ऋग्वेदः सूक्तं १.१२७

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १.१२७ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १.१२६ ऋग्वेदः - मण्डल १
सूक्तं १.१२७
परुच्छेपो दैवोदासिः
सूक्तं १.१२८ →
दे. अग्निः। अत्यष्टिः, ६ अतिधृतिः।


अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् ।
य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा ।
घृतस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः ॥१॥
यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्र मन्मभिः ।
परिज्मानमिव द्यां होतारं चर्षणीनाम् ।
शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः ॥२॥
स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहंतरः परशुर्न द्रुहंतरः ।
वीळु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरम् ।
निःषहमाणो यमते नायते धन्वासहा नायते ॥३॥
दृळ्हा चिदस्मा अनु दुर्यथा विदे तेजिष्ठाभिररणिभिर्दाष्ट्यवसेऽग्नये दाष्ट्यवसे ।
प्र यः पुरूणि गाहते तक्षद्वनेव शोचिषा ।
स्थिरा चिदन्ना नि रिणात्योजसा नि स्थिराणि चिदोजसा ॥४॥
तमस्य पृक्षमुपरासु धीमहि नक्तं यः सुदर्शतरो दिवातरादप्रायुषे दिवातरात् ।
आदस्यायुर्ग्रभणवद्वीळु शर्म न सूनवे ।
भक्तमभक्तमवो व्यन्तो अजरा अग्नयो व्यन्तो अजराः ॥५॥
स हि शर्धो न मारुतं तुविष्वणिरप्नस्वतीषूर्वरास्विष्टनिरार्तनास्विष्टनिः ।
आदद्धव्यान्याददिर्यज्ञस्य केतुरर्हणा ।
अध स्मास्य हर्षतो हृषीवतो विश्वे जुषन्त पन्थां नरः शुभे न पन्थाम् ॥६॥
द्विता यदीं कीस्तासो अभिद्यवो नमस्यन्त उपवोचन्त भृगवो मथ्नन्तो दाशा भृगवः ।
अग्निरीशे वसूनां शुचिर्यो धर्णिरेषाम् ।
प्रियाँ अपिधीँर्वनिषीष्ट मेधिर आ वनिषीष्ट मेधिरः ॥७॥
विश्वासां त्वा विशां पतिं हवामहे सर्वासां समानं दम्पतिं भुजे सत्यगिर्वाहसं भुजे ।
अतिथिं मानुषाणां पितुर्न यस्यासया ।
अमी च विश्वे अमृतास आ वयो हव्या देवेष्वा वयः ॥८॥
त्वमग्ने सहसा सहन्तमः शुष्मिन्तमो जायसे देवतातये रयिर्न देवतातये ।
शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः ।
अध स्मा ते परि चरन्त्यजर श्रुष्टीवानो नाजर ॥९॥
प्र वो महे सहसा सहस्वत उषर्बुधे पशुषे नाग्नये स्तोमो बभूत्वग्नये ।
प्रति यदीं हविष्मान्विश्वासु क्षासु जोगुवे ।
अग्रे रेभो न जरत ऋषूणां जूर्णिर्होत ऋषूणाम् ॥१०॥
स नो नेदिष्ठं ददृशान आ भराग्ने देवेभिः सचनाः सुचेतुना महो रायः सुचेतुना ।
महि शविष्ठ नस्कृधि संचक्षे भुजे अस्यै ।
महि स्तोतृभ्यो मघवन्सुवीर्यं मथीरुग्रो न शवसा ॥११॥


सायणभाष्यम्

एकोनविंशेऽनुवाके सप्त सूतानि । तत्र ‘ अग्निं होतारम् ' इति प्रथमं सूक्तमेकादशर्चं दिवोदासपुत्रस्य परुच्छेपस्यार्षमाग्नेयमात्यष्टम् । स हि शर्धः' (ऋ. सं. १. १२७. ६) इत्यस्याः षट्सप्तत्यक्षरा अतिधृतिः । उत्कृत्यभिकृतिसंकृतिविकृत्याकृतिप्रकृतिकृत्यतिधृतिधृत्यत्यष्ट्यष्टिषु चतुरुत्तरशताक्षरमारभ्य चतुर्णां परित्यागे एकैकमुक्तं छन्दो जायते । तथा सति अत्यष्ट्यतिधृती उक्तसंख्योपेते स्थाताम् । एतत्सर्वं छन्दोग्रन्थे ' चतुःशतमुत्कृतिः' ( पि. ४. १ ) इत्यादिसूत्रैः प्रतिपादितम् । तथा चानुक्रान्तम्- अग्निमेकादश परुच्छेपो दैवोदासिराग्नेयं तु पारुच्छेपं सर्वमात्यष्टं तत्रातिधृतिः षष्ठी ' इति । सूक्तस्य विशेषविनियोगो लैङ्गिकः । दशरात्रस्य षष्ठेऽहनि प्रातःसवने प्रस्थितयाज्यानां पुरस्तादन्या ऋचः कृत्वा प्राकृतीभिश्च सह यष्टव्यम् । तत्राग्नीध्रस्यैषा प्रथमा । ‘ षष्ठस्य प्रातः सवने ' इति खण्डे सूत्रितम्- अग्निं होतारं मन्ये दास्वन्तं दध्यङ् ह मे जनुषं पूर्वो अङ्गिराः ' ( आश्व. श्रौ. ८. १ ) इति ।।


अ॒ग्निं होता॑रं मन्ये॒ दास्वं॑तं॒ वसुं॑ सू॒नुं सह॑सो जा॒तवे॑दसं॒ विप्रं॒ न जा॒तवे॑दसं ।

य ऊ॒र्ध्वया॑ स्वध्व॒रो दे॒वो दे॒वाच्या॑ कृ॒पा ।

घृ॒तस्य॒ विभ्रा॑ष्टि॒मनु॑ वष्टि शो॒चिषा॒जुह्वा॑नस्य स॒र्पिषः॑ ॥१

अ॒ग्निम् । होता॑रम् । म॒न्ये॒ । दास्व॑न्तम् । वसु॑म् । सू॒नुम् । सह॑सः । जा॒तऽवे॑दसम् । विप्र॑म् । न । जा॒तऽवे॑दसम् ।

यः । ऊ॒र्ध्वया॑ । सु॒ऽअ॒ध्व॒रः । दे॒वः । दे॒वाच्या॑ । कृ॒पा ।

घृ॒तस्य॑ । विऽभ्रा॑ष्टिम् । अनु॑ । व॒ष्टि॒ । शो॒चिषा॑ । आ॒ऽजुह्वा॑नस्य । स॒र्पिषः॑ ॥१

अग्निम् । होतारम् । मन्ये । दास्वन्तम् । वसुम् । सूनुम् । सहसः । जातऽवेदसम् । विप्रम् । न । जातऽवेदसम् ।

यः । ऊर्ध्वया । सुऽअध्वरः । देवः । देवाच्या । कृपा ।

घृतस्य । विऽभ्राष्टिम् । अनु । वष्टि । शोचिषा । आऽजुह्वानस्य । सर्पिषः ॥१

“अग्निं सर्वासां देवसेनानामग्रण्यं यज्ञेष्वग्रं नीयमानं वा “होतारम् अस्मद्यागं प्रति देवानामाह्वातारम् यद्वा । होमनिष्पादकं होतारम् । ‘ जुहोतेर्होतेत्यौर्णवाभः ' ( निरु. ७. १५) इति यास्कः । ‘ अग्निमद्य होतारमवृणीत ' ( तै. ब्रा. २. ६. १५. १ ) इति श्रुतेः । अग्निमग्न आवह ' ( तै. ब्रा ३. ५. ३. २) इति च अग्नेराह्वातृत्वं प्रसिद्धम् । अग्निं होतारं मन्ये । एवं प्रति विशेषणं मन्ये इति संबन्धः । यद्वा । यागनिष्पत्तेरेवापेक्षितत्वात् एतदेव विधेयविशेषणम् । इतराणि वक्ष्यमाणविशेषणानि स्तुतिपराणि । “दास्वन्तम् अतिशयेन दानवन्तं "वसुं सर्वेषां निवासहेतुं “सहसः “सूनुं बलस्य पुत्रम् । अग्निर्मन्थनकाले बलेन मथ्यमानः उत्पद्यते इति पुत्रत्वमुपचर्यते “जातवेदसं जातानां वेदितारं जातप्रज्ञं जातबलं वा । जातवेदःशब्दो यास्केन बहुधा निरुक्तः ( निरु. ७. १९ ) । अग्नेर्जातवेदस्त्वे दृष्टान्तः । “विप्रं “न “जातवेदसं जातविद्यं मेधाविनं ब्राह्मणमिव । तं यथा बहु मन्यन्ते तथा त्वामपि मन्ये स्तौमीत्यर्थः । उक्तगुणविशिष्टः “यः “देवः “स्वध्वरः शोभनयज्ञवान् यज्ञं सम्यक् निर्वहन “ऊर्ध्वया उन्नतया उत्कृष्टया “देवाच्या देवान् पूजयन्त्या देवान् प्रत्यक्तया वा “कृपा कृपया सामर्थ्यलक्षणया । ‘ देवान्प्रत्यक्तया कृपा ' ( निरु. ६. ८ ) इति यास्कः । तेभ्यो हविर्वहनबुद्ध्या युक्तः सन् आजुह्वानस्य आ समन्तात् हूयमानस्य “सर्पिषः सरणशीलस्य “घृतस्य विलापनेन दीप्तत्याज्यस्य “विभ्राष्टिं विशेषेण भ्राजमानम् “अनु स्वयमपि तदाज्यं “शोचिषा ज्वालया “वष्टि कामयते स्वीकरोतीत्यर्थः ।।


यजि॑ष्ठं त्वा॒ यज॑माना हुवेम॒ ज्येष्ठ॒मंगि॑रसां विप्र॒ मन्म॑भि॒र्विप्रे॑भिः शुक्र॒ मन्म॑भिः ।

परि॑ज्मानमिव॒ द्यां होता॑रं चर्षणी॒नां ।

शो॒चिष्के॑शं॒ वृष॑णं॒ यमि॒मा विशः॒ प्रावं॑तु जू॒तये॒ विशः॑ ॥२

यजि॑ष्ठम् । त्वा॒ । यज॑मानाः । हु॒वे॒म॒ । ज्येष्ठ॑म् । अङ्गि॑रसाम् । वि॒प्र॒ । मन्म॑ऽभिः । विप्रे॑भिः । शु॒क्र॒ । मन्म॑ऽभिः ।

परि॑ज्मानम्ऽइव । द्याम् । होता॑रम् । च॒र्ष॒णी॒नाम् ।

शो॒चिःऽके॑शम् । वृष॑णम् । यम् । इ॒माः । विशः॑ । प्र । अ॒व॒न्तु॒ । जू॒तये॑ । विशः॑ ॥२

यजिष्ठम् । त्वा । यजमानाः । हुवेम । ज्येष्ठम् । अङ्गिरसाम् । विप्र । मन्मऽभिः । विप्रेभिः । शुक्र । मन्मऽभिः ।

परिज्मानम्ऽइव । द्याम् । होतारम् । चर्षणीनाम् ।

शोचिःऽकेशम् । वृषणम् । यम् । इमाः । विशः । प्र । अवन्तु । जूतये । विशः ॥२

हे “विप्र मेधाविन् “शुक्र दीप्तज्वालाग्ने “यजिष्ठम् अतिशयेन यष्टृतमं “त्वा त्वां “यजमानाः वयं यष्टारः "हुवेम आह्वयामः । यतो वयं यजमाना यतश्च त्वं यजिष्ठः अतो हुवेमेत्यभिप्रायः । कीदृशं त्वाम् । “अङ्गिरसाम् अङ्गिरोगोत्रोत्पन्नानां मध्ये “ज्येष्ठम् । यद्वा । अङ्गारणां मध्ये ज्येष्ठं ज्वालायुक्तत्वात् । अङ्गिरा अङ्गाराः ' (निरु. ३. १७) इति यास्कः। ‘ येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन्' ( ऐ. ब्रा, ३. ३४ ) इति श्रुतेः । केन साधनेनेति तदुच्यते । “मन्मभिः मननसाधनैः “विप्रेभिः विशेषेण प्रीणयितृभिः “मन्मभिः मन्त्रैः । यद्वा । विप्रेभिर्मेधाविभिर्ऋत्विग्भिः मन्मभिर्मन्त्रैश्च सहिता वयमिति संबन्धः । त्वदाह्वानानन्तरं “परिज्मानं परितो गच्छन्तं “द्याम् इव सूर्यमिव “होतारं देवानामाह्वातारम् । केषामर्थे । “चर्षणीनाम् । मनुष्यनामैतत् । मनुष्याणां यजमानानामर्थे । यद्वा । चर्षणीनां पूर्वं मनुष्याणामेव सतां पश्चात् यागादिसाधनेन देवत्वमापन्नानां देवानाम् आह्वातारम् । तथा “शोचिष्केशं केशवत् अत्यन्तायतज्वालोपेतं “वृषणं वर्षितारम् एवं रूपं “यं त्वां “विशः त्वामेव निविशमानाः “इमा: “विशः यजमानरूपाः प्रजाः “जूतये स्वर्गाद्यभिमतफलप्राप्तये “प्रावन्तु प्रकर्षेण प्रीणयन्तु । तादृशं त्वां हुवेमेति संबन्धः ।।


स हि पु॒रू चि॒दोज॑सा वि॒रुक्म॑ता॒ दीद्या॑नो॒ भव॑ति द्रुहंत॒रः प॑र॒शुर्न द्रु॑हंत॒रः ।

वी॒ळु चि॒द्यस्य॒ समृ॑तौ॒ श्रुव॒द्वने॑व॒ यत्स्थि॒रं ।

निः॒षह॑माणो यमते॒ नाय॑ते धन्वा॒सहा॒ नाय॑ते ॥३

सः । हि । पु॒रु । चि॒त् । ओज॑सा । वि॒रुक्म॑ता । दीद्या॑नः । भव॑ति । द्रु॒ह॒म्ऽत॒रः । प॒र॒शुः । न । द्रु॒ह॒म्ऽत॒रः ।

वी॒ळु । चि॒त् । यस्य॑ । सम्ऽऋ॑तौ । श्रुव॑त् । वना॑ऽइव । यत् । स्थि॒रम् ।

निः॒ऽसह॑मानः । य॒म॒ते॒ । न । अ॒य॒ते॒ । ध॒न्व॒ऽसहा॑ । न । अ॒य॒ते॒ ॥३

सः । हि । पुरु । चित् । ओजसा । विरुक्मता । दीद्यानः । भवति । द्रुहम्ऽतरः । परशुः । न । द्रुहम्ऽतरः ।

वीळु । चित् । यस्य । सम्ऽऋतौ । श्रुवत् । वनाऽइव । यत् । स्थिरम् ।

निःऽसहमानः । यमते । न । अयते । धन्वऽसहा । न । अयते ॥३

“स “हि स एव पूर्वं स्तुतः एवाग्निः “विरुक्मता विशेषेण रोचनवता “ओजसा ज्वालारूपेण बलेन “पुरु “चित् अत्यधिकमेव "दीद्यानः दीप्यमानः “द्रुहंतरः द्रोग्धॄणां तरिता निवारयिता “भवति अस्मासु द्रोहं कुर्वतां शत्रूणां हिंसको भवतीत्यर्थः । तत्र दृष्टान्तः । “द्रुहंतरः द्रोग्धॄणां छेदनाय प्रयुक्तः “परशुर्न परशुरिव । स यथा अमोघं हिनस्ति तथायमपि। किंच “यस्य अग्नेः “समृतौ संगतौ संयोगे “वीळु “चित् दृढमपि पाषाणादिकं “श्रुवत् गच्छेत् शीर्येत । तथा “यत्स्थिरं यच्च पर्वतादि स्थिरमचलितं तदपि श्रुवत् । वीड्विति दृढनाम, ‘वीळु च्यौत्नम् ( नि. २. ९. १४ ) इति तन्नामसु पाठात् । तत्र दृष्टान्तः । “वनेव उदकमिव । उदकं यथाग्निसंयोगे शुष्यति तथेत्यर्थः । अत्यन्तदृढं स्थिरमपि हिनस्ति अस्मद्द्रोग्धारं शत्रुं हिनस्तीति किमु वक्तव्यमित्यभिप्रायः । किंच अयमग्निः “निष्षहमाणः शत्रून् निःशेषणाभिभवन् “यमते उपरमते शत्रुषु मध्ये क्रीडति तानेव नाशयति । तथा कुर्वन् “नायते न गच्छति शत्रोः सकाशान्न पलायते । तत्र दृष्टान्तः । “धन्वसहा “न । धनुषा शत्रूनभिभवति इति धन्वसहा धानुष्कः ॥ सहतेरसुन् छन्दसोऽन्त्यलोपः ॥ स यथा शत्रोरभिमुखं विध्यति न पलायते तद्वदित्यर्थः । यद्वा । दृढधनुर्वहनक्षमः धन्वसहः ॥ अस्मिन् पक्षे पचाद्यच् । ‘ सुपां सुलुक्' इत्याकारः ॥ दृढधन्वा सन् न “अयते न चलति ।।


दृ॒ळ्हा चि॑दस्मा॒ अनु॑ दु॒र्यथा॑ वि॒दे तेजि॑ष्ठाभिर॒रणि॑भिर्दा॒ष्ट्यव॑से॒ऽग्नये॑ दा॒ष्ट्यव॑से ।

प्र यः पु॒रूणि॒ गाह॑ते॒ तक्ष॒द्वने॑व शो॒चिषा॑ ।

स्थि॒रा चि॒दन्ना॒ नि रि॑णा॒त्योज॑सा॒ नि स्थि॒राणि॑ चि॒दोज॑सा ॥४

दृ॒ळ्हा । चि॒त् । अ॒स्मै॒ । अनु॑ । दुः॒ । यथा॑ । वि॒दे । तेजि॑ष्ठाभिः । अ॒रणि॑ऽभिः । दा॒ष्टि॒ । अव॑से । अ॒ग्नये॑ । दा॒ष्टि॒ । अव॑से ।

प्र । यः । पु॒रूणि॑ । गाह॑ते । तक्ष॑त् । वना॑ऽइव । शो॒चिषा॑ ।

स्थि॒रा । चि॒त् । अन्ना॑ । नि । रि॒णा॒ति॒ । ओज॑सा । नि । स्थि॒राणि॑ । चि॒त् । ओज॑सा ॥४

दृळ्हा । चित् । अस्मै । अनु । दुः । यथा । विदे । तेजिष्ठाभिः । अरणिऽभिः । दाष्टि । अवसे । अग्नये । दाष्टि । अवसे ।

प्र । यः । पुरूणि । गाहते । तक्षत् । वनाऽइव । शोचिषा ।

स्थिरा । चित् । अन्ना । नि । रिणाति । ओजसा । नि । स्थिराणि । चित् । ओजसा ॥४

“अस्मै अग्नये “दृळ्हा “चित् दृळ्हान्येव सारवन्ति हवींषि अनुक्रमेण प्रतिमन्त्रं “दुः ददति ॥ ददातेर्लुङि “ गातिस्था' इति सिचो लुक् । आतः' इति झेर्जुस् ।। यजमाना ददति । दाने दृष्टान्तः ॥ “यथा “विदे विदुषे परमार्थदर्शिने उत्कृष्टानि धनानि वितरन्ति दानशीलाः । यद्वा । अयमग्निर्यथा विदे विन्दते स्वातिरिक्तं हविः देवेभ्यो दातुं लभते स्वीकरोति तथा दुः इति ।। विन्दतेश्छान्दसः शपो लुक् ।। ‘ लोपस्त आत्मनेपदेषु' इति तलोपः ।। किंच सोऽग्निः “तेजिष्टाभिः “अरणिभिः अत्यन्ततेजोयुक्तैर्मार्गैर्यज्ञादिरूपैः “दाष्टि पूजितः सन् स्वर्गादिकं ददाति ।। ' दाशृ दाने '। शपो लुक् । किमर्थम् । “अवसे तद्रक्षणाय । यद्वा । तेजिष्ठाभिः अतिशयेन तेजोवद्भिः अरणिभिर्गमनैः इतरदेवानुद्दिश्य यजमानेन दत्तं हविः अवसे तेषां स्वीकाराय दाष्टि। अयमग्निर्ददाति नयति । किंच “अग्नये इतरदेवताप्रदानसमयेऽपि यजमानः अग्नये अग्निप्रीतये “दाष्टि प्रथमं ददाति । किमर्थम् । “अवसे रक्षणार्थम् । यदि अयमतृप्तः स्यात् इतरेभ्यो दत्तमपि स्वयं स्वीकुर्यात् तस्मादग्नये प्रयाजादिरूपेण ददातीत्यर्थः । किंच “यः अग्निः “पुरूणि बहूनि सामर्थ्यात् यजमानधनादीनि “प्र “गाहते प्रविशति प्रविश्य च वाश्यादिरूपया ज्वालया “तक्षत् तनूकरोति नाशयतीत्यर्थः । तत्र दृष्टान्तः। “वनेव । वृक्षादिसमूहानि वनानि यथा प्रविश्य तक्षति दहति तथेत्यर्थः । किंच अयमग्निः “स्थिरा स्थिराणि कठिनानि “अन्ना अन्नानि व्रीह्यादीनि “ओजसा तेजोरूपया ज्वालया “नि नितरां “रिणाति गच्छति पचतीत्यर्थः ॥ ‘ री गतिरेषणयोः' । क्रैयादिकः । ‘प्वादीनां ह्रस्वः' इति हस्वः । तथा “ओजसा स्वकीयेन तेजसा “स्थिराणि अपरिहरणीयानि पापानि अमित्राणि वा “नि रिणाति निःशेषेण गच्छति नाशयतीत्यर्थः ।।


तम॑स्य पृ॒क्षमुप॑रासु धीमहि॒ नक्तं॒ यः सु॒दर्श॑तरो॒ दिवा॑तरा॒दप्रा॑युषे॒ दिवा॑तरात् ।

आद॒स्यायु॒र्ग्रभ॑णवद्वी॒ळु शर्म॒ न सू॒नवे॑ ।

भ॒क्तमभ॑क्त॒मवो॒ व्यंतो॑ अ॒जरा॑ अ॒ग्नयो॒ व्यंतो॑ अ॒जराः॑ ॥५

तम् । अ॒स्य॒ । पृ॒क्षम् । उप॑रासु । धी॒म॒हि॒ । नक्त॑म् । यः । सु॒दर्श॑ऽतरः । दिवा॑ऽतरात् । अप्र॑ऽआयुषे । दिवा॑ऽतरात् ।

आत् । अ॒स्य॒ । आयुः॑ । ग्रभ॑णऽवत् । वी॒ळु । शर्म॑ । न । सू॒नवे॑ ।

भ॒क्तम् । अभ॑क्तम् । अवः॑ । व्यन्तः॑ । अ॒जराः॑ । अ॒ग्नयः॑ । व्यन्तः॑ । अ॒जराः॑ ॥५

तम् । अस्य । पृक्षम् । उपरासु । धीमहि । नक्तम् । यः । सुदर्शऽतरः । दिवाऽतरात् । अप्रऽआयुषे । दिवाऽतरात् ।

आत् । अस्य । आयुः । ग्रभणऽवत् । वीळु । शर्म । न । सूनवे ।

भक्तम् । अभक्तम् । अवः । व्यन्तः । अजराः । अग्नयः । व्यन्तः । अजराः ॥५

“अस्य अस्मै “पृक्षं हविर्लक्षणमन्नम् “उपरासु उपरमन्ते अस्मिन् हवींषीत्युपराः वेदिसमीपभूमयः । तासु “धीमहि धारयामः । अस्येत्युक्तं कस्येत्याह । “यः अग्निः “नक्तं रात्रौ “दिवातरात् अह्रोऽपि “सुदर्शतरः अत्यर्थं सर्वैर्दर्शनीयो भवति । यतोऽयं रात्रौ सर्वेषु भावेषु तमसावृतत्वात् अदृश्यमानेष्वपि स्वयमत्यर्थं प्रकाशते अतोऽस्मै धीमहि । पुनः कीदृशाय । “दिवातरात् अह्नः सकाशादेव “अप्रायुषे । प्रगतमायुर्यस्यासौ प्रायुः । न प्रायुरप्रायुः । तस्मै । ' असौ योऽस्तमेति स सर्वेषां भूतानां प्राणानादायस्तमेति' (तै. आ. १. १४) इति श्रुतेः रात्रौ सर्वे भावा निद्रया आवृतत्वात् प्रायुष इव भवन्ति । अयमग्निस्तु सर्वप्राणिप्राणापहर्तुः सूर्यस्य रात्रौ स्वस्मिन्नेव प्रवेशात् प्रकृष्टायुर्भवति । अतोऽपि धीमहि । किंच “आत् अत एव कारणात् यतोऽयं सुदर्शतरो यतश्चायमप्रायुः अतः कारणात् “अस्य अस्मै तदर्थम् “आयुः हविर्लक्षणमन्नम् "ग्रभणवत् ग्रहणयुक्तम् अभूत् । ग्रहणे दृष्टान्तः । “सूनवे पुत्राय पित्रोः “वीळु “शर्म दृढं सुखसाधनं गृहं यथा ग्रहणवद्भवति तथेत्यर्थः । शर्मेति गृहनाम ‘ शर्म वर्म' (नि. ३. ४. २१ ) इति तन्नामसु पाठात् । इदानीमाहवनीयादिरूपेण अग्नेर्बहुत्वमपेक्ष्याह । एते “अग्नयः “भक्तं सेवमानम् “अभक्तम् असेवमानं च “व्यन्तः एते प्राणिनः अनुग्राह्याः इति बुध्यमानाः “अवः रक्षन्ति । यद्यपि विशेषेण प्राणिनो दाहपाकादिद्वारा रक्षन्ति तथाप्यस्ति यजमानेष्वतिशय इत्याह । “व्यन्तः तैः प्रत्तं हविरश्नन्तः “अजराः भवन्ति । स्वयं हविषा अजराः सन्तो यजमानानप्यजरान् कुर्वन्तीत्यर्थः ॥ ॥ १२ ॥


स हि शर्धो॒ न मारु॑तं तुवि॒ष्वणि॒रप्न॑स्वतीषू॒र्वरा॑स्वि॒ष्टनि॒रार्त॑नास्वि॒ष्टनिः॑ ।

आद॑द्ध॒व्यान्या॑द॒दिर्य॒ज्ञस्य॑ के॒तुर॒र्हणा॑ ।

अध॑ स्मास्य॒ हर्ष॑तो॒ हृषी॑वतो॒ विश्वे॑ जुषंत॒ पंथां॒ नरः॑ शु॒भे न पंथां॑ ॥६

सः । हि । शर्धः॑ । न । मारु॑तम् । तु॒वि॒ऽस्वनिः॑ । अप्न॑स्वतीषु । उ॒र्वरा॑सु । इ॒ष्टनिः॑ । आर्त॑नासु । इ॒ष्टनिः॑ ।

आद॑त् । ह॒व्यानि॑ । आ॒ऽद॒दिः । य॒ज्ञस्य॑ । के॒तुः । अ॒र्हणा॑ ।

अध॑ । स्म॒ । अ॒स्य॒ । हर्ष॑तः । हृषी॑वतः । विश्वे॑ । जु॒ष॒न्त॒ । पन्था॑म् । नरः॑ । शु॒भे । न । पन्था॑म् ॥६

सः । हि । शर्धः । न । मारुतम् । तुविऽस्वनिः । अप्नस्वतीषु । उर्वरासु । इष्टनिः । आर्तनासु । इष्टनिः ।

आदत् । हव्यानि । आऽददिः । यज्ञस्य । केतुः । अर्हणा ।

अध । स्म । अस्य । हर्षतः । हृषीवतः । विश्वे । जुषन्त । पन्थाम् । नरः । शुभे । न । पन्थाम् ॥६

“स “हि स एव स्तुत्यतया प्रसिद्ध एवाग्निः “तुविष्वणिः । तुवि इति बहुनाम ‘ उरु तुवि । ( नि. ३. १. २ ) इति तन्नामसु पाठात् । बहुस्वनिः प्रभूतध्वनियुक्तो वर्तते । अत्यन्तज्वलितेऽग्नौ वायुसंपर्कात् भुगिभुगिति ध्वनिरुत्पद्यते ज्वलतीत्यर्थः । ध्वनने दृष्टान्तः । “मारुतं “शर्धो “न मरुत्संबन्धि बलमिव । मरुतां समूहो यथा ध्वनयति तथेत्यर्थः । कुत्रेति तदुच्यते । “अप्नस्वतीषु खननप्रोक्षणादिकर्मोपेतासु । अप्न इति कर्मनाम, ‘ अप्नः दंसः' ( नि, २. १. २) इति तन्नामसु पाठात् । “उर्वरासु उरुवरणयुक्तासु श्रेष्ठासु वेदिभूमिषु । कीदृशोऽयम् । “इष्टनिः यष्टव्यः ॥ औणादिकोऽनिक् तुडागमश्च ॥ किंच आर्तनासु । आर्तान् करोत्यार्तयति । आर्तयन्तीत्यार्तनाः पृतनाः । तासु ॥ ‘ ण्यासश्रन्थो युच् ' ( पा. सू. ३. ३. १०७ ) । वृषादित्वादाद्युदात्तत्वम् ॥ तासां जयाय “इष्टनिः एष्टव्यो यष्टव्यो वा । किंच एवं स्वनयन्नग्निः “हव्यानि आज्यपुरोडाशादीनि “आदत् अत्ति भक्षयति ।। छान्दसो लुङ् । यद्वा । आङ्पूर्वाद्ददातेः ‘ आङो यमहनः ' ( पा. सू. १. ३. २८ ) इति व्यत्ययेनात्मनेपदाभावः । गातिस्था' इति सिचो लुक् । छान्दसो ह्रस्वः । केवलादेव वा ‘ छन्दस्यपि दृश्यते ' इति अनजादेरपि आडागमः । अत एवानवग्रहः स एव शिष्यते ॥ “आददिः सर्वत्र हविरादानशीलः तथा “यज्ञस्य “केतुः प्रज्ञापकः केतुस्थानीयो वा "अर्हणा पूजनीयः ॥ ‘ सुपां सुलुक्' ' इति सोः आकारः । प्रत्ययाद्युदात्तत्वं छान्दसम् । किंच “हर्षतः हविर्भक्षणादत्यन्तहर्षयुक्तस्य । यद्वा । अभिमतफलदानेन यजमानान् हर्षयतः “हृषीवतः आज्यस्वीकारेण हर्षयुक्तस्याग्नेः “पन्थां पन्थानं मार्गं “विश्वे सर्वे मनुष्याः “जुषन्त अप्रीणयन् असेवन्त वा । किमर्थम् । “शुभे शुभाय शोभनाय सुखप्राप्तये । पन्थानं सर्वैर्गन्तव्यम् ऐहिकामुष्मिकफलस्य अग्नेरेव मार्गं सर्वेऽनुगच्छन्ति । अग्निमेव प्रीणयित्वा साधयन्ति । मार्गश्रयणे दृष्टान्तः । यथा लोके “नरः मनुष्या: शुभे शोभनाय सुखप्राप्तये पन्थानं सर्वैर्गन्तव्यं निर्भयं प्रौढमार्गमिव ।।


द्वि॒ता यदीं॑ की॒स्तासो॑ अ॒भिद्य॑वो नम॒स्यंत॑ उप॒वोचं॑त॒ भृग॑वो म॒थ्नंतो॑ दा॒शा भृग॑वः ।

अ॒ग्निरी॑शे॒ वसू॑नां॒ शुचि॒र्यो ध॒र्णिरे॑षां ।

प्रि॒याँ अ॑पि॒धीँर्व॑निषीष्ट॒ मेधि॑र॒ आ व॑निषीष्ट॒ मेधि॑रः ॥७

द्वि॒ता । यत् । ई॒म् । की॒स्तासः॑ । अ॒भिऽद्य॑वः । न॒म॒स्यन्तः॑ । उ॒प॒ऽवोच॑न्त । भृग॑वः । म॒थ्नन्तः॑ । दा॒शा । भृग॑वः ।

अ॒ग्निः । ई॒शे॒ । वसू॑नाम् । शुचिः॑ । यः । ध॒र्णिः । ए॒षा॒म् ।

प्रि॒यान् । अ॒पि॒ऽधीन् । व॒नि॒षी॒ष्ट॒ । मेधि॑रः । आ । व॒नि॒षी॒ष्ट॒ । मेधि॑रः ॥७

द्विता । यत् । ईम् । कीस्तासः । अभिऽद्यवः । नमस्यन्तः । उपऽवोचन्त । भृगवः । मथ्नन्तः । दाशा । भृगवः ।

अग्निः । ईशे । वसूनाम् । शुचिः । यः । धर्णिः । एषाम् ।

प्रियान् । अपिऽधीन् । वनिषीष्ट । मेधिरः । आ । वनिषीष्ट । मेधिरः ॥७

“यत् यं “द्विता द्वित्वमापन्नं द्विप्रकारं श्रौतस्मार्तभेदेन द्वित्वमापन्नम् । यद्वा । उपलक्षणमेतत्। आहवनीयादिरूपेण नानाविधम् । यद्वा । द्विता द्विविधाय ऐहिकामुष्मिकफलाय उभयाय । विभक्तेः आजादेशः । “ईम् इममग्निं “कीस्तासः कीर्तनं कुर्वन्तः स्तोतारः ।। पचाद्यचि छान्दसं सत्वम्। “अभिद्यवः अभितो द्योतमानाः “नमस्यन्तः नमस्कारोपलक्षितमुपस्थानं कुर्वन्तः “भृगवः भृगुगोत्रोत्पन्ना महर्षयः “उपवोचन्त उपेत्य ब्रुवन्ति । किं कुर्वन्तः । “दाशा दानेन निमित्तभूतेन हविर्दानार्थं “मथ्नन्तः अरण्याम् अग्निमन्थनं कुर्वन्तः तथा “भृगवः भ्रष्टारो हविषां पापानां वा । किं च “यः “अग्निः “शुचिः दीप्तः “धर्णिः धारणकुशलः अयमग्निः “एषां दीयमानानां “वसूनां हविर्लक्षणानाम् “ईशे ईष्टे समर्थों भवति ।। ‘ लोपस्त आत्मनेपदेषु ' इति तलोपः ॥ यद्वा । एषां दृश्यमानानां मणिमुक्तादीनां वसूनाम् ईशे ईष्टे समर्थो भवति प्रदातुमिति शेषः। किंच अयमग्निः “मेधिरः । मेधो यज्ञः । तद्वान् स्वयं यष्टव्यत्वेन प्रधानभूतः सन् “प्रियान् स्वप्रीतिहेतून् आज्यादीन् “अपिधीन् पर्याप्तिपर्यन्तं दत्तान् । “वनिषीष्ट संभक्तवान् संभजतां वा । तथा “मेधिरः मेधावानसौ “आ “वनिषीष्ट । अन्यदेवताकेष्वपि यज्ञेषु स्वयम् आज्यभागप्रयाजादिरूपं हविः संभजते ।।।


विश्वा॑सां त्वा वि॒शां पतिं॑ हवामहे॒ सर्वा॑सां समा॒नं दंप॑तिं भु॒जे स॒त्यगि॑र्वाहसं भु॒जे ।

अति॑थिं॒ मानु॑षाणां पि॒तुर्न यस्या॑स॒या ।

अ॒मी च॒ विश्वे॑ अ॒मृता॑स॒ आ वयो॑ ह॒व्या दे॒वेष्वा वयः॑ ॥८

विश्वा॑साम् । त्वा॒ । वि॒शाम् । पति॑म् । ह॒वा॒म॒हे॒ । सर्वा॑साम् । स॒मा॒नम् । दम्ऽप॑तिम् । भु॒जे । स॒त्यऽगि॑र्वाहसम् । भु॒जे ।

अति॑थिम् । मानु॑षाणाम् । पि॒तुः । न । यस्य॑ । आ॒स॒या ।

अ॒मी इति॑ । च॒ । विश्वे॑ । अ॒मृता॑सः । आ । वयः॑ । ह॒व्या । दे॒वेषु॑ । आ । वयः॑ ॥८

विश्वासाम् । त्वा । विशाम् । पतिम् । हवामहे । सर्वासाम् । समानम् । दम्ऽपतिम् । भुजे । सत्यऽगिर्वाहसम् । भुजे ।

अतिथिम् । मानुषाणाम् । पितुः । न । यस्य । आसया ।

अमी इति । च । विश्वे । अमृतासः । आ । वयः । हव्या । देवेषु । आ । वयः ॥८

“विश्वासां सर्वासां “विशां प्रजानां यजमानानां “पतिम् अभिमतफलदानेन पालकं “हवामहे आह्वयामः । न केवलं यजमानानां किंतु “सर्वासां प्रजानां “समानम् एकरूपं दहनपचनाद्युपकारस्य सर्वेषां समत्वात् । तथा “दम्पतिं गार्हपत्यादिरूपेण गृहस्य पालकम् । दम इति गृहनाम, ‘दमे कृत्तिः । (नि. ३. ४. १२) इति तन्नामसु पाठात् ॥ अकारलोपश्छान्दसः ।। किमर्थम् । “भुजे भोगाय हवामहे आह्वयामः । पुनः स एव विशेष्यते । “सत्यगिर्वाहसं यथार्थभूतानाम् अविसंवादिफलानां स्तुतिरूपाणां गिरां वोढारम् । यद्वा । गिरो मन्त्ररूपा वहन्तीति गिर्वाहसः ऋत्विजः । सत्याः अविसंवादिफला गिर्वाहसो यस्य तं तादृशं हवामहे इति शेषः ।। ‘ वहिहाधाञ्भ्यः' इति असुन् । ‘ णित् ' इत्यनुवृत्तेः उपधावृद्धिः ।। पुनः कीदृशम् । “मानुषाणां मनुष्याणाम् “अतिथिम् अतिथिवत्पूज्यं दर्शादितिथिमपेक्ष्य आगन्तारं वा । किंच “यस्य अग्नेः “आसया समीपे । आसेत्यन्तिकनाम, ‘ आसा अम्बरम् ' ( नि. २. १६. २ ) इति तन्नामसु पाठात् । तत्समीपे “अमी “विश्वे “अमृतासः हविर्भोक्तृत्वेन प्रसिद्धा: सर्वे देवा अपि “आ आगच्छन्ति ॥ उपसर्गवशात् योग्यक्रियाध्याहारः ।। किमर्थम् । “वयः हविर्लक्षणान्नमुद्दिश्य अग्निमुखात् एव इतरेभ्यो दीयमानत्वात् । तत्र दृष्टान्तः । “पितुर्न पितुरन्तिके पुत्रादयो यथा अन्नाद्यर्थं सेवन्ते तद्वत् । किंच “वयः नेतारः ऋत्विजोऽपि “देवेषु इतरेषु इज्यमानेषु मध्ये “हव्या हवींषि “आ ददति अग्नये । वेतेरौणादिको डिः । विचि वा गुणः ।।


त्वम॑ग्ने॒ सह॑सा॒ सहं॑तमः शु॒ष्मिंत॑मो जायसे दे॒वता॑तये र॒यिर्न दे॒वता॑तये ।

शु॒ष्मिंत॑मो॒ हि ते॒ मदो॑ द्यु॒म्निंत॑म उ॒त क्रतुः॑ ।

अध॑ स्मा ते॒ परि॑ चरंत्यजर श्रुष्टी॒वानो॒ नाज॑र ॥९

त्वम् । अ॒ग्ने॒ । सह॑सा । सह॑न्ऽतमः । शु॒ष्मिन्ऽत॑मः । जा॒य॒से॒ । दे॒वऽता॑तये । र॒यिः । न । दे॒वऽता॑तये ।

शु॒ष्मिन्ऽत॑मः । हि । ते॒ । मदः॑ । द्यु॒म्निन्ऽत॑मः । उ॒त । क्रतुः॑ ।

अध॑ । स्म॒ । ते॒ । परि॑ । च॒र॒न्ति॒ । अ॒ज॒र॒ । श्रु॒ष्टी॒वानः॑ । न । अ॒ज॒र॒ ॥९

त्वम् । अग्ने । सहसा । सहन्ऽतमः । शुष्मिन्ऽतमः । जायसे । देवऽतातये । रयिः । न । देवऽतातये ।

शुष्मिन्ऽतमः । हि । ते । मदः । द्युम्निन्ऽतमः । उत । क्रतुः ।

अध । स्म । ते । परि । चरन्ति । अजर । श्रुष्टीवानः । न । अजर ॥९

हे “अग्ने “त्वं “सहसा बलेन “सहन्तमः अतिशयेन शत्रूणामभिभविता तथा “शुष्मिन्तमः अतिशयेन तेजस्वी “जायसे ।। सहेरौणादिकः कनिन् । ‘नाद्धस्य' इति नुट् । किमर्थम् । “देवतातये देवानां विस्तारयुक्ताय यागाय तदर्थम् । यज्ञनामैतत् । यद्वा । उक्तगुणविशिष्टः स जायसे । अरण्योरुत्पद्यसे । यज्ञार्थत्वे दृष्टान्तः । रयिर्न “देवतातये । धनं यथा यज्ञार्थमुत्पद्यते । तथा चोक्तं-- ‘ यज्ञार्थं द्रव्यमुत्पन्नम्' इति । किंच “ते तव “मदः आज्यस्वीकारजनितो हर्षः ! “शुष्मिन्तमः अतिशयेन बलवान् । हिशब्दः प्रसिद्धौ । आज्येन अग्नेर्मदो भवतीति प्रसिद्धम् । अपि च ते “क्रतुः कर्मविशेषोऽपि “द्युम्निन्तमः यशोयुक्तोऽन्नयुक्तो वा खलु । ' द्युम्नं द्योततेर्यशो वान्नं वा ' ( निरु. ५. ५) इति यास्कः । “अध अतः कारणात् “अजर हे जरारहिताग्ने “ते त्वां “परि “चरन्ति यजमानाः । तत्र दृष्टान्तः । “श्रुष्टीवानो “न दूता इव । ते यथा वार्ताविशेषप्रदानेन राजानं सेवन्ते तद्वत् ॥'छन्दसीवनिपौ' इति वनिप् । छान्दसं प्रत्ययाद्युदात्तत्वम् ॥ “अजर भक्तानामजरयितः ॥ अन्तर्भावितण्यर्थात् पचाद्यच् । यद्वा । अजर अस्तोतः । जरा स्तुतिः । असौ न कस्यापि स्तोता भवति किंतु सर्वैः स्वयं स्तूयते । तादृशं त्वां परिचरन्तीत्यर्थः ॥


प्र वो॑ म॒हे सह॑सा॒ सह॑स्वत उष॒र्बुधे॑ पशु॒षे नाग्नये॒ स्तोमो॑ बभूत्व॒ग्नये॑ ।

प्रति॒ यदीं॑ ह॒विष्मा॒न्विश्वा॑सु॒ क्षासु॒ जोगु॑वे ।

अग्रे॑ रे॒भो न ज॑रत ऋषू॒णां जूर्णि॒र्होत॑ ऋषू॒णां ॥१०

प्र । वः॒ । म॒हे । सह॑सा । सह॑स्वते । उ॒षः॒ऽबुधे॑ । प॒शु॒ऽसे । न । अ॒ग्नये॑ । स्तोमः॑ । ब॒भू॒तु॒ । अ॒ग्नये॑ ।

प्रति॑ । यत् । ई॒म् । ह॒विष्मा॑न् । विश्वा॑सु । क्षासु॑ । जोगु॑वे ।

अग्रे॑ । रे॒भः । न । ज॒र॒ते॒ । ऋ॒षू॒णाम् । जूर्णिः॑ । होता॑ । ऋ॒षू॒णाम् ॥१०

प्र । वः । महे । सहसा । सहस्वते । उषःऽबुधे । पशुऽसे । न । अग्नये । स्तोमः । बभूतु । अग्नये ।

प्रति । यत् । ईम् । हविष्मान् । विश्वासु । क्षासु । जोगुवे ।

अग्रे । रेभः । न । जरते । ऋषूणाम् । जूर्णिः । होता । ऋषूणाम् ॥१०

हे उद्गात्रादयः स्तोतारः “वः युष्माकं संबन्धि “स्तोमः स्तोत्रम् “अग्नये “प्र “बभूतु प्रीणयितुं समर्थं भवतु ॥ छान्दसः शपः श्लुः । अत्वं चाभ्यासस्य । ‘ भूसुवोस्तिङि' इति गुणाभावः ॥ कीदृशायाग्नये । “महे महते पूज्याय “सहसा पराभिभवसामर्थ्येन तद्वते “उषर्बुधे उषःकाले प्रबुध्यमानाय ॥ ‘ अहरादीनां पत्यादिषूपसंख्यानम् ' इति रत्वम् । “पशुषे पशुफलप्रदाय । नशब्दोऽत्र अपिशब्दार्थः । यद्वा । पशुषे पशुप्रदात्रे प्रभवे यथा स्तुतिः क्रियते तद्वत् । किमर्थमिति तदुच्यते । “ईम् एनमग्निं “प्रति लक्षीकृत्य “हविष्मान् घृतादिहविर्युक्तः यजमानः “विश्वासु “क्षासु सर्वासु निवासभूतासु वेदिभूमिषु “जोगुवे अत्यर्थं गच्छति ॥ गुवतेर्यङलुगन्तात् छान्दसो लिट् । व्यत्ययेनात्मनेपदम् । ‘ °अमन्त्रे ' इति पर्युदासात् आमभावः ॥ क्षेति भूनाम, ‘क्षा क्षामा ' ( नि. १. १. ५) इति तन्नामसु पाठात् । “ऋषूणाम् आगन्तॄणां देवानां मध्ये श्रेष्ठमग्निं जूर्णिः स्तुतिकुशलः “होता अग्रे इतरदेवेभ्यः पूर्वं “जरते स्तौति । तत्र दृष्टान्तः । “ऋषूणां महतां धनवताम् “अग्रे "रेभो “न वन्दीव ।। ‘ ऋषी गतौ ' । औणादिकः कुप्रत्ययः । ‘ नामन्यतरस्याम्' इति नाम उदात्तत्वम् यद्वा । ऋषूणाम् इत्येतत् होतृविशेषणम् । ऋषूणां ज्ञानवतां मध्ये श्रेष्ठोऽयं होता इत्यर्थः ।।


स नो॒ नेदि॑ष्ठं॒ ददृ॑शान॒ आ भ॒राग्ने॑ दे॒वेभिः॒ सच॑नाः सुचे॒तुना॑ म॒हो रा॒यः सु॑चे॒तुना॑ ।

महि॑ शविष्ठ नस्कृधि सं॒चक्षे॑ भु॒जे अ॒स्यै ।

महि॑ स्तो॒तृभ्यो॑ मघवन्त्सु॒वीर्यं॒ मथी॑रु॒ग्रो न शव॑सा ॥११

सः । नः॒ । नेदि॑ष्ठम् । ददृ॑शानः । आ । भ॒र॒ । अग्ने॑ । दे॒वेभिः॑ । सऽच॑नाः । सु॒ऽचे॒तुना॑ । म॒हः । रा॒यः । सु॒ऽचे॒तुना॑ ।

महि॑ । श॒वि॒ष्ठ॒ । नः॒ । कृ॒धि॒ । स॒म्ऽचक्षे॑ । भु॒जे । अ॒स्यै ।

महि॑ । स्तो॒तृऽभ्यः॑ । म॒घ॒ऽव॒न् । सु॒ऽवीर्य॑म् । मथीः॑ । उ॒ग्रः । न । शव॑सा ॥११

सः । नः । नेदिष्ठम् । ददृशानः । आ । भर । अग्ने । देवेभिः । सऽचनाः । सुऽचेतुना । महः । रायः । सुऽचेतुना ।

महि । शविष्ठ । नः । कृधि । सम्ऽचक्षे । भुजे । अस्यै ।

महि । स्तोतृऽभ्यः । मघऽवन् । सुऽवीर्यम् । मथीः । उग्रः । न । शवसा ॥११

हे “अग्ने “सः त्वं “नः “नेदिष्ठम् अत्यन्तसमीपे “ददृशानः वेद्यां ददृशानः दीप्तत्वेन दृश्यमानः “देवेभिः “सचना: इतरैर्देवैः समानान्नः । अग्निमुखेनैव इतरेषां हविःस्वीकारात् समानान्नत्वम् । “सुचेतुना शोभनेन चेतनेन चेतसा वा । पुनस्तदेव विशेष्यते । “सुचेतुना शोभनचेतोवता मया ।। औणादिक उः । बहुव्रीहौ नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् ॥ युक्तेन । त्वदायत्ते मयि अनुग्रहयुक्तेनेत्यर्थः । तादृशस्त्वं “महः पूजनीयानि “रायः धनानि “आ “भर अस्माकमाहर । हे अग्ने “शविष्ठ बलवन्नग्ने “नः अस्मभ्यं “महि महदन्नं महतीं कीर्तिं वा “कृधि कुरु संपादय । शविष्ठेति संबोधितत्वात् तदेव प्रार्थ्यते इति गम्यते । किमर्थम् । “संचक्षे सम्यग्दर्शनीयत्वाय “अस्यै अस्याः पृथिव्याः संबन्धिने “भुजे भोगाय । यद्वा । संचक्षे भुजे इति सामानाधिकरण्यम् । सम्यग्दर्शनीयाय भोगायेत्यर्थः । न केवलं यजमानेभ्योऽस्मभ्यमेव अपि तु “स्तोतृभ्यः स्तोत्रकर्तृभ्योऽपि हे मघवन् अन्नवन्नग्ने सुवीर्यं शोभनपुत्रभृत्याद्युपेतं धनं शोभनसामर्थ्यं वा कृधि कुरु । किंच शवसा बलेन युक्तः सन् “मथीः अस्मद्विरोधनो नाशय । लुङि ‘ ह्वयन्तक्षण° ' इति वृद्धिप्रतिषेधः । कारकपक्षे औणादिक ईकारः । आद्युदात्तश्छान्दसः ।। यद्वा । मथीः मथनवांस्त्वम् अस्मदर्थं शवसा बलेन युक्तो भवेति शेषः । तत्र दृष्टान्त । “उग्रो “न “शवसा । यथा कश्चित् क्रूरः शवसा बलेन मथीर्भवति तद्वत् ॥ ॥ १३ ॥

[सम्पाद्यताम्]

टिप्पणी

१.१२७.१ अग्निं होतारं मन्ये

द्र. अवभृथ साम


परुच्छेपोपरि आरंभिकटिप्पणी

दर्पणम्


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१२७&oldid=215436" इत्यस्माद् पुनः प्राप्तिः