ऋग्वेदः सूक्तं १.१४६
← सूक्तं १.१४५ | ऋग्वेदः - मण्डल १ सूक्तं १.१४६ दीर्घतमा औचथ्यः |
सूक्तं १.१४७ → |
दे. अग्निः । त्रिष्टुप् |
त्रिमूर्धानं सप्तरश्मिं गृणीषेऽनूनमग्निं पित्रोरुपस्थे ।
निषत्तमस्य चरतो ध्रुवस्य विश्वा दिवो रोचनापप्रिवांसम् ॥१॥
उक्षा महाँ अभि ववक्ष एने अजरस्तस्थावितऊतिरृष्वः ।
उर्व्याः पदो नि दधाति सानौ रिहन्त्यूधो अरुषासो अस्य ॥२॥
समानं वत्समभि संचरन्ती विष्वग्धेनू वि चरतः सुमेके ।
अनपवृज्याँ अध्वनो मिमाने विश्वान्केताँ अधि महो दधाने ॥३॥
धीरासः पदं कवयो नयन्ति नाना हृदा रक्षमाणा अजुर्यम् ।
सिषासन्तः पर्यपश्यन्त सिन्धुमाविरेभ्यो अभवत्सूर्यो नॄन् ॥४॥
दिदृक्षेण्यः परि काष्ठासु जेन्य ईळेन्यो महो अर्भाय जीवसे ।
पुरुत्रा यदभवत्सूरहैभ्यो गर्भेभ्यो मघवा विश्वदर्शतः ॥५॥
सायणभाष्यम्
‘ त्रिमूर्धानम्' इति पञ्चर्चं षष्ठं सूक्तं दैर्घतमसम् आग्नेयम्, पूर्वत्र आग्नेयं तु तत् ' इत्युक्तत्वात् । ‘ त्रिमूर्धानम्' इत्यनुक्रमणिका । प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसि इदमादिसूक्तत्रयस्य विनियोगः । ‘ अथैतस्याः ' इति खण्डे सूत्रितं- त्रिमूर्धानमिति त्रीणि ' ( आश्व. श्रौ. ४. १३) इति ॥
त्रि॒मू॒र्धानं॑ स॒प्तर॑श्मिं गृणी॒षेऽनू॑नम॒ग्निं पि॒त्रोरु॒पस्थे॑ ।
नि॒ष॒त्तम॑स्य॒ चर॑तो ध्रु॒वस्य॒ विश्वा॑ दि॒वो रो॑च॒नाप॑प्रि॒वांसं॑ ॥१
त्रि॒ऽमू॒र्धान॑म् । स॒प्तऽर॑श्मिम् । गृ॒णी॒षे॒ । अनू॑नम् । अ॒ग्निम् । पि॒त्रोः । उ॒पऽस्थे॑ ।
नि॒ऽस॒त्तम् । अ॒स्य॒ । चर॑तः । ध्रु॒वस्य॑ । विश्वा॑ । दि॒वः । रो॒च॒ना । आ॒प॒प्रि॒ऽवांस॑म् ॥१
त्रिऽमूर्धानम् । सप्तऽरश्मिम् । गृणीषे । अनूनम् । अग्निम् । पित्रोः । उपऽस्थे ।
निऽसत्तम् । अस्य । चरतः । ध्रुवस्य । विश्वा । दिवः । रोचना । आपप्रिऽवांसम् ॥१
अनया अग्निर्यज्ञरूपेण स्तूयते । “त्रिमूर्धानं सवनत्रयरूपमूर्धत्रयोपेतम् ॥ ‘ द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ ' इत्युत्तरपदान्तोदात्तत्वम् ॥ किंच सप्तरश्मिं नियामकसप्तच्छन्दोयुक्तम् “अनूनम् अविकलं संपूर्णफलम् “अग्निम् अग्निसाध्यम् अङ्गनादिगुणयुक्तं वा “पित्रोरुपस्थे द्यावापृथिव्योरुत्सङ्गे “निषत्तं निषण्णम् । मध्ये वर्तमानमित्यर्थः । भूमिस्थद्रव्येण द्युलोकस्थदेवताभिश्च साध्यत्वादिति यावत् । किंच “ध्रुवस्य निश्चलस्य “चरतः हविर्भक्षयतः “अस्य अग्नेः संबन्धिनं यज्ञं “दिवः द्युलोकादागतानि विश्वानि रोचनानि देवविमानानि “आपप्रिवांसं सर्वतः पूरयितारं “गृणीषे गृणीहि स्तुहि । यद्वा अयमग्निरेवोच्यते । त्रिमूर्धवदत्र क्षित्यन्तरिक्षद्युलोकाख्यस्थानत्रयोपेतम् । लोकत्रयव्याप्तमित्यर्थः । गार्हपत्यादिस्थानत्रयवर्तिनं वा । सप्तरश्मिं सप्तज्वालम् अनूनम् अन्यूनं पित्रोः द्यावापृथिव्योरुपस्थे उत्सङ्गे निषत्तम् ॥ ‘ नसत्तनिषत्त° ' इति निपातनात् निष्ठानत्वाभावः ॥ निषण्णम् आपप्रिवांसं सर्वतः पूरयन्तं कामानाम् उक्तलक्षणविशिष्टमग्निं गृणीषे गृणीहि स्तुहि । किंच चरतः सर्वत्र ज्वालाभिर्गच्छतो ध्रुवस्य धृतत्वात अविचलितस्य दिवो द्योतमानस्य अस्य अग्नेः विश्वा सर्वाणि रोचना रोचमानानि तेजांसि सर्वत्र व्याप्नुवन्तीति शेषः । ईदृशमग्निं स्तुहि इति अन्तरात्मनः प्रैषः ।।
उ॒क्षा म॒हाँ अ॒भि व॑वक्ष एने अ॒जर॑स्तस्थावि॒तऊ॑तिर्ऋ॒ष्वः ।
उ॒र्व्याः प॒दो नि द॑धाति॒ सानौ॑ रि॒हंत्यूधो॑ अरु॒षासो॑ अस्य ॥२
उ॒क्षा । म॒हान् । अ॒भि । व॒व॒क्षे॒ । ए॒ने॒ इति॑ । अ॒जरः॑ । त॒स्थौ॒ । इ॒तःऽऊ॑तिः । ऋ॒ष्वः ।
उ॒र्व्याः । प॒दः । नि । द॒धा॒ति॒ । सानौ॑ । रि॒हन्ति॑ । ऊधः॑ । अ॒रु॒षासः॑ । अ॒स्य॒ ॥२
उक्षा । महान् । अभि । ववक्षे । एने इति । अजरः । तस्थौ । इतःऽऊतिः । ऋष्वः ।
उर्व्याः । पदः । नि । दधाति । सानौ । रिहन्ति । ऊधः । अरुषासः । अस्य ॥२
“उक्षा सेक्ता । फलप्रदानसमर्थः इत्यर्थः । अत एव “महान् महिम्ना स्वरूपेण उद्वृत्तवृषभसदृशः अयमग्निः “एने द्यावापृथिव्यौ “अभि अभिक्रम्य व्याप्य “ववक्षे वहति व्याप्नोतीत्यर्थः। वहतेलेंटि छान्दसः शपः श्लुः । ‘ लोपस्त आत्मनेपदेषु ' इति तलोपः । ‘ सिब्बहुलम्' इति सिप् ॥ वृष्ट्यादिप्रदानेन हविर्वहनेन च लोकद्वयस्य वासिनः देवान् मनुष्यांश्च रक्षतीत्यर्थः । किंच अयम् “अजरः जरारहितः “ऋष्वः महान् पूज्यः । महन्नामैतत् ।' ऋष्वः उक्षः ' (नि. ३. ३. ३ ) इति तन्नामसु पाठात् । तथा “इतऊतिः प्राप्तरक्षणः सन् “तस्थौ स्थितो वर्तते । यद्वा । उक्तगुणोऽयम् इतऊतिः इत एवं गमनवान् अस्मद्देवयजनाभिमुखगमनवान् तस्थौ वर्तते । तदनन्तरम् “उर्व्या विस्तृताया भूम्याः “सानौ समुच्छ्रिते प्रदेशे वेदिलक्षणे "पदो "नि “दधाति पदानि स्थापयति करोति । किंच “अस्य अग्नेः “अरुषासः अरुषा आरोचना: “ऊधः ऊधःस्थानीयमन्तरिक्षं “रिहन्ति लिहन्ति । यद्वा । अस्य ऊधः ऊधः स्थानीयं यज्ञमरुषास आरोचना: ब्रह्मवर्चसेन यजमाना रिहन्ति अभिमतस्वर्गादीनि लिहन्ति ।
स॒मा॒नं व॒त्सम॒भि सं॒चरं॑ती॒ विष्व॑ग्धे॒नू वि च॑रतः सु॒मेके॑ ।
अ॒न॒प॒वृ॒ज्याँ अध्व॑नो॒ मिमा॑ने॒ विश्वा॒न्केताँ॒ अधि॑ म॒हो दधा॑ने ॥३
स॒मा॒नम् । व॒त्सम् । अ॒भि । स॒ञ्चर॑न्ती॒ इति॑ स॒म्ऽचर॑न्ती । विष्व॑क् । धे॒नू इति॑ । वि । च॒र॒तः॒ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ ।
अ॒न॒प॒ऽवृ॒ज्यान् । अध्व॑नः । मिमा॑ने॒ इति॑ । विश्वा॑न् । केता॑न् । अधि॑ । म॒हः । दधा॑ने॒ इति॑ ॥३
समानम् । वत्सम् । अभि । सञ्चरन्ती इति सम्ऽचरन्ती । विष्वक् । धेनू इति । वि । चरतः । सुमेके इति सुऽमेके ।
अनपऽवृज्यान् । अध्वनः । मिमाने इति । विश्वान् । केतान् । अधि । महः । दधाने इति ॥३
“समानम् एकमेव “वत्सं वत्सस्थानीयं पुत्रवत् हर्षहेतुम् अग्निम् अभिमुखं “संचरन्ती संचरन्त्यौ द्वे “धेनू अग्निहितकरणेन प्रीणयित्र्यौ पत्नीयजमानलक्षणे धेनू “विष्वक् “वि “चरतः संचरतः । स्तनपानादिसदृशेन्धनप्रक्षेपसंमार्जनादिना सम्यग्वर्धयतः इत्यर्थः । कीदृश्यौ ते “सुमेके शोभनकर्माणौ शोभनमेहने वा परिचरणकुशले इत्यर्थः । किंच "अनपवृज्यान् अपवर्जनीयरहितान् ॥ ‘ नञ्सुभ्याम् । इत्युत्तरपदान्तोदात्तत्वम् ॥ “अध्वनः मार्गान् अग्नेः प्रान्तप्रदेशान् केशाद्यमेध्यरहितान् “मिमाने संपादयित्र्यौ । किंच “विश्वान्केतान् सर्वाणि प्रज्ञानानि प्रवर्धनविषयाणि "महः महान्ति “अधि अधिकं “दधाने धारयन्त्यौ। ईदृश्यौ अध्वर्युयजमानरूपे जायापतिरूपे वा धेनू विश्वग्विचरतः ॥
धीरा॑सः प॒दं क॒वयो॑ नयंति॒ नाना॑ हृ॒दा रक्ष॑माणा अजु॒र्यं ।
सिषा॑संतः॒ पर्य॑पश्यंत॒ सिंधु॑मा॒विरे॑भ्यो अभव॒त्सूर्यो॒ नॄन् ॥४
धीरा॑सः । प॒दम् । क॒वयः॑ । न॒य॒न्ति॒ । नाना॑ । हृ॒दा । रक्ष॑माणाः । अ॒जु॒र्यम् ।
सिसा॑सन्तः । परि॑ । अ॒प॒श्य॒न्त॒ । सिन्धु॑म् । आ॒विः । ए॒भ्यः॒ । अ॒भ॒व॒त् । सूर्यः॑ । नॄन् ॥४
धीरासः । पदम् । कवयः । नयन्ति । नाना । हृदा । रक्षमाणाः । अजुर्यम् ।
सिसासन्तः । परि । अपश्यन्त । सिन्धुम् । आविः । एभ्यः । अभवत् । सूर्यः । नॄन् ॥४
“धीरासः धीरा धीमन्तः प्रयोगज्ञा अध्वर्वादयः “अजुर्यम् अजर्यम् अजीर्णम् एनमग्निं “पदं स्थानं वेदिलक्षणं “नयन्ति प्रापयन्ति मथनदेशात् गार्हपत्याद्वा । अथवा वक्ष्यमाणलक्षणा यजमानादयः पदमास्पदं सर्वकामानाम् आस्पदम् एनं गमयन्ति। कीदृशास्ते । "कवयः क्रान्तदर्शिनो मेधाविनः अनूचाना वा । ये वा अनूचानास्ते कवयः' (ऐ. ब्रा. २. २ ) इति श्रुतेः । किंच “नाना “हृदा बहुप्रकारया बुद्ध्या “रक्षमाणाः धारयमाणाः । किंच एवंरूपास्ते “सिन्धुं स्यन्दमानं यज्ञद्वारा फलानि स्रवन्तम् अग्निं “सिषासन्तः संभक्तुमिच्छन्तः। सनतेः सनि ‘ सनीवन्तर्ध°' इति विकल्पनात् इडभावः । ‘ जनसनखनाम् ' इति आत्वम् ॥ "पर्यपश्यन्त परितः पश्यन्ति । शुश्रूषन्त इत्यर्थः । किंच “सूर्यः सर्वस्य प्रसविता अयमग्निः “एभ्यः एवं कुर्वद्यःश “नॄन् नृभ्यो नेतृभ्यः “आविः “अभवत् तेषामनुग्रहेण प्रत्यक्षोऽभवत् ॥ नॄनित्यत्र वचनव्यत्ययः॥ नॄन् प्राणिनोऽनुग्रहीतुमिति वा योज्यम् ।।
दि॒दृ॒क्षेण्यः॒ परि॒ काष्ठा॑सु॒ जेन्य॑ ई॒ळेन्यो॑ म॒हो अर्भा॑य जी॒वसे॑ ।
पु॒रु॒त्रा यदभ॑व॒त्सूरहै॑भ्यो॒ गर्भे॑भ्यो म॒घवा॑ वि॒श्वद॑र्शतः ॥५
दि॒दृ॒क्षेण्यः॑ । परि॑ । काष्ठा॑सु । जेन्यः॑ । ई॒ळेन्यः॑ । म॒हः । अर्भा॑य । जी॒वसे॑ ।
पु॒रु॒ऽत्रा । यत् । अभ॑वत् । सूः । अह॑ । ए॒भ्यः॒ । गर्भे॑भ्यः । म॒घऽवा॑ । वि॒श्वऽद॑र्शतः ॥५
दिदृक्षेण्यः । परि । काष्ठासु । जेन्यः । ईळेन्यः । महः । अर्भाय । जीवसे ।
पुरुऽत्रा । यत् । अभवत् । सूः । अह । एभ्यः । गर्भेभ्यः । मघऽवा । विश्वऽदर्शतः ॥५
अयमग्निः “काष्ठासु परस्परं क्रान्त्वा वर्तमानासु दशसु दिक्षु “दिदृक्षेण्यः। अनुग्रहयुक्त्या दर्शनयुक्तः भवति । यद्वा । द्रष्टुमेष्टव्यो दर्शनेच्छाविषयभूतः ।। दृशेः सनन्तात् कृत्यार्थे तवैकेन्केन्य० इति केन्यप्रत्ययः । अत एव “जेन्यः सर्वत्र प्रादुर्भवनशीलो भवति जयशीलो वा । किंच प्रदानसमये “ईळेन्यः स्तुत्यो भवति । किमर्थमेवम् । “महः महतो देवादेः “अर्भाय अर्भकस्याल्पस्य यजमानादेर्वा “जीवसे जीवनाय । हविर्वहनेन धनप्रदानेन इति विवेकः । तत्रोपपत्तिमाह । “यत् “अह यस्मात् खलु “पुरुत्रा बहुषु देशेषु ॥ ‘ देवमनुष्य°' इत्यादिना त्राप्रत्ययः ॥ “मघवा हविर्लक्षणान्नवान् “विश्वदर्शतः सर्वविषयद्रष्टव्यवानयमग्निः “एभ्यो “गर्भेभ्यः ॥ षष्ठ्यर्थे चतुर्थी ॥ एषामृत्विजां गर्भवच्छिशुवदत्यन्तरक्षणीयानां “सूः “अभवत् प्रसविता उत्पादयिता अभवत् भवति । तस्मात् नाना हृदा रक्षमाणाः कवयः पदं नयन्तीति पूर्वत्र संबन्धः ॥ ॥ १५ ।।
टिप्पणी
एकाहप्रकरणम् - त्रिमूर्धानमिति तिस्रः पैत्रीणाम् - शांश्रौ. १४.५७.११
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|