"ऋग्वेदः सूक्तं १.९६" इत्यस्य संस्करणे भेदः
No edit summary |
No edit summary |
||
पङ्क्तिः ३१: | पङ्क्तिः ३१: | ||
</poem> |
</poem> |
||
== == |
|||
द्रविणं धनं बलं वापि प्रायच्छद्येन कर्मणा । |
|||
तत्कर्म दृष्ट्वा कुत्सस्तु प्राहैनं द्रविणोदसम् ।।बृहद्देवता २.२५ ।। |
०२:५१, १९ जनवरी २०१८ इत्यस्य संस्करणं
← सूक्तं १.९५ | ऋग्वेदः - मण्डल १ सूक्तं १.९६ कुत्स आङ्गिरसः |
सूक्तं १.९७ → |
दे. अग्निः, द्रविणोदा अग्निर्वा । त्रिष्टुप् |
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|
स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बळधत्त विश्वा ।
आपश्च मित्रं धिषणा च साधन्देवा अग्निं धारयन्द्रविणोदाम् ॥१॥
स पूर्वया निविदा कव्यतायोरिमाः प्रजा अजनयन्मनूनाम् ।
विवस्वता चक्षसा द्यामपश्च देवा अग्निं धारयन्द्रविणोदाम् ॥२॥
तमीळत प्रथमं यज्ञसाधं विश आरीराहुतमृञ्जसानम् ।
ऊर्जः पुत्रं भरतं सृप्रदानुं देवा अग्निं धारयन्द्रविणोदाम् ॥३॥
स मातरिश्वा पुरुवारपुष्टिर्विदद्गातुं तनयाय स्वर्वित् ।
विशां गोपा जनिता रोदस्योर्देवा अग्निं धारयन्द्रविणोदाम् ॥४॥
नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची ।
द्यावाक्षामा रुक्मो अन्तर्वि भाति देवा अग्निं धारयन्द्रविणोदाम् ॥५॥
रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः ।
अमृतत्वं रक्षमाणास एनं देवा अग्निं धारयन्द्रविणोदाम् ॥६॥
नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च क्षाम् ।
सतश्च गोपां भवतश्च भूरेर्देवा अग्निं धारयन्द्रविणोदाम् ॥७॥
द्रविणोदा द्रविणसस्तुरस्य द्रविणोदाः सनरस्य प्र यंसत् ।
द्रविणोदा वीरवतीमिषं नो द्रविणोदा रासते दीर्घमायुः ॥८॥
एवा नो अग्ने समिधा वृधानो रेवत्पावक श्रवसे वि भाहि ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥९॥
द्रविणं धनं बलं वापि प्रायच्छद्येन कर्मणा । तत्कर्म दृष्ट्वा कुत्सस्तु प्राहैनं द्रविणोदसम् ।।बृहद्देवता २.२५ ।।