ऋग्वेदः सूक्तं १.४२
← सूक्तं १.४१ | ऋग्वेदः - मण्डल १ सूक्तं १.४२ कण्वो घौरः |
सूक्तं १.४३ → |
दे. पूषा। गायत्री। |
सं पूषन्नध्वनस्तिर व्यंहो विमुचो नपात् ।
सक्ष्वा देव प्र णस्पुरः ॥१॥
यो नः पूषन्नघो वृको दुःशेव आदिदेशति ।
अप स्म तं पथो जहि ॥२॥
अप त्यं परिपन्थिनं मुषीवाणं हुरश्चितम् ।
दूरमधि स्रुतेरज ॥३॥
त्वं तस्य द्वयाविनोऽघशंसस्य कस्य चित् ।
पदाभि तिष्ठ तपुषिम् ॥४॥
आ तत्ते दस्र मन्तुमः पूषन्नवो वृणीमहे ।
येन पितॄनचोदयः ॥५॥
अधा नो विश्वसौभग हिरण्यवाशीमत्तम ।
धनानि सुषणा कृधि ॥६॥
अति नः सश्चतो नय सुगा नः सुपथा कृणु ।
पूषन्निह क्रतुं विदः ॥७॥
अभि सूयवसं नय न नवज्वारो अध्वने ।
पूषन्निह क्रतुं विदः ॥८॥
शग्धि पूर्धि प्र यंसि च शिशीहि प्रास्युदरम् ।
पूषन्निह क्रतुं विदः ॥९॥
न पूषणं मेथामसि सूक्तैरभि गृणीमसि ।
वसूनि दस्ममीमहे ॥१०॥
सायणभाष्यम्
‘ सं पूषन्' इति दशर्चं सप्तमं सूक्तं काण्वं गायत्रं पूषदेवताकम् । 'सं पूषन्दश पौष्णम्' इत्यनुक्रान्तम् । स्मार्ते ‘ महान्तमध्वानमेष्यन् ' इदं सूक्तं जपेत् - ‘ सं पूषन्नध्वन इति महान्तमध्वानमेष्यन् प्रतिभयं वा ' ( आश्व. गृ. ३. ७. १० ) इति सूत्रितत्वात् । तत्र जपेदित्यनुवर्तते ॥
सं पू॑ष॒न्नध्व॑नस्तिर॒ व्यंहो॑ विमुचो नपात् ।
सक्ष्वा॑ देव॒ प्र ण॑स्पु॒रः ॥१
सम् । पू॒ष॒न् । अध्व॑नः । ति॒र॒ । वि । अंहः॑ । वि॒ऽमु॒चः॒ । न॒पा॒त् ।
सक्ष्व॑ । दे॒व॒ । प्र । नः॒ । पु॒रः ॥१
सम् । पूषन् । अध्वनः । तिर । वि । अंहः । विऽमुचः । नपात् ।
सक्ष्व । देव । प्र । नः । पुरः ॥१
हे "पूषन् जगत्पोषक पृथिव्यभिमानिदेव “अध्वनः मार्गात् "सं “तिर अस्मानभीष्टस्थानं सम्यक् प्रापय । "अंहः विघ्नहेतुं पाप्मानं "वि तिर विनाशय । पूषा विशेष्यते । "विमुचो “नपात् जलविमोचहेतोर्मघस्य पुत्र । नपात् इति पुत्रनाम, ‘नपात् प्रजा ' ( नि. २. २. १३) इति तन्नामसु पाठात् । श्रुत्यन्तरे अद्भ्यः पृथिवी' इति जलात् भूम्युत्पत्तिः श्रूयते । तथा अन्यत्रापि उदकसारत्वं पृथिव्याः श्रूयते - तद्यदपां सार आसीत्तत्समहन्यत सा पृथिव्यभवत् । इति । मेघस्य जलधारित्वादुदकपुत्र एव मेघपुत्रो भवति । न च पृथिव्या मेघपुत्रत्वे पूष्णः किमायातमिति वाच्यं , पृथिव्या एव पूषत्वात् । तथा च श्रुत्यन्तरे कस्यचिन्मन्त्रस्य ब्राह्मणमेवमाम्नायते --पूषाध्वनः पात्वित्याहेयं वै पूषा ' इति । तन्निर्वचनं चान्यत्रैवमाम्नायते - इयं वै पूषेयं हीदं सर्वं पुष्यति यदिदं किं च ' (श. ब्रा. १४. ४. २. २५) इति । हे देव पूषन् "नः “पुरः अस्माकं पुरतः “प्र “सक्ष्व प्रसक्तो भव । पुरतो गच्छेत्यर्थः ॥ विमुचो नपात् । उदकं विमुञ्चतीति विमुङ् मेघः । ‘क्विप् च ' इति क्विप् । न पातयति कुलमिति नपात् पुत्रः । नञ्पूर्वात् पातयतेः क्विप् ।' नभ्राण्नपात् इस्यादिना नञः प्रकृतिभावः । ‘सुबामन्त्रिते° ' इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य आष्टमिकं सर्वानुदात्तत्वम् । सक्ष्व। ‘ षच सेवने'। अनुदात्तेत्त्वादात्मनेपदम् । लोटि ‘बहुलं छन्दसि ' इति शपो लुक् । ‘तास्यनुदात्तेत्' इति लसार्वधातुकानुदात्तत्वे धातुस्वरः । प्र णः । ‘ उपसर्गाद्बहुलम् इति नसो णत्वम् । पुरः । उक्तम् ॥
यो न॑ः पूषन्न॒घो वृको॑ दु॒ःशेव॑ आ॒दिदे॑शति ।
अप॑ स्म॒ तं प॒थो ज॑हि ॥२
यः । नः॒ । पू॒ष॒न् । अ॒घः । वृकः॑ । दुः॒शेवः॑ । आ॒ऽदिदे॑शति ।
अप॑ । स्म॒ । तम् । प॒थः । ज॒हि॒ ॥२
यः । नः । पूषन् । अघः । वृकः । दुःशेवः । आऽदिदेशति ।
अप । स्म । तम् । पथः । जहि ॥२
हे "पूषन् "यः प्रतिपक्षी "नः अस्मान् "आदिदेशति अनेन मार्गेण गन्तव्यम्' इत्येवमाज्ञापयति । कीदृशः। "अघः आहन्ता “वृकः अस्मदीयस्य धनस्य आदाता अपहर्तेत्यर्थः । "दुःशेवः सेवितुं दुःशको । दुष्टसुखो वा । "तं तादृशं प्रतिपक्षिणं "पथः मार्गात् "अप "जहि "स्म अवश्यमपाकुरु॥ वृकः। ‘ कुक वृक आदाने '। वर्कते इति वृकः । इगुपधलक्षणः कः । वृषादित्वादाद्युदात्तत्वम् । दुःशेवः । दुष्टं शेवं यस्यासौ दुःशेवः । ‘ परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । यद्वा । दुःखेन सेव्यते इति दुःशेवः । वर्णव्यत्ययेन सकारस्य शकारः । ईषद्दुःसुषु ' इति खल् । लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । आदिदेशति । ‘ दिश अतिसर्जने '। लेटि अडागमः । ‘ बहुलं छन्दसि' इति शपः श्लुः । ‘ बहुलं छन्दसीति वक्तव्यम्' (पा. सू. ७. ३. ८७. २) इति वचनात् ‘ नाभ्यस्तस्याचि' (पा. सू. ७. ३. ८७ ) इति लघूपधगुणप्रतिषेधाभावः । पथः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् ॥
अप॒ त्यं प॑रिप॒न्थिनं॑ मुषी॒वाणं॑ हुर॒श्चित॑म् ।
दू॒रमधि॑ स्रु॒तेर॑ज ॥३
अप॑ । त्यम् । प॒रि॒ऽप॒न्थिन॑म् । मु॒षी॒वाण॑म् । हु॒रः॒ऽचित॑म् ।
दू॒रम् । अधि॑ । स्रु॒तेः । अ॒ज॒ ॥३
अप । त्यम् । परिऽपन्थिनम् । मुषीवाणम् । हुरःऽचितम् ।
दूरम् । अधि । स्रुतेः । अज ॥३
“त्यं तादृशं पूर्वोक्तगुणयुक्तं "स्रुतेः मार्गात् "अधि "दूरम् अत्यन्तदूरदेशं प्रति "अप "अज अपगमय । कीदृशम् । "परिपन्थिनं मार्गप्रतिबन्धकं “मुषीवाणं तस्कररूपम् । मुषीवा इति तस्करस्य नाम, ‘मुषीवान् मलिम्लुचः' (नि. ३. २४. ११) इति तन्नामसु पाठात् । "हुरश्चितं कौटिल्यानां संचेतारम् ॥ परिपन्थिनम् । छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि ' ( पा. सू. ५. २. ८९ ) इति शत्रावभिधेये इनिप्रत्ययान्तो निपातितः । मुषीवाणम् । ‘मुष स्तेये '। मोषणं मुषिः। औणादिको भावे किप्रत्ययः । मुषिं वनति संभजते इति मुषीवा । ' वन षण संभक्तौ । अन्येभ्योऽपि दृश्यन्ते' (पा. सू. ३. २. ७५ ) इति विच्प्रत्ययः । ‘ सर्वनामस्थाने चासंबुद्धौ ' (पा. सू. ६. ४. ८) इति दीर्घः। अन्येषामपि दृश्यते' इति पूर्वपदस्य दीर्घत्वम् । हुरश्चितम् । ‘हुर्छा। कौटिल्ये'। संपदादिलक्षणो भावे क्विप् । “राल्लोपः' इति छकारलोपः । हुरश्चिनोतीति हुरश्चित् । चिनोतेः क्विपि तुगागमः । ‘ तत्पुरुषे कृति बहुलम्' इति अलुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । स्रुतेः । स्रु गतौ ।' क्तिच्क्तौ च संज्ञायाम्' इति क्तिच् । चितः' इत्यन्तोदात्तत्वम् । अज ।“ अज गतिक्षेपणयोः ॥
त्वं तस्य॑ द्वया॒विनो॒ऽघशं॑सस्य॒ कस्य॑ चित् ।
प॒दाभि ति॑ष्ठ॒ तपु॑षिम् ॥४
त्वम् । तस्य॑ । द्व॒या॒विनः॑ । अ॒घऽशं॑सस्य । कस्य॑ । चि॒त् ।
प॒दा । अ॒भि । ति॒ष्ठ॒ । तपु॑षिम् ॥४
त्वम् । तस्य । द्वयाविनः । अघऽशंसस्य । कस्य । चित् ।
पदा । अभि । तिष्ठ । तपुषिम् ॥४
हे पूषन् “त्वं "तस्य चोरस्य “तपुषिं परसंतापकं देहं "पदाभि "तिष्ठ भवदीयेन पादेनाक्रम्य तिष्ठ । कीदृशस्य । "द्वयाविनः प्रत्यक्षापहारः परोक्षापहारश्चेति यद्द्वयं तद्युक्तस्य "अघशंसस्य अस्मास्वघमनिष्टं शंसतः । अघशंस इति तस्करनाम, ‘मलिम्लुचः अघशंसः वृकः' (नि. ३.२४.१३) इति तन्नामसु पाठात् । "कस्य "चित् अनिर्दिष्टविशेषस्य कस्यापि ॥ द्वयाविनः । द्वयमस्यास्तीति द्वयावी । ‘ बहुलं छन्दसि ' (पा. सू. ५. २. १२२) इति मत्वर्थीयो विनिः । ‘ अन्येषामपि दृश्यते ' इति दीर्घत्वम् । अघशंसस्य । अघे पापे शंसो मनस्यभिलाषो यस्य सोऽयमघशंसः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । तपुषिम् । तापयत्यनेन अन्यमिति तपुषिः । औणादिक उषिन्प्रत्ययः । बहुलवचनात् इकारस्य न इत् संज्ञा । नित्त्वादाद्युदात्तत्वम् ॥
आ तत्ते॑ दस्र मन्तुम॒ः पूष॒न्नवो॑ वृणीमहे ।
येन॑ पि॒तॄनचो॑दयः ॥५
आ । तत् । ते॒ । द॒स्र॒ । म॒न्तु॒ऽमः॒ । पू॒ष॒न् । अवः॑ । वृ॒णी॒म॒हे॒ ।
येन॑ । पि॒तॄन् । अचो॑दयः ॥५
आ । तत् । ते । दस्र । मन्तुऽमः । पूषन् । अवः । वृणीमहे ।
येन । पितॄन् । अचोदयः ॥५
हे "मन्तुमः ज्ञानवन् "दस्र दर्शनीय यद्वा वैर्युपक्षयकारिन् "पूषन् "ते त्वदीयं "तत् "अवः तादृशं रक्षणम् "आ "वृणीमहे सर्वतः प्रार्थयामहे । "येन रक्षणेन "पितॄन् अङ्गिरःप्रभृतीन पितृदेहान् “अचोदयः प्रेरितवानसि । तद्रक्षणमिति पूर्वत्रान्वयः ।। दस्र । ' दसि दंसनदर्शनयोः' ।' स्फायितञ्चि° ' इत्यादिना रक्। आगमानुशासनस्यानित्यत्वात् नुमभावः । यद्वा।' दसु उपक्षये ' इत्यस्मादन्तर्भावितण्यर्थात् पूर्ववत् रक् । मन्तुमः । ‘ मन ज्ञाने '। कमिमनिजनि' (उ. सू. १. ७२ ) इत्यादिना भावे तुप्रत्ययः । मन्तुर्ज्ञानमस्यास्तीति मन्तुमान् । संबुद्धौ ‘ मतुवसो रुः' इति रुत्वम् । अचोदयः । ‘ चुद संचोदने ' । चौरादिकः ॥ ॥ २४ ॥
अधा॑ नो विश्वसौभग॒ हिर॑ण्यवाशीमत्तम ।
धना॑नि सु॒षणा॑ कृधि ॥६
अध॑ । नः॒ । वि॒श्व॒ऽसौ॒भ॒ग॒ । हिर॑ण्यवाशीमत्ऽतम ।
धना॑नि । सु॒ऽसना॑ । कृ॒धि॒ ॥६
अध । नः । विश्वऽसौभग । हिरण्यवाशीमत्ऽतम ।
धनानि । सुऽसना । कृधि ॥६
हे "विश्वसौभग कृत्स्नधनयुक्त यद्वा कृत्स्नसौभाग्ययुक्त "हिरण्यवाशीमत्तम अतिशयेन सुवर्णमयायुधवन् पूषन् “अध पूर्वोक्तास्मदीयप्रार्थनानन्तरं "नः अस्माकं “धनानि सुवर्णमणिमुक्तादीनि "सुषणा सुष्ठु दानयुक्तानि "कृधि कुरु ॥ अध। अथशब्दे धत्वं छान्दसम् । ‘ निपातस्य च ' इति संहितायां दीर्घत्वम् । विश्वसौभग । ‘सुभगान्मत्रे' इत्युद्गात्रादिषु पाठाद्भावे अञ् । हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ' इत्युत्तरपदवृद्धौ प्राप्तायां सत्यां सर्वविधीनां छन्दसि विकल्पितत्वादुत्तरपदवृद्धिर्न भवतीति वृत्तावुक्तम् (का. ७. २. १९) । विश्वानि सौभगानि यस्यासौ विश्वसौभगः । आमन्त्रितनिघातः । हिरण्यवाशीमत्तम । हिरण्यमयी वाशी । तदेषामस्तीति हिरण्यवाशीमन्तः । अतिशयेन हिरण्यवाशीमान् हिरण्यवाशीमत्तमः । आमन्त्रितनिघातः । सुषणा । वन षण संभक्तौ ' । सुखेन संभज्यन्ते इति सुषणानि । “ ईषद्दुःसुषु' इति खल् । ‘शेश्छन्दसि' इति शेर्लोपः । ‘ लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । कृधि । ‘डुकृञ् करणे'। ‘ श्रुशृणुपॄकृवृभ्यश्छन्दसि' इति हेर्धिरादेशः । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् ॥
अति॑ नः स॒श्चतो॑ नय सु॒गा न॑ः सु॒पथा॑ कृणु ।
पूष॑न्नि॒ह क्रतुं॑ विदः ॥७
अति॑ । नः॒ । स॒श्चतः॑ । न॒य॒ । सु॒ऽगा । नः॒ । सु॒ऽपथा॑ । कृ॒णु॒ ।
पूष॑न् । इ॒ह । क्रतु॑म् । वि॒दः॒ ॥७
अति । नः । सश्चतः । नय । सुऽगा । नः । सुऽपथा । कृणु ।
पूषन् । इह । क्रतुम् । विदः ॥७
"सश्चतः अस्मद्बाधनाय प्राप्नुवतः शत्रून् "नः "अति अस्मानतिक्रम्य "नय अन्यत्र प्रापय । "नः अस्मान् "सुगा सुष्ठु गन्तुं शक्येन "सुपथा शोभनमार्गेण "कृणु गन्तॄन् कुरु । हे "पूषन् "इह अध्वनि “क्रतुं प्रज्ञानमस्मद्रक्षणरूपं "विदः जानीहि ॥ सश्चतः । ‘ ग्लुञ्च षस्ज गतौ ' इत्यत्र सश्चिमप्येके पठन्तीति धातुवृत्तावुक्तम् । अस्मात् लटः शतृ । ' बहुलं छन्दसि ' इति शपो लुक् । प्रत्ययस्वरेण शतुरुदात्तत्वम् । ‘शतुरनुमः' इति विभक्त्युदात्ताभावश्छान्दसः । सुगा । सुष्ठु गच्छन्त्यत्रेति सुगः । ‘ सुदुरोरधिकरणे ' इति गमेर्डप्रत्ययः । ‘ सुपां सुलुक् ' इति तृतीयाया आकारः । सुपथा। शोभनेन पथा। न पूजनात् ' (पा. सू. ५. ४. ६९ ) इति समासान्तप्रतिषेधः । परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । ‘ क्रत्वादयश्च ' इत्युत्तरपदाद्युदात्तत्वं न भवति अबहुव्रीहित्वात् । तत्र हि बहुव्रीहौ इति वर्तते । कृणु ।' कृवि हिंसाकरणयोः '। ‘धिन्विकृण्व्योर च ' इति उप्रत्ययः । ‘उतश्च प्रत्ययात्' इति हेर्लुक् । विदः । “विद ज्ञाने'। लेटि अडागमः। ‘ इतश्च लोपः' इति इकारलोपः ॥
अ॒भि सू॒यव॑सं नय॒ न न॑वज्वा॒रो अध्व॑ने ।
पूष॑न्नि॒ह क्रतुं॑ विदः ॥८
अ॒भि । सु॒ऽयव॑सम् । न॒य॒ । न । न॒व॒ऽज्वा॒रः । अध्व॑ने ।
पूष॑न् । इ॒ह । क्रतु॑म् । वि॒दः॒ ॥८
अभि । सुऽयवसम् । नय । न । नवऽज्वारः । अध्वने ।
पूषन् । इह । क्रतुम् । विदः ॥८
हे "पूषन् "सुयवसं शोभनतृणोपलक्षितं सर्वौषधियुक्तं देशम् "अभि “नय अस्मानभितः प्रापय । “अध्वने मार्गाय "नवज्वारः नूतनः संतापः "न भवत्विति शेषः । मार्गे गच्छतामस्माकमिदानींतनः क्लेशः कोऽपि मा भूदित्यर्थः । गतार्थमन्यत् ॥ सूयवसम्। शोभनं यवसं यस्मिन् देशे स सूयवसो देशः । ‘ निपातस्य च ' इति पूर्वपदस्य दीर्घत्वम् । ‘परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् क्रत्वादिर्वा द्रष्टव्यः । नवज्वारः । ‘ ज्वर रोगे'। भावे घञ् । नवश्चासौ ज्वारो नवज्वारः । थाथादिना उत्तरपदान्तोदात्तत्वम् ॥
श॒ग्धि पू॒र्धि प्र यं॑सि च शिशी॒हि प्रास्यु॒दर॑म् ।
पूष॑न्नि॒ह क्रतुं॑ विदः ॥९
श॒ग्धि । पू॒र्धि । प्र । यं॒सि॒ । च॒ । शि॒शी॒हि । प्रासि॑ । उ॒दर॑म् ।
पूष॑न् । इ॒ह । क्रतु॑म् । वि॒दः॒ ॥९
शग्धि । पूर्धि । प्र । यंसि । च । शिशीहि । प्रासि । उदरम् ।
पूषन् । इह । क्रतुम् । विदः ॥९
हे "पूषन् "शग्धि अस्माननुग्रहीतुं शक्तो भव । "पूर्धि अस्मद्गृहं धनेन पूरय। किंच "प्र "यंसि अन्यदप्यपेक्षितं वस्तु प्रयच्छ। "शिशीहि अस्मान् सर्वेषु मध्ये तीक्ष्णीकुरु तेजस्विनः कुरु इत्यर्थः । "उदरम् अस्मदीयं "प्रासि मृष्टान्नेन सोमरसेन वा पूरय । अन्यत् पूर्ववत् ॥ शग्धि । ‘शक्लृ शक्तौ । लोटो हिः । ‘ बहुलं छन्दसि' इति विकरणस्य लुक् । “हुझल्भ्यो हेर्धिः ' इति धिरादेशः । हेरपित्त्वात् प्रत्ययस्वरेणोदात्तत्वम् । पूर्धि । ‘पॄ पालनपूरणयोः । ‘ श्रुशृणुपॄकृवृभ्यश्छन्दसि' इति हेर्धिरादेशः ।। पूर्ववद्विकरणस्य लुक् । ‘ उदोष्ठ्यपूर्वस्य ' इति उत्वम् । ‘ हलि च ' इति दीर्घः । तिङः परत्वात् निघाताभावः। यंसि। ‘ यम उपरमे। लोडर्थे लटि पूर्ववद्विकरणस्य लुक् । निघातः । शिशीहि । ‘ शो तनूकरणे'। लोटि ‘ बहुलं छन्दसि ' ( पा. सू. ७. ४. ७८ ) इति अभ्यासस्य इत्वम् । 'ई हल्यघोः' इति ईत्वम् । प्रत्ययस्वरः । प्रासि । प्रा पूरणे'। अदादित्वात् शपो लुक् । सिपः । पित्त्वादनुदात्तत्वे धातुस्वरः ॥
न पू॒षणं॑ मेथामसि सू॒क्तैर॒भि गृ॑णीमसि ।
वसू॑नि द॒स्ममी॑महे ॥१०
न । पू॒षण॑म् । मे॒था॒म॒सि॒ । सु॒ऽउ॒क्तैः । अ॒भि । गृ॒णी॒म॒सि॒ ।
वसू॑नि । द॒स्मम् । ई॒म॒हे॒ ॥१०
न । पूषणम् । मेथामसि । सुऽउक्तैः । अभि । गृणीमसि ।
वसूनि । दस्मम् । ईमहे ॥१०
“पूषणं देवं “न "मेथामसि वयं न तु निन्दामः । किंतु "सूक्तैः वेदगतैः "अभि "गृणीमसि सर्वत्र स्तुमः । "दस्मं दर्शनीयं पूषणं प्रति "वसूनि धनानि “ईमहे याचामहे ॥ मेथामसि । ‘ मेथृ मेधाहिंसनयोः । लटि इन्दतो मसि' इति मस इकारागमः । सूक्तैः । सुष्ठु स्तुवते देवताः प्रकाशयन्तीति सूक्तानि । ' क्तिच्क्तौ च संज्ञायाम् ' इति कर्तरि क्तः । ‘वचिस्वपि°' इत्यादिना संप्रसारणम् । थाथादिस्वरः । यद्वा । कर्मणि निष्ठा । ‘ सूपमानात् क्तः ' ( पा. सू. ६. २. १४५ ) इत्युत्तरपदान्तोदात्तत्वम् । गृणीमसि । “गॄ शब्दे'। ‘ प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् । इदन्तो मसिः। दस्मम् । ‘ इषियुधीन्धिदसिश्याधूसूभ्यो मक् ' ( उ. सू. १. १४२) इति मक्प्रत्ययः ॥ ॥ २५ ॥
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|