ऋग्वेदः सूक्तं १.३१

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १.३१ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १.३० ऋग्वेदः - मण्डल १
सूक्तं १.३१
हिरण्यस्तूप आङ्गिरसः
सूक्तं १.३२ →
दे. अग्निः। जगती, ८-१६, १८ त्रिष्टुप् ।


त्वमग्ने प्रथमो अङ्गिरा ऋषिर्देवो देवानामभवः शिवः सखा ।
तव व्रते कवयो विद्मनापसोऽजायन्त मरुतो भ्राजदृष्टयः ॥१॥
त्वमग्ने प्रथमो अङ्गिरस्तमः कविर्देवानां परि भूषसि व्रतम् ।
विभुर्विश्वस्मै भुवनाय मेधिरो द्विमाता शयुः कतिधा चिदायवे ॥२॥
त्वमग्ने प्रथमो मातरिश्वन आविर्भव सुक्रतूया विवस्वते ।
अरेजेतां रोदसी होतृवूर्येऽसघ्नोर्भारमयजो महो वसो ॥३॥
त्वमग्ने मनवे द्यामवाशयः पुरूरवसे सुकृते सुकृत्तरः ।
श्वात्रेण यत्पित्रोर्मुच्यसे पर्या त्वा पूर्वमनयन्नापरं पुनः ॥४॥
त्वमग्ने वृषभः पुष्टिवर्धन उद्यतस्रुचे भवसि श्रवाय्यः ।
य आहुतिं परि वेदा वषट्कृतिमेकायुरग्रे विश आविवाससि ॥५॥
त्वमग्ने वृजिनवर्तनिं नरं सक्मन्पिपर्षि विदथे विचर्षणे ।
यः शूरसाता परितक्म्ये धने दभ्रेभिश्चित्समृता हंसि भूयसः ॥६॥
त्वं तमग्ने अमृतत्व उत्तमे मर्तं दधासि श्रवसे दिवेदिवे ।
यस्तातृषाण उभयाय जन्मने मयः कृणोषि प्रय आ च सूरये ॥७॥
त्वं नो अग्ने सनये धनानां यशसं कारुं कृणुहि स्तवानः ।
ऋध्याम कर्मापसा नवेन देवैर्द्यावापृथिवी प्रावतं नः ॥८॥
त्वं नो अग्ने पित्रोरुपस्थ आ देवो देवेष्वनवद्य जागृविः ।
तनूकृद्बोधि प्रमतिश्च कारवे त्वं कल्याण वसु विश्वमोपिषे ॥९॥
त्वमग्ने प्रमतिस्त्वं पितासि नस्त्वं वयस्कृत्तव जामयो वयम् ।
सं त्वा रायः शतिनः सं सहस्रिणः सुवीरं यन्ति व्रतपामदाभ्य ॥१०॥
त्वामग्ने प्रथममायुमायवे देवा अकृण्वन्नहुषस्य विश्पतिम् ।
इळामकृण्वन्मनुषस्य शासनीं पितुर्यत्पुत्रो ममकस्य जायते ॥११॥
त्वं नो अग्ने तव देव पायुभिर्मघोनो रक्ष तन्वश्च वन्द्य ।
त्राता तोकस्य तनये गवामस्यनिमेषं रक्षमाणस्तव व्रते ॥१२॥
त्वमग्ने यज्यवे पायुरन्तरोऽनिषङ्गाय चतुरक्ष इध्यसे ।
यो रातहव्योऽवृकाय धायसे कीरेश्चिन्मन्त्रं मनसा वनोषि तम् ॥१३॥
त्वमग्न उरुशंसाय वाघते स्पार्हं यद्रेक्णः परमं वनोषि तत् ।
आध्रस्य चित्प्रमतिरुच्यसे पिता प्र पाकं शास्सि प्र दिशो विदुष्टरः ॥१४॥
त्वमग्ने प्रयतदक्षिणं नरं वर्मेव स्यूतं परि पासि विश्वतः ।
स्वादुक्षद्मा यो वसतौ स्योनकृज्जीवयाजं यजते सोपमा दिवः ॥१५॥
इमामग्ने शरणिं मीमृषो न इममध्वानं यमगाम दूरात् ।
आपिः पिता प्रमतिः सोम्यानां भृमिरस्यृषिकृन्मर्त्यानाम् ॥१६॥
मनुष्वदग्ने अङ्गिरस्वदङ्गिरो ययातिवत्सदने पूर्ववच्छुचे ।
अच्छ याह्या वहा दैव्यं जनमा सादय बर्हिषि यक्षि च प्रियम् ॥१७॥
एतेनाग्ने ब्रह्मणा वावृधस्व शक्ती वा यत्ते चकृमा विदा वा ।
उत प्र णेष्यभि वस्यो अस्मान्सं नः सृज सुमत्या वाजवत्या ॥१८॥

[सम्पाद्यताम्]

सायणभाष्यम्

सप्तमेऽनुवाके पञ्च सूक्तानि । तत्र ‘ त्वमग्ने प्रथमः' इति प्रथमं सूक्तमष्टादशर्चम् । आङ्गिरसो हिरण्यस्तूप ऋषिः । अष्टमीषोडश्यष्टादश्यः त्रिष्टुभः । शिष्टाः त्रिष्टुबन्तपरिभाषया जगत्यः । अग्निर्देवता । तथा च अनुक्रमणिका-’त्वमग्ने द्व्यूना हिरण्यस्तूप आग्नेयं त्रिष्टुबन्त्याष्टमीषोळश्यौ च' इति । प्रातरनुवाके आग्नेये क्रतौ आश्विनशस्त्रे च ‘त्वमग्ने प्रथमः' इति सूक्तम् । अथैतस्या रात्रेः' इति खण्डे • त्वमग्ने प्रथमो ङ्गिरा ऋषिर्नू चित्सहोजा अमृतो नि तुन्दते ' ( आश्व. श्रौ. ४. १३ ) इति सूत्रितम् । अभिप्लवषडहस्य तृतीयेऽहनि अग्निमारुते शस्त्रे इदं सूक्तं जातवेदस्यनिविद्धानीयम् । तथा च ‘तृतीयस्य त्र्यर्यमा ' इति खण्डे सूत्रितं-’त्वमग्ने प्रथमो अङ्गिरा इत्याग्निमारुतम्' (आश्व. श्रौ. ७. ७ ) इति । वाजपेये अग्निमारुते एतत्सूक्तं जातवेदस्यं निविद्धानीयं, ‘तृतीयेनाभिप्लविकेनोक्तं तृतीयसवनम् ' ( आश्व. श्रौ. ९. ९) इत्यतिदिष्टत्वात् ॥


त्वम॑ग्ने प्रथ॒मो अङ्गि॑रा॒ ऋषि॑र्दे॒वो दे॒वाना॑मभवः शि॒वः सखा॑ ।

तव॑ व्र॒ते क॒वयो॑ विद्म॒नाप॒सोऽजा॑यन्त म॒रुतो॒ भ्राज॑दृष्टयः ॥१

त्वम् । अ॒ग्ने॒ । प्र॒थ॒माः । अङ्गि॑राः । ऋषिः॑ । दे॒वः । दे॒वाना॑म् । अ॒भ॒वः॒ । शि॒वः । सखा॑ ।

तव॑ । व्र॒ते । क॒वयः॑ । वि॒द्म॒नाऽअ॑पसः । अजा॑यन्त । म॒रुतः॑ । भ्राज॑त्ऽऋष्टयः ॥

त्वम् । अग्ने । प्रथमाः । अङ्गिराः । ऋषिः । देवः । देवानाम् । अभवः । शिवः । सखा ।

तव । व्रते । कवयः । विद्मनाऽअपसः । अजायन्त । मरुतः । भ्राजत्ऽऋष्टयः ॥

हे “अग्ने “त्वं “प्रथमः आद्यः आङ्गिरसानामृषीणां सर्वेषां जनकत्वात् । तादृशः अङ्गिरोनामक “ऋषिः “अभवः । तथा च ब्राह्मणं ---- येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन् ' (ऐ. ब्रा. ३. ३४ ) इति । तथा स्वयं “देवः भूत्वा “देवानाम् अन्येषां “शिवः शोभनः “सखा अभवः। “तव “व्रते त्वदीये कर्मणि “कवयः मेधाविनः “विद्मनापसः ज्ञानेन व्याप्नुवानाः ज्ञातकर्माणो वा “भ्राजदृष्ट्यः दीप्यमानायुधाः “मरुतः मरुत्संज्ञकाः देवाः “अजायन्त ॥ विद्मनापसः । विद ज्ञाने'। विद्मो वेदनम् । बहुलग्रहणात् औणादिको मक्प्रत्ययः । तदस्यास्तीति पामादिलक्षणो नः ( पा. सू. ५. २. १०० )। प्रत्ययस्वरेणान्तोदात्तत्वम् । विद्मनानि अपांसि येषां ते विद्मनापसः । पूर्वपदस्य । अन्येषामपि दृश्यते इति दृशिग्रहणात् अवग्रहसमयेऽपि दीर्घत्वम् । अजायन्त । जनी प्रादुर्भावे ' । तस्य श्यनि “ ज्ञाजनोर्जा । (पा. सू. ७. ३.७९ ) इति जादेशः । भ्राजदृष्टयः । ‘भ्राजृ दीप्तौ ' । व्यत्ययेन शतृ । तस्य लसार्वधातुकानुदात्तत्वे धातुस्वरः । ‘ऋषी गतौ ' इत्यस्मात् ‘क्तिच्क्तौ च संज्ञायाम् ' इति क्तिजन्त ऋष्टिशब्दः । ततो बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥


त्वम॑ग्ने प्रथ॒मो अङ्गि॑रस्तमः क॒विर्दे॒वानां॒ परि॑ भूषसि व्र॒तम् ।

वि॒भुर्विश्व॑स्मै॒ भुव॑नाय॒ मेधि॑रो द्विमा॒ता श॒युः क॑ति॒धा चि॑दा॒यवे॑ ॥२

त्वम् । अ॒ग्ने॒ । प्र॒थ॒मः । अङ्गि॑रःऽतमः । क॒विः । दे॒वाना॑म् । परि॑ । भू॒ष॒सि॒ । व्र॒तम् ।

वि॒ऽभुः । विश्व॑स्मै । भुव॑नाय । मेधि॑रः । द्वि॒ऽमा॒ता । श॒युः । क॒ति॒धा । चि॒त् । आ॒यवे॑ ॥

त्वम् । अग्ने । प्रथमः । अङ्गिरःऽतमः । कविः । देवानाम् । परि । भूषसि । व्रतम् ।

विऽभुः । विश्वस्मै । भुवनाय । मेधिरः । द्विऽमाता । शयुः । कतिधा । चित् । आयवे ॥

हे “अग्ने त्वं “प्रथमः आद्यः “अङ्गिरस्तमः अतिशयेन अङ्गिराः भूत्वा “कविः मेधावी सन् “देवानाम् अन्येषां “व्रतं कर्म “परि “भूषसि परितः अलंकरोषि । कीदृशस्त्वम् । “विश्वस्मै “भुवनाय समस्तलोकानुग्रहार्थं “विभुः बहुविधः । आहवनीयाद्यनेकरूपधारीत्यर्थः । “मेधिरः मेधावान् “द्विमाता द्वयोः अरण्योः उत्पन्नः । यद्वा । द्वयोर्लोकयोः निर्माता । “आयवे मनुष्यार्थं “कतिधा "चित् कतिभिः प्रकारैः सर्वत्र “शयुः शयानः । तत्तन्मनुष्यगृहेऽवस्थितस्य तव प्रकारा इयन्त इति न केनापि ज्ञायते इत्यर्थः ॥ भूषसि । ‘भूष अलंकारे'। भौवादिकः । विभुः । ‘विप्रसंभ्यो ड्वसंज्ञायाम् ' (पा. सू. ३. २. १८० ) इति विपूर्वात् भवतेः डुप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । भुवनाय । ‘भूदूसूभ्रस्जिभ्यश्छन्दसि' ( उ. सू. २. २३८ ) इति क्युन् । योः अनादेशे नित्स्वरेणाद्युदात्तत्वम् । मेधिरः । ‘मेधृ संगमे च ' । अस्माद्बाहुलक इरन्प्रत्ययः । नित्स्वरः । द्विमाता । द्वे मातरौ यस्यासौ द्विमाता । ‘नद्यृतश्च' (पा. सू. ५. ४. १५३ ) इति कप्प्रत्ययो न भवति, मातृमातृकयोः भेदेनोपादानात् ‘नद्यृतश्च' इति कबपि विभाष्यते इति तस्य मातृशब्दविषये पाक्षिकत्वोक्तिः । त्रिचक्रादित्वात् उत्तरपदान्तोदात्तत्वम् । यद्वा । द्वयोर्माता द्विमाता । ' समासस्य ' इत्यन्तोदात्तत्वम् । शयुः । ‘शीङ् स्वप्ने । ‘भृमृशी ' ( उ. सू. १. ७ ) इत्यादिना उप्रत्ययः । कतिधा । डत्यन्तस्य किंशब्दस्य ‘बहुगणवतुडति संख्या ' ( पा. सू. १. १. २३) इति संख्यासंज्ञायां ' संख्याया विधार्थे धा' (पा. सू. ५. ३. ४२ ) इति धाप्रत्ययः । आयवे । छन्दसीणः ' ( उ. सू. १. २ ) इति एतेः उण्प्रत्ययः ॥


त्वम॑ग्ने प्रथ॒मो मा॑त॒रिश्व॑न आ॒विर्भ॑व सुक्रतू॒या वि॒वस्व॑ते ।

अरे॑जेतां॒ रोद॑सी होतृ॒वूर्येऽस॑घ्नोर्भा॒रमय॑जो म॒हो व॑सो ॥३

त्वम् । अ॒ग्ने॒ । प्र॒थ॒मः । मा॒त॒रिश्व॑ने । आ॒विः । भ॒व॒ । सु॒क्र॒तू॒ऽया । वि॒वस्व॑ते ।

अरे॑जेताम् । रोद॑सी॒ इति॑ । हो॒तृ॒ऽवूर्ये॑ । अस॑घ्नोः । भा॒रम् । अय॑जः । म॒हः । व॒सो॒ इति॑ ॥

त्वम् । अग्ने । प्रथमः । मातरिश्वने । आविः । भव । सुक्रतूऽया । विवस्वते ।

अरेजेताम् । रोदसी इति । होतृऽवूर्ये । असघ्नोः । भारम् । अयजः । महः । वसो इति ॥

हे अग्ने “त्वं “मातरिश्वने “प्रथमः मुख्यो भूत्वा वर्तसे। ‘अग्निर्वायुरादित्यः' (निरु. ७.७) इति वाय्वपेक्षया सर्वत्र मुख्यत्वावगमात् । तादृशस्त्वं “सुक्रतूया शोभनकर्मेच्छया “विवस्वते परिचरते यजमानाय “आविर्भाव प्रकटो भव । तव सामर्थ्यं दृष्ट्वा “रोदसी द्यावापृथिव्यौ "अरेजेताम् अकम्पेताम् । भ्यसते ऐजत इति भयवेपनयोः ' ( निरु. ३. २१ ) इति यास्कः । “होतृवूयें होतृवरणयुक्ते कर्मणि “भारं भरणम् "असघ्नोः ऊढवानसि । हे “वसो निवासहेतो वह्ने “महः पूज्यान् देवान् "अयजः इष्टवानसि ॥ मातरिश्वने । निर्माणहेतुत्वात् माता अन्तरिक्षम् । तत्र श्वसिति प्राणितीति मातरिश्वा वायुः । ‘श्वन्नुक्षन्' (उ. सू. १. १५७ ) इत्यादौ मातरिश्वन्शब्दः कन्प्रत्ययान्तो निपातितः । सुक्रतूया । सुक्रतुमात्मन इच्छति । ‘सुप आत्मनः क्यच् । ‘अकृत्सार्वधातुकयोः० ' ( पा. सू. ७. ४. २५) इति दीर्घः । क्यजन्तस्य धातुसंज्ञायाम् ' अ प्रत्ययात् ' ( पा. सू. ३. ३. १०२ ) इति भावे अकारप्रत्ययः । ततः टाप् ।' सुपां सुलुक् ' इति तृतीयैकवचनस्य डादेशः । टिलोपे उदात्तनिवृत्तिस्वरेण तस्य उदात्तत्वम् । संहितायाम् अन्येषामपि दृश्यते ' इति पूर्वपदस्य दीर्घः । विवस्वते । विवासतिः परिचरणकर्मा । अस्मात् संपदादिलक्षणः क्विप्। व्यत्ययेन उपधाह्रस्वत्वम् । तदस्यास्ति' इति मतुप् । ‘मादुपधायाः०' इति मतोः वत्वम्। 'तसौ मत्वर्थे ' इति भत्वेन पदत्वाभावात् रुत्वाभावः। मतुपः पित्त्वादनुदात्तत्वम् । धातुस्वरः शिष्यते । रोदसी । ‘वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । होतृवूर्ये । होत्रा व्रियते इति होतृवूर्यो यज्ञः। ‘वञ् वरणे'। बहुलग्रहणात् औणादिकः क्यप्। ‘उदोष्य् पूर्वस्य' इति उत्वम्। ‘हलि च' इति दीर्घः । यद्वा । वृञ् वरणे ' इत्यस्मात् एतिस्तुशास्वित्यादिना ( पा. सू. ३. १. १०९) क्यप् । ' अनित्यमागमशासनम् ' इति तुगभावः । ‘अकृत्सार्वधातुकयोः' इति दीर्घत्वे पूर्ववत् उत्वदीर्घौ । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते । असघ्नोः । षघ हिंसायाम् । अत्र तु वहनार्थः । ‘स्वादिभ्यः श्नुः । पादादित्वादनिघातः । अयजः । भारम् इत्यस्य पूर्वपदस्य वाक्यान्तरगतत्वात् तदपेक्षया अस्य निघातो न भवति, समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः ' (पा. सू. ८. १. १८. ५) इति वचनात् । महः ।' मह पूजायाम् । क्विप् च ' इति क्विप् ।' सुपां सुपो भवन्ति' इति शसो ङसादेशः । ‘सावेकाचः०' इति तस्य उदात्तत्वम् । यद्वा । शसि महच्छब्दस्य अच्छब्दलोपश्छान्दसः । ‘बृहन्महतोपरुपसंख्यानम् ' इति उदात्तत्वम् ॥


त्वम॑ग्ने॒ मन॑वे॒ द्याम॑वाशयः पुरू॒रव॑से सु॒कृते॑ सु॒कृत्त॑रः ।

श्वा॒त्रेण॒ यत्पि॒त्रोर्मुच्य॑से॒ पर्या त्वा॒ पूर्व॑मनय॒न्नाप॑रं॒ पुन॑ः ॥४

त्वम् । अ॒ग्ने॒ । मन॑वे । द्याम् । अ॒वा॒श॒यः॒ । पु॒रू॒रव॑से । सु॒ऽकृते॑ । सु॒कृत्ऽत॑रः ।

श्वा॒त्रेण॑ । यत् । पि॒त्रोः । मुच्य॑से । परि॑ । आ । त्वा॒ । पूर्व॑म् । अ॒न॒य॒न् । आ । अप॑रम् । पुन॒रिति॑ ॥

त्वम् । अग्ने । मनवे । द्याम् । अवाशयः । पुरूरवसे । सुऽकृते । सुकृत्ऽतरः ।

श्वात्रेण । यत् । पित्रोः । मुच्यसे । परि । आ । त्वा । पूर्वम् । अनयन् । आ । अपरम् । पुनरिति ॥

हे अग्ने “त्वं “मनवे मनोरनुग्रहार्थं "द्यां द्युलोकम् “अवाशयः शब्दितवानसि । पुण्यकर्मभिः साध्यो द्युलोक इति प्रकटितवानसि । 'सुकृते तव परिचरणं कुर्वते “पुरूरवसे एतन्नामकस्य राज्ञोऽनुग्रहार्थं “सुकृत्तरः अतिशयेन शोभनफलकार्यभूः । “यत् यदा "पित्रोः अरण्योः “श्वात्रेण क्षिप्रमथनेन “परि “मुच्यसे परितो मुक्तो भवसि उत्पद्यसे इत्यर्थः । तदानीं “त्वा अरण्योरुत्पन्नं त्वां “पूर्वं वेदेः पूर्वदेशम् “आ "अनयन् आहवनीयत्वेन स्थापितवन्तः । “पुनः पश्चात् “अपरं पश्चिमदेशम् “आ अनयन् गार्हपत्यरूपेण प्रापितवन्तः । आहवनीयकर्मानुष्ठानादूर्ध्वं गार्हपत्यरूपेण धारितवन्त इत्यर्थः॥ अवाशयः । ‘वाशृ शब्दे ' । पुरूरवसे । पुरु रौतीति पुरूरवाः । ‘रु शब्दे '। अस्मात् औणादिके असुनि ‘पुरसि च पुरूरवाः' (उ. सू. ४. ६७१) इति पूर्वपदस्य दीर्घो निपात्यते । सुकृते । ‘सुकर्मपापमन्त्रपुण्येषु कृञः ' (पा. सू. ३. २. ८९) इति क्विप् । ततः तुक् । पित्रोः । उदात्तयणो हल्पूर्वात् ' इति विभक्तेरुदात्तत्वम् । मुच्यसे । अदुपदेशात् लसार्वधातुकानुदात्तत्वम् । यद्यपि ' सतिशिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः' इति वचनात् विकरणस्वरः सतिशिष्टोऽपि लसार्वधातुकस्वरस्य बाधको न भवति तथापि धातुस्वरं बाधते एव, ‘धातुस्वरं श्नास्वरः । इत्युक्तत्वात् । अतो यक एव स्वरे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् ॥


त्वम॑ग्ने वृष॒भः पु॑ष्टि॒वर्ध॑न॒ उद्य॑तस्रुचे भवसि श्र॒वाय्य॑ः ।

य आहु॑तिं॒ परि॒ वेदा॒ वष॑ट्कृति॒मेका॑यु॒रग्रे॒ विश॑ आ॒विवा॑ससि ॥५

त्वम् । अ॒ग्ने॒ । वृ॒ष॒भः । पु॒ष्टि॒ऽवर्ध॑नः । उद्य॑तऽस्रुचे । भ॒व॒सि॒ । श्र॒वाय्यः॑ ।

यः । आऽहु॑तिम् । परि॑ । वेद॑ । वष॑ट्ऽकृतिम् । एक॑ऽआयुः । अग्ने॑ । विशः॑ । आ॒ऽविवा॑ससि ॥

त्वम् । अग्ने । वृषभः । पुष्टिऽवर्धनः । उद्यतऽस्रुचे । भवसि । श्रवाय्यः ।

यः । आऽहुतिम् । परि । वेद । वषट्ऽकृतिम् । एकऽआयुः । अग्ने । विशः । आऽविवाससि ॥

हे “अग्ने “त्वं “वृषभः कामानां वर्षिता “पुष्टिवर्धनः यजमानस्य धनादिपोषाभिवृद्धिहेतुः “उद्यतस्रुचे उद्धृतया स्रुचा युक्ताय यजमानाय तदनुग्रहार्थं “श्रवाय्यः मन्त्रैः श्रवणीयः “भवसि । "यः यजमानः “वषट्कृतिं वषट्कारयुक्ताम् “आहुतिं “परि "वेद परितो जानाति समर्पयतीत्यर्थः । “एकायुः मुख्यान्नः त्वम् “अग्रे प्रथमं तं यजमानं “विशः तदनुकूलाः प्रजाः "अविवाससि सर्वतः प्रकाशयसि॥ पुष्टिवर्धनः । ‘वृधु वृद्धौ'। अस्मात् णिजन्तात् नन्द्यादित्वात् ल्युः । लित्स्वरेणोत्तरपदस्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते । उद्यतस्रुचे। यम उपरमे '। अस्मात् उत्पूर्वात् ‘निष्ठा ' इति क्तप्रत्यये ‘ अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः । ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । उद्यता स्रुक् येनेति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वेद । द्व्यचोऽतस्तिङः' इति संहितायां दीर्घत्वम् ॥ ॥ ३२ ॥


त्वम॑ग्ने वृजि॒नव॑र्तनिं॒ नरं॒ सक्म॑न्पिपर्षि वि॒दथे॑ विचर्षणे ।

यः शूर॑साता॒ परि॑तक्म्ये॒ धने॑ द॒भ्रेभि॑श्चि॒त्समृ॑ता॒ हंसि॒ भूय॑सः ॥६

त्वम् । अ॒ग्ने॒ । वृ॒जि॒नऽव॑र्तनिम् । नर॑म् । सक्म॑न् । पि॒प॒र्षि॒ । वि॒दथे॑ । वि॒ऽच॒र्ष॒णे॒ ।

यः । शूर॑ऽसाता । परि॑ऽतक्म्ये । धने॑ । द॒भ्रेभिः॑ । चि॒त् । सम्ऽऋ॑ता । हंसि॑ । भूय॑सः ॥

त्वम् । अग्ने । वृजिनऽवर्तनिम् । नरम् । सक्मन् । पिपर्षि । विदथे । विऽचर्षणे ।

यः । शूरऽसाता । परिऽतक्म्ये । धने । दभ्रेभिः । चित् । सम्ऽऋता । हंसि । भूयसः ॥

हे “विचर्षणे विशिष्टज्ञानयुक्त "अग्ने “त्वं “वृजिनवर्तनिं विप्लुतमार्गं सदाचाररहितं नरं पुरुषं “सक्मन् सचनीये समवेतुं योग्ये “विदथे कर्मणि "पिपर्षि पालयसि पूरयसि वा । सत्कर्मानुष्ठानयुक्तं करोषीत्यर्थः। "यः त्वं “परितक्म्ये परितो गन्तव्ये “धने धनवत् शूराणां प्रियतमे “शूरसाता शूरैः संभजनीये युद्धे “दभ्रेभिश्चित् अल्पैरपि शौर्यरहितैः पुरुषैः। ‘दभ्रमर्भकमित्यल्पस्य' (निरु. ३.२०) इति यास्कः । “समृता सम्यक् योद्धुं प्राप्ते सति तदनुग्रहार्थं “भूयसः प्रौढान् प्रतिपक्षिणः शत्रून् "हंसि मारयसि । ईदृशस्तव महिमेत्यर्थः ॥ वृजिनवर्तनिम्। वृजिना वर्तनिर्यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सक्मन् । ‘षच समवाये'। अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । 'नेड्वशि कृति' इति इट्प्रतिषेधः। न्यङ्क्वादित्वात् (पा. सू. ७. ३. ५३) कुत्वम् । ‘सुपां सुलुक्' इति सप्तम्या लुक् । पिपर्षि। ‘पॄ पालनपूरणयोः । सिपि श्लौ द्विर्भावस्वोरदत्वहलादिशेषाः। ‘अर्तिपिपर्त्योश्च' इति अभ्यासस्य इत्वम् । शूरसाता । ‘शु गतौ'। 'शुषिचिमीनां दीर्घश्च' (उ. सू. २. १८३) इति शूरशब्दो रन्प्रत्ययान्त आद्युदात्तः । वन षण संभक्तौ ' इत्यस्मात् क्तिनन्तः सातिशब्दः । ‘जनसनखनां सञ्झलोः' इति आत्वम् । शूराणां सातिः संभजनमत्रेति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ‘सुपां सुलुक्' इति सप्तम्या डादेशः । परितक्म्ये । ‘तक हसने ' । अस्मात् औणादिको भावे मक् । तर्ह्आतीति ‘छन्दसि च ' ( पा. सू. ५. १. ६७ ) इति यः । ‘प्रादयो गताद्यर्थे प्रथमया' (पा. म. २. २. १८. ४ ) इति समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । दभ्रेभिः । ‘दभु दम्भे'। ‘स्फायितञ्चि°' इत्यादिना रक् । ‘बहुलं छन्दसि' इति भिस ऐसादेशाभावः । समृता । गतिरनन्तरः ' इति गतेः प्रकृतिस्वरत्वम् । पूर्ववत् आकारः । हंसि । हन्तेः सिपि ‘नश्चापदान्तस्य झलि' (पा. सू. ८. ३. २४ ) इति अनुस्वारः। यद्वृत्तयोगादनिघातः । भूयसः । ‘बहोर्लोपो भू च बहोः ' (पा. सू. ६. ४. १५८) इति बहुशब्दात् उत्तरस्य ईयसुनः ईकोरलोपो बहोः भूभावश्च । नित्त्वादाद्युदात्तत्वम् ॥


त्वं तम॑ग्ने अमृत॒त्व उ॑त्त॒मे मर्तं॑ दधासि॒ श्रव॑से दि॒वेदि॑वे ।

यस्ता॑तृषा॒ण उ॒भया॑य॒ जन्म॑ने॒ मय॑ः कृ॒णोषि॒ प्रय॒ आ च॑ सू॒रये॑ ॥७

त्वम् । तम् । अ॒ग्ने॒ । अ॒मृ॒त॒ऽत्वे । उ॒त्ऽत॒मे । मर्त॑म् । द॒धा॒सि॒ । श्रव॑से । दि॒वेऽदि॑वे ।

यः । त॒तृ॒षा॒णः । उ॒भया॑य । जन्म॑ने । मयः॑ । कृ॒णोषि॑ । प्रयः॑ । आ । च॒ । सू॒रये॑ ॥

त्वम् । तम् । अग्ने । अमृतऽत्वे । उत्ऽतमे । मर्तम् । दधासि । श्रवसे । दिवेऽदिवे ।

यः । ततृषाणः । उभयाय । जन्मने । मयः । कृणोषि । प्रयः । आ । च । सूरये ॥

हे “अग्ने “त्वं “तं “मर्तं तथाविधं त्वत्सेविनं मनुष्यं “दिवेदिवे प्रतिदिनं "श्रवसे अन्नार्थम् "उत्तमे "अमृतत्वे उत्कृष्टमरणरहिते पदे "दधासि धारयसि। "यः यजमानः “उभयाय जन्मने द्विविधजन्मार्थं द्विपदां चतुष्पदां च लाभायेत्यर्थः । “ततृषाणः अतिशयेन तृष्णायुक्तो भवति तस्मै 'सूरये अभिज्ञाय यजमानाय “मयः सुखं, यद्वै सुखं तन्मयः' इति श्रुत्यन्तरात् । “प्रयः “च अन्नमपि “आ "कृणोषि सर्वतः करोषि ॥ ततृषाणः । ‘ञितृषा पिपासायाम्। लिटः कानच् । चित्त्वादन्तोदात्तत्वम् । संहितायां दीर्घश्छन्दसः । कृणोषि । ‘कृधि हिंसाकरणयोश्च । ‘धिन्विकृण्व्योर च' इति उप्रत्ययः । ‘चादिलोपे विभाषा ' इति निघातप्रतिषेधः ॥


त्वं नो॑ अग्ने स॒नये॒ धना॑नां य॒शसं॑ का॒रुं कृ॑णुहि॒ स्तवा॑नः ।

ऋ॒ध्याम॒ कर्मा॒पसा॒ नवे॑न दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥८

त्वम् । नः॒ । अ॒ग्ने॒ । स॒नये॑ । धना॑नाम् । य॒शस॑म् । का॒रुम् । कृ॒णु॒हि॒ । स्तवा॑नः ।

ऋ॒ध्याम॑ । कर्म॑ । अ॒पसा॑ । नवे॑न । दे॒वैः । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । प्र । अ॒व॒त॒म् । नः॒ ॥

त्वम् । नः । अग्ने । सनये । धनानाम् । यशसम् । कारुम् । कृणुहि । स्तवानः ।

ऋध्याम । कर्म । अपसा । नवेन । देवैः । द्यावापृथिवी इति । प्र । अवतम् । नः ॥

हे “अग्ने "स्तवानः स्तूयमानः “त्वं “नः अस्माकं “धनानां “सनये दानार्थं “यशसं यशोयुक्तं “कारुं कर्मणां कर्तारं पुत्रं “कृणुहि कुरु । "नवेन नूतनेन "अपसा प्राप्तेन त्वद्दत्तेन पुत्रेण “कर्म यागदानादिरूपम् “ऋध्याम वर्धयाम । हे “द्यावापृथिवी उभे देवते "देवैः अन्यैः सह "नः अस्मान् “प्रावतं प्रकर्षेण रक्षतम् ॥ यशसम् । अर्शआदित्वात् अच्प्रत्ययः । व्यत्ययेन प्रत्ययात् पूर्वस्योदात्तत्वम् । यद्वा ‘सर्वप्रातिपदिकेभ्यः क्विब्वक्तव्यः' ( पा. म. ३. १. ११. ३) इति यशस्शब्दात् क्विप् । तस्य प्रत्ययान्तस्य सनाद्यन्तत्वात् धातुसंज्ञायां ‘क्विप् च' इति क्विप्प्रत्ययान्तधातोः सतिशिष्टत्वात् ‘धातोः' इत्यन्तोदात्तत्वम् । कृणुहि । ‘उतश्च प्रत्ययाच्छन्दोवावचनम् ' (पा. सू. ६. ४. १०६. १) इति हेर्लुगभावः । स्तवानः । ‘सम्यानच् स्तुवः' ( उ. सू. २. २४६ ) इति बहुलवचनात् केवलस्यापि स्तौतेः आनच्प्रत्ययः । वृषादित्वादाद्युदात्तत्वम् । ऋध्याम ।' ऋधु वृद्धौ'। 'बहुलं छन्दसि ' इति विकरणस्य लुक् । यासुट उदात्तत्वम् । द्यावापृथिवी । ‘दिवो द्यावा' (पा. सू. ६. ३. २९ ) इति द्यावादेशः । आमन्त्रितानुदात्तत्वम् ।।


त्वं नो॑ अग्ने पि॒त्रोरु॒पस्थ॒ आ दे॒वो दे॒वेष्व॑नवद्य॒ जागृ॑विः ।

त॒नू॒कृद्बो॑धि॒ प्रम॑तिश्च का॒रवे॒ त्वं क॑ल्याण॒ वसु॒ विश्व॒मोपि॑षे ॥९

त्वम् । नः॒ । अ॒ग्ने॒ । पि॒त्रोः । उ॒पऽस्थे॑ । आ । दे॒वः । दे॒वेषु॑ । अ॒न॒व॒द्य॒ । जागृ॑विः ।

त॒नू॒ऽकृत् । बो॒धि॒ । प्रऽम॑तिः । च॒ । का॒रवे॑ । त्वम् । क॒ल्या॒ण॒ । वसु॑ । विश्व॑म् । आ । ऊ॒पि॒षे॒ ॥

त्वम् । नः । अग्ने । पित्रोः । उपऽस्थे । आ । देवः । देवेषु । अनवद्य । जागृविः ।

तनूऽकृत् । बोधि । प्रऽमतिः । च । कारवे । त्वम् । कल्याण । वसु । विश्वम् । आ । ऊपिषे ॥

हे “अनवद्य दोषरहित “अग्ने “देवेषु सर्वेषु मध्ये “जागृविः जागरूकः “त्वं “पित्रोः मातृपितृरूपयोः(?) द्यावापृथिव्योः “उपस्थे समीपस्थाने वर्तमानः सन् “नः अस्माकं “तनूकृत् पुत्ररूपशरीरकारी भूत्वा "बोधि बुध्यस्व । अनुगृहाणेत्यर्थः । तथा “कारवे कर्मकर्त्रे यजमानाय “प्रमतिश्च अनुग्रहरूपप्रकृष्टमतियुक्तश्च भवेति शेषः । हे “कल्याण मङ्गलरूप अग्ने “त्वं “विश्वं “वसु सर्वमपि धनम् "ओपिषे यजमानार्थमावपसि ॥ उपस्थे । ‘सुपि स्थः ' (पा. सू. ३. २, ४ ) इति तिष्ठतेः कः प्रत्ययः । ‘आतो लोप इटि च' इति आकारलोपः । ‘मरुद्वृधादीनां छन्दस्युपसंख्यानम् ' ( पा. सू. ६. २. १०६. २ ) इति पूर्वपदान्तोदात्तत्वम् । जागृविः । ‘जागृ निद्राक्षये '। 'जॄशॄस्तजागृभ्यः क्विन्' ( उ. सू. ४. ४९४ ) इति क्विन् । नित्वादाद्युदात्तत्वम् । बोधि । ‘बुध अवगमने '।' बहुलं छन्दसि' इति शपो लुक् । “ वा छन्दसि ' इति हेः अपित्त्वस्य विकल्पितत्वेन पित्त्वात् अङित्वे सति ‘ अङितश्च ' ( पा. सू. ६. ४. १०३ ) इति हेर्धिरादेशः । लघूपधगुणः । धातोरन्त्यलोपश्छान्दसः । प्रमतिः । ‘मन ज्ञाने'। क्तिनि “ अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः । प्रकृष्टा मतिः यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ऊपिषे । ‘डुवप् बीजसन्ताने '। छान्दसे लिटि ‘थासः से'। वजिस्वपि ' इत्यादिना संप्रसारणपरपूर्वत्वे । द्विर्भावहलादिशेषौ । क्रादिनियमात् इट् ॥


त्वम॑ग्ने॒ प्रम॑ति॒स्त्वं पि॒तासि॑ न॒स्त्वं व॑य॒स्कृत्तव॑ जा॒मयो॑ व॒यम् ।

सं त्वा॒ राय॑ः श॒तिन॒ः सं स॑ह॒स्रिण॑ः सु॒वीरं॑ यन्ति व्रत॒पाम॑दाभ्य ॥१०

त्वम् । अ॒ग्ने॒ । प्रऽम॑तिः । त्वम् । पि॒ता । अ॒सि॒ । नः॒ । त्वम् । व॒यः॒ऽकृत् । तव॑ । जा॒मयः॑ । व॒यम् ।

सम् । त्वा॒ । रायः॑ । श॒तिनः॑ । सम् । स॒ह॒स्रिणः॑ । सु॒ऽवीर॑म् । य॒न्ति॒ । व्र॒त॒ऽपाम् । अ॒दा॒भ्य॒ ॥

त्वम् । अग्ने । प्रऽमतिः । त्वम् । पिता । असि । नः । त्वम् । वयःऽकृत् । तव । जामयः । वयम् ।

सम् । त्वा । रायः । शतिनः । सम् । सहस्रिणः । सुऽवीरम् । यन्ति । व्रतऽपाम् । अदाभ्य ॥

हे “अग्ने “त्वं “प्रमतिः अस्मदनुग्रहरूपप्रकृष्टमतियुक्तोऽसि । तथा “त्वं “नः अस्माकं “पिता पालकः “असि । तथा “त्वं “वयस्कृत् आयुष्यप्रदोऽसि । “वयम् अनुष्ठातारः “तव “जामयः बन्धवः । हे “अदाभ्य केनापि अहिंसनीय अग्ने “सुवीरं शोभनपुरुषयुक्तं “व्रतपां कर्मणः पालकं त्वां “शतिनः शतसंख्यायुक्ताः “रायः धनानि "सं "यन्ति सम्यक् प्राप्नुवन्ति । तथा “सहस्रिणः सहस्रसंख्याकाः रायः “सं यन्ति ॥ सुवीरम् । बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वे प्राप्ते ‘वीरवीर्यौ च' (पा. सू. ६. २. १२० ) इत्युत्तरपदाद्युदात्तत्वम् । अदाभ्य । दभिः प्रकृत्यन्तरमस्तीति केचिदाहुः । ‘दभेश्चेति वक्तव्यम्' (पा. सू. ३. १. १२४. ३ ) इति ण्यत् ॥ ॥ ३३ ॥


त्वाम॑ग्ने प्रथ॒ममा॒युमा॒यवे॑ दे॒वा अ॑कृण्व॒न्नहु॑षस्य वि॒श्पति॑म् ।

इळा॑मकृण्व॒न्मनु॑षस्य॒ शास॑नीं पि॒तुर्यत्पु॒त्रो मम॑कस्य॒ जाय॑ते ॥११

त्वाम् । अ॒ग्ने॒ । प्र॒थ॒मम् । आ॒युम् । आ॒यवे॑ । दे॒वाः । अ॒कृ॒ण्व॒न् । नहु॑षस्य । वि॒श्पति॑म् ।

इळा॑म् । अ॒कृ॒ण्व॒न् । मनु॑षस्य । शास॑नीम् । पि॒तुः । यत् । पु॒त्रः । मम॑कस्य । जाय॑ते ॥

त्वाम् । अग्ने । प्रथमम् । आयुम् । आयवे । देवाः । अकृण्वन् । नहुषस्य । विश्पतिम् ।

इळाम् । अकृण्वन् । मनुषस्य । शासनीम् । पितुः । यत् । पुत्रः । ममकस्य । जायते ॥

हे “अग्ने “त्वां “प्रथमं पुरा "देवाः "आयवे आयोः मनुष्यरूपस्य “नहुषस्य एतन्नामकराजविशेषस्य “आयुं मनुष्यरूपं "विश्पतिं सेनापतिम् "अकृण्वन् कृतवन्तः । तथा "मनुषस्य मनोः “इळाम् एतन्नामधेयां पुत्रीं “शासनीं धर्मोपदेशकर्त्रीम् अकृण्वन् कृतवन्तः । तथा च तैत्तिरीयैराम्नायते-’इडा वै मानवी यज्ञानूकाशिन्यासीत् ' ( तै. ब्रा. १. १. ४. ४ ) इति । वाजसनेयिनोऽप्येवमामनन्ति-- ‘प्रयाजानुयाजानां मध्ये मामवकल्पय मया सर्वानवाप्स्यसि कामानिति सा मनुमन्वशादिति यत् शात् ' इति । “यत् यदा "ममकस्य मदीयस्य हिरण्यस्तूपसंबन्धिनः यः पिता अङ्गिराः तस्य “पितुः “पुत्रः "जायते । तदानीं हे अग्ने त्वमेव पुत्ररूप आसीरिति शेषः ॥ आयवे। षष्ठ्यर्थे चतुर्थी वक्तव्या' ( पा. सू. २. ३. ६२. १ ) इति चतुर्थी । नहुषस्य । णह बन्धने '। ‘नहिकलिहन्यर्तिलसिभ्य उषत्त ' ( उ. सू. ४. ५१५)। वृषादित्वादाद्युदात्तत्वम् । विश्पतिम् । • परादिश्छन्दसि बहुलम् इत्युत्तरपदाद्युदात्तत्वम् । मनुषस्य । ‘मनेर्नित्' इति उषच् । नित्त्वादाद्युदात्तत्वम् । शासनीम् । शिष्यतेऽनयेति शासनी । “करणाधिकरणयोश्च' इति ल्युट् ।' टिडाढाणञ् ' ( पा. सू. ४. १. १५ ) इत्यादिना ङीप् । लित्स्वरेणाद्युदात्तत्वम् । ममकस्य । ममेदमित्यर्थे ' तस्येदम् ' ( पा. सू. ४. ३. १२०) इति अणि ' तवकममकावेकवचने ' ( पा. सू. ४. ३. ३ ) इति अस्मच्छब्दस्य ममकादेशः । ‘संज्ञापूर्वको विधिरनित्यः' इति वृद्ध्यभावः । व्यत्ययेनाद्युदात्तत्वम् ।।


त्वं नो॑ अग्ने॒ तव॑ देव पा॒युभि॑र्म॒घोनो॑ रक्ष त॒न्व॑श्च वन्द्य ।

त्रा॒ता तो॒कस्य॒ तन॑ये॒ गवा॑म॒स्यनि॑मेषं॒ रक्ष॑माण॒स्तव॑ व्र॒ते ॥१२

त्वम् । नः॒ । अ॒ग्ने॒ । तव॑ । दे॒व॒ । पा॒युऽभिः॑ । म॒घोनः॑ । र॒क्ष॒ । त॒न्वः॑ । च॒ । व॒न्द्य॒ ।

त्रा॒ता । तो॒कस्य॑ । तन॑ये । गवा॑म् । अ॒सि॒ । अनि॑ऽमेषम् । रक्ष॑माणः । तव॑ । व्र॒ते ॥

त्वम् । नः । अग्ने । तव । देव । पायुऽभिः । मघोनः । रक्ष । तन्वः । च । वन्द्य ।

त्राता । तोकस्य । तनये । गवाम् । असि । अनिऽमेषम् । रक्षमाणः । तव । व्रते ॥

हे "वन्द्य वन्दनीय “अग्ने “देव “त्वं “तव “पायुभिः त्वदीयैः पालनैः "मघोनः धनयुक्तान् नः अस्मान् “रक्ष । तथा “तन्वश्च तनूः पुत्रदेहानपि रक्ष । “तोकस्य अस्मदीयस्य पुत्रस्य यः तनयोऽस्मत्पौत्रादिः “तव “व्रते त्वदीये कर्मणि “अनिमेषं निरन्तरं “रक्षमाणः सावधानो वर्तते तस्मिन् या गावः सन्ति तासां “गवां “त्राता रक्षकः “असि । ईदृशस्य तव अस्मद्रक्षणे किमु वक्तव्यमित्यर्थः ॥ मघोनः । शसि • श्वयुवमघोनामतद्धिते ' (पा. सू. ६. ४. १३३ ) इति संप्रसारणम् । तन्वः । ‘सुपां सुपो भवन्ति ' इति शसो जसादेशः । पूर्वसवर्णदीर्घस्य दीर्घाञ्जसि च ' इति प्रतिषेधः । ‘उदात्तस्वरित योर्यण: ' इति स्वरितत्वम् । शसि हि ‘उदात्तयणो हल्पूर्वात्' इति विभक्त्युदात्तत्वं स्यात् ॥


त्वम॑ग्ने॒ यज्य॑वे पा॒युरन्त॑रोऽनिष॒ङ्गाय॑ चतुर॒क्ष इ॑ध्यसे ।

यो रा॒तह॑व्योऽवृ॒काय॒ धाय॑से की॒रेश्चि॒न्मन्त्रं॒ मन॑सा व॒नोषि॒ तम् ॥१३

त्वम् । अ॒ग्ने॒ । यज्य॑वे । पा॒युः । अन्त॑रः । अ॒नि॒ष॒ङ्गाय॑ । च॒तुः॒ऽअ॒क्षः । इ॒ध्य॒से॒ ।

यः । रा॒तऽह॑व्यः । अ॒वृ॒काय॑ । धाय॑से । की॒रेः । चि॒त् । मन्त्र॑म् । मन॑सा । व॒नोषि॑ । तम् ॥

त्वम् । अग्ने । यज्यवे । पायुः । अन्तरः । अनिषङ्गाय । चतुःऽअक्षः । इध्यसे ।

यः । रातऽहव्यः । अवृकाय । धायसे । कीरेः । चित् । मन्त्रम् । मनसा । वनोषि । तम् ॥

हे “अग्ने “त्वं “यज्यवे यज्योः' यजमानस्य “पायुः पालकः "अन्तरः समीपवर्ती सन् “अनिषङ्गाय रक्षोभिरसंबद्धाय यज्ञाय "चतुरक्षः दिक्चतुष्टयेऽपि इन्द्रियस्थानीयज्वालायुक्तः “इध्यसे दीप्यसे । “अवृकाय अहिंसकाय “धायसे पोषकाय तुभ्यं “रातहव्यः दत्तहविष्कः “यः यजमानोऽस्ति “कीरेश्चित् स्तोतुरेव सतः तस्य संबन्धिनं “मन्त्रं त्वदीयस्तोत्ररूपं “मनसा त्वदीयेन चित्तेन “वनोषि याचसि ॥ यज्यवे । यजिमनिशुन्धि ' ( उ. सू. ३. ३००) इत्यादिना यजतेः युप्रत्ययः । पायुः । ‘कृवापाजि° ' इत्यादिना उण् । ' आतो युक् चिण्कृतोः' (पा. सू. ७. ३. ३३ ) इति युगागमः । अनिषङ्गाय । ‘पञ्ज संगे'। न विद्यते निषङ्गोऽस्येति बहुव्रीहौ ' नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । चतुरक्षः । चत्वार्यक्षीणि ज्वालारूपाणि यस्यासौ चतुरक्षः । ‘बहुव्रीहौ सक्थ्यक्ष्णोः ' (पा. सू. ५. ४. ११३ ) इति समासान्तः षच्प्रत्ययः । ‘चितः' इत्यन्तोदात्तत्वम् । धायसे । ' वहि हाधाभ्यश्छन्दसि' इति असुन् । णित् ' इत्यनुवृत्तेः ' आतो युक् चिण्कृतोः' इति युगागमः । कीरेः । ‘कृत संशब्दने' । अस्मात् ण्यन्तात् ‘अच इः' इति इप्रत्यये णिलोपे धातोरन्त्यलोपश्छान्दसः । मन्त्रम् ।' मत्रि गुप्तभाषणे'। पचाद्यचि वृषादिषु पाठादाद्युदात्तत्वम् । वनोषि । वनु याचने'। ‘तनादिकृञ्भ्य उः' । प्रत्ययस्वरः ॥


त्वम॑ग्न उरु॒शंसा॑य वा॒घते॑ स्पा॒र्हं यद्रेक्ण॑ः पर॒मं व॒नोषि॒ तत् ।

आ॒ध्रस्य॑ चि॒त्प्रम॑तिरुच्यसे पि॒ता प्र पाकं॒ शास्सि॒ प्र दिशो॑ वि॒दुष्ट॑रः ॥१४

त्वम् । अ॒ग्ने॒ । उ॒रु॒ऽशंसा॑य । वा॒घते॑ । स्पा॒र्हम् । यत् । रेक्णः॑ । प॒र॒मम् । व॒नोषि॑ । तत् ।

आ॒ध्रस्य॑ । चि॒त् । प्रऽम॑तिः । उ॒च्य॒से॒ । पि॒ता । प्र । पाक॑म् । शास्सि॑ । प्र । दिशः॑ । वि॒दुःऽत॑रः ॥

त्वम् । अग्ने । उरुऽशंसाय । वाघते । स्पार्हम् । यत् । रेक्णः । परमम् । वनोषि । तत् ।

आध्रस्य । चित् । प्रऽमतिः । उच्यसे । पिता । प्र । पाकम् । शास्सि । प्र । दिशः । विदुःऽतरः ॥

हे "अग्ने “त्वम् "ऊरुशंसाय बहुभिः स्तोतव्याय "वाघते ऋत्विजे तदुपकारार्थं "स्पार्ह स्पृहणीयं “परमम् उत्तमं “यद्रेक्णः धनमस्ति “तत् धनं “वनोषि अनुष्ठाता लभताम् इति कामयसे । तथा त्वम् “आध्रस्य “चित् सर्वतो धारणीयस्य पोषणीयस्य दुर्बलस्य यजमानस्यापि "प्रमतिः प्रकृष्टबुद्धियुक्तः “पिता पालकः इत्यभिज्ञैः “उच्यसे । तथा “विदुष्टरः अतिशयेनाभिज्ञस्त्वं “पाकं शिशुम् । “ पोतः पाकोऽर्भको डिम्भः' (अम. २. ५. ३८) इत्यभिधानात् । यास्कोऽप्येवमाह-’पाकः पक्तव्यो भवति' (निरु. ३. १२)। तथाविधं यजमानं “प्र “शास्सि प्रकर्षेण अनुशिष्टं करोषि । तथा “दिशः प्राच्यादिकाः "प्रशास्सि । त्वदीयशासनाभावे अनुष्ठातॄणां विभ्रमः स्यात् । तथा च श्रूयते- देवा वै देवयजनमध्यवसाय दिशो न प्राजानन्' इति । स भ्रमो दक्षिणादिग्गत अग्निना निवर्तते । तदपि तत्रैवाम्नातं ’पथ्यां स्वस्तिमयजन् प्राचीमेव तया दिशं प्राजानन्नग्निना दक्षिणा' (तै. सं. ६. १. ५. १-२ ) इति । ऐतरेयिणापि तथैवाम्नातम्--’अथो एतं वरमवृणीत मयैव प्राची दिशं प्रजानाथाग्निना दक्षिणाम् ' ( ऐ. ब्रा. १. ७) इति ॥ उरुशंसाय । ‘शंसु स्तुतौ ' । शस्यते इति शंसः । कर्मणि घञ् । ञित्स्वरेणाद्युदात्तत्वम्। कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते। स्पार्हम् । स्पृहासंबन्धि । तस्येदम्' इति अण् । रेक्णः ।' रिचिर् विरेचने '। ‘रिचेर्धने घिच्च' (उ. सू. ४. ६३८) इति असुन् । चकारात् नुडागमः । ‘चजोः कु घिण्ण्यतोः ' ( पा. सू. ७. ३. ५२ ) इति कुत्वम् । आध्रस्य । ‘ ध्रे तृप्तौ ।' आदेच उपदेशेऽशिति' (पा. सू. ६. १.४५) इति आत्वम् । आतश्चेोपसर्गे ' ( पा. सू. ३.१.३६) इति कप्रत्ययः । शास्सि। शासु अनुशिष्टौ । अदादित्वात् शपो लुक् । सिपः पित्त्वादनुदात्तत्वे धातुस्वरः । पाकं च प्रशास्सि दिशश्च प्रशास्सि इत्यत्र चार्थो गम्यते । अतः ‘चादिलोपे विभाषा' इति प्रथमा तिङ्विभक्तिर्न निहन्यते । विदुष्टरः । विद्वच्छब्दात् तरपि ‘अयस्मयादीनि च्छन्दसि' (पा. सू. १. ४. २०) इति भसंज्ञायां ‘ वसोः संप्रसारणम्' इति संप्रसारणं परपूर्वत्वम् । 'शासिवसि' इति षत्वम् । तरपः पित्त्वादनुदात्तत्वे वसोः स्वरेण उकार उदात्तः ॥


त्वम॑ग्ने॒ प्रय॑तदक्षिणं॒ नरं॒ वर्मे॑व स्यू॒तं परि॑ पासि वि॒श्वत॑ः ।

स्वा॒दु॒क्षद्मा॒ यो व॑स॒तौ स्यो॑न॒कृज्जी॑वया॒जं यज॑ते॒ सोप॒मा दि॒वः ॥१५

त्वम् । अ॒ग्ने॒ । प्रय॑तऽदक्षिणम् । नर॑म् । वर्म॑ऽइव । स्यू॒तम् । परि॑ । पा॒सि॒ । वि॒श्वतः॑ ।

स्वा॒दु॒ऽक्षद्मा॑ । यः । व॒स॒तौ । स्यो॒न॒ऽकृत् । जी॒व॒ऽया॒जम् । यज॑ते । सः । उ॒प॒ऽमा । दि॒वः ॥

त्वम् । अग्ने । प्रयतऽदक्षिणम् । नरम् । वर्मऽइव । स्यूतम् । परि । पासि । विश्वतः ।

स्वादुऽक्षद्मा । यः । वसतौ । स्योनऽकृत् । जीवऽयाजम् । यजते । सः । उपऽमा । दिवः ॥

हे अग्ने “त्वं “प्रयतदक्षिणं येन यजमानेन ऋत्विग्भ्यो दक्षिणा दत्ता तादृशं “नरं पुरुषं यजमानं “विश्वतः सर्वतः “परि “पासि सम्यक् पालयसि । तत्र दृष्टान्तः । “स्यूतं निश्छिद्रत्वेन सूचीभिः सम्यक् निष्पादितं “वर्मेव यथा कवचं युद्धे पालयति तद्वत् । स्वादुक्षद्मा स्वाद्वन्नः "वंसतौ निवासभूते स्वगृहे “स्योनकृत् अतिथीनां सुखकारी “यः यजमानः “जीवयाजं जीवयजनसहितं यज्ञं यद्वा जीवनिष्पाद्यं "यजते अनुतिष्ठति “सः यजमानः 'दिवः स्वर्गस्य “उपमा दृष्टान्तो भवति । यथा स्वर्गोऽनुष्ठातॄन् सुखयति तथा त्वमपि ऋत्विगादीनित्यर्थः ॥ स्यूतम् ।' षिवु तन्तुसंताने '।' निष्ठा ' इति क्तः। 'यस्य विभाषा ' इति इट्प्रतिषेधः । ‘छ्वोः शूडनुनासिके च' ( पा. सू. ६. ४. १९) इति वकारस्य ऊडादेशः । स्वादून् क्षदतीति स्वादुक्षद्मा । क्षदतिः अत्तिकर्मा । अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । नित्त्वादाद्युदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् । बहुव्रीहौ तु व्यत्ययेन । जीवयाजम् । जीवाः ऋत्विजः इज्यन्ते दक्षिणाभिः पूज्यन्ते अत्रेति अधिकरणे घञ् । कुत्वाभावश्छान्दसः । यद्वा । जीवैः पशुभिः योजनं जीवयाजः । याजयतेर्घञ् । ' णेरनिटि' इति णिलोपस्य ‘ अचः परस्मिन् ' इति स्थानिवद्भावात् “ चजोः कु घिण्ण्यतोः' इति कुत्वाभावः । थाथादिस्वरेणोत्तरपदान्तोदात्तत्वम् । सोपमा । ‘सोऽचि लोपे चेत्पादपूरणम्' इति संहितायां सोर्लोपः । दिवः । ‘ऊडिदम्' इति विभक्तेरुदात्तत्वम् ॥ ॥ ३४ ॥


‘इमामग्ने ' इत्यनया अनाहिताग्निः आर्त्विज्यं कृत्वा स्वाग्नावाहुतिं जुहुयात् ।' ऋत्विजो वृणीते' इति खण्डे ‘ एवमनाहिताग्निर्गृह्य इमामने शरणं मीमृषो नः ' ( आश्व. गृ. १. २३. २३) इति सूत्रितम् ॥

इ॒माम॑ग्ने श॒रणिं॑ मीमृषो न इ॒ममध्वा॑नं॒ यमगा॑म दू॒रात् ।

आ॒पिः पि॒ता प्रम॑तिः सो॒म्यानां॒ भृमि॑रस्यृषि॒कृन्मर्त्या॑नाम् ॥१६

इ॒माम् । अ॒ग्ने॒ । श॒रणि॑म् । मी॒मृ॒षः॒ । नः॒ । इ॒मम् । अध्वा॑नम् । यम् । अगा॑म । दू॒रात् ।

आ॒पिः । पि॒ता । प्रऽम॑तिः । सो॒म्याना॑म् । भृमिः॑ । अ॒सि॒ । ऋ॒षि॒ऽकृत् । मर्त्या॑नाम् ॥

इमाम् । अग्ने । शरणिम् । मीमृषः । नः । इमम् । अध्वानम् । यम् । अगाम । दूरात् ।

आपिः । पिता । प्रऽमतिः । सोम्यानाम् । भृमिः । असि । ऋषिऽकृत् । मर्त्यानाम् ॥

हे “अग्ने त्वं “नः अस्मत्संबन्धिनीम् “इमाम् इदानीम् संपादितां “शरणिं हिंसां व्रतलोपरूपां “मीमृषः क्षमस्व । तथा त्वदीयसेवाम् अग्निहोत्रादिरूपां परित्यज्य “दूरात् दूरदेशं “यम् “इममध्वानम् “अगाम वयं गतवन्तः तमपि क्षमस्वेति शेषः। “सोम्यानां सोमार्हाणामनुष्ठातॄणां “मर्यानां त्वम् आप्यादिगुणयुक्तः “असि । “आपिः प्रापणीयः “पिता पालकः “प्रमतिः प्रकृष्टमननयुक्तः “भृमिः भ्रामकः कर्मनिर्वाहक इत्यर्थः । “ऋषिकृत् दर्शनकारी । अनुजिघृक्षया प्रत्यक्षो भवसीत्यर्थः ॥ शरणिम् । ‘शॄ हिंसायाम्' इत्यस्मात् औणादिकः अनिप्रत्ययः । मीमृषः । “ मृष तितिक्षायाम् ' । अस्मात् णौ चङि गुणे प्राप्ते ‘ नित्यं छन्दसि' ( पा. सू. ७. ४. ८) इति उपधर्कारस्य ऋकारादेशः । णिलोपद्विर्भावहलादिशेषोरदत्वसन्वद्भावेत्वदीर्घत्वानि । तिङ्ङतिङः' इति निघातः। अगाम । इण् गतौ'। ‘इणो गा लुङि' ( पा. सू. २. ४. ४५) इति गादेशः । गातिस्था ' इति सिचो लुक् । अडागम उदात्तः । भृमिः । ‘भ्रम अनवस्थाने ' ।' भ्रमेः संप्रसारणं च ' (उ. सू. ४. ५६०) इति इन्प्रत्ययः । संप्रसारणे परपूर्वत्वम्। ' इगुपधात्कित्' इत्यनुवृत्तेः कित्वाद्गुणप्रतिषेधः । नित्त्वादाद्युदात्तत्वम् ॥


म॒नु॒ष्वद॑ग्ने अङ्गिर॒स्वद॑ङ्गिरो ययाति॒वत्सद॑ने पूर्व॒वच्छु॑चे ।

अच्छ॑ या॒ह्या व॑हा॒ दैव्यं॒ जन॒मा सा॑दय ब॒र्हिषि॒ यक्षि॑ च प्रि॒यम् ॥१७

म॒नु॒ष्वत् । अ॒ग्ने॒ । अ॒ङ्गि॒र॒स्वत् । अ॒ङ्गि॒रः॒ । य॒या॒ति॒ऽवत् । सद॑ने । पू॒र्व॒ऽवत् । शु॒चे॒ ।

अच्छ॑ । या॒हि॒ । आ । व॒ह॒ । दैव्य॑म् । जन॑म् । आ । सा॒द॒य॒ । ब॒र्हिषि॑ । यक्षि॑ । च॒ । प्रि॒यम् ॥

मनुष्वत् । अग्ने । अङ्गिरस्वत् । अङ्गिरः । ययातिऽवत् । सदने । पूर्वऽवत् । शुचे ।

अच्छ । याहि । आ । वह । दैव्यम् । जनम् । आ । सादय । बर्हिषि । यक्षि । च । प्रियम् ॥

हे "शुचे शुद्धियुक्त “अङ्गिरः अङ्गनशील हविरादानाय तत्र तत्र गमनशील “अग्ने "अच्छ आभिमुख्येन “सदने देवयजनदेशे “याहि गच्छ । तत्र चत्वारो दृष्टान्ताः । "मनुष्वत् यथा मनुः अनुष्ठानदेशे गच्छति, "अङ्गिरस्वत् यथा च अङ्गिराः गच्छति, “ययातिवत् यथा ययातिर्नाम राजा गच्छति, “पूर्ववत् अन्ये च पूर्वपुरुषाः यथा गच्छन्ति । यथा मन्वादयो यज्ञे गच्छन्ति तद्वत् । अथवा मन्वादीनां यज्ञे यथा त्वं गच्छसि तद्वत् । गत्वा च "दैव्यं देवतासमूहरूपं "जनम् “आ “वह अस्मिन् कर्मणि आनय । आनीय च “बर्हिषि आस्तीर्णे दर्भे “आ “सादय तान् देवान् उपवेशय । उपवेश्य च “प्रियम् अभीष्टं हविः “यक्षि च देहि ॥ मनुष्वत् । तेन तुल्यम्° ' इति प्रथमार्थे वा ‘तत्र तस्येव ' इति षष्ठ्यर्थे वा वतिः ( पा. सू. ५. १. ११५-११६ ) । अयस्मयादित्वेन भत्वात् रुत्वाद्यभावः । प्रत्ययस्वरः । एवम् अङ्गिरस्वत् इत्यादिषु । वह । ‘द्व्यचोऽतस्तिङः' इति संहितायां दीर्घः । यक्षि । लोटि • बहुलं छन्दसि ' इति शपो लुक् । सेर्ह्यपिच्च ' इति हेः अभावश्छान्दसः । षत्वकत्वे ॥


साग्निचयने क्रतौ उखासंभरणीयायाम् इष्टौ अग्नेर्ब्रह्मण्वतः पुरोनुवाक्या ' एतेनाग्ने ' इत्येषा । ‘दर्शपूर्णमासाभ्यामिष्ट्वा' इति खण्डे ' एतेनाग्ने ब्रह्मणा वावृधस्व ब्रह्म च ते जातवेदो नमश्च' (आश्व. श्रौ. ४. १ ) इति सूत्रितम् ॥ । ए॒तेना॑ग्ने॒ ब्रह्म॑णा वावृधस्व॒ शक्ती॑ वा॒ यत्ते॑ चकृ॒मा वि॒दा वा॑ ।

उ॒त प्र णे॑ष्य॒भि वस्यो॑ अ॒स्मान्सं न॑ः सृज सुम॒त्या वाज॑वत्या ॥१८

ए॒तेन॑ । अ॒ग्ने॒ । ब्रह्म॑णा । व॒वृ॒ध॒स्व॒ । शक्ती॑ । वा॒ । यत् । ते॒ । च॒कृ॒म । वि॒दा । वा॒ ।

उ॒त । प्र । ने॒षि॒ । अ॒भि । वस्यः॑ । अ॒स्मान् । सम् । नः॒ । सृ॒ज॒ । सु॒ऽम॒त्या । वाज॑ऽवत्या ॥

एतेन । अग्ने । ब्रह्मणा । ववृधस्व । शक्ती । वा । यत् । ते । चकृम । विदा । वा ।

उत । प्र । नेषि । अभि । वस्यः । अस्मान् । सम् । नः । सृज । सुऽमत्या । वाजऽवत्या ॥

हे "अग्ने “एतेन अस्मत्प्रयुक्तेन “ब्रह्मणा मन्त्रेण "ववृधस्व अभिवृद्धो भव । “शक्ती “वा "विदा "वा अस्मदीयशक्त्या च अस्मदीयज्ञानेन च “ते तव "यत् स्तोत्रं “चकृम वयं कृतवन्तः । एतेन ब्रह्मणा इति पूर्वत्रान्वयः। “उत अपि च “अस्मान् अनुष्ठातॄन् “वस्यः वसुमत्तरत्वलक्षणं श्रेयः “प्र “णेषि प्रकर्षेण प्रापय । “नः अस्मान् “वाजवत्या प्रभूतान्नयुक्तया “सुमत्या अनुष्ठानविषयया शोभनबुद्ध्या “सं “सृज संयोजय ॥ ववृधस्व ।' वृधु वृद्धौ'। लेटि अडागमः । ‘बहुलं छन्दसि ' इति शपः श्लुः । द्विर्भावहलादिशेषोरदत्वानि । अभ्यासस्य संहितायां दीर्घश्छान्दसः । शक्ती । ‘सुपां सुलुक् ' इति तृतीयायाः पूर्वसवर्णदीर्घत्वम् । क्तिनो नित्त्वादाद्युदात्तत्वम् । विदा । ‘सावेकाचः' इति तृतीयाया उदात्तत्वम् । नेषि । ‘णीञ् प्रापणे '। ‘बहुलं छन्दसि ' इति शपो लुक् । ‘उपसर्गदसमासे इति णत्वम् । सुमत्या ।' मन्क्तिन् ' इत्यादिनोत्तरपदान्तोदात्तत्वं प्रथमाध्याये प्रपञ्चितम् ( ऋ. सं. १. ७. ७ )। उदात्तयणो हल्पूर्वात् ' इति विभक्तेरुदात्तत्वम् ॥ ॥ ३५ ॥


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.३१&oldid=182547" इत्यस्माद् पुनः प्राप्तिः