सामग्री पर जाएँ

ऋग्वेदः सूक्तं १.६२

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १.६२ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १.६१ ऋग्वेदः - मण्डल १
सूक्तं १.६२
नोधा गौतमः
सूक्तं १.६३ →
दे. इन्द्रः। त्रिष्टुप्।


प्र मन्महे शवसानाय शूषमाङ्गूषं गिर्वणसे अङ्गिरस्वत् ।
सुवृक्तिभि स्तुवत ऋग्मियायार्चामार्कं नरे विश्रुताय ॥१॥
प्र वो महे महि नमो भरध्वमाङ्गूष्यं शवसानाय साम ।
येना नः पूर्वे पितरः पदज्ञा अर्चन्तो अङ्गिरसो गा अविन्दन् ॥२॥
इन्द्रस्याङ्गिरसां चेष्टौ विदत्सरमा तनयाय धासिम् ।
बृहस्पतिर्भिनदद्रिं विदद्गाः समुस्रियाभिर्वावशन्त नरः ॥३॥
स सुष्टुभा स स्तुभा सप्त विप्रैः स्वरेणाद्रिं स्वर्यो नवग्वैः ।
सरण्युभिः फलिगमिन्द्र शक्र वलं रवेण दरयो दशग्वैः ॥४॥
गृणानो अङ्गिरोभिर्दस्म वि वरुषसा सूर्येण गोभिरन्धः ।
वि भूम्या अप्रथय इन्द्र सानु दिवो रज उपरमस्तभायः ॥५॥
तदु प्रयक्षतममस्य कर्म दस्मस्य चारुतममस्ति दंसः ।
उपह्वरे यदुपरा अपिन्वन्मध्वर्णसो नद्यश्चतस्रः ॥६॥
द्विता वि वव्रे सनजा सनीळे अयास्य स्तवमानेभिरर्कैः ।
भगो न मेने परमे व्योमन्नधारयद्रोदसी सुदंसाः ॥७॥
सनाद्दिवं परि भूमा विरूपे पुनर्भुवा युवती स्वेभिरेवैः ।
कृष्णेभिरक्तोषा रुशद्भिर्वपुर्भिरा चरतो अन्यान्या ॥८॥
सनेमि सख्यं स्वपस्यमानः सूनुर्दाधार शवसा सुदंसाः ।
आमासु चिद्दधिषे पक्वमन्तः पयः कृष्णासु रुशद्रोहिणीषु ॥९॥
सनात्सनीळा अवनीरवाता व्रता रक्षन्ते अमृताः सहोभिः ।
पुरू सहस्रा जनयो न पत्नीर्दुवस्यन्ति स्वसारो अह्रयाणम् ॥१०॥
सनायुवो नमसा नव्यो अर्कैर्वसूयवो मतयो दस्म दद्रुः ।
पतिं न पत्नीरुशतीरुशन्तं स्पृशन्ति त्वा शवसावन्मनीषाः ॥११॥
सनादेव तव रायो गभस्तौ न क्षीयन्ते नोप दस्यन्ति दस्म ।
द्युमाँ असि क्रतुमाँ इन्द्र धीरः शिक्षा शचीवस्तव नः शचीभिः ॥१२॥
सनायते गोतम इन्द्र नव्यमतक्षद्ब्रह्म हरियोजनाय ।
सुनीथाय नः शवसान नोधाः प्रातर्मक्षू धियावसुर्जगम्यात् ॥१३॥

सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथ पञ्चमाध्याय आरभ्यते । प्रथमे मण्डले एकादशेऽनुवाके चत्वारि सूक्तानि गतानि । ' प्र मन्महे' इत्येतत् त्रयोदशर्चं पञ्चमं सूक्तम् । अत्रानुक्रम्यते- प्र सप्तोनेति । अनिरुक्ता संख्या विंशतिः । ( अनु. १२. ४ ) इत्युक्तत्वात् प्र सप्तोनेत्युक्ते त्रयोदशेत्युक्तं भवति । ‘ ऋषिश्चान्यस्मात् ' इति परिभाषया नोधा ऋषिः । अनादेशपरिभाषया त्रिष्टुप् छन्दः । इन्द्रो देवता । गतः सामान्य विनियोगः । विशेषविनियोगस्तु लिङ्गादवगन्तव्यः ॥


प्र म॑न्महे शवसा॒नाय॑ शू॒षमा॑ङ्गू॒षं गिर्व॑णसे अङ्गिर॒स्वत् ।

सु॒वृ॒क्तिभि॑ः स्तुव॒त ऋ॑ग्मि॒यायार्चा॑मा॒र्कं नरे॒ विश्रु॑ताय ॥१

प्र । म॒न्म॒हे॒ । श॒व॒सा॒नाय॑ । शू॒षम् । आ॒ङ्गू॒षम् । गिर्व॑णसे । अ॒ङ्गि॒र॒स्वत् ।

सु॒वृ॒क्तिऽभिः॑ । स्तु॒व॒ते । ऋ॒ग्मि॒याय॑ । अर्चा॑म । अ॒र्कम् । नरे॑ । विऽश्रु॑ताय ॥१

प्र । मन्महे । शवसानाय । शूषम् । आङ्गूषम् । गिर्वणसे । अङ्गिरस्वत् ।

सुवृक्तिऽभिः । स्तुवते । ऋग्मियाय । अर्चाम । अर्कम् । नरे । विऽश्रुताय ॥१

"शवसानाय । शव इति बलनाम । तदिवाचरते। यथा बलं शत्रून् हन्ति तथा शत्रूणां हन्तेत्यर्थः । "गिर्वणसे । गीर्भिः स्तुतिलक्षणैर्वचोभिः संभजनीयाय । ‘ गिर्वणा देवो भवति गीर्भिरेनं वनयन्ति' (निरु. ६. १४ ) इति यास्कः । एवंभूतायेन्द्राय । शूषमिति सुखनाम । "शूषं सुखहेतुभूतम् ।' आङ्गूषः स्तोम आघोषः ' ( निरु. ५. ११ ) इति यास्कः। "आङ्गूषं स्तोत्रम् "अङ्गिरस्वत् अङ्गिरस इव "प्र "मन्महे वयं स्तोतारः प्रकर्षेणावगच्छामः। अवगत्य च "सुवृक्तिभिः सुष्ठ्वावर्जकैः स्तुत्याभिमुखीकरणसमर्थैः स्तोत्रैः "स्तुवते स्तोत्रं कुर्वते ऋषये य इन्द्र ऋग्मियोऽर्चनीयो भवति । यद्वा । कर्मणि कर्तृप्रत्ययः । ऋषिणा स्तूयमानायेत्यर्थः । "नरे सर्वेषां नेत्रे । यद्वा । नरे यजमाने । "विश्रुताय यष्टव्यतया विशेषेण प्रख्याताय। एवंभूताय तस्मै "अर्कं मन्त्ररूपं स्तोत्रम् । अर्को मन्त्रो भवति यदेनेनार्चन्ति' (निरु. ५. ४) इति यास्कः । "अर्चाम पूजयाम । उच्चारयामेत्यर्थः ॥ मन्महे। मनु अवबोधने ' । तनादित्वात् उप्रत्ययः । लोपश्चास्यान्यतरस्यां म्वोः ' ( पा. सू. ६. ४. १०७ ) इति मकारादौ प्रत्यये उकारलोपः । शवसानाय । शव इवाचरति शवस्यते । अस्मात् लटः शानच् । बहुलं छन्दसि ' इति शपो लुक् । शानचः ‘छन्दस्युभयथा' इति आर्धधातुकत्वात् अतोलोपयलोपौ । चितः इत्यन्तोदात्तत्वम् । ननु क्यङो ङित्त्वात् ' तास्यनुदात्तेत्' इति शान्चोऽनुदात्तेन भवितव्यम् । एवं तर्हि ताच्छीलिकः चानश् । तस्य सार्वधातुकरवेऽपि सार्वधातुकत्वाभावात् चितः स्वर एव शिष्यते । शूषम् । ‘शूष प्रसवे'। पचाद्यच् । आङ्गूषम् । आङ्पूर्वात् घुषेः पचाद्यचि घो इत्यस्य गूआदेशः पृषोदरादित्वात् । आङो ङकारस्य इत्संज्ञाभावश्छान्दसः । चित्स्वरेणोत्तरपदस्यान्तोदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् । घञि वा थाथादिना उत्तरपदान्तोदात्तत्वम् । गिर्वणसे ।' गॄ शब्दे ' । संपदादिलक्षणो भावे क्विप् । 'ऋत इद्धातोः' इति इत्वम् । गीर्भिर्वन्यते संभज्यते इति गिर्वणः । औणादिकः कर्मणि असुन्। संज्ञापूर्वकस्य विधेरनित्यत्वात् ‘हलि च ' इति दीर्घाभावः । ‘गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इति वचनात् पूर्वपदप्रकृतिस्वरत्वम् । अङ्गिरस्वत्। ‘ तेन तुल्यम्' इति वतिः ।' नभोऽङ्गिरोमनुषां वत्युपसंख्यानम्' (पा. सू. १. ४. १८. ३) इति भसंज्ञायां रुत्वाद्यभावः । प्रत्ययस्वरः । सुवृक्तिभिः । वृजी वर्जने' । भावे क्तिन् । “ तितुत्र' इति इट्प्रतिषेधः । शोभनमावर्जनं येषाम् । ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । ननु क्तिनन्तस्योत्तरपदस्याद्युदात्तत्वात् ' आद्युदात्तं द्व्यच्छन्दसि ' इति वचनादुत्तरपदाद्युदात्तत्वं प्राप्नोति । एवं तर्हि तत्पुरुषोऽस्तु । शोभनमावर्जितो भवत्येभिरिति सुवृक्तयः स्तोत्राणि । करणे क्तिन् । ' तादौ च निति” ' इति गतेः प्रकृतिस्वरत्वे प्राप्ते ‘मन्क्तिन्” ' इत्यादिना कारकादुत्तरस्य क्तिनो विहितमुत्तरपदान्तोदात्तत्वमकारकादपि व्यत्ययेन भवति । स्तुवते । ‘शतुरनुमः' इति विभक्तेरुदात्तत्वम् । ऋग्मियाय । एकाचो नित्यं मयटमिच्छन्ति' (का.४. ३. १४४) इति ऋक्शब्दात् विकारार्थे मयट् । 'स्वादिष्वसर्वनामस्थाने' (पा. सू. १. ४. १७ ) इति पदसंज्ञायां कुत्वजश्त्वे । व्यत्ययेन इत्वम् । यद्वा ।' ऋच स्तुतौ' इत्यस्मात् भावे मक् । बहुलवचनात् कुत्वं जश्त्वं च । ऋग्मं स्तुतिमर्हतीति ऋग्मियः । अर्हार्थे घच् । ' चितः ' इत्यन्तोदात्तत्वम् । अर्चाम ।' अर्च पूजायाम् । भौवादिकः । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । अर्कम् । अर्च्यतेऽनेनेत्यर्कः । ‘ पुंसि संज्ञायां घः प्रायेण ' इति घप्रत्ययः । चजोः कु घिण्ण्यतोः ' इति कुत्वम् । नरे । नृशब्दात् चतुर्थ्येकवचने गुणश्छान्दसः । विश्रुताय । श्रु श्रवणे' । कर्मणि निष्ठा । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ।।


प्र वो॑ म॒हे महि॒ नमो॑ भरध्वमाङ्गू॒ष्यं॑ शवसा॒नाय॒ साम॑ ।

येना॑ न॒ः पूर्वे॑ पि॒तर॑ः पद॒ज्ञा अर्च॑न्तो॒ अङ्गि॑रसो॒ गा अवि॑न्दन् ॥२

प्र । वः॒ । म॒हे । महि॑ । नमः॑ । भ॒र॒ध्व॒म् । आ॒ङ्गू॒ष्य॑म् । श॒व॒सा॒नाय॑ । साम॑ ।

येन॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । प॒द॒ऽज्ञाः । अर्च॑न्तः । अङ्गि॑रसः । गाः । अवि॑न्दन् ॥२

प्र । वः । महे । महि । नमः । भरध्वम् । आङ्गूष्यम् । शवसानाय । साम ।

येन । नः । पूर्वे । पितरः । पदऽज्ञाः । अर्चन्तः । अङ्गिरसः । गाः । अविन्दन् ॥२

हे ऋत्विजः "वः यूयं "महे महते “शवसानाय बलमिवाचरते । अतिबलायेत्यर्थः । उत्तरवाक्ये यच्छब्दश्रुतेः तच्छब्दाध्याहारः । एवंभूताय तस्मै इन्द्राय "महि महत् प्रौढं "नमः स्तोत्रं “प्र “भरध्वं प्रकर्षेण संपादयत । किं तत् स्तोत्रमित्याह । "आङ्गूष्यं "साम आघोषयोग्यं रथन्तरादिसाम । तन्निपाद्यतामित्यर्थः। ‘ अभि त्वा शूर' (ऋ. सं. ७. ३२. २२ ) इत्यादिषु ऋक्षु यद्गानं तस्य सामेत्याख्या। तथा चोक्तं-' गीतिषु सामाख्या' (जै. सू. २. १. ३६) इति । "येन इन्द्रेण "नः अस्माकं "पितरः पितृविशेषाः "पूर्वे पूर्वपुरुषाः "अङ्गिरसः पणिनाम्नासुरेणापहृतानां गवां 'पदज्ञाः मार्गज्ञाः सन्तोऽत एव "अर्चन्तः तं पूजयन्तः "गा "अविन्दन् अलभन्त ॥ वः । प्रथमार्थे द्वितीया । पदज्ञाः । पदानि जानन्तीति । अतोऽनुपसर्गे कः' इति कः । ‘ आतो लोप इटि च' इति आकारकोपः ।। अविन्दन् ।' विद्लृ लाभे'। ‘शे मुचादीनाम्' इति नुमागमः ॥


इन्द्र॒स्याङ्गि॑रसां चे॒ष्टौ वि॒दत्स॒रमा॒ तन॑याय धा॒सिम् ।

बृह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद्गाः समु॒स्रिया॑भिर्वावशन्त॒ नर॑ः ॥३

इन्द्र॑स्य । अङ्गि॑रसाम् । च॒ । इ॒ष्टौ । वि॒दत् । स॒रमा॑ । तन॑याय । धा॒सिम् ।

बृह॒स्पतिः॑ । भि॒नत् । अद्रि॑म् । वि॒दत् । गाः । सम् । उ॒स्रिया॑भिः । वा॒व॒श॒न्त॒ । नरः॑ ॥३

इन्द्रस्य । अङ्गिरसाम् । च । इष्टौ । विदत् । सरमा । तनयाय । धासिम् ।

बृहस्पतिः । भिनत् । अद्रिम् । विदत् । गाः । सम् । उस्रियाभिः । वावशन्त । नरः ॥३

अत्रेदमाख्यानम् । सरमा नाम देवशुनी । पणिभिर्गोष्वपहृतासु तद्गवेषणाय तां सरमामिन्द्रः प्रहैषीत्। यथा लोके व्याधो वनान्तर्गतमृगान्वेषणाय श्वानं विसृजति तद्वत् । सा च सरमा एवमवोचत्। हे इन्द्र अस्मदीयाय शिशवे तद्गोसंबन्धि क्षीराद्यन्नं यदि प्रयच्छसि तर्हि गमिष्यामीति । स तथेत्यब्रवीत् । तथा च शाट्यायनकम्-अन्नादिनीं ते सरमे प्रजां करोमि या नो गा अन्वविन्दः' इति ततो गत्वा गवां स्थानमज्ञासीत् । ज्ञात्वा चास्मै न्यवेदयत् । तथा निवेदितासु गोषु तमसुरं हत्वा ता गाः स इन्द्रोऽलभतेति । अयमर्थोऽस्यां प्रतिपाद्यते ॥ “इन्द्रस्य "अङ्गिरसाम् ऋषीणां "च “इष्टौ प्रेषणे सति "सरमा देवशुनी "तनयाय स्वपुत्राय “धासिम् अन्नं "विदत् अविन्दत् । धासिः इत्यन्ननाम, ‘ धासिः इरा' (नि. २.७. ११) इति तन्नामसु पाठात् । तथा गोषु निवेदितासु "बृहस्पतिः बृहतां देवानामधिपतिरिन्द्रः "अद्रिम् अत्तारमसुरं “भिनत् अवधीत् । तेनापहृताः “गाः "विदत् अलभत । ततः "नरः नेतारो देवाः “उस्रियाभिः गोभिः सह । उस्रिया इति गोनाम । “सं “वावशन्त भृशं हर्षशब्दमकुर्वन् । यद्वा । गोभिः साधनभूताभिस्तदीयं क्षीरादिकमकामयन्त समगच्छन्तेत्यर्थः ॥ इष्टौ ।' इष गतौ । इत्यस्मात् भावे क्तिनि मन्त्रे वृष° ' इत्यादिना क्तिन उदात्तत्वम् । विदत् । ‘ विद्लृ लाभे ' । लुङि लृदित्त्वात् अङ्।' बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । अङ एव स्वरः शिष्यते । पादादित्वात् निघाताभावः । सरमा । “सरमा सरणात् ' (निरु. ११. २४ ) इति यास्कः । सर्तेः औणादिकः अमप्रत्ययः । धासिम् । “धेट् पाने'। धीयते पीयते इति धासिः । औणादिकः सिप्रत्ययः । यद्वा । दधातेः पोषणार्थात् सिप्रत्ययः । बृहस्पतिः । ‘ तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च' (पा. सू. ६. १. १५७. ग.) इति सुडागमस्तलोपश्च । बृहच्छब्दः अन्तोदात्तः । तस्य केचिदाद्युदात्तत्वं वर्णयन्तीत्युक्तम् । पतिशब्दो डतिप्रत्ययान्त आद्युदात्तः । अतः ‘ उभे वनस्पत्यादिषु । इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । उस्रियाभिः । निवसत्यस्यां क्षीरादिकमिति उस्रा गौः । ‘ वस निवासे ' इत्यस्मात् ‘ स्फायितञ्चि° ' इत्यादिना अधिकरणे रक्। ‘ वचिस्वपि ' इत्यादिना संप्रसारणम् । ‘ उस्राशब्दात् स्वार्थे पृषोदरादित्वेन घप्रत्ययः' इति निघण्टुभाष्यम् । घस्य इयादेशः । प्रत्ययस्वरः । वावशन्त । वाशृ शब्दे ' । अस्मात् यङन्तात् लङि झस्य अन्तादेशे सति तस्य छन्दस्युभयथा' इति आर्धधातुकत्वात् अतोलोपयलोपौ । व्यत्ययेन धातोर्ह्रस्वत्वम् । यद्वा । ‘वश कान्तौ ' इत्यस्मात् यङि ‘न वशः ' ( पा. सू. ६. १. २० ) इति संप्रसारणे प्रतिषिद्धे पूर्ववत् प्रक्रिया ॥


स सु॒ष्टुभा॒ स स्तु॒भा स॒प्त विप्रै॑ः स्व॒रेणाद्रिं॑ स्व॒र्यो॒३॒॑ नव॑ग्वैः ।

स॒र॒ण्युभि॑ः फलि॒गमि॑न्द्र शक्र व॒लं रवे॑ण दरयो॒ दश॑ग्वैः ॥४

सः । सु॒ऽस्तुभा॑ । सः । स्तु॒भा । स॒प्त । विप्रैः॑ । स्व॒रेण॑ । अद्रि॑म् । स्व॒र्यः॑ । नव॑ऽग्वैः ।

स॒र॒ण्युऽभिः॑ । फ॒लि॒ऽगम् । इ॒न्द्र॒ । श॒क्र॒ । व॒लम् । रवे॑ण । द॒र॒यः॒ । दश॑ऽग्वैः ॥४

सः । सुऽस्तुभा । सः । स्तुभा । सप्त । विप्रैः । स्वरेण । अद्रिम् । स्वर्यः । नवऽग्वैः ।

सरण्युऽभिः । फलिऽगम् । इन्द्र । शक्र । वलम् । रवेण । दरयः । दशऽग्वैः ॥४

अङ्गिरसो द्विविधाः । सत्रयागमनुतिष्ठन्तो ये नवभिर्मासैः समाप्य गतास्ते नवग्वाः ।' नवग्वा नवनीतगतयः' (निरु. ११. १९) इति यास्को व्याचख्यौ। ये तु दशभिर्मासैः समाप्य जग्मुस्ते दशग्वाः। तादृशैरुभयविधैः "विप्रैः मेधाविभिः "सरण्युभिः सरणं शोभनां गतिमिच्छद्भिः "सप्त सप्तसंख्याकैः । सप्त ह्यत्र मेधातिथिप्रभृतयोऽङ्गिरसो दृश्यन्ते । एवंभूतैरङ्गिरोभिः "सुष्टुभा शोभनस्तोभयुक्तेन "स्वरेण उदात्तादिश्रव्यस्वरोपेतेन । यद्वा । मन्द्रमध्यमादिस्वरेण "स्तुभा स्तोत्रेण "स्वर्यः सुष्ठु प्राप्यः । यद्वा । शब्दनीयः स्तुत्य इत्यर्थः । हे "शक्र शक्तिमन् "इन्द्र एवंभूतः "सः त्वम् "अद्रिम् आदरणीयं वज्रेण छेत्तव्यमित्यर्थः । फलिगम् । प्रतिफलं प्रतिबिम्बम् । तदस्मिन्नस्तीति फलि स्वच्छमुदकम् । तद्गच्छति आधारत्वेनेति फलिगः । यद्वा । व्रीह्यादि फलम् । तदस्मिन् सति भवतीति फलि वृष्टिजलम् । तद्गच्छतीति फलिगः । एवंभूतं “वलं मेघं “रवेण आत्मीयेन शब्देन "दरयः अभाययः। त्वदीयशब्दश्रवणमात्रेण मेघो बिभेतीत्यर्थः । यद्वा । अद्रिः पर्वतः। अद्यतेऽस्मिन् पटलादिकमिति' । फलिगो मेघः । ‘ फलिगः उपलः ' ( निघ. १. १०. १७ ) इति तन्नामसु पाठात् । वलोऽसुरः । ' देवा वै वले गाः पर्यपश्यन् ' ( ऐ. ब्रा. ६. २४ ) इत्यादौ असुरे प्रयुक्तत्वात् । एते त्रयोऽपि त्वदीयशब्दश्रवणमात्रेणाबिभयुरित्यर्थः ॥ सः इत्येकः पादपूरणः । सुष्टुभा । स्तोभतिः स्तुतिकर्मा । संपदादिलक्षणो भावे क्विप्। शोभनः स्तुप् स्तोभो यस्य । ‘नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । ‘ उपसर्गात्सुनोति' इति षत्वम् । स्तुभा । करणभूतस्यापि स्तोत्रस्य स्वव्यापारे कर्तृत्वात् स्तोभति स्तौतीति ‘क्विप् च' इति कर्तरि क्विप् । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् । सप्त । ‘सुपां सुलुक्' इति भिसो लुक् । स्वर्यः । स्वृ शब्दोपतापयोः । ‘ ऋहलोर्ण्यत्' इति ण्यत् । वृद्ध्यभावश्छान्दसः । ‘ तित्स्वरितम्' इति स्वरितत्वम् । नवग्वैः । नवशब्दे उपपदे गमेर्भावे क्विपि ' गमः क्वौ ' ( पा. सू. ६. ४. ४० ) इत्यनुनासिकलोपे ' ऊ च गमादीनामिति वक्तव्यम् ' ( पा. सू. ६. ४. ४०. २ ) इति ऊकारान्तादेशः । नवभिः गूः गमनं येषां ते नवग्वाः। अकारोपजनश्छान्दसः । यद्वा । गमेर्भावे ड्वप्रत्ययः । पूर्ववत् बहुव्रीहिः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सरण्युभिः । सरणमात्मन इच्छन्तः सरण्यवः । क्यचि अन्त्यलोपश्छान्दसः । क्याच्छन्दसि' इति उः। फलिगम् । फलि उदकं गच्छतीति फलिगः । ‘डोऽन्यत्रापि दृश्यते ' ( पा. म. ३. २. ४८ ) इति गमेर्डः । वलम् । वृणोतीति वलः । पचाद्यच् । कपिलकादित्वात् लत्वम् (पा. म. ८. २. १८)। दरयः । ‘दॄ विदारणे' । वृद्धौ कृतायां दॄ भये इति घटादिषु पाठात् मित्त्वे • मितां ह्रस्वः' इति ह्रस्वत्वम् ।।


गृ॒णा॒नो अङ्गि॑रोभिर्दस्म॒ वि व॑रु॒षसा॒ सूर्ये॑ण॒ गोभि॒रन्ध॑ः ।

वि भूम्या॑ अप्रथय इन्द्र॒ सानु॑ दि॒वो रज॒ उप॑रमस्तभायः ॥५

गृ॒णा॒नः । अङ्गि॑रःऽभिः । द॒स्म॒ । वि । वः॒ । उ॒षसा॑ । सूर्ये॑ण । गोभिः॑ । अन्धः॑ ।

वि । भूम्याः॑ । अ॒प्र॒थ॒यः॒ । इ॒न्द्र॒ । सानु॑ । दि॒वः । रजः॑ । उप॑रम् । अ॒स्त॒भा॒यः॒ ॥५

गृणानः । अङ्गिरःऽभिः । दस्म । वि । वः । उषसा । सूर्येण । गोभिः । अन्धः ।

वि । भूम्याः । अप्रथयः । इन्द्र । सानु । दिवः । रजः । उपरम् । अस्तभायः ॥५

हे "दस्म दर्शनीय शत्रूणामुपक्षयितर्वा इन्द्र त्वम् "अङ्गिरोभिः ऋषिभिः "गृणानः स्तूयमानः सन् "उषसा "सूर्येण च सह "गोभिः किरणैः "अन्धः अन्धकारं "वि "वः व्यवृणोः व्यनाशय इत्यर्थः । तथा हे "इन्द्र त्वं "भूम्याः पृथिव्याः "सानु समुच्छ्रितप्रदेशं “वि “अप्रथयः विशेषेण विस्तीर्णमकरोः । विषमामिमां समीकृतवानित्यर्थः । तथा “दिवः अन्तरिक्षस्य "रजः रजसो लोकस्य “उपरम् उप्तं मूलप्रदेशम् "अस्तभायः अस्तभ्नाः । यथान्तरिक्षलोकस्य मूलं दृढं भवति तथाकार्षीरित्यर्थः ॥ गृणानः । कर्मणि लटः शानचि यकि प्राप्ते व्यत्ययेन श्ना । ‘ प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् । चित्स्वरेणान्तोदात्तत्वम् । दस्म । ‘ दसु उपक्षये '। ‘इषियुधीन्धिदसि° ' ( उ. सू. १. १४२ ) इत्यादिना मक् । वः । वृञ् वरणे ' । लुङि सिपि ‘मन्त्रे घस' इत्यादिना च्लेर्लुक् । गुणे 'हल्ङ्याब्भ्यः' इति सलोपः । ‘ बहुलं छन्दस्यमाङयोगेऽपि ' इति अडभावः । अन्धः । ‘ तमोऽप्यन्ध उच्यते नास्मिन् ध्यानं भवति ' ( निरु. ५. १ ) इति यास्कः । रजः । ‘ लोका रजांस्युच्यन्ते' ( निरु. ४. १९) इत्युक्तत्वात् रजःशब्दो लोकवचनः । ‘ सुपां सुलुक्° ' इति षष्ठ्या लुक् । अस्तभायः । लङि ‘ स्तम्भुस्तुम्भु° ' ( पा. सू. ३. १. ८२ ) इत्यादिना श्नाप्रत्ययः । ‘ छन्दसि शायजपि ' ( पा. सू. ३. १. ८४ ) इति अहावपि व्यत्ययेन श्नाप्रत्ययस्य शायजादेशः । ‘ अनिदिताम् । इति नलोपः । अडागमः ॥ ॥ १ ॥


प्रवर्ग्येऽभिष्टवे ' तदु प्रयक्षतमम्' इत्येषा । ‘ अथोत्तरम्' इत्यत्र सूत्रितं -- तदु प्रयक्षतममस्य कर्मात्मन्वन्नभो दुह्यते घृतं पयः' (आश्व. श्रौ. ४. ७) इति ॥

तदु॒ प्रय॑क्षतममस्य॒ कर्म॑ द॒स्मस्य॒ चारु॑तममस्ति॒ दंस॑ः ।

उ॒प॒ह्व॒रे यदुप॑रा॒ अपि॑न्व॒न्मध्व॑र्णसो न॒द्य१॒॑श्चत॑स्रः ॥६

तत् । ऊं॒ इति॑ । प्रय॑क्षऽतमम् । अ॒स्य॒ । कर्म॑ । द॒स्मस्य॑ । चारु॑ऽतमम् । अ॒स्ति॒ । दंसः॑ ।

उ॒प॒ऽह्व॒रे । यत् । उप॑राः । अपि॑न्वत् । मधु॑ऽअर्णसः । न॒द्यः॑ । चत॑स्रः ॥६

तत् । ऊं इति । प्रयक्षऽतमम् । अस्य । कर्म । दस्मस्य । चारुऽतमम् । अस्ति । दंसः ।

उपऽह्वरे । यत् । उपराः । अपिन्वत् । मधुऽअर्णसः । नद्यः । चतस्रः ॥६

“दस्मस्य दर्शनीयस्य "अस्य इन्द्रस्य "तदु तदेव "कर्म "प्रयक्षतमम् अतिशयेन पूज्यम् । दंसः इति कर्मनाम । "दंसः तदेव कर्म "चारुतमम् अतिशयेन शोभनम् । किं तदित्यत आह। अयमिन्द्रः “उपह्वरे उपह्वर्तव्ये गन्तव्ये पृथिव्याः संबन्धिनि समीपदेशे "उपराः उप्ताः स्थापिताः “मध्वर्णसः मधुरोदकाः "चतस्रः "नद्यः प्रधानभूता गङ्गादिनदीः "अपिन्वत् असिञ्चदिति "यत् एतत् कर्म तदन्येन कर्तुमशक्यत्वात् पूज्यमित्यर्थः ॥ प्रयक्षतमम् । ‘यक्ष पूजायाम् । यक्ष्यते इति यक्षः । अतिशयेन यक्षो यक्षतमः । पुनः प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । दंसः। ‘दसि दंसनदर्शनयोः'। चुरादिरात्मनेपदी । दंस्यते कर्तव्यतया दृश्यते इति दंसः कर्म । औणादिकः कर्मणि असुन् । उपह्वरे । ह्वृ कौटिल्यै '। कौटिल्यलक्षणगतिवाचिनात्र गतिमात्रं लक्ष्यते । उपह्वरन्ति गच्छन्त्यस्मिन् नद्य इत्युपह्वरो भूप्रदेशः । ‘ पुंसि संज्ञायां घः प्रायेण ' ( पा. सू. ३. ३. ११८) इत्यधिकरणे घप्रत्ययः । गुणः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अपिन्वत् । ‘ पिवि सेचने '। भौवादिकः । चतस्रः । शस् । ‘ त्रिचतुरोः स्त्रियां तिसृचतसृ' (पा. सू. ७. २. ९९ ) इति चतुर्शब्दस्य चतस्रादेश आद्युदात्तो निपातितः । पूर्वसवर्णदीर्घे प्राप्ते ' अचि र ऋतः ' ( पा. सू. ७. २. १०० ) इति रेफादेशः । चतुर्शब्दस्य आद्युदात्तत्वात् स्थानिवद्भावेन चतस्रादेशस्य आद्युदात्तत्वे सिद्धेऽपि पुनराद्युदात्तनिपातनसामर्थ्यात् यणादेशस्य वा पूर्वविधौ स्थानिवद्भावात् “ चतुरः शसि ' इत्यन्तोदात्तत्वस्याभावः । न च ' न पदान्त°' इति स्थानिवद्भावप्रतिषेधः, स्वरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवत् अन्यत्तु स्थानिवदेव ( पा. सू. १. १. ५८.१ ) इति नियमात् ॥ ।


द्वि॒ता वि व॑व्रे स॒नजा॒ सनी॑ळे अ॒यास्य॒ः स्तव॑मानेभिर॒र्कैः ।

भगो॒ न मेने॑ पर॒मे व्यो॑म॒न्नधा॑रय॒द्रोद॑सी सु॒दंसा॑ः ॥७

द्वि॒ता । वि । व॒व्रे॒ । स॒ऽनजा॑ । सनी॑ळे॒ इति॒ सऽनी॑ळे । अ॒यास्यः॑ । स्तव॑मानेभिः । अ॒र्कैः ।

भगः॑ । न । मेने॒ इति॑ । प॒र॒मे । विऽओ॑मन् । अधा॑रयत् । रोद॑सी॒ इति॑ । सु॒ऽदंसाः॑ ॥७

द्विता । वि । वव्रे । सऽनजा । सनीळे इति सऽनीळे । अयास्यः । स्तवमानेभिः । अर्कैः ।

भगः । न । मेने इति । परमे । विऽओमन् । अधारयत् । रोदसी इति । सुऽदंसाः ॥७

"अयास्यः । यासः प्रयत्नः । तत्साध्यो यास्यः । न यास्योऽयास्यः । युद्धरूपैः प्रयत्नैः साधयितुमशक्य इत्यर्थः । कथं साध्यते इत्यत आह । "स्तवमानेभिः स्तोत्रं कुर्वद्भिः पुरुषैः "अर्कैः स्तुतिरूपैर्मन्त्रैः स्तूयमानः सन्निन्द्रः सुसाध्यः भवति । यद्वा । अयास्यः पञ्चवृत्तिर्मुख्यप्राणः । स हि आस्यात् मुखात् अयते गच्छति निष्क्रामति । तदुपासकोऽप्यङ्गिरा उपचारात् अयास्य उच्यते । तथा च छन्दोगैराम्नातं -- तं हायास्य उद्गीथमुपासांचक्रे एतमु एवायास्यं मन्यन्त आस्याद्यदयते तेन । ( छा. उ. १. २. १२ ) इति । अथवा । अयमास्ये मुखे वर्तते इत्ययास्यः । तथा च वाजसनेयकं-- ‘ ते होचुः क्व नु सोऽभूद्यो न इत्थमसक्तेत्ययमास्येऽन्तरिति ' (बृ. उ. १. ३. ८ ) इति । पूर्ववदुपासकोऽप्ययास्यः । तेन ऋषिणा स्तवमानेभिः गुणिनिष्ठगुणाभिधानलक्षणां स्तुतिं कुर्वद्भिः अर्कैः मन्त्रैः करणभूतैः स्तूयमानः सन् "सनजा। सना इति निपातो नित्यार्थः । नित्यजाते सर्वदा विद्यमानस्वभावे इत्यर्थः। प्रथमभावविकारवाचिना जनिना द्वितीयो भावविकारः सत्ता लक्ष्यते । यथा “ औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः' इति । ‘औत्पत्तिकमिति नित्यं ब्रूमः' (शाबर. भा. १.१.५) इति हि तद्भाष्यम्। “सनीळे समानं नीळम् ओको निवासस्थानं ययोस्ते । संलग्ने इत्यर्थः । एवंविधे द्यावापृथिव्यौ “द्विता द्विधा "वि “वव्रे विवृते अकरोत् भेदेनास्थापयदित्यर्थः । "मेने मननीये "परमे उत्कृष्टे “व्योमन् विविधरक्षणे नभसि वर्तमानः "भगो "न सूर्य इव "सुदंसाः शोभनकर्मेन्द्रः "रोदसी द्यावापृथिव्यौ “अधारयत् अपोषयत् । यद्वा । मेना इति स्त्रीनाम । तथा च यास्कः--- ‘ मेनाग्ना इति स्त्रीणां मेना मानयन्त्येनाः ' (निरु. ३. २१ ) इति । स्त्रीरूपमापन्ने रोदसी इन्द्रोऽपुष्यदित्यर्थः४॥ द्विता । द्विधा इत्यस्य धकारस्य तकारश्छान्दसः । सनजा । ‘ जनी प्रादुर्भावे ' । अस्मात् भावे ‘ अन्येष्वपि दृश्यते ' इति दृशिग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वात् केवलादपि जनेर्डप्रत्ययः । सना नित्यं जो जननं ययोस्ते सनजे । पूर्वपदस्य ह्रस्वश्छान्दसः । एवमादित्वादन्तोदात्तत्वम् । तदेव बहुव्रीहिस्वरेण शिष्यते । सुपां सुलुक्' इति विभक्तेः आकारः । अयास्यः । ‘ यसु प्रयत्ने '। यासः प्रयत्नः । तत्र भवो यास्यः । ‘ भवे छन्दसि ' इति यत् । न यास्योऽयास्यः । ‘ परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । श्रुत्युक्तनिर्वचने तु पृषोदरादित्वात् अभिमतरूपस्वरसिद्धिः । मेने । सप्तम्येकवचनस्य ' सुपां सुलुक् ' इति शेआदेशः । ‘ शे' (पा. सू. १. १. १३) इति प्रगृह्यत्वम् । यद्वा । मन्यते इति मेना । पचाद्यच् ।' नशिमन्योरलिढ्येत्वं वक्तव्यम् ' ( पा. सू. ६. ४. १२०.५) इति एत्वम् । ततः टाप् । द्विवचने 'ईदूदेद्द्विवचनम् ' ( पा. सू. १. १. ११ ) इति प्रगृह्यत्वम् । सुदंसाः । दंस इति कर्मवाची । असुन्प्रत्ययान्तः आद्युदात्तः । बहुव्रीहौ ' आद्युदात्तं द्व्यच्छन्दसि ' इत्युत्तरपदाद्युदात्तत्वम् ॥


स॒नाद्दिवं॒ परि॒ भूमा॒ विरू॑पे पुन॒र्भुवा॑ युव॒ती स्वेभि॒रेवै॑ः ।

कृ॒ष्णेभि॑र॒क्तोषा रुश॑द्भि॒र्वपु॑र्भि॒रा च॑रतो अ॒न्यान्या॑ ॥८

स॒नात् । दिव॑म् । परि॑ । भूम॑ । विरू॑पे॒ इति॒ विऽरू॑पे । पु॒नः॒ऽभुवा॑ । यु॒व॒ती इति॑ । स्वेभिः॑ । एवैः॑ ।

कृ॒ष्णेभिः॑ । अ॒क्ता । उ॒षाः । रुश॑त्ऽभिः । वपुः॑ऽभिः । आ । च॒र॒तः॒ । अ॒न्याऽअ॑न्या ॥८

सनात् । दिवम् । परि । भूम । विरूपे इति विऽरूपे । पुनःऽभुवा । युवती इति । स्वेभिः । एवैः ।

कृष्णेभिः । अक्ता । उषाः । रुशत्ऽभिः । वपुःऽभिः । आ । चरतः । अन्याऽअन्या ॥८

"विरूपे शुक्लकृष्णतया विषमरूपे "पुनर्भुवा पुनःपुनः प्रतिदिवसं जायमाने "युवती तरुण्यौ रात्र्युषसोः सर्वदैकरूप्यात् । एवंभूते रात्र्युषसौ "दिवं द्युलोकं "भूम भूमिं च "सनात् चिरकालादारभ्य “स्वेभिरेवैः स्वकीयैर्गमनैः "परि चरतः पर्यावर्तते । अयमेवार्थः स्पष्टीक्रियते । "अक्ता रात्रिः "कृष्णेभिः अन्धकाररूपैर्वर्णैरुपलक्षिता “उषाः च “रुशद्भिः दीप्यमानैः "वपुर्भिः स्वशरीरभूतैस्तेजोभिरुपलक्षिता “अन्यान्या परस्परव्यतिहारेण “आ “चरतः आवर्तते । हे इन्द्र एतत्सर्वं त्वयैव कार्यते त्वदधीनत्वात् सर्वासां देवतानामित्यर्थः ॥ भूम । ‘सुपां सुलुक्' इति द्वितीयाया डादेशः । छान्दसो ह्रस्वः । एवैः । ‘ इण् गतौ'। ‘ इण्शीङ्भ्यां वन्' ( उ. सू. १. १५० ) इति भावे वन्प्रत्ययः । नित्त्वदाद्युदात्तत्वम् । अक्ता । नक्ता इति रात्रिनाम । नलोपश्छान्दसः । वपुर्भिः । ‘ अर्तिपॄवपि । (उ. सू. २. २७४ ) इत्यादिना उस् । नित्त्वादाद्युदात्तः । अन्यान्या । 'कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्यं समासवच्च बहुलम् ' (पा. म. ८. १. १२. ११) इति द्विर्भावे तस्य परमाम्रेडितम्' (पा. सू. ८. १. २ ) इति आम्रेड़ितसंज्ञायाम् ‘अनुदात्तं च' (पा. सू. . १. ३ ) इति आम्रेडितस्यानुदात्तत्वम् ॥


सने॑मि स॒ख्यं स्व॑प॒स्यमा॑नः सू॒नुर्दा॑धार॒ शव॑सा सु॒दंसा॑ः ।

आ॒मासु॑ चिद्दधिषे प॒क्वम॒न्तः पय॑ः कृ॒ष्णासु॒ रुश॒द्रोहि॑णीषु ॥९

सने॑मि । स॒ख्यम् । सु॒ऽअ॒प॒स्यमा॑नः । सू॒नुः । दा॒धा॒र॒ । शव॑सा । सु॒ऽदंसाः॑ ।

आ॒मासु॑ । चि॒त् । द॒धि॒षे॒ । प॒क्वम् । अ॒न्तरिति॑ । पयः॑ । कृ॒ष्णासु॑ । रुश॑त् । रोहि॑णीषु ॥९

सनेमि । सख्यम् । सुऽअपस्यमानः । सूनुः । दाधार । शवसा । सुऽदंसाः ।

आमासु । चित् । दधिषे । पक्वम् । अन्तरिति । पयः । कृष्णासु । रुशत् । रोहिणीषु ॥९

"स्वपस्यमानः । स्वपः शोभनं कर्म । तदिवाचरन् "शवसा शवसो बलस्य सूनुः पुत्रः । अतिबलवानित्यर्थः । "सुदंसाः शोभनयागादिकर्मयुक्तः । एवंभूत इन्द्रः "सख्यं यजमानानां सखित्वं "सनेमि पुराणं "दाधार धारयति पोषयतीत्यर्थः । सनेमीति पुराणनाम। ‘प्रवयाः सनेमि' (नि. ३. २७. ४ ) इति पाठात् । किंच "आमासु “चित् आर्द्रासु अपरिपक्कासु गोषु च "अन्तः मध्ये "पक्वं परिपक्वं “पयः "दधिषे धारयसि । तथा "कृष्णासु कृष्णवर्णासु "रोहिणीषु लोहितवर्णासु च गोषु तद्विपरीतं “रुशत् दीप्यमानं श्वेतवर्णं पयः दधिषे ॥ सख्यम् । सख्युर्भावः सख्यम् । सख्युर्यः' इति यः । प्रत्ययस्वरः । दाधार । ‘ धृञ् धारणे' । तुजादित्वात् अभ्यासस्य दीर्घत्वम् । पक्वम् । ‘पचो वः ' (पा. सू. ८. २. ५२ ) इति निष्ठातकारस्य वत्वम् । रोहिणीषु ।' रुह बीजजन्मनि प्रादुर्भावे । ‘ रुहे रश्च लो वा ' ( उ. सू. ३. ३७४ ) इति इतन्प्रत्ययान्तो रोहितशब्द आद्युदात्तो वर्णवाची । ‘ वर्णानुदात्तात्तोपधातो नः ' ( पा. सू. ४. १. ३९ ) इति डीप् ; तत्संनियोगेन तकारस्य नकारादेशश्च । ङीपः पित्त्वादनुदात्तत्वे प्रातिपदिकस्वर एव शिष्यते ।।


स॒नात्सनी॑ळा अ॒वनी॑रवा॒ता व्र॒ता र॑क्षन्ते अ॒मृता॒ः सहो॑भिः ।

पु॒रू स॒हस्रा॒ जन॑यो॒ न पत्नी॑र्दुव॒स्यन्ति॒ स्वसा॑रो॒ अह्र॑याणम् ॥१०

स॒नात् । सऽनी॑ळाः । अ॒वनीः॑ । अ॒वा॒ताः । व्र॒ता । र॒क्ष॒न्ते॒ । अ॒मृताः॑ । सहः॑ऽभिः ।

पु॒रु । स॒हस्रा॑ । जन॑यः । न । पत्नीः॑ । दु॒व॒स्यन्ति॑ । स्वसा॑रः । अह्र॑याणम् ॥१०

सनात् । सऽनीळाः । अवनीः । अवाताः । व्रता । रक्षन्ते । अमृताः । सहःऽभिः ।

पुरु । सहस्रा । जनयः । न । पत्नीः । दुवस्यन्ति । स्वसारः । अह्रयाणम् ॥१०

"सनात् चिरकालादारभ्य "सनीळाः समाननिवासस्थानाः "अवाताः । वातं गमनं तद्रहिताः एकपाण्यवस्थानात् । ‘ अवनयः' इति अङ्गुलिनाम। एवंभूताः "अवनीः अङ्गुलयः "पुरु पुरूणि बहूनि 'सहस्रा असंख्यातानि “व्रता व्रतानि इन्द्रसंबन्धीनि कर्माणि "अमृताः पुनःपुनःकरणेऽप्यालस्यरहिताः सत्यः "सहोभिः अस्मीयैर्बलैः "रक्षन्ते पालयन्ति । अपि च "स्वसारः स्वयमेव सरन्त्योऽङ्गुलयः "पत्नीः पालयित्र्यः “अह्रयाणं लज्जारहितं प्रगल्भमित्यर्थः । यद्वा । अह्रीतयानं प्रशस्तगमनमिन्द्रं "जनयो “न । जनयः इति देवानां पत्न्य उच्यन्ते - देवानां वै पत्नीर्जनयः । इति श्रुतेः । ता इव "दुवस्यन्ति परिचरन्ति । अञ्जलिबन्धनेन इन्द्रं प्रीणयन्तीत्यर्थः॥ अवनीः । ‘अवनयोऽङ्गुलयो भवन्त्यवन्ति कर्माणि ' ( निरु. ३. ९) इति यास्कः। ‘सुपां सुलुक्' इति जसः पूर्वसवर्णदीर्घत्वम् । अवाताः । ‘ वा गतिगन्धनयोः '।' असिहसि°' इत्यादिना भावे तन्प्रत्ययः । बहुव्रीहौ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । व्रता । ‘ शेश्छन्दसि बहुलम् । इति शेर्लोपः । दुवस्यन्ति । दुवस्यतिः परिचरणकर्मा । कण्ड्वादिः । अतो यक एव स्वरः शिष्यते । पादादित्वात् निघाताभावः। अह्रयाणम् । ‘ ह्री लज्जायाम् '। 'बहुलं छन्दसि' इति श्लोरभावः । व्यत्ययेन शानच् । मुगभावश्छान्दसः । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । यद्वा । ‘ बहुलं छन्दसि’ इति शपो लुकि ‘छन्दस्युभयथा ' इति शानच आर्धधातुकत्वेन ङित्त्वाभावे गुणायादेशौ । पूर्ववत् समासस्वरौ । यास्कस्तु एवं व्याख्यत् - ‘ अह्रयाणोऽह्रीतयानः' (निरु. ५. १५) इति ॥ ॥ २ ॥


स॒ना॒युवो॒ नम॑सा॒ नव्यो॑ अ॒र्कैर्व॑सू॒यवो॑ म॒तयो॑ दस्म दद्रुः ।

पतिं॒ न पत्नी॑रुश॒तीरु॒शन्तं॑ स्पृ॒शन्ति॑ त्वा शवसावन्मनी॒षाः ॥११

स॒ना॒ऽयुवः॑ । नम॑सा । नव्यः॑ । अ॒र्कैः । व॒सु॒ऽयवः॑ । म॒तयः॑ । द॒स्म॒ । द॒द्रुः॒ ।

पति॑म् । न । पत्नीः॑ । उ॒श॒तीः । उ॒शन्त॑म् । स्पृ॒शन्ति॑ । त्वा॒ । श॒व॒सा॒ऽव॒न् । म॒नी॒षाः ॥११

सनाऽयुवः । नमसा । नव्यः । अर्कैः । वसुऽयवः । मतयः । दस्म । दद्रुः ।

पतिम् । न । पत्नीः । उशतीः । उशन्तम् । स्पृशन्ति । त्वा । शवसाऽवन् । मनीषाः ॥११

हे दस्म दर्शनीयेन्द्र "अर्कैः शस्त्ररूपैर्मन्त्रैः "नमसा नमस्कारेण यस्त्वं "नव्यः स्तुत्यो भवसि । "सनायुवः सनातनमग्निहोत्रादि नित्यं कर्म आत्मन इच्छन्तः "वसूयवः वसु धनमात्मन इच्छन्तो धनकामा वा “मतयः मेधाविनस्त्वां "दद्रुः बहुना प्रयासेन जग्मुः । हे “शवसावन् बलवन्निन्द्र तैः प्रयुक्ताः "मनीषाः स्तुतयः “त्वा त्वां "स्पृशन्ति प्राप्नुवन्ति । तत्र दृष्टान्तः। “उशतीः उशत्यः कामयमानाः "पत्नीः पत्न्यः "उशन्तं कामयमानं "पतिं "न । यथा पतिं संभजन्ते तद्वत् ॥ सनायुवः । सना इत्येतदव्ययं नित्यत्वमाचष्टे। तेन च तद्वान् लक्ष्यते । सना सनातनं कर्म आत्मन इच्छन्तीति सनायुवः । ‘ क्याच्छन्दसि ' इति उप्रत्ययः । जसि वर्णव्यत्ययेन उत्वम् । मतयः । ‘ मन ज्ञाने ' । मन्यन्ते इति मतयः स्तोतारः।' क्तिच्क्तौ च संज्ञायाम् ' इति क्तिच् । ' न क्तिचि दीर्घश्च' इति निषेधे प्राप्ते बाहुलकात् “ अनुदात्तोपदेश° ' इत्यादिना अनुनासिकलोपः । चित्त्वादन्तोदात्तत्वम् । दद्रुः । ‘ द्रा कुत्सायां गतौ' । लिटि उसि ‘अतो लोप इटि च' इति आकारलोपः । उशतीः। ‘वश कान्तौ'। लटः शतृ । अदादित्वात् शपो लुक् । शतुर्ङित्त्वात् ग्रहिज्यादिना संप्रसारणम् । ‘ उगितश्च' इति ङीप्। ‘शतुरनुमः' इति नद्या उदात्तत्वम् । ‘ वा छन्दसि ' इति पूर्वसवर्णदीर्घः । शवसावन् । मतुपि अकारोपजनश्छान्दसः । यद्वा । मत्वर्थीय आवनिप् ॥


स॒नादे॒व तव॒ रायो॒ गभ॑स्तौ॒ न क्षीय॑न्ते॒ नोप॑ दस्यन्ति दस्म ।

द्यु॒माँ अ॑सि॒ क्रतु॑माँ इन्द्र॒ धीर॒ः शिक्षा॑ शचीव॒स्तव॑ न॒ः शची॑भिः ॥१२

स॒नात् । ए॒व । तव॑ । रायः॑ । गभ॑स्तौ । न । क्षीय॑न्ते । न । उप॑ । द॒स्य॒न्ति॒ । द॒स्म॒ ।

द्यु॒ऽमान् । अ॒सि॒ । क्रतु॑ऽमान् । इ॒न्द्र॒ । धीरः॑ । शिक्ष॑ । श॒ची॒ऽवः॒ । तव॑ । नः॒ । शची॑भिः ॥१२

सनात् । एव । तव । रायः । गभस्तौ । न । क्षीयन्ते । न । उप । दस्यन्ति । दस्म ।

द्युऽमान् । असि । क्रतुऽमान् । इन्द्र । धीरः । शिक्ष । शचीऽवः । तव । नः । शचीभिः ॥१२

हे "दस्म दर्शनीयेन्द्र । गभस्तिरिति बाहुनाम । “तव "गभस्तौ हस्ते "सनादेव चिरकालादारभ्य स्थितानि “रायः धनानि "न "क्षीयन्ते न विनश्यन्ति । "नोप “दस्यन्ति च स्तोतृभ्यो दत्तेऽपि त्वद्धस्तगतं धनमुपक्षयं न प्राप्नोति । अपि तु वर्धते । हे "इन्द्र “धीरः बुद्धिमान् धृष्टो वा त्वं द्युमान् दीप्तिमान् "असि । तथा “क्रतुमान् लोकरक्षणहेतुभूतकर्मयुक्तोऽसि । हे "शचीवः कर्मवन्निन्द्र "तव “शचीभिः त्वदीयैः कर्मभिः “नः अस्मभ्यं धनं "शिक्ष देहि। शिक्षतिर्दानकर्मा ॥ क्षीयन्ते। ‘क्षीञ् हिंसायाम् । अस्मात् कर्मकर्तरि कर्मवद्भावात् यगात्मनेपदे। वत्करणं स्वाश्रयमपि यथा स्यात्' (का.३.१ ८७) इति कर्मवद्भावात् ‘अचः कर्तृयकि' (पा. सू. ६. १. १९५) इत्याद्युदात्तत्वम् । ‘चादिलोपे विभाषा ' इति निघातप्रतिषेधः । शचीवः । शची अस्यास्तीति शचीवान् । छन्दसीरः' इति मतुपो वत्वम् । संबुद्धौ ‘मतुवसो रुः ' इति नकारस्य रुत्वम् ।।


स॒ना॒य॒ते गोत॑म इन्द्र॒ नव्य॒मत॑क्ष॒द्ब्रह्म॑ हरि॒योज॑नाय ।

सु॒नी॒थाय॑ नः शवसान नो॒धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥१३

स॒ना॒ऽय॒ते । गोत॑मः । इ॒न्द्र॒ । नव्य॑म् । अत॑क्षत् । ब्रह्म॑ । ह॒रि॒ऽयोज॑नाय ।

सु॒ऽनी॒थाय॑ । नः॒ । श॒व॒सा॒न॒ । नो॒धाः । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥१३

सनाऽयते । गोतमः । इन्द्र । नव्यम् । अतक्षत् । ब्रह्म । हरिऽयोजनाय ।

सुऽनीथाय । नः । शवसान । नोधाः । प्रातः । मक्षु । धियाऽवसुः । जगम्यात् ॥१३

स इन्द्रः "सनायते नित्य इवाचरति सर्वेषामाद्यो भवति । हे “शवसान बलवन् "इन्द्र "हरियोजनाय । हरी अश्वौ रथे योजयतीति हरियोजनः । "सुनीथाय सुष्ठु नेत्रे । एवंभूताय तस्मै तुभ्यं “गोतमः गोतमस्य ऋषेः पुत्रः “नोधाः ऋषिः "नव्यं नूतनं “ब्रह्म एतत्सूक्तरूपं स्तोत्रं "नः अस्मदर्थम् “अतक्षत् अकरोत् । अतोऽस्माभिरनेन स्तोत्रेण स्तुतः सन् धिया बुद्ध्या कर्मणा वा प्राप्तवसुरिन्द्रः प्रातःकाले "मक्षु शीघ्रं "जगम्यात् आगच्छतु ॥ सनायते । सना इति निपातो नित्यशब्दसमानार्थः । तस्मादाचारार्थे क्यङ्प्रत्ययः । सुनीथाय । ‘णीञ् प्रापणे ' इत्यस्मात् औणादिकः थक्प्रत्ययः । थाथादिस्वरः ॥ ॥ ३ ॥

टिप्पणी

१.६२.१ प्र मन्महे इति

वा.सं. ३४.१६

१.६२.७ द्विता वि वव्रे सनजा सनीडे इति

अयास्य उपरि संदर्भाः


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१











"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.६२&oldid=400586" इत्यस्माद् प्रतिप्राप्तम्