर्णेन पीयते तस्याम् गवि
आहितगव्यां धेनुष्यायां हेमच० ।

पीतद्रु पु० नित्यकर्म० । १ सरलवृक्षे २ दारुहरिद्रायाञ्च अमर ।

पीतन न० पीतं करोद्धि पीत--णिच्--ल्यु । १ कुङ्कुमे २

हरिताले ३ पीतदारुणि च मेदि० । ४ प्लक्षे ५ आम्रातके च पु०
मेदि० स्वार्थे क । आखातके (आमडा) पु० राजनि० ।

पीतनील पु० “वर्णो वर्णेन” पा० कर्म० । १ नीलपोतमिश्रिते

हरिद्वर्थ्ये हेमच० । २ तद्वति त्रि० ।

पीतपर्णी स्त्री पीतं पर्णं यस्याः ङीप् । (विछिटी)कतायाम् शब्दच० ।

पीतपाणि पु० पीतः पाणिरस्य । रोगभेदेन पोतवर्णहस्त-

युक्ते “मार्जारे निहते ऐव पीतपाणिः प्रजावते” प्राता-
पृष्ठ ४३४६

पीतपादा स्त्री पीतौ पादौ यस्याः । शारिकाखगे हेमच० ।

पीतपुष्प त्रि० पीतं पुष्पमस्य । १ पीतवर्णपुष्पयुक्ते २ कर्णि-

कारवृक्षे पु० शब्दच० । ३ चम्पकवृक्षे पु० राजनि० । ४ पी
तझिण्ट्यां ५ पिण्डातकभेदे पु० रत्नमाला । पीतं पुष्प
सस्त्यस्याः अच् टाप् । ६ इन्द्रवारुण्यां ७ झिञ्जरिकाक्षुपे
८ आढक्यां च स्त्री राजनि० । पीतं पुष्पं यस्याः
जातित्वात् ङीष् । ९ शङ्खपुष्यां १० सहदेव्यां ११ मर्हाको-
पातक्यां १२ त्रपुष्याञ्च स्त्री राजनि० ।

पीतप्रसव पु० पीतः प्रसवः पुष्पमस्य । पीतकरवीरे राजनि०

पीतफल(क) पु० पीतं फलं यस्य वा कप् । १ शाखोटवृक्षे

राजनि० २ कर्मारवृक्षे त्रिका० ।

पीतबालुका स्त्री पीता बालुकेव चूर्णतात् । हरिद्रायाम् त्रिका० ।

पीतबी(वी)जा स्त्री पीतं वी(वी)जमस्याः । मेथिकायां

राजनि० ।

पीतभृङ्गराज पु० कर्म० । (पीलाकेशरिया) ख्याते पीतवर्णयुक्ते मृङ्गराजभेदे राजनि० ।

पीतमणि पु० नित्यकर्म० । पुष्परागमणौ राजनि० ।

पीतमस्तक पु० पीतं मस्तकं यस्य । खगभेदे मेदि० ।

पीतमाक्षिक न० नित्यकर्म० । माक्षिके राजनि० ।

पीतमुद्ग पु० कर्म० । (सोनामुग) मुद्गमेदे हेमच० ।

पीतमूलक न० पीतं मूलमस्य कप् । (गाँजर) गर्जरे राजनि०

पीतयूथी स्त्री नित्यकर्म० । स्वर्णयूथ्यां राजनि० ।

पीतरक्त न० “वर्णो वर्णेन पा० कर्म० । १ रक्तयर्णे अथच

पोतवर्णे च पीतेन रक्तं कृतरागम् । २ पुत्परागमणौ
न० राजनि० ।

पीतराग न० पीतो रागो वर्णो यस्य । १ किञ्जल्के २

सिक्थे च कर्म० । ३ पीतवर्णे पु० ४ तद्वति त्रि० ।

पीतरोहिणी स्त्री पीता सती रोहति रुह--णिनि ङीप् ।

काश्मर्य्याम् भावप० ।

पीतल पु० पीतं वर्णान्तरं लाति ला--क । १ पीतवर्णे २ तद्युते त्रि० ।

पीतलक न० पीतलेन वर्णेन कायते कै--क । पित्तले राजनि०

पीतलीह न० नित्यकर्म० पित्तले राजनि०

पीतवासम् पु० पीतं वासो लस्य । १ श्रीकृष्णे० हला० २ हरिद्राभवस्त्रयुते त्रि०

पीतवृक्ष पु० नित्यकर्म० । श्योनाकभेदे राजनि० ।

पीतशाल पु० पीतं फलं शलति याति शल--अच् उपस० ।

असनवृक्षे (पियासाल) अमरः ।

पीतसार न० पीतं सारं यस्य । १ पीतवर्णचन्दनकाष्ठे

मलयक्षे शब्दच० २ हरिचन्दने च ३ गोमेदसणौ पु० मेदि०
४ अङ्काटवृक्षे जटा० ५ तुरस्के वीजके च पु० राजनि० ।
कप् । पीतसारक निम्बे शब्दच० ।

पीतसारि न० पीतं सारयति सृ--णिच्--इन् । स्रोतोऽञ्जने शब्दच० ।

पीतसालक पु० कर्म० संज्ञायां कन् । (पेयासाल) पियाल-

वृक्षे अमरः ।

पीतस्कन्ध पु० पीतः स्कन्धोयस्य । हरिद्राभस्कन्धयुक्ते वृक्षभेदे शब्दार्थकल्प० ।

पीतस्फटिक पु० नित्यकर्म० । पुष्परागमणौ राजनि० ।

पीतहरित पु० “वर्णो वर्णेन” पा० १ पीतवर्णे अथच

हरिद्वर्णे २ तद्युते त्रि० हेमच० ।

पीताङ्ग पु० पीतमङ्गमस्य । १ श्योनाकभेदे राजनि० । २ हरिद्राभगात्रे त्रि स्त्रियां ङीष् ।

पीताब्धि पु० पीताऽब्धिः समुद्रो येन । अगस्त्यमुनौ हेमच०

तत्कथा भा० व० १०५ अ० दृश्या ।

पीताम्बर पु० पीतमम्बरं यस्य । १ श्रीकृष्णे अमर २ शैलूषे

नटे च मेदि० ३ हरिद्राभवस्त्रयुक्ते त्रि० कर्म० । ४ पीते-
वसगे न० ।

पीतारुण पु० “वर्णो वर्णेन” प्रा० कर्म० । १ पीतरक्तमिश्रितवर्णयुक्ते २ तद्वति त्रि० ।

पीताश्मन् पु० नित्यकर्म० । पुष्परासमणौ राजनि० ।

पीति पु० पा--क्तिच् । १ घाटके अमरः पा--भावे क्तिन् ।

२ पाने ३ गतौ च करणे क्तिन् । ४ शुण्डायाम् मेदि० ।

पीतिका स्त्री पीतैव स्वार्थे क अतैत्त्वम् । १ दारुहरिद्रायां

रत्नमाला २ स्वर्णयूथ्यां जटा० ।

पीतिन् स्त्री पीतमनेन इष्टादित्वादिनि । घोटके रावमुकुटः

पीतु पु० पा--पाने पा--रक्षणे वा तन् किच्च । १ वह्नौ २ दिवा-

करे च उज्ज्वलद० सूर्य्येण रश्मिभिर्जलस्य पानात्
वह्निना स्वदह्यमामायोयुक्तजलस्य पानात्तथात्वम् । ३
यूथपतौ सक्षिप्तसारः ।

पीतुदारु पु० पीतुरिव अग्नितुल्यं सूर्य्याभं वा दारु यस्य ।

१ उदुम्बरे शत० ब्रा० ३५२१५ माधवः । २ देवदारुणि
कात्या० श्रौ० २४ ३ १२ कर्कः ।

पीत्वास्थिरक त्रि० पीत्वा स्थिरः मयू० स० । पानोत्तरं स्थिरीभूते ।

पीथ न० पा--पाने कर्मणि थक् । १ घृते २ जले च ३ सूर्य्ये

४ वह्नौ च पु० उज्ज्वलद० ।

पीथि पु० पीति + पृषो० । घोटके क्षीरस्वामी

पीन त्रि० प्याय--क्त सप्रसारणे दीर्घः । १ स्थूले २ वृद्धे सम्पन्ने

च अमरः । भावे क्त । ४ स्थूलतायां न० । पीनस्यादूरदे-
शादि अश्मादि० र । पीनर पीनस्य सन्निकृष्टदेशादौ त्रि० ।

पीनस पु० पीनं पीनतां स्यति सो--क । १ नासिकारोगभेदे

प्रतिश्याये अमरः तद्रोगस्य निदानादि माघवकरीक्तं यथा
“आनह्यते यस्य विशुष्यते च प्रक्लिद्यते घूप्यति चैव-
पृष्ठ ४३४७
नासा । न येत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येत्
खलु पीनसेन । तञ्चागिकश्लेष्ममवं विकारं ब्रूयात्
प्रतिश्यायसमानलिङ्गम्” । आमपीनसलक्षणं यथा
“शिरोगुरुत्वमरुचिर्नासास्रावस्तनुस्वरः । क्षामः ष्ठीवति
क्षाभीक्ष्ममाभपीनसलक्षणम्” । पक्वपीनसलक्षणं यथा
“आमलिङ्गाग्वितः श्लेष्मा घनः खेषु निमज्जति । स्वर-
वर्णविशुद्धिश्च पक्वपीनसलक्षणम्” । २ कर्कठ्यां स्त्री
राजनि० गौरा० ङीष् ।

पीनोध्नी स्त्री पीनमूधोऽस्याः ङीप् अनङन्तादेशः । पीवरो धस्कायां गवि अमरः ।

पीपर याच्ञायां भ्वा० सक० पर० सेट् । पीपरति निघण्ठुः ।

पीपरि पु० अपि + पृ--इन् अल्लोपः दीर्घः । ह्रस्वप्लक्षेराजनि०

पीय प्रीणने सौ० पर० सक० सेट् । पीयति अपीयीत्

पिपीय । अयं हिंसायां निरु० ४ २५

पीयत्नु त्रि० पीय--हिंसायां बा० कत्नु । हिंसाशीले शत्रौ

ऋ० ८ २ १५

पीयु पु० पा--पाने कु नि० । १ काले २ काके च उज्ज्वल० । ३ रवौ ४ घूके च मेदि० ।

पीयूक्षा स्त्री प्लक्षभेदे ततः चतुरर्थ्यां काशा० इल । पीयू-

क्षिल तत्सन्निकृष्टदेशादौ त्रि० । तस्याः विकारः ताला०
अण् । पैयूक्ष तद्विकारे त्रि० । एतत्परस्य वनस्य णत्वं
पीयूक्षावणम् ।

पीयूष न० पीय--ऊषन् । देवानां पेयभेदे १ अमृते । नवप्रसूता-

याः गोः आसप्तरात्रभवे २ दुग्धे च अमरः । तत्रपेयूषमपि

पीयूषमहस् पु० पीयूषमिव आह्लादकं महो यस्य । सुधाकरे

१ चन्द्रे शब्दरत्ना० २ कर्पूरे च । पीयूषरुचिप्रभृतयोऽप्यत्र ।

पीयूषवर्ष पु० पीयूषं वर्षति करद्वारा वृष--अण् उप० स० ।

१ चन्द्रे २ कर्पूरे ३ चन्द्रालोकालङ्कारग्रन्थकारे विद्वद्भेदे च

पील रोधे भ्वा० पर० सक० सेट् । पोलति अपीलीत् पिपील ।

पीलक त्रि० पील--ण्वुल् । १ रोधके २ पिपीलिकायां हेमच० ।

पीला स्त्री पीलनाम्न्यां स्त्रियाम् तस्या अपत्यं “पीलाया

वा” पा० अण् पक्षे “ह्यचः” इति ढक् । पैलपैलेय
तदपत्ये पुंस्त्री० ।

पीलु पु० पील--उ । १ परमाणौ पीलुपाकः इति वैशेषि-

कादयः । पीलुपाकप्रकारः कणादसूत्रोपस्करवृत्तौ ७ ६
सूत्रे दृश्यः औलुक्यशब्दे सर्वदर्शसंग्रहोक्तं १५८७
पृ० दर्शितम् । २ गजे ३ अस्थिखण्डे ४ तालकाण्डे
५ कुसुमे च मेदि० ६ शरे ७ कृमौ चरणिः । कोङ्कणदे-
शख्याते ८ गुड़फलवृक्षे राजनि० । तस्यगुणाश्च राजनि०
उक्ता यथा “पीलुः श्लेष्म वायुगुल्मनाशनः पित्तदी
मतः । यत् स्यादु तिक्तं तन्नोष्णं त्रिदोषहरणं फलम्”
तस्वफलमण् तस्य लुक् । ९ तत्फले न० ।

पीलुक पु० पीलुरिव कायति कै--क । कृमिभेदे हेमच० स च

त्रीन्द्रियः “कृमिपीलुकलूताद्याः स्युर्द्धित्रिचतुरिन्द्रियाः”
हेमच० ।

पीलुकुण न० पीलूनां पाकः पील्वादि० कुणच् । पीलुपाके

तस्येदम् उत्सा० अञ् । पैलुकुण तत्सम्बन्धिनि त्रि० ।

पीलुनी स्त्री पील--उन गौरा० ङीष् । मूर्वायाम् रत्नमा० ।

पीलुपत्र पु० पीलुयुक्तं कृमिकलितं पत्रं यस्य । मोरटा-

लतायां राजनि० ।

पीलुपर्णी स्त्री पीलुकलितानि पर्णान्यस्याः ङीप् । १ मूर्वा-

याम् २ विम्बिकायाम् ३ ओषधिभेदे च मेदि० ।

पीलुमूल न० ६ त० । १ पीलोर्मूले २ शतमूल्यां स्त्री रत्नमाला

३ शालपर्ण्यां भावप्र० ४ तरुण्यां गवि च संक्षिप्तसारः ।
५ अश्वगन्धायां ६ शतावर्य्यां च स्त्री टाप् राजनि० । तत्र
दीयते व्युष्टा० अण् । पैलुमूल । तत्र देये । “तेनैकदिक्” पा०
अधिकारे तसिः । पोलमूलतस् पीलुमूलैकदिशि अव्य० ।

पीलुवह त्रि० पीलुं वहति वह--अच् पील्वादीनां पर्युदासात्

“इको वहे” पा० न दीर्घः । पीलुवाहिनि जलादौ ।

पील्वादि पु० पाके कुणच्पत्ययनिमित्ते शब्दगणे स च पा०

ग० सू० उक्तो यथा “पीलु कर्कन्धू शमी करीर कुवल
वदर अश्वत्थ खदिर” ।

पीव स्थौल्ये भ्वा० पर० अक० सेट् । पीवति अपीवीत् पिपीव ।

पीवन् त्रि० प्यै--क्वनिप् सम्प्र० दीर्घः । १ स्थूले अमरः ।

२ वलवति त्रि० ३ वायौ पु० संक्षिप्तसारः ।

पीवर त्रि० प्यै--ष्वरच् सम्प्र० दीर्घः । १ स्थूले उपचितावयव-

युक्ते (मोटा) अमरः स्त्रियां ङीष् । तामसमन्वन्तरे
२ सप्तर्षिभेदे पु० मार्क० पु० ७४ अ० ।

पीवस् त्रि० पीव--स्थौल्ये असुन् । स्थूले । पीवान् पीर्वासौ इत्यादि ।

पीवा स्त्री पी--पाने बा० व । जले सक्षिप्तसारः ।

पीवीपवसन त्रि० पीवसः उपवसनं समीपस्थितिरस्य पृषो०

सलोपः । सूक्ष्मे यजु० २१ ४१ वेददीपः ।

पुंयोग पु० ६ त० । पुरुषयोगे “लक्ष्मीः पुंयोगमाशंसुः” ।

पुंराशि पु० कर्म० । विषमे राशौ मेघमिथुनसिंहादौ ।

पुंलिङ्ग न० ६ त० । १ पुरुषचिह्ने शिश्ने । पुंस इव लिङ्ग-

मस्य । २ पुंस्त्वबोधके शब्दभेदे पु० ।

पुंवत् अव्य० पुंसैव वति । पुंसा तुल्ये । तस्य भाव । पुंव-

द्भाव पुंलिङ्गस्य शब्दस्येव भावे पुंसैव रूपे ।
पृष्ठ ४३४८

पुंवत्स पु० कर्म० । १ पुरुषरूपे वत्से । पुमान् वत्सो यस्याः ।

२ पुंरूपवत्सवुक्तायां गव्यादौ स्त्री लात्या० श्रौ० ४ । १४ । १

पुंवृष पु० पुमानिव वर्षति वृष--क । छछून्दरे (छुँछा) शब्दमा०

पुंश्चली स्त्री पुंसो भर्त्तुः सकाशात् चलति पुरुषान्तरं गच्छति

अच् मौरा० ङीष् पुंसोन्त्यलोपे अम्परे खयिरुस्तस्य
“संपुंकानाम् सः” बा० सः श्चुत्वम् । १ असत्यां स्त्रियाम्
अमरः । उपचारात् ३ पारदारिकपुरुषेऽपि । “अरेखे-
णायुर्नवतिर्विच्छिन्नाभिश्च पुंश्चलाः” गरुड़पु० ६६ अ० ।
पुंश्चसौनिन्दा ब्रह्मवै० पु० श्रीकृष्णजन्मख० २३ । २४ । ३२ अ०
यथा “अहो कोवेद भुवने दुर्ज्ञेयं पुश्चसीमनः । पुंश्चल्यां
यो हि विंश्वस्तो विघिना स विड़म्बितः । नहिष्कृतश्च
यशसा धर्मेण स्वकुलेन च । वाञ्चितं तूतमं प्राप्य
विसुञ्चति पुरातनम् । सदा स्वकर्मासाध्या सा को वा
तस्याः प्रियोऽप्रियः । दैवे कर्मणि पैत्रे च पुत्रे बन्धौ
च भर्त्तरि । दारुणं पुंश्चलीचित्तं सदा शृङ्गार
कर्मणि । प्राणाधिकं रतिज्ञं साऽमृतदृष्ट्या हि पुंश्चली ।
रत्नप्रदं रत्यविज्ञं विषदृष्ट्या हि पश्यति । सर्वेषां
स्थलमस्त्येव पुंश्चलीनां म कुत्रचित् । दारुणा पुंश्चली
जातिर्नरजातिभ्य एव च । निष्कृतिः कर्मभोगान्ते
सर्वेषामस्ति निश्चितम् । न पुंश्चलीना विप्रेन्द्र!
यावच्चन्द्रदिवाकरौ । अन्यासां कामिनीनाञ्च कीटं हन्तुञ्च
ता दया । सा भास्ति पुंश्चलीनान्तु कान्तं हन्तुं पुरा-
तनम् । रतिज्ञं भूतनं प्राप्य विषतुल्यं पुरातनम् ।
कान्तं दृष्ट्वा हिनस्त्येव सोपायेनावलीलया । पृथिव्यां
यानि पापानि पुंश्चलीष्वेव भारते । तिष्ठन्ति ताभ्यो न
पराः पापिष्ठाः सन्ति केचन । पुंश्चसीपरिपकान्नं सर्ब
पातकमिश्रितम् । दैवे कर्मणि पैत्रे च देयं न च तथा
जलम् । अन्नं विष्ठा पयो मूत्रं पुंश्चलीनाञ्च निश्चि-
तम् । दत्त्वा पितृभ्यो देवेभ्यो भुक्त्वा च नरकं व्रजेत् ।
शनवर्षं कालसूत्रे पचत्येव सुदारुणे । घोरान्धकारे
कृमयस्तददन्ति दिवानिशम् । पुंश्चल्यन्नञ्च यो भुङ्क्ते
दैवाद्यदि नराघमः । सप्तजन्मकृतं पुण्य तस्य नश्यति
निश्चितम् । आयुःश्रीयशसां हानिरिह लोके परत्र
च । तस्माद्यत्राद्रक्षणोयं पाकपात्रं कलत्रकम् । पुंश्च-
लीदर्शने पुण्यं यात्रासिद्धिर्भवेद्ध्रुवम् । स्पर्शच्चे च
महापापं नीर्थस्यानाद्विशुद्ध्यति । स्नानं दानं व्रतञ्चैव
जपश्च देवपूजनम् । निष्फलं पुंसलीनाञ्च मारते जीवनं
तथा” । “अहो सर्वै परित्याज्या पुंश्चली च विश-
षतः । धनायुःप्राणयशसां नाशिनी दुःखदायिनी ।
स्वकार्य्यतत्परा शश्वत् परकार्य्यविघातिनी । निष्ठुरा
नरघातिभ्यः सर्वापद्वीजरूपिणी । विद्युद्दीप्तिर्जले रेखा
लोभान्मैत्री यथा भवेत् । परद्रोहाद्यथा सम्पत्
कुलटा प्रेम तत्परम् । सर्वेभ्यो हिस्रजन्तुभ्यो विपद्बीजा
सदैव सा । योविश्वसेत्तां संमूढो विपत्तस्य पदे पदे” ।

पुंश्चलू स्त्री पुंपश्चलति चल--कू पुंश्चलीवत् सन्धिकार्यम् ।

पुंश्चल्यां स्त्रियाम् “कामस्य पुंश्चलूम्” यजु० ३० । ५० वेददी०

पुंश्चिह्न न० ६ त० पुंश्चलीवत् सन्धिकार्यम् । पुरुषचिह्ने

शिश्ने हेमच० ।

पुंस मर्दे चु० उभ० सक० सेट् । पुंसयति ते अपुपुंसत् त ।

पुंसवन न० पुमान् सूयते अनेन सू--करणे ल्युट् । स्त्रीणां गर्भ-

पात्रसंस्कारभेदे तच्च कर्म द्विविधम् यथाह ज्यो० त० गोभिलः
“तृतीयस्य गर्भमासस्यादिमदशे पुंसवनस्य कालः” । गर्भे
सति तृतीयमासस्य आदिमदशे दशमदिनाभ्यन्तरे ज्यो-
तिःशास्त्रोक्तकाले पुंसवनं कार्य्यम् । “प्रातः सशिरस्का-
प्लुता पश्चादग्नेरुदगग्रेषु कुशेषु प्राच्युपविशति” गो० ।
आप्लुवा स्नाता पश्चात् प्रश्चिमदिशि प्राङ्मुखी उपविशति
“पत्युर्दक्षिणतः पाणिग्राहकस्योपविशति” इत्यन्यत्र दर्श-
नात् । पश्चादित्यभिधानात् अग्निस्थापनं लभ्यते । तत्
सार्थकत्वाय “आज्वं द्रव्यमनादेशे जुहोतिषु विधीयते ।
मन्त्रस्य देवताऽलाभे प्रजाषतिरिति स्थितिः” इति छन्दोग-
परिशिष्टोक्तद्रव्यादि लभ्यते । जुहोतिषु हवनेषु मन्त्रस्या-
नादेशे प्रजापतिः प्राजापत्थोमन्त्रः । स च मन्त्रः व्या-
हृत्यात्मकः । ततश्च विरूपाक्षजपान्तां कुशण्डिकां समाप्य
समित्प्रक्षेपादिमहाव्याहृतिमिर्होमं कृत्वा प्रजापतिदेव-
ताकसमस्तपहाव्याहृतिहोमं कुर्य्यात् । ततः प्रकृतं
कर्म । तत्र गौभिणः “पश्चात् पतिरवस्थाय दक्षिणेन
पाणिना दक्षिणमंसमन्ववमृष्यानाहितं नाभिदेशम-
भिस्पृणेत् पुमासौ मित्रावरुणावित्येतयर्च्चा” । उपवि-
ष्टाया बध्याः पश्चिमदेशं गत्वानुपविष्टः पतिर्दक्षिण-
हस्तेन तूष्णीं तस्या दक्षिणस्कन्धमवमृव्य वस्त्राद्यव्यव-
हितं नाभिं पुंमासाविति मन्त्रेण स्पृशेत् । अथ
अनन्तरं वामदेव्यगानान्तं समापयेत् । यदि त्वशक्ते-
र्देशाचारात् कुलाचाराद्वा एकस्मिन् दिने द्वितीयपुंस-
वनमपि क्रियते तदा गणेष्वेकं परिसमहनम “इष्मो
वर्हिःपर्युक्षणमाज्यभागः सर्वेभ्यः समवदोय सक्लदेव
पौनिष्टिकृतं प्रुहोतीति” गोमिलसूत्रान्तरात् । उभय-
पृष्ठ ४३४९
कर्मान्ते वामदेव्यगानाद्युदीच्यं कर्म कर्त्तव्यम् । अतएव
सरलायां दिनद्वये भट्टभाष्यभवदेवयोरेकदिने उभयकरणं
लिखितम् । “अथापरम्” गो० अथ प्रथमपुंसवनसमाप्ति-
कालानन्तरं तदानीमपरमन्यत् पुंसवनं कार्य्यम् “प्रागु-
दीच्यां दिशि न्यग्रोधशुङ्गामुभयतःफलामम्लानामकृमि-
परिमृष्टां त्रिःसप्तभिर्यवैर्माषैर्वा परिक्रीय उत्थापयेत् ।
यद्यसि सौमी सोमाय त्वा वह्ने परिक्रीणामि, यद्यसि
वारुणी वारुणाय त्वा वह्ने परिक्रीणामि, यद्यसि
वसुभ्यः वसुभ्यस्त्वापरिक्रीणामि, यद्यसि रुद्रेभ्यो रुद्रेभ्यस्त्वा
परिक्रीणामि, यद्यसि आदित्येभ्य आदित्येभ्यस्त्वा
परिकीणामि, यद्यसि मरुद्भ्यो मरुद्भ्यस्त्वा परिक्रीणामि,
यद्यसि विश्वेभ्यो देवेभ्यस्त्वापरिक्रीणामि ओषधयः
सुमनसो भूत्वा अस्यां वीर्य्यं समाधत्त इयं कर्म करिष्यती-
त्युत्थाप्य तृणैः परिधायाहृत्य वैहायसीं निदध्यात्” सू० ।
वटतरोः पूर्वस्यां दिशि शुङ्गा मुकुलितप्लवः । “लताग्र-
स्यप्लवो गूढः शुङ्गेति परिकीर्त्त्यते । पतिव्रता व्रतवती
ब्रह्मबन्धुस्तथाऽश्रुतः” इत्युक्तेः । अश्रुतो वेदहीनः तां
फलयुगलयुतामम्लानां कृमिभिरव्याप्तां त्रिरावृत्तैः सप्त-
भिर्यवैर्माषैर्वा त्रिरावृत्तैः क्रीत्वा गृह्णीयात् । क्रयश्च
वृक्षस्वामिनी, न वृक्षात् तेन वृक्षस्वामिने यवा माषा वा
देदाः यद्यसीत्यादि सप्तभिर्मन्त्रैः । प्रतिमन्त्रञ्च गुड़क-
त्वयम् दद्यात् । ओषधय इति मन्त्रेणीत्थाप्य च तृणै-
र्वेष्टयित्वा आनीयाकाशस्थां निदध्यात् । दृशदं प्रक्षाल्य
ब्रह्मचारोवतवती वा ब्रह्मबन्धुः कुमारी वा अप्रत्या-
हरन्ती पिनष्टि दृशदं शिलां पेषणार्थत्वेन सपुत्रां कुमारी
अनूढा व्रतवती पतिव्रता अप्रत्याहरन्ती तिर्य्यक्पुत्र
केण पेषणमकुर्वती किन्तूच्छ्रितपुत्रकेण पुनःपुनः मषणं
कुर्वती प्रातःसशिरस्काप्लुता उदगग्रेषु कुशेषु प्राक्-
शिराः संविशति शेते शेषं सुगमम् । “पश्चात् पतिरव-
स्याय दक्षिखस्य प्राणेरङ्गुष्ठेनोपकनिष्ठयाऽङ्गुल्या
अभिसगृह्य दक्षिणनासिकाग्रेण तस्या नयेत् । पुनानग्निः
पुमानिन्द्र इत्येतयर्च्चा” सू० । पश्चाद्बध्वाः पश्चिम-
दिशि उपकनिष्ठयानामिकया तेनाङ्गुष्ठानामिकाभ्याम् ।
पिष्टां शुङ्गां वस्त्रबद्धां गृहीत्वा निष्पीड्य दक्षिणना-
सारन्धे क्षिपेत् पुमानग्निरिति मन्त्रेण । अथ अन
न्वरं दाक्षणाद्युदीच्यं कर्म कुर्य्यात् । पुंसवनकर्माधान-
कर्तुरसन्निधानेऽन्येनापि कर्त्तव्यम् “अष्टौ संस्कारक-
र्माणि गर्भाधानमिव खयम् । पिता कुर्य्यातदन्थो वा
तस्याभावेऽपि तत्क्रमात्” इति स्मृतेः । मुजयये “सुफ-
लञ्च करे कृत्वा स्थिरे तत्रासने तथा । गृह्योदितेन
होमञ्च शान्तिञ्चैव च कारयेत् । ऊर्णासूत्रेण संग्रथ्य
जीबं जातीञ्च विक्रमम् । गुवाकं रजतं हेम दद्यात् स्तन
तटान्तरे । तत्प्रभृति नदीतीरं देवखातोदकं त्यजेत् ।
सन्ध्याटनं तरोर्मूखं तथा देवगृहं त्यजेत्” ।
पुंसवन मुहूर्त्तादिकं मु० चि० पी० उक्तं यथा
“पूर्वोदितैः पुंसवनं विधेयं मासे तृतीये त्वथ विष्णुपूजा”
मु० चि० “पूर्वोदितैरिति । पूर्वं सीमन्तोन्नयने उदितैः
प्रोक्तैस्तिथिवारनक्षत्रलग्नैरुपलक्षिते तृतीये मासि पुंस-
वनाख्यं कर्म विधेयम् । पुमान् सूयतेऽनेन कर्मणेति
व्युत्पत्त्या पुंसवनकर्मणा पुंस्त्वहेतुना । यदाह शौनकः
“व्यक्ते वर्भे तृतीये तु मासे पुंसवनं भवेत् । गर्भेऽव्यक्ते
तृतीये चेत् चतुर्थे मासि वा भवेत्” नृसिहः “सीमन्तोन्न-
यनस्योक्ततिथिवासरराशिषु । पुंसवं कारयेद्विद्वान् सहैवै-
कदिनेऽथ वा” इति । विशेषमाह वसिष्ठः “कुर्य्यात्पुंस-
वनं प्रसिद्धविषये गर्भे तृतीयेऽथ वा मासि स्फीततनौ
तुषारकिरणे पुष्येऽक्ष वा वैष्णवे । हित्वा कर्कटकं नृयु-
ग्ममवलामन्येष्वरिक्ते तिथौ शुद्धे नैधनधाम्नि शुक्र
शशभृद्विन्मन्धिणां वासरे” इति । नैधनधास्नि अष्टम-
स्थाने शुद्धे सर्वग्रहरहिते । यदाह वसिष्ठः “अष्टमस्था
ग्रहाः सर्वे नेष्टास्तेऽस्ते शुभावहाः । एवं सम्यक्
परीक्ष्यैव कुर्य्यात्पुंसवनक्रियाम्” इति । वारास्त्वत्र सौम्य-
ग्रहाणामुक्ता । वृहस्पतिरप्यत्र विशेषमाह “गुरुशुक्र-
बुधेन्दूनां देष्काणदिवसांशकाः । तेषामुदयहोराश्च
पुंसवेऽतिशुभावहाः” इति अन्यैस्तु श्रीपत्यादिभिः पुंवारा
एव प्रशस्ता अभिहितास्तत्फलान्याह गर्गः “सौम्ये
गृतपन्ता मन्दे मृत्युर्बन्ध्या च भार्गवे । सोमे दुग्धविही-
ना स्यात् शेषाः सर्वार्थसिद्धिदा” इति । अत्र वचनद्वय
ग्रामाण्याद्विकल्यः । केचित्तु यदा तृतीये मासि पुंस-
वनं चिकीर्षितं तदा सौम्ववारा एव ग्राह्याः । यदा तु
चतुर्थे मासि गर्भस्य व्यक्तत्वात् पुंसवनं चिकीर्षितं तदा
पु वारा एव ग्राह्या इत्याहुः । नक्षत्राणि ह्यत्र पुंना-
मानि ग्राह्याणि तानि “श्रवणः सकर” इति श्रीपति-
नोक्तानि । वसिष्ठेन तु पुंनामान्यभिहितानि यथा
“पुंनाम श्रवणं विष्यः स्वाती हस्तः पुनर्वसुः । मूणं
प्रोष्ठपदं चानुराधा मृगशिरोऽश्विनी” । बिशेषमाह
ऋक्षोच्चयः । “हस्तार्द्रातिष्यमूलानि सौम्यी विष्णुः पुन-
पृष्ठ ४३५०
र्वसुः । प्रोष्ठपदाद्वयं प्रोक्तमाषाढ़द्वयमेव च । श्रेष्ठानि
कथितान्येव धिष्ण्याग्येकादशैव तु । स्वातौ तथा
मचायां च रेवत्यां फल्गुनीद्वये । अश्विन्यां चैव नक्षत्रे
यदा पुंसवनं मवेत् । नरः सम्पद्यते दैवाद्यदा स्याद्गु-
रुतल्पगः । लुव्योह्वखतनुः क्रूरो नारी चेत् कुलटा
मवेत् । शेषाणि दश धिष्ण्यानि निन्दितानि विशेषतः”
तदेतयोर्द्विरुद्धार्थयोर्वाक्ययोर्देशाचारतो व्यवस्था । तत्र
वसिष्ठवाक्येन दाक्षिणात्याप्यवहरन्ति । प्राच्यास्तु
ऋक्षोच्चयवाक्येन । अथ लग्नशुद्धिमाह ऋक्षोच्चयः
“मीनवृश्चिककुम्भेषु चापगोसिंहकन्यकाः । उक्ताः पुंस-
वनाद्येषु सुखपुत्रादिवाञ्छया । केन्द्रत्रिकोणभवनेषु
शुभस्थितेषु पापेषु षट्त्रिदशलामगृहस्थितेषु । जीवेन्दु-
भानुभृगुभूमिजमन्दिरेषु लग्नेषु लग्नपरिशुद्धशुर्भाश-
केषु” । अत्रापि स्त्रीपुंसयोश्चन्द्रवलमावश्यकमित्याह
नृसिंहः “अपि पुंसवनं कार्यं दम्पत्योरनुकुलभे ।
जन्मादि वर्जयेद्राशिं चांशकं विपदादिषु” इति पी० धा० ।
“कुर्य्यात् पुंसवनं सुयोगकरणे नन्दे सभद्रे तिथौ
भाद्राषाढ़नृभेश्वरेषु नृदिने वेधं विनेन्दौ शुभे । अक्षीणे
नवपञ्चकण्टकगते सौग्ये शुभे वृद्धिषु स्त्रीशुद्ध्या घटयुग्म
सूर्य्यगुरुभेषूद्यत्सु मासत्रये” ज्यो० त० । नृदिने पुं
ग्रहवारे । वेधो दशयोगभङ्गः । वृद्धिरुपचयनस्थानम् ।
अप् । पुंसवोऽप्यत्र पु० ।
पुंसवनव्रतञ्च भाग० ६ स्कन्धे १९ अ० “शुक्ले मार्गशिरे
पक्षे योषिद्भर्त्तृरनुज्ञया । आरभेत व्रतमिदं सार्वकामिक-
मादिशेत्” इत्युपक्रम्योक्तं दृश्यम् ।

पुंसानुज पु० पुंसानुजः अलुक्स० । यस्यानुज पुमान् तस्मिन् सि० कौ० ।

पुंस्कामा स्त्री पुमांसं कामयते कामि--अण् पुंसोऽन्तलोपे

रुत्वे “संपुंकामामिति” बा० रोः सः । पुरुषकामायां
स्त्रियाम ।

पुंस्कोकिल पु० कर्म० । पुंस्कामावत् सन्धिकार्यम् । पुरुषकोकिले कुमा० ३ । ३२ ।

पुंस्त्व न० पुंसोभावः त्व रुतुषत्थे । १ पुरुषत्वे तदुपनिक्षिते

२ शुक्रे वीर्य्ये हेमच० ।

पुंस्त्वविग्रह पु० पुंस्त्वल शुक्रस्येव विग्रहोऽस्य । भूतृणे राजनि० ।

पुक पु० पु--बा० कक् । पवित्रे तस्यादूरदेशादि प्रेक्षा० इनि ।

पुकिन् तत्सन्निकृष्टदेशादौ ।

पुक्कश(स) पुंस्त्री० पुक् कुत्सितं कसति कस--गतौ अच् पृषो०

वा शः । १ चण्डाले २ अधमे त्रि० अमरः “नृपायां शूद्र-
संसर्गाज्जातः पुक्कश(स)उच्यते” उशनसोक्ते ३ संकीर्ण-
जातिभेदे स्त्रियां जातित्वात् ङीष् । ङीषन्तः ४ कालि-
कायां ५ नील्यामोषधौ च मेदि० ।

पुंक्षीर न० पुंप्रियं क्षीरम् शा० त० खयः अम्परत्वाभावात्

न रुः । पुरुषप्रिये क्षीरे ।

पुङ्ख पु० न० पुमांसं खनति खन--ड । १ बाणमूले २ पुष्कले अमरः ।

पुङ्खतीर्थ न० रामकृते तीर्थभेदे शिवपु० ।

पुङ्ग पु० पूग--पृषो० । समूहे शब्दच० ।

पुङ्गव पु० पुमान् गौः कर्म + षच् समा० । १ वृषे २ ऋषभौषधौ

च मेदि० उत्तरपदस्थः श्रेष्ठचकः । यथा नरः पुङ्गवृ
इव उपमितसमासवाक्यम् । नरपुङ्गव नरश्रेष्ठार्थे ।

पुङ्गवकेतु पु० पुङ्गवः वृषः केतुरस्य । वृषध्वजे शिवे ।

पुच्छ प्रसादे भ्वा० पर० अक० सेट् । पुच्छति अपुच्छीत् पुपुच्छ

रायमुकुटः ।

पुच्छ पु० न० अर्द्धर्च्चा० । पुच्छ--अच् । १ लाङ्गूले अमरः । २ पश्चा-

द्भागे न० मेदि० ३ लोमवक्काङ्गूले ४ कलाषे च पु० उणादि०
बहुव्रीहौ एतदन्तात् ङीष् कवरपुच्छी ।

पुच्छकण्टक पु० पुच्छे कण्टको यस्य । वृक्षिके हेमच० ।

पुच्छटि(टी) स्त्री पुच्छ--अटि वा ङीप् । अङ्गुलिमोटने

(आङ्गुलमट्कान) त्रिका० ।

पुच्छदा स्त्री पुच्छकिव दायति दै--क । लक्ष्मणाकन्दे राजनि०

पुच्छण्डक पु० तक्षकवंश्ये नागभेदे भा० आ० ५७ अ०

पुच्छिन् पु० पुच्छ + अस्त्यर्थे इनि । १ कुक्कुटे शब्दच०

२ अर्कवृक्षे च राजनि० । ३ लाङ्गूलयुक्ते त्रि० ।

पुञ्ज पु० षिजि--अच् पृषो० । उन्नत्या पुमांसं जयति

जिड वा । राशौ चये अकरः ।

पुञ्जातुक पु० वृक्षभेदे हारा० ।

पुञ्जि पु० पिञ्जयति पिजि--हिसाबलदाननिकेतने इन् पृषो० ।

समूहे । तत्र तिष्ठति स्था--क । अम्बाग्येत्यादिना षत्वम् ।
पुञ्जिष्ठा सक्षिपुञ्जघातके यजु० १६ । २७ ।

पुञ्जिकास्तना स्त्री अप्सरोभेदे मार्क० पु० ५४ अ० ।

पुञ्जिकास्थला स्त्री अप्सरोभेदे यजु० १५ । १५ वेददी० ।

पुञ्जिल पु० पिजि--बा० इल पृषो० । पिञ्जले (पाँज) तैत्ति०

६ । १ । १ । ८ ।

पुट दीप्तौ अक० चूर्णने सक० चुरा० उभ० सट् । पोटयति--ते पुषोट ।

पुट श्लेषे तु० कु० पर० सक० सेट् । पुटात अपुटीत् पुपोट ।

पुट संसर्गे अद० चु० उभ० सक० सेट् । पुटयति ते अपुपुटत् त ।

"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/पारु&oldid=57813" इत्यस्माद् प्रतिप्राप्तम्