ऋग्वेदः सूक्तं १.४१
← सूक्तं १.४० | ऋग्वेदः - मण्डल १ सूक्तं १.४१ कण्वो घौरः |
सूक्तं १.४२ → |
दे. वरुणमित्रार्यमणः, ४-६ आदित्याः। गायत्री। |
यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा ।
नू चित्स दभ्यते जनः ॥१॥
यं बाहुतेव पिप्रति पान्ति मर्त्यं रिषः ।
अरिष्टः सर्व एधते ॥२॥
वि दुर्गा वि द्विषः पुरो घ्नन्ति राजान एषाम् ।
नयन्ति दुरिता तिरः ॥३॥
सुगः पन्था अनृक्षर आदित्यास ऋतं यते ।
नात्रावखादो अस्ति वः ॥४॥
यं यज्ञं नयथा नर आदित्या ऋजुना पथा ।
प्र वः स धीतये नशत् ॥५॥
स रत्नं मर्त्यो वसु विश्वं तोकमुत त्मना ।
अच्छा गच्छत्यस्तृतः ॥६॥
कथा राधाम सखाय स्तोमं मित्रस्यार्यम्णः ।
महि प्सरो वरुणस्य ॥७॥
मा वो घ्नन्तं मा शपन्तं प्रति वोचे देवयन्तम् ।
सुम्नैरिद्व आ विवासे ॥८॥
चतुरश्चिद्ददमानाद्बिभीयादा निधातोः ।
न दुरुक्ताय स्पृहयेत् ॥९॥
सायणभाष्यम्
‘ यं रक्षन्ति ' इति नवर्चं षष्ठं सूक्तम् । तत्रानुक्रमणं - ‘ यं रक्षन्ति नव वरुणमित्रार्यम्णां मध्ये तृच आदित्येभ्यो गायत्रं हि' इति । घोरपुत्रः कण्व ऋषिः । इदमादित्रीणि सूक्तानि गायत्राणि । आद्यन्तयोस्तृचयोर्वरुणमित्रार्यमणो देवताः । मध्यतृचस्य ‘ सुगः पन्थाः' इत्यस्य आदित्या देवताः । गतो विनियोगः ॥
यं रक्ष॑न्ति॒ प्रचे॑तसो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
नू चि॒त्स द॑भ्यते॒ जन॑ः ॥१
यम् । रक्ष॑न्ति । प्रऽचे॑तसः । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।
नु । चि॒त् । सः । द॒भ्य॒ते॒ । जनः॑ ॥१
यम् । रक्षन्ति । प्रऽचेतसः । वरुणः । मित्रः । अर्यमा ।
नु । चित् । सः । दभ्यते । जनः ॥१
“प्रचेतसः प्रकृष्टज्ञानयुक्ताः वरुणादयो देवाः "यं यजमानं "रक्षन्ति "सः "जनः यजमानः "नू “चित् क्षिप्रमेव "दभ्यते दभ्नोति शत्रून् हिनस्ति । प्रचेतसः । प्रकृष्टं चेतो येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । नू चित् ।' ऋचि तुनुघ° ' इत्यादिना दीर्घः । दभ्यते । दम्भु दम्भे । व्यत्ययेन श्यन् आत्मनेपदं च ॥
यं बा॒हुते॑व॒ पिप्र॑ति॒ पान्ति॒ मर्त्यं॑ रि॒षः ।
अरि॑ष्ट॒ः सर्व॑ एधते ॥२
यम् । बा॒हुता॑ऽइव । पिप्र॑ति । पान्ति॑ । मर्त्य॑म् । रि॒षः ।
अरि॑ष्टः । सर्वः॑ । ए॒ध॒ते॒ ॥२
यम् । बाहुताऽइव । पिप्रति । पान्ति । मर्त्यम् । रिषः ।
अरिष्टः । सर्वः । एधते ॥२
"यं यजमानं "पिप्रति वरुणोदयो देवा धनैः पूरयन्ति । तत्र दृष्टान्तः। “बाहुतेव। स्वकीयो बाहुवर्गोऽपेक्षितं धनमानीय यथा पूरयति तद्वत् । तथा यं “मर्त्यं मनुष्यं यजमानं "रिषः हिंसकात् "पान्ति रक्षन्ति सः "सर्वः यजमानः "अरिष्टः केनाप्यहिँसितः सन् “एधते वर्धते ॥ बाहुतेव। बाहुता बाहुत्वम् । भाववाचिनानेन शब्देन बाहवस्तदाश्रया लक्ष्यन्ते । यद्वा । समूहार्थे तल्प्रत्ययो द्रष्टव्यः। ‘लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । पिप्रति । ‘ पॄ पालनपूरणयोः'। पृ इत्येके । जुहोत्यादित्वात् श्लुः । ‘ अर्तिपिपर्त्योश्च' इति अभ्यासस्य इत्वम् । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । पान्ति । तिङः परत्वात् पादादित्वाद्वा निघाताभावः । रिषः । ‘ रिष हिंसायाम् । क्विप् च ' इति क्विप् । ‘ सावेकाचः' इति विभक्तेरुदात्तत्वम् । अरिष्टः । ‘ रिष हिंसायाम् । “एकाचः० ' इति इट्प्रतिषेधः । व्रश्चादिना षस्वम् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
वि दु॒र्गा वि द्विष॑ः पु॒रो घ्नन्ति॒ राजा॑न एषाम् ।
नय॑न्ति दुरि॒ता ति॒रः ॥३
वि । दुः॒ऽगा । वि । द्विषः॑ । पु॒रः । घ्नन्ति॑ । राजा॑नः । ए॒षा॒म् ।
नय॑न्ति । दुः॒ऽइ॒ता । ति॒रः ॥३
वि । दुःऽगा । वि । द्विषः । पुरः । घ्नन्ति । राजानः । एषाम् ।
नयन्ति । दुःऽइता । तिरः ॥३
"राजानः वरुणादयः "एषां स्वकीययजमानानां "पुरः पुरस्तात् "दुर्गा गन्तुं दुःशकानि शत्रुनगराणि "वि “घ्नन्ति विशेषेण नाशयन्ति । तथा “द्विषः शत्रूनपि "वि घ्नन्ति। तथा “दुरिता यजमानसंबन्धीनि दुरितानि "तिरः "नयन्ति विनाशं प्रापयन्ति ॥ दुर्गा । दुःखेन गच्छन्त्यत्रेति दुर्गाणि । ‘ सुदुरोरधिकरणे' (पा. सू. ३. २. ४८. ३ ) इति गमेर्डप्रत्ययः । ‘ शेश्छन्दसि बहुलम्' इति शेर्लोपः । पुरः । कालवाचिनः पूर्वशब्दात् सप्तम्यर्थे ‘पूर्वाधरावराणाम् ' (पा. सू. ५. ३. ३९ ) इति असिप्रत्ययः, तत्संनियोगेन पूर्वशब्दस्य पुरादेशश्च । प्रत्ययस्वरः । घ्नन्ति । हन्तेर्लटि अदादित्वात् शपो लुक् । ‘गमहन' इत्यादिना उपधालोपः । “हो न्तेः' (पा. सू. ७. ३. ५४ ) इति घत्वम् । अन्तादेशस्योपदेशवचनादाद्युदात्तत्वम् । पादादित्वादनिघातः ॥
सु॒गः पन्था॑ अनृक्ष॒र आदि॑त्यास ऋ॒तं य॒ते ।
नात्रा॑वखा॒दो अ॑स्ति वः ॥४
सु॒ऽगः । पन्थाः॑ । अ॒नृ॒क्ष॒रः । आदि॑त्यासः । ऋ॒तम् । य॒ते ।
न । अत्र॑ । अ॒व॒ऽखा॒दः । अ॒स्ति॒ । वः॒ ॥४
सुऽगः । पन्थाः । अनृक्षरः । आदित्यासः । ऋतम् । यते ।
न । अत्र । अवऽखादः । अस्ति । वः ॥४
हे "आदित्यासः “ऋतं "यते यज्ञं गच्छते भवत्समूहाय "पन्थाः मार्गः "सुगः सुष्ु। गन्तुं शक्यः “अनृक्षरः कण्टकरहितश्च । "अत्र अस्मिन् कर्मणि “वः युष्माकम् "अवखादः अवमन्तव्यः खादो जुगुप्सितहविर्विशेषः "न "अस्ति । तस्मादिहागन्तव्यमित्यर्थः ॥ सुगः । सुदुरोरधिकरणे ' इति गमेर्डप्रत्ययः । पन्थाः । ‘ पथिमथोः सर्वनामस्थाने ' इत्याद्युदात्तत्वम् । अनृक्षरः । ‘ ऋषी गतौ' ऋषन्ति अन्तर्गच्छन्ति इति ऋक्षरा कण्टकाः । ‘ तन्यृषिभ्यां क्सरन्' (उ. सू. ३. ३५५) इति क्सरन्प्रत्ययः । कित्त्वाद्गुणाभावः । कत्वपत्वे । यास्कस्त्वाह- ‘ ऋक्षरः कण्टक ऋच्छतेः' (निरु. ९. ३२ ) इति । न विद्यन्ते ऋक्षरा अस्मिन्निति अनृक्षरः। ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । आदित्यासः । अदितेः पुत्रा आदित्याः । ‘ दित्यदित्यादित्य° ' (पा. सू. ४. १.८५) इत्यादिना ण्यप्रत्ययः । ‘ आज्जसेरसुक्'। आमन्त्रिताद्युदात्तत्वम् । पादादित्वादाष्टमिकनिघाताभावः । यते । ‘ इण् गतौ ' । लटः शतृ । अदादित्वात् शपो लुक् । इणो यण् ' ( पा. सू. ६. ४. ८१ ) इति यणादेशः । ‘शतुरनुमः०' इति विभक्तेरुदात्तत्वम् । अवखादः । खादृ भक्षणे'। भावे घञ् । अवमतः खादोऽवखादः । थाथादिना उत्तरपदान्तोदात्तत्वम् ॥
यं य॒ज्ञं नय॑था नर॒ आदि॑त्या ऋ॒जुना॑ प॒था ।
प्र व॒ः स धी॒तये॑ नशत् ॥५
यम् । य॒ज्ञम् । नय॑थ । न॒रः॒ । आदि॑त्याः । ऋ॒जुना॑ । प॒था ।
प्र । वः॒ । सः । धी॒तये॑ । न॒श॒त् ॥५
यम् । यज्ञम् । नयथ । नरः । आदित्याः । ऋजुना । पथा ।
प्र । वः । सः । धीतये । नशत् ॥५
हे "नरः नेतारः "आदित्याः "यं "यज्ञम् "ऋजुना "पथा अविकलेन मार्गेण "नयथ पारं प्रापयथ “सः यज्ञः "वः “धीतये युष्मत्पानायोपभोगाय “प्र “नशत् प्राप्नोतु ॥ नयथ । अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः । अन्येषामपि दृश्यते ' इति संहितायां दीर्घत्वम् । पथा । तृतीयैकवचने ‘ भस्य टेर्लोपः' (पा. सू. ७. १.८८) इति टिलोपः । ‘ अनुदात्तस्य च यत्रोदात्तलोपः' (पा. सू. ६. १. १६१ ) इति विभक्तेरुदात्तत्वम् । धीतये । धेट् पाने' ।' आदेचः इति आत्वम् । क्तिचि ‘घुमास्था ' इति ईत्वम् । नशत् । नशतिर्गत्यर्थः। लेटि अडागमः । ‘ इतश्च लोपः' इति इकारलोपः ॥ ॥ २२ ॥
स रत्नं॒ मर्त्यो॒ वसु॒ विश्वं॑ तो॒कमु॒त त्मना॑ ।
अच्छा॑ गच्छ॒त्यस्तृ॑तः ॥६
सः । रत्न॑म् । मर्त्यः॑ । वसु॑ । विश्व॑म् । तो॒कम् । उ॒त । त्मना॑ ।
अच्छ॑ । ग॒च्छ॒ति॒ । अस्तृ॑तः ॥६
सः । रत्नम् । मर्त्यः । वसु । विश्वम् । तोकम् । उत । त्मना ।
अच्छ । गच्छति । अस्तृतः ॥६
हे आदित्याः "सः तादृशो भवद्भिरनुगृहीतः "मर्त्यः मनुष्यो यजमानः "अस्तृतः केनाप्यहिंसितः सन् "रत्नं रमणीयं "विश्वं "वसु सर्वं धनम् "अच्छ आभिमुख्येन "गच्छति प्राप्नोति । “उत अपि च “त्मना आत्मना स्वेन सदृशं “तोकम् अपत्यं गच्छति ॥ त्मना । ‘ मन्त्रेष्वाङ्यादेरात्मनः ' (पा. सू. ६. ४. १४१ ) इति आकारलोपः । अच्छ। ‘ निपातस्य च ' इति दीर्घत्वम् । अस्तृतः । स्तृञ् हिंसायाम् । न स्तृतोऽस्तृतः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
क॒था रा॑धाम सखाय॒ः स्तोमं॑ मि॒त्रस्या॑र्य॒म्णः ।
महि॒ प्सरो॒ वरु॑णस्य ॥७
क॒था । रा॒धा॒म॒ । स॒खा॒यः॒ । स्तोम॑म् । मि॒त्रस्य॑ । अ॒र्य॒म्णः ।
महि॑ । प्सरः॑ । वरु॑णस्य ॥७
कथा । राधाम । सखायः । स्तोमम् । मित्रस्य । अर्यम्णः ।
महि । प्सरः । वरुणस्य ॥७
हे "सखायः सखिभूता ऋत्विजः मित्रादीनां त्रयाणां "महि महत् "प्सरः रूपम् । अतस्तदनुरूपं "स्तोमं स्तोत्रं "कथा केन प्रकारेण "राधाम साधयामः॥ कथा । ‘था हेतौ च च्छन्दसि' (पा. सू. ५. ३. २६) इति किंशब्दात् प्रकारवचनेषु प्राग्दिशो विभक्तिरिति विभक्तिसंज्ञायां किमः कः ( पा. सू. ७. २. १०३ ) इति कादेशः । प्रत्ययस्वरः । राधाम । ‘राध साध संसिद्धौ'। लेटि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । तिङ्ङतिङः ' इति निघातः । स्तोमम् । ष्टुञ् स्तुतौ । ‘ अर्तिस्तुसु° ' इत्यादिना भावे मन् । नित्त्वादाद्युदात्तत्वम् । अर्यम्णः । षष्ठ्येकवचने ‘ अल्लोपोऽनः' इति अकारलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । महि । ‘ मह पूजायाम् । औणादिक इन्प्रत्ययः । प्सरः। ‘ प्सा भक्षणे । प्साति भक्षयतीति प्सरो रूपम् । औणादिको डरप्रत्ययः ॥
मा वो॒ घ्नन्तं॒ मा शप॑न्तं॒ प्रति॑ वोचे देव॒यन्त॑म् ।
सु॒म्नैरिद्व॒ आ वि॑वासे ॥८
मा । वः॒ । घ्नन्त॑म् । मा । शप॑न्तम् । प्रति॑ । वो॒चे॒ । दे॒व॒ऽयन्त॑म् ।
सु॒म्नैः । इत् । वः॒ । आ । वि॒वा॒से॒ ॥८
मा । वः । घ्नन्तम् । मा । शपन्तम् । प्रति । वोचे । देवऽयन्तम् ।
सुम्नैः । इत् । वः । आ । विवासे ॥८
हे मित्रादयो देवाः "देवयन्तं देवान् कामयमानं यजमानं यः शत्रुर्हन्ति “घ्नन्तं तादृशं शत्रुं "वः युष्मभ्यं "मा "प्रति "वोचे दुरुक्तकथनभीत्याहं न कथयामि। तथा यजमानं यः शत्रुः शपति तमपि "शपन्तं "मा प्रति वोचे भवद्भिरेव विचार्य शिक्षणीय इत्यर्थः । अहं तु "सुम्नैरित् धनैरेव “वः युष्मान् "आ "विवासे सर्वतः परिचरामि ॥ घ्नन्तम् । हन्तीति घ्नन् ।' गमहन ' इत्यादिना उपधालोपः । ‘ हो हन्तेः' इति कुत्वे प्रत्ययस्वरः । शपन्तम् । ‘ शप आक्रोशे '। अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । वोचे । ब्रूञ् व्यक्तायां वाचि'। माङि लुङि इटि ‘ब्रुवो वचिः ' ( पा. सू. २. ४. ५३ ) इति वचिः । अस्यतिवक्ति' इत्यादिना च्लेः अङादेशः । ‘वच उम्' इत्युमागमः । ‘ न माङ्योगे' इति अडभावः । देवयन्तम् । ‘सुप आत्मनः क्यच् ' । न च्छन्दस्यपुत्रस्य' इति ईत्वप्रतिषेधः । सुम्नैः । ‘ म्ना अभ्यासे । सुष्ठु म्नायतेऽभ्यस्यते इति सुम्नम् । ‘ आतश्चोपसर्गे' (पा. सू. ३. १. १३६ ) इति कप्रत्ययः । ‘ आतो लोप इटि च ' इति आकारलोपः । विवासे ।। विवासतिः परिचरणकर्मा (नि. ३. ५. १० )॥
च॒तुर॑श्चि॒द्दद॑मानाद्बिभी॒यादा निधा॑तोः ।
न दु॑रु॒क्ताय॑ स्पृहयेत् ॥९
च॒तुरः॑ । चि॒त् । दद॑मानात् । बि॒भी॒यात् । आ । निऽधा॑तोः ।
न । दुः॒ऽउ॒क्ताय॑ । स्पृ॒ह॒ये॒त् ॥९
चतुरः । चित् । ददमानात् । बिभीयात् । आ । निऽधातोः ।
न । दुःऽउक्ताय । स्पृहयेत् ॥९
घ्नन्तं शपन्तं च मा प्रतिवोचे इति यदुक्तं तत्रोपपत्तिरुच्यते । "दुरुक्ताय "न "स्पृहयेत् दुष्टं वाक्यं न कामयेत् किंतु दुरुक्तात् "बिभीयात् । तत्रावशिष्टो मन्त्रभागः सर्वोऽपि दृष्टान्तः । चित् इत्युपमार्थे वर्तते । अक्षद्यूतं कुर्वतोरुभयोर्मध्ये यः पुमान् "चतुरः चतुःसंख्याकान् कपर्दकान् "ददमानात् ददतो हस्ते धारयतः पुरुषात् "आ "निधातोः कपर्दकनिपातपर्यन्तं बिभीयात् अस्य जयो भविष्यति न भविष्यति इत्यन्यो भीतिं प्राप्नुयात् । अत्र यथा भयं तथा दुरुक्ताद्भेतव्यमिति धर्मरहस्यम् । तस्मादहं घ्नन्तं शपन्तं मा प्रतिवोचे इत्यभिप्रायः । अत्र निरुक्तं - चतुरोऽक्षान् धारयत इति तद्यथा कितवाद्बिभीयादेवमेव दुरुक्ताद्बिभीयान्न दुरुक्ताय स्पृहयेत्' (निरु. ३. १६) इति ॥ चतुरः । ‘ चतुरः शसि ' ( पा. सू. ६. १. १६७ ) इति विभक्तेः पूर्वस्योदात्तत्वम् । ददमानात्। ‘दद दाने'। अत्र धारणार्थः । शपः पित्त्वादनुदात्तत्वम् । अदुपदेशात् लसार्वधातुकानुदात्तत्वेन शानजनुदात्तः । धातुस्वर एव शिष्यते । बिभीयात् ।' ञिभी भये '। लिङि जुहोत्यादित्वात् शपः श्लुः । यासुट उदात्तत्वम् । पादादित्वात् निघाताभावः । निधातोः । निपूर्वात् दधातेः 'सितनिगमि° ' ( उ. सू. १. ६९) इत्यादिना भावे तुन्प्रत्ययः । व्यत्ययेनाद्युदात्तत्वम् । ‘ तादौ च°' इति गतिस्वरो न भवति ‘अतौ' इति पर्युदस्तत्वात् । दुरुक्ताय । ‘स्पृहेरीप्सितः ' ( पा. सू. १. ४. ३६ ) इति संप्रदानसंज्ञायां • चतुर्थी संप्रदाने ' ( पा. सू. २. ३. १३) इति चतुर्थी । स्पृहयेत् । ‘ स्पृह ईप्सायाम् ' । चुरादिरदन्तः । अतो लोपस्य स्थानिवद्भावात् लघूपधगुणाभावः ॥ ॥ २३ ॥
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|