स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ४६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४५ स्कन्दपुराणम्
अध्यायः ४६
वेदव्यासः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥नारद उवाच॥
बहूदकस्य कुंडस्य तीरस्थं लिंगमुत्तमम्॥
कपिलेश्वरमभ्यर्च्य नंदभद्रस्ततः सुधी॥ ४६.१ ॥

प्रणम्य चाग्रतस्तस्थौ प्रबद्धकरसंपुटः॥
संसारचरितैः किंचिद्द्रुःखी गाथां व्यगायत॥ ४६.२ ॥

स्रष्टारमस्य जगतश्चेत्पश्यामि सदाशिवम्॥
नानापृच्छाभिरथ तं कुर्यां नाथं विलज्जितम्॥ ४६.३ ॥

अपूर्यमाणं तव किं जगत्संसृजनं विना॥
निरीह बहुधा यत्ते सृष्टं भार्गववज्जगत्॥ ४६.४ ॥

सचेतनेन शुद्धेन रागादिरहितेन च॥
अथ कस्मादात्मसदृशं न सृष्टं निर्मितं जडम्॥ ४६.५ ॥

निर्वैरेण समेनाथ सुखदुःखभवाभवैः॥
ब्रह्मादिकीटपर्यन्तं किमेव क्लिश्यते जगत्॥ ४६.६ ॥

कांश्चित्स्वर्गेथ नरके पातयंस्त्वं सदाशिव॥
किं फलं समवाप्नोषि किमेवं कुरुषे वद॥ ४६.७ ॥

इष्टैः पुत्रादिभिर्नाथ वियुक्ता मानवा ह्यमी॥
क्रंदंति करुणासार किं घृणापि भवेन्न ते॥ ४६.८ ॥

अतीव नोचितं सर्वमेतदीश्वर सर्वथा॥
यत्ते भक्ताः समं पापैर्मज्जंते दुःखसागरे॥ ४६.९ ॥

एवंविधेन संसारचारित्रेण विमोहिताः॥
स्थानां तरं न यास्यामि भोक्ष्ये पास्यामि नोदकम्॥ ४६.१० ॥

मरणांतमेव यास्यामि स्थास्ये संचिंतयन्नदः॥
स एवं विमृशन्नेव नंदभद्रः स्वयं स्थितः॥ ४६.११ ॥

ततश्चतुर्थे दिवसे बहूकतटे शुभे॥
कश्चिद्बालः सप्तवर्षः पीडापीडित आययौ॥ ४६.१२ ॥

कृशोतीव गलत्कुष्ठी प्रमुह्यंश्च पदेपेद॥
नंदभद्रमुवाचेदं कृच्छ्रात्संस्तभ्य बालकः॥ ४६.१३ ॥

अहो सुरूपसर्वांग कस्माद्दुःखी भवानपि॥
ततोस्य कारणं सर्वं व्याचष्ट नंदभद्रकः॥ ४६.१४ ॥

श्रुत्वा तत्कारणं सर्वं बालो दीनमना ब्रवीत्॥
अहो हा कष्टमत्युग्रं बुधानां यदबुद्धिता॥ ४६.१५ ॥

संपूर्णोद्रियगात्रा यन्मर्तुमिच्छंति वै वृथा॥
मुहूर्ताद्ध्यत्र खट्वांगो मोक्षमार्गमुपागतः॥ ४६.१६ ॥

तदहो भारतं खंडं सत्यायुषि त्यजेद्धि कः॥
अहमेव दृढो मन्ये पितृभ्यां यो विवर्जितः॥ ४६.१७ ॥

अशक्तश्चलितुं वापि मर्तुमिच्छामि नापि च॥
सर्वे लाभाः सातिमाना इति सत्या बतश्रुतिः॥ ४६.१८ ॥

संतोषोऽप्युचितस्तुभ्यं देहं यस्य दृढं त्विदम्॥
शरीरं नीरुजं चेन्मे भवेदपि कथंचन॥ ४६.१९ ॥

क्षणेक्षणे च तत्कुर्यां भुज्यते यद्युगेयुगे॥
इंद्रियाणि वशे यस्य शरीरं च दृढं भवेत्॥ ४६.२० ॥

सोऽप्यन्यदिच्छते चेच्च कोऽन्यस्तस्मादचेतनः॥
शोकस्थानसहस्राणि हर्षस्थानशतानि च॥ ४६.२१ ॥

दिवसे दिवसे मूढमावशंति न पंडितम्॥
न हि ज्ञानविरुद्धेषु बह्वबपायेषु कर्मसु॥ ४६.२२ ॥

मूलघातिषु सज्जंते बुद्धिमंतो भवद्विधाः॥
अष्टांगां बुद्धिमाहुर्यां सर्वाश्रेयोविघातिनीम॥ ४६.२३ ॥

श्रुतिस्मृत्यविरुद्धा सा बुद्धिस्त्वय्यस्ति निर्मला॥
अथ कृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च॥ ४६.२४ ॥

शारीरमानसैर्दुःखैर्न सीदंति भवद्विधाः॥
नाप्राप्यमभिवांछंति नष्टं नेच्छंति शोचितुम्॥ ४६.२५ ॥

आपत्सु च न मुह्यंति नराः पंडितबुद्धयः॥
मनोदेहसमुत्थाभ्यां दुःखाब्यामर्पितं जगत्॥ ४६.२६ ॥

तयोर्व्याससमासाभ्यां शमोपायमिमं श्रृणु॥
व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविसर्जनात्॥ ४६.२७ ॥

चतुर्भिः कारणैर्दुःखं शीरिरं मानसं च यत्॥
मानसं चाप्यप्रियस्य संयोगः प्रियवर्जनम्॥ ४६.२८ ॥

द्विप्रकारं महाकष्टं द्वयोरेतदुदाहृतम्॥
मानसेन हि दुःखैन शरीरमुपतप्यते॥ ४६.२९ ॥

अयःपिंडेन तप्तेन कुंभसंस्थमिवोदकम्॥
तदाशु प्रति काराच्च सततं च विवर्जनात्॥ ४६.३० ॥

व्याधेराधेश्च प्रशमः क्रियायोगद्वयेन तु॥
मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवांबुना॥ ४६.३१ ॥

प्रशांते मानसे ह्यस्य शारीरमुपशाम्ति॥
मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते॥ ४६.३२ ॥

स्नेहाच्च सज्जनो नित्यं जन्तुर्दुःखमुपैति च॥
स्नेहमूलानि दुःखानि स्नेहजानि भायानि च॥ ४६.३३ ॥

शोकहर्षौ तथायासः सर्वं स्नेहात्प्रवर्तते॥ ४६.३४ ॥

स्नेहात्करणरागश्च प्रजज्ञे वैषयस्तथा॥
अश्रेयस्कावुभावतौ पूर्वस्तत्र गुरुः स्मृतः॥ ४६.३५ ॥

त्यागी तस्मान्न दुःखी स्यान्नर्वैरो निरवग्रहः॥
अत्यागी जन्ममरणे प्राप्नोतीह पुनःपुनः॥ ४६.३६ ॥

तस्मात्स्नेहं न लिप्सेन मित्रेभ्यो धनसंचयात्॥
स्वशरीरसमुत्थं च ज्ञानेन विनिर्वतयेत्॥ ४६.३७ ॥

ज्ञानान्वितेषु सिद्धेषु शास्त्रूज्ञेषु कृतात्मसु॥
न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम्॥ ४६.३८ ॥

रागाभिभूतः पुरुषः कामेन परिकृष्यते॥
इच्छा संजायते चास्य ततस्तृष्णा प्रवर्धते॥ ४६.३९ ॥

तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी मता॥
अधर्मबहुला चैव घोररूपानुबंधिनी॥ ४६.४० ॥

या दुस्त्यजा दुर्मतिभिर्या न जीर्यतः॥
यासौ प्राणांतिको रोगस्तां तृष्णां त्यजतः सुखम्॥ ४६.४१ ॥

अनाद्यंता तु सा तृष्णा ह्यंतर्देहगता नृणाम्॥
विनाशयति संभूता लोहं लोहमलो यथा॥ ४६.४२ ॥

यथैवैधः समुत्थेन वह्निना नाशमृच्छति॥
तथाऽकृतात्मा लोबेन स्वोत्पन्नेन विनश्यति॥ ४६.४३ ॥

तस्माल्लोभो न कर्तव्यः शरीरे चात्मबंधुषु॥
प्राप्तेषु व न हृष्येत नाशो वापि न शोचयेत्॥ ४६.४४ ॥

॥नंदभद्र उवाच॥
अहो बाल न बालस्त्वं मतो मे त्वां नमाम्यहम्॥
त्वद्वाक्यैरतितृप्तोऽहं त्वां तु प्रक्ष्यामि किंचन॥ ४६.४५ ॥

कामक्रोधावहंकारमिंद्रियाणि च मानवाः॥
निंदंति तत्र मे नित्यं विवक्षेयं प्रजायते॥ ४६.४६ ॥

अहमेष ममेदं च कार्यमीदृशकस्त्वहम्॥
इत्यादि चात्मविज्ञानमहंकार इति स्मृतः॥ ४६.४७ ॥

परिहार्यः य चेत्तं च विनोन्मत्तः प्रकीर्यते॥
कामोऽभिलाष इत्युक्तः सं चेत्पुंसा विवर्ज्यते॥ ४६.४८ ॥

कथं स्वर्गो मुमुक्षा वा साध्यते दृषदा यथा॥
क्रोधो वा यदि संत्याज्यस्ततः शत्रुक्षयः कथम्॥ ४६.४९ ॥

बाह्यानामांतराणां वा विना तं तृणवद्विदुः॥
इंद्रियाणि निगृह्यैव दुष्टानीति निपीडयेत्॥ ४६.५० ॥

कथं स्याद्धर्मश्रवणं कथं वा जीवनं भवेत्॥
एतस्मिन्मे मनो विद्धंखिद्यतेऽज्ञानसंकटे॥ ४६.५१ ॥

तथा कस्मादिदं सृष्टं जडं विश्वं चिदात्मना॥
एवं यद्बहुधा क्लेशः पीड्यते हा कुतस्त्विदम्॥ ४६.५२ ॥

॥बाल उवाच॥
सम्यगेतद्यथा पृष्टं यत्र मुह्यंति जंतवः॥
श्रृण्वेकाग्रमना भूत्वा ज्ञातं द्वैपायनान्मया॥ ४६.५३ ॥

प्रकृतिः पुरुषश्चैव अनादी श्रृणुमः पुरा॥
साधर्म्येणावतिष्ठेते सृष्टेः प्रागजरामरौ॥ ४६.५४ ॥

ततः कालस्वबावाभ्यां प्रेरिता प्रकृतिः पुरा॥
पुंसः संयोगमैच्छत्सा तदभावात्प्रकुप्यत॥ ४६.५५ ॥

ततस्तमोमयी सा च लीलया देववीक्षिता॥
राजसी समभूद्दूष्टा सात्त्विकी समजायत॥ ४६.५६ ॥

एवं त्रिगुणतां याता प्रकृतिर्देवदर्शनात्॥
तां समास्थाय परमस्त्रिमूर्तिः समजायत॥ ४६.५७ ॥

तस्याः प्रोच्चारणार्थं च प्रवृत्तः स्वांशतस्ततः॥
असूयत महत्तत्त्वं त्रिगुणं तद्विदुर्बुधाः॥ ४६.५८ ॥

अहंकार स्ततो जातः सत्त्वराजसतामसः॥
तमो रजस्त्वमापद्य रजः सत्त्‌वगुणं नयेत्॥ ४६.५९ ॥

शुद्धसत्त्वे ततो मोक्षं प्रवदंति मनीषिणः॥
तमसो रजसस्त स्मात्संशुद्ध्यर्थं च सर्वशः॥ ४६.६० ॥

जीवात्मसंज्ञान्स्वीयांशान्व्यभजत्परमेश्वरः॥
तावंतस्ते च क्षेत्र्ज्ञा देहा यावंत एव हि॥ ४६.६१ ॥

निःसरंति यथा लोहात्तप्तल्लिंगात्स्फुलिंगकाः॥
तन्मात्रभूतसर्गोयमहंकारात्तु तामसात्॥ ४६.६२ ॥

इंद्रियाणां सात्त्विकाच्च त्रिगुणानि च तान्यपि॥
एतैः संसिद्धयंत्रेण सच्चिदानन्दवीक्षणात्॥ ४६.६३ ॥

रजस्तमश्च शोध्यंते सत्त्वेनैव मुमुक्षुभिः॥
तस्मात्कामं च क्रोधं च इंद्रियाणां प्रवर्तनम्॥ ४६.६४ ॥

अहंकारं च संसेव्य सात्त्विकीं सिद्धिमश्नुते॥
राजसास्तामसाश्चैव त्याज्याः कामादयस्त्वमी॥ ४६.६५ ॥

सात्त्विकाः सर्वदा सेव्याः संसारविजिगीषुभिः॥
गुणत्रयस्य वक्ष्यामि संक्षेपाल्लक्षणं तव॥ ४६.६६ ॥

सास्त्राभ्यासस्ततो ज्ञानं शौचमिंद्रियनिग्रहः॥
धर्मक्रियात्मचिंता च सात्त्विकं गुण लक्षणम्॥ ४६.६७ ॥

अन्यायेन धनादानं तंद्री नास्तिक्यमेव च॥
क्रौर्यं च याचकाद्यं च तामसं गुणलक्षणम्॥ ४६.६८ ॥

तस्माद्बुद्धिमुकैस्त्वतैः सात्त्विकैर्देवतां भजेत्॥
राजसैर्मानवत्वं च तामसैः स्थाणुयोनिता॥ ४६.६९ ॥

बुद्ध्याद्यैरेव मुक्तिः स्यादेतैरेव च यातना॥ ४६.७० ॥

अमीषां चाप्य भावे वै न किंचिदुपपद्यते॥
कलादो हि कलादीनां सुवर्णं शोधयेद्यथा॥ ४६.७१ ॥

तथा रजस्तमश्चैव संशोध्ये सात्त्विकैर्गुणैः॥
अस्मादेव गुणानां च समवायादनादिजात्॥ ४६.७२ ॥

सुखिनो दुःखिनश्चैव प्राणिनः शास्त्रदर्शिनः॥
अष्टाविंशतिलक्षैश्च गुणमेकैकमीश्वरः॥ ४६.७३ ॥

व्यभजच्चतुरा शीतिलक्षास्ता जीवयोनयः॥
सकाशान्मनसस्तद्वदात्मनः प्रभवंति हि॥ ४६.७४ ॥

ईश्वरांशाश्च ते सर्वे मोहिताः प्राकृतैर्गुणैः॥
क्लेशानासादयंत्येव यथैवाधिकृता विभोः॥ ४६.७५ ॥

अन्नानां पयसां चापि जीवानां चाथ श्रेयसे॥
मानुष्यमाहुस्तत्त्वज्ञाः शिवभावेन भावितम्॥ ४६.७६ ॥

॥नंदभद्र उवाच॥
एवमेतत्किं तु भूयः प्रक्ष्याम्येतन्महामते॥
ईश्वराः सर्वदातारः पूज्यंते यैश्च देवताः॥ ४६.७७ ॥

स्वभक्तांस्तान्न दुःखेभ्यः कस्माद्रक्षंति मानवान्॥
विशेषात्केपि दृश्यंते दुःखमग्नाः सुरान्रताः॥ ४६.७८ ॥

इति मे मुह्यते बुद्धिस्त्वं वा किं बाल मन्यसे॥ ४६.७९ ॥

॥बाल उवाच॥
अशुचिश्च शुचिश्चापि देवभक्तो द्विधा स्मृतः॥
कर्मणा मनसा वाचा तद्रतो भक्त उच्यते॥ ४६.८० ॥

अशुचिर्देवताश्चैव यदा पुजयते नरः॥
तदा भूतान्या विशंति स च मुह्यति तत्क्षणात्॥ ४६.८१ ॥

विमूढश्चाप्टयकार्याणि तानि तानि निषेवते॥
ततो विनश्यति क्षिप्रं नाशुचिः पूजयेत्ततः॥
शुचिर्वाभ्यर्चयेद्यश्च तस्य चेदशुभं भवेत्॥ ४६.८२ ॥

तस्य पूर्वकृतं व्यक्तं कर्मणां कोटि मुच्यते॥
महेश्वरो ब्रह्महत्याभयाद्यत्र ततस्ततः॥ ४६.८३ ॥

सस्नौ तीर्थेषु कस्माच्च इतरो मुच्यते कथम्॥
अम्बरीषसुतां हृत्वा पर्वतान्नारदात्तथा॥ ४६.८४ ॥

सीतापहारमापेदे रामोऽन्यो मुच्यते कथम्॥
ब्रह्मापि शिरसश्छेदं कामयित्वा सुतामगात्॥ ४६.८५ ॥

इंद्रचंद्ररविविष्णुप्रमुखाः प्राप्नुयुः कृतम्॥
तस्मादवश्यं च कृतं भोज्यमेव नरैः सदा॥ ४६.८६ ॥

मुच्यते कोऽपि स्वकृतान्नैवेति श्रुतिनिर्णयः॥
किं तु देवप्रसादेन लभ्यमेकं सुरव्रतैः॥ ४६.८७ ॥

बहुभिर्जन्मभिर्भोज्यं भुज्येतैकेन जन्मना॥
तच्च भुक्त्वात तस्त्वर्थो भवेदिति विनिश्चयः॥ ४६.८८ ॥

ये तप्यंते गतैः पापैः शुचयो देवताव्रताः॥
इह ते पुत्रपौत्रैश्च मोदंतेऽमुत्र चेह च॥ ४६.८९ ॥

तस्माद्देवाः सदा पूज्याः शुचिभिः श्रद्धयान्वितैः॥
प्रकृतिः शोधनीया च स्ववर्णोदितकर्मभिः॥ ४६.९० ॥

स्वनुष्ठितोऽपि धर्मः स्यात्क्लेशायैव विनाशिवम्॥
दुराचारस्य देवोपि प्राहेति भगवान्हरः॥ ४६.९१ ॥

भोक्तव्यं स्वकृतं तस्मात्पूजनीयः सदाशिवः॥
स्वाचारेण परित्याज्यौ रागद्वेषाविदं परम्॥ ४६.९२ ॥

॥नन्दभद्र उवाच॥
शुद्धप्रज्ञ किमेतच्च पापिनोऽपि नरा यदा॥
मोदमानाः प्रदृश्यन्ते दारैरपि धनैरपि॥ ४६.९३ ॥

॥बाल उवाच॥
व्यक्तं तैस्तमसा दत्तं दानं पूर्वेषु जन्मसु॥
रजसा पूजितः शंभुस्तत्प्राप्तं स्वकृतं च तैः॥ ४६.९४ ॥

किं तु यत्तमसा कर्म कृतं तस्य प्रभावतः॥
धर्माय न रतिर्भूयात्ततस्तेषां विदांवर॥ ४६.९५ ॥

भुक्त्वा पुण्यफलं याति नरकं संशयः॥
अस्मिंश्च संशये प्रोक्तं मार्कंडेयेन श्रूयते॥ ४६.९६ ॥

इहैवैकस्य नामुत्र अमुत्रैकस्य नो इह॥
इह चामुत्र चैकस्य नामुत्रैकस्य नो इह॥ ४६.९७ ॥

पूर्वोपात्तं भवेत्पुण्यं भुक्तिर्नैवार्जयन्त्यपि॥
इह भोगः स वै प्रोक्तो दुर्भगस्याल्पमेधसः॥ ४६.९८ ॥

पूर्वोपात्तं यस्य नास्ति तपोभिश्चार्जयत्यपि॥
परलोके तस्य भोगो धीमतः स क्रियात्स्फुटम्॥ ४६.९९ ॥

पूर्वोपात्तं यस्य नास्ति पुण्यं चेहापि नार्जयेत्॥
ततश्चोहामुत्र वापि भो धिक्तं च नराधमम्॥ ४६.१०० ॥

इति ज्ञात्वा महाभागत्यक्त्वा शल्यानि कृत्स्नशः॥
भज रुद्रं वर्णधर्मं पालयास्मात्परं न हि॥ ४६.१०१ ॥

योहि नष्टेष्वभीष्टेषु प्राप्तेष्वपि च शोचति॥
तृप्येत वा भवेद्बन्धो निश्चितं सोऽन्यजन्मनः॥ ४६.१०२ ॥

॥नन्दभद्र उवाच॥
नमस्तुभ्यमबालाय बालरूपाय धीमते॥
को भवांस्तत्त्वतो वेत्तुमिच्छामि त्वां शुचिस्मितम्॥ ४६.१०३ ॥

बहवोऽपि मया वृद्धा दृष्टाश्चोपासिताः सदा॥
तेषामीदृशका बुद्धिर्न दृष्टा न श्रुतामया॥ ४६.१०४ ॥

येन मे जन्मसंदेहा नाशिता लीलयैव च॥
तस्मात्सामान्यरूपस्त्वं निश्चितं न मतं मम॥ ४६.१०५ ॥

॥बाल उवाच॥
महदेतत्समाख्येयमेकाग्रः श्रृणु तत्त्वतः॥
इतः सप्ताधिके चापि सप्तमे जन्मनि त्वहम्॥ ४६.१०६ ॥

वैदिशे नगरे विप्रो नाम्नाऽसं धर्मजालिकः॥
वेदवेदांगतत्त्वत्रः स्मृतिशास्त्रार्थविद्वरः॥ ४६.१०७ ॥

व्याख्याता धर्मशास्त्राणां यथा साक्षाद्बृहस्पतिः॥
किं त्वहं विविधान्धर्माल्लोंकानां वर्णये भृशम्॥ ४६.१०८ ॥

स्वयं चातिदुराचारः पापिनामपि पापराट्॥
मंसाशी मद्यसेवी च परदाररतः सदा॥ ४६.१०९ ॥

असत्यभाषी दम्भीच सदा धर्मध्वजी खलः॥
लोभी दुरात्मा कथको न कर्ता कर्हिचित्क्वचित्॥ ४६.११० ॥

यस्माज्जालिकवज्जालं लोकेभ्योऽहं क्षिपामि च॥
तत्त्वज्ञा मां ततः प्राहुर्धर्मजालिक इत्युत॥ ४६.१११ ॥

सोऽहं तैर्बहुभिश्चीर्णैः पातकैरंत आगते॥
मृतो गतो यमस्थानं पातितः कूटशाल्मलीम्॥ ४६.११२ ॥

यमदुतैस्ततः कृष्टः स्मार्यमामः स्वचेष्टितम्॥
खड्गैश्च कृत्यमानोऽहं जीवामि प्रमियामि च॥ ४६.११३ ॥

आत्मानं बहुधा निंदञ्छाश्वतीर्न्यवसं समाः॥
नरके या मतिर्भूयाद्धर्मं प्रति प्रपीडतः॥ ४६.११४ ॥

सा चेन्मुहूर्तमात्रं स्यादपि धन्यस्ततः पुमान्॥
नमोनमः कर्मभूम्यै सुकृतं दुष्कृतं च वा॥ ४६.११५ ॥

यस्यां मुहूर्तमात्रेण युगैरपि न नश्यति॥
ततो विपश्चिज्जनको मोक्षयामास नारकात्॥ ४६.११६ ॥

तैः सहाहं प्रमुक्तश्च कथंचिदवपीडितः॥
स्थाणुत्वमनुभूयाथ क्लेशानासाद्य भूरिशः॥ ४६.११७ ॥

कीटोहमभवं पश्चात्तीरे सारस्वते शुभे॥
तत्र मार्गे सुखमिव संसुप्तोहं यदृच्छया॥ ४६.११८ ॥

आगच्छतो रथस्यास्य शब्दमश्रौषमुन्नतम्॥
तं मेघनिनदं श्रुत्वा भीतोहं सहसा जवात्॥ ४६.११९ ॥

मार्गमुत्सृज्य दूरेण प्रपलायनमाचरम्॥
एतस्मिन्नंतरे व्यासस्तत्र प्राप्तो यदृच्छया॥ ४६.१२० ॥

स मामपश्यत्त्रस्तं च कृपया संयुतो मुनिः॥
यन्मया सर्वलोकानां नानाधर्माः प्रकीर्तिताः॥ ४६.१२१ ॥

विप्रजन्मनि तस्यैव प्रभावाद्व्याससंगमः॥
ततः सर्वरुतज्ञो मां प्राहार्च्यः कीटभाषया॥ ४६.१२२ ॥

किमेवं नश्यसे कीट कस्मान्मृत्योर्बिभेषि च॥
अहो समुचिता भीतिर्मनुष्यस्य कुतस्तव॥ ४६.१२३ ॥

इत्युक्तो मतिमान्पूर्वपुण्याद्व्यासं तदोचिवान्॥
न मे भयं जगद्वंद्य मृत्योरस्मात्कथंचन॥ ४६.१२४ ॥

एतदेव भयं मान्य गच्छेयमधमां गतिम्॥
अस्या अपि कुयोनेश्च संत्यन्याः कोटिशोऽधमाः॥ ४६.१२५ ॥

तासु गर्भादिकक्लेशभीतस्त्रस्तोऽस्मि नान्यथा॥ ४६.१२६ ॥

॥व्यास उवाच॥
मा भयं कुरु सर्वाभ्यो योनिभ्यश्च चिरादिव॥
मोक्षयिष्यामि ब्राह्मण्यं प्रापयिष्यामि निश्चितम्॥ ४६.१२७ ॥

इत्युक्तोहं कालियेन तं प्रणम्य जगद्गुरुम्॥
मार्गमागत्य चक्रेण पीडितो मृत्युमागमम्॥ ४६.१२८ ॥

ततः काकश्रृगालादियोनिष्वस्मि यदाऽभवम्॥
तदातदा समागम्य व्यासो मां स्मारयच्च तत्॥ ४६.१२९ ॥

ततो बहुविधा योनीः परिक्रम्यास्मि कर्षितः॥
ब्राह्मणस्य च गेहेस्यां योनौ जातोऽतिदुःखितः॥ ४६.१३० ॥

ततो जन्मप्रभृत्यस्मि पितृभ्यां परिवर्जितः॥
गलत्कुष्ठी महापीडामेतां योऽनुभवामि च॥ ४६.१३१ ॥

ततो मां पंचमे वर्षे व्यास आगत्य जप्तवान्॥
कर्णे सारस्वतं मंत्रं तेनाहं संस्मरामि च॥ ४६.१३२ ॥

अनधीतानि शास्त्राणि वेदान्धर्मांश्च कृत्स्नशः॥
उक्तं व्यासेन चेदं मे गच्छ क्षेत्रं गुहस्य च॥
तत्र त्वं नंदभद्रं च आश्वासयमहामतिम्॥ ४६.१३३ ॥

त्यत्क्वा बहूदके प्राणानस्थिक्षेपं महीजले॥
काराय्य त्वं ततो भावी मैत्रेय इति सन्मुनिः॥ ४६.१३४ ॥

गमिष्यसि ततो मोक्षमिति मां व्यास उक्तवान्॥
आगतश्च ततश्चात्र वाहीकेभ्योऽयोऽतिक्लेशतः॥ ४६.१३५ ॥

इति ते कथितं सर्वमात्मनश्चरितं मया॥
पापमेवंविधं कष्टं नंदभद्र सदा त्यज॥ ४६.१३६ ॥

॥नंदभद्र उवाच॥
अहो महाद्भुतं तुभ्यं चरितं येन मे हृदि॥
भूयः शतगुणं जातं धर्मायदृढमानसम्॥ ४६.१३७ ॥

किं तु त्वयोक्तधर्मस्य कर्तुकामोस्‌मि निष्कृतिम्॥
धर्मं स्मर भवांस्तस्मात्किंचिदादिश निश्चितम्॥ ४६.१३८ ॥

॥बाल उवाच॥
अत्र तीर्थे च सप्ताहं निराहारस्त्वहं स्थितः॥
सूर्यमंत्राञ्जमिष्यामि त्यक्ष्यामि च ततस्त्वसून्॥ ४६.१३९ ॥

ततो बर्करिकातीर्थे दग्धव्योहं त्वया तटे॥
अस्थीनि सागरे चापि मम क्षेप्याणि चात्र हि॥ ४६.१४० ॥

यदि सापह्नवं चित्तं मय्यतीव तवास्ति चेत्॥
ततस्त्वां गुरुकार्यार्थमादेक्ष्यामि श्रृणुष्व तत्॥ ४६.१४१ ॥

अस्मिन्बहूदके तीर्थे यत्र प्राणांस्त्यजाम्यहम्॥
तत्र मन्नामचिह्नस्ते संस्थाप्यो भास्करो विभुः॥ ४६.१४२ ॥

आरोग्यं धनधान्यं च पुत्रदारादिसंपदः॥
भास्करो भगवांस्तुष्टो दद्यादेतच्छ्रुतेर्वचः॥ ४६.१४३ ॥

सविता परमो देवः सर्वस्वं वा द्विजन्मनाम्॥
वेदवेदांगगीतश्च त्वमप्येनं सदा भज॥ ४६.१४४ ॥

बहूदकमिदं कुंडं संसेव्यं च सदा त्वया॥
माहात्म्यमस्य वक्ष्यामि संक्षेपाद्व्यास सूचितम्॥ ४६.१४५ ॥

बहूदके कुंडवरे स्नाति यो विधिवन्नरः॥
आरोग्यं धनधान्याद्यं तस्य स्यात्सर्वजन्मसु॥ ४६.१४६ ॥

बहूदके च यः स्नात्वा सप्तम्यां माघमासके॥
दद्यात्पिंडं पितॄणां च तेऽक्ष्यां तृप्तिमाप्नुयुः॥ ४६.१४७ ॥

बहूदकस्य तीरे यः शुचिर्यजति वै क्रतुम्॥
शतक्रतुफलं तस्य नास्ति काचिद्विचारणा॥ ४६.१४८ ॥

अत्र यस्त्यजति प्राणान्बहूदकतटे नरः॥
मोदते सूर्यलोकेऽसौ धर्मिणां च सुतो भवेत्॥ ४६.१४९ ॥

बहूदकस्य तीरे च यः कुर्य्याज्जपसाधनम्॥
सर्वं लक्षगुणं प्रोक्तं जपो होमश्च पूजनम्॥ ४६.१५० ॥

बहूदकस्य तीरे च द्विजमेकं च भोजयेत्॥
यो मिष्टान्नेन तस्य स्याद्विप्रकोटिश्च भोजिता॥ ४६.१५१ ॥

बहूदकस्य तीरे या नारी गौरिणिकाः शुभाः॥
संभोजयति तस्याश्च कुर्यात्सुस्वागतं ह्युमा॥ ४६.१५२ ॥

बहूदकस्य तीरे च यः कुर्याद्योगसाधनम्॥
षण्मासाभ्यन्तरे सिद्धिर्भवेत्तस्य न संशयः॥ ४६.१५३ ॥

बहूदकस्य तीरे च प्रेतानुद्दिश्य दीयते॥
यत्किंचिदक्षयं तेषामुपतिष्ठेन्न चान्यथा॥ ४६.१५४ ॥

स्नानं दानं जपो होमः स्वाध्यायः पितृतर्पणम्॥
कृतं बहूदकतटे सर्वं स्यात्सुमहात्फलम्॥ ४६.१५५ ॥

त्वयैतद्धृदि संधार्य फलं व्यासेन सूचितम्॥
बहूदकस्य कुंडस्य नंदभद्र महामते॥ ४६.१५६ ॥

इत्युक्त्वा सोऽभवन्मौनी स्नात्वा कुंडे ततः शुचिः॥
तीरे प्रस्तरमाश्रित्य स्वयं मंत्राञ्जाप ह॥ ४६.१५७ ॥

॥श्रीनारद उवाच॥
ततः स सप्तरात्रांते जहौ बालो निजानसून्॥
संस्कारितो यथोक्तं च नंदभद्रेण ब्राह्मणैः॥ ४६.१५८ ॥

यत्र बालः स च प्राणाञ्जहौ जपपरायणः॥
बालादित्यमिति ख्यातं तत्रास्थापयत प्रभुम्॥ ४६.१५९ ॥

बहूदके च यः स्नात्वा बालादित्यं प्रपूजयेत्॥
तस्य स्याद्भास्करस्तुष्टो मोक्षोपायं च विंदति॥ ४६.१६० ॥

नंदभद्रो ऽप्यथान्यस्यां भार्यायामपरान्सुतान्॥
उत्पाद्यात्मसमन्धीमाञ्छिवसूर्यपरायणः॥ ४६.१६१ ॥

रुद्रदेहं ययौ पार्थ पुनरावृत्तिदुर्लभम्॥
एवमेतन्महाकुंडं बहूदकमिति स्मृतम्॥ ४६.१६२ ॥

अस्य तीरे स्वमंशं च वल्लीनाथः प्रमेक्ष्यति॥
दत्तात्रेयस्य यो योगी ह्यवतारो भविष्यति॥ ४६.१६३ ॥

अर्चयित्वा च तं देवं योगसिद्धि मवाप्नुयात्॥
पशूनामृद्धिमाप्नोति गोशरण्यो ह्यसौ प्रभुः॥ ४६.१६४ ॥

पश्चिमायां बुधसुतस्तथा क्षेत्रं स भारत॥
पुरूरवादित्यमिति स्थापयामास पार्थिवः॥ ४६.१६५ ॥

सर्वकामप्रदश्चासौ भट्टदित्यसमो रिवः॥
बहूदकक्षेत्रसमं तस्य क्षेत्रं च भारत॥ ४६.१६६ ॥

अस्य तीर्थस्य माहात्म्यं जप्तव्यं कर्णमूलके॥
पुत्रस्य वापि शिष्यस्य न कथंचन नास्तिकः॥ ४६.१६७ ॥

श्रृणोतीदं श्रद्धया यस्तस्य तुष्येश्च भास्करः॥
धारयन्हृदये मोक्षंमुच्यते भवसागरात्॥ ४६.१६८ ॥

इचि श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे बहूदकमाहात्म्य बालादित्यवृत्तान्तवर्णनंनाम षट्चत्वारिंशोऽध्यायः॥ ४६ ॥ छ ॥