स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ०७

विकिस्रोतः तः
← अध्यायः ०६ स्कन्दपुराणम्
अध्यायः ७
वेदव्यासः
अध्यायः ०८ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥ अर्जुन उवाच॥
महीसागरमाहात्म्यमद्भुतं कीर्तितं त्वया॥
विस्मयः परमो मह्यं प्रहर्षश्चोपजायते॥ ७.१ ॥
तदहं विस्तराच्छ्रोतुमिदमिच्छामि नारद॥
कस्य यज्ञे मही ग्लाना वह्नितापाभितापिता॥ ७.२ ॥
॥नारद उवाच॥
महादाख्यानमाख्यास्ये यथा जाता महीनदी॥
श्रृण्वन्नेतां कथां पुण्यां पुण्यमाप्स्यसि पांडव॥ ७.३ ॥
पुराभूद्भूपतिर्भूमाविन्द्रद्युम्न इति श्रुतः॥
वदान्यः सर्वधर्मज्ञो मान्यो मानयिता प्रभुः॥ ७.४ ॥
उचितज्ञो विवेकस्य निवासो गुणसागरः॥
न तदस्ति धरापृष्ठे नगरं ग्रामपत्तनम्॥ ७.५ ॥
तदीयपूर्तधर्मस्य चिह्नेन न यदंकितम्॥
कन्यादानानि बहुधा ब्राह्मेण विधिना व्यधात्॥ ७.६ ॥
भूपालोऽसौ ददौ दानमासहस्राद्धनार्थिनाम्॥
दशमीदिवसे रात्रौ गजपृष्ठेन दुन्दुभिः॥ ७.७ ॥
ताड्यते तत्पुरे प्रातः कार्यमेकादशीव्रतम्॥
यज्वना तेन भूपेन विच्छिन्नं सोमपायिनाम्॥ ७.८ ॥
स्वरणैरास्तृता दर्भैर्द्व्यंगुलोत्सेधिता मही॥
गंगायां सिकता धारा वर्षतो दिवि तारकाः॥ ७.९ ॥
शक्या गणयितुं प्राज्ञैस्तदीयं सुकृतं न तु॥
ईदृशैः सुकृतैरेष तेनैव वपुषा नृपः॥ ७.१० ॥
धाम प्रजापतेः प्राप्तो विमानेन कुरूद्वह॥
बुभुजे स तदा भोगान्दुर्लभानमरैरपि॥ ७.११ ॥
अथ कल्पशतस्यांते व्यतीते तं महीपतिम्॥
प्राह प्रजापतिः सेवावसरायातमात्मनः॥ ७.१२ ॥
॥ब्रह्मोवाच॥
इंद्रद्युम्न द्रुतं गच्छ धरापृष्ठं नृपोत्तम॥
न स्तातव्यं मदीयेद्य लोके क्षणमपि त्वया॥ ७.१३ ॥
॥इंद्रद्युम्न उवाच॥
कस्माद्ब्रह्मन्नितो भूमौ मां प्रेषयसि सम्प्रति॥
सति पुण्ये मदीये तु बहुले वद कारणम्॥ ७.१४ ॥
॥ब्रह्मोवाच॥
न पुण्यं केवलं राजन्गुप्तं स्वर्गस्य साधकम्॥
विना निष्कल्मषां कीर्ति त्रिलोकीतलविस्तृताम्॥ ७.१५ ॥
तव कीर्तिसमुच्छेदः सांप्रतं वसुधातले॥
संजातश्चिरकालेन गत्वा तां कुरु नूतनाम्॥ ७.१६ ॥
यदि वांछा महीपाल मम धामनि संस्थितौ॥ ७.१७ ॥
॥इन्द्रद्युम्न उवाच॥
मदीयं सुकृतं ब्रह्मन्कथं भूमौ भवेदिति॥
किं कर्तव्यं मया नैतन्मम चेतसि तिष्ठति॥ ७.१८ ॥
॥ब्रह्मोवाच॥
बलवानेष भूपाल कालः कलयति स्वयम्॥ ७.१९ ॥
ब्रह्मांडान्यपि मां चैव गणना का भवादृशाम्॥
तदेतदेव मन्येऽहं तव भूपाल सांप्रतम्॥ ७.२० ॥
यत्कीर्तिमात्मनो व्यक्तिं नीत्वाभ्येहि पुनर्दिवम्॥
शुश्रुवानिति वाचं स ब्रह्मणः पृथिवीपतिः॥ ७.२१ ॥
पश्यतिस्म तथात्मानं महीतलमुपागतम्॥
कांपिल्यनगरे भूयः पप्रच्छात्मानमात्मना॥ ७.२२ ॥
नगरं स तदा देशमप्राक्षीदिति विस्मितः॥
॥जना ऊचुः॥
न जानीमो वयं भूपमिंद्रद्युम्नं न तत्पुरम्॥ ७.२३ ॥
यत्त्वं पृच्छसि भो भद्र कञ्चित्पृच्छ चिरायुषम्॥
॥इन्द्रद्युम्न उवाच॥
कः संप्रति धरापृष्ठे चिरायुः प्रथितो जनाः॥ ७.२४ ॥
पृथिवीजयराज्येस्मिन्यत्र प्रबूत मा चिरम्॥
॥जना ऊचुः॥
श्रूयते नैमिषारण्ये सप्तकल्पस्मरो मुनिः॥ ७.२५ ॥
मार्कंडेय इति ख्यातस्तं गत्वा पृच्छ संशयम्॥
तथोपदिष्टस्तैर्गत्वा तत्र तं मुनिपुंगवम्॥ ७.२६ ॥
निशम्य प्रणिपत्याह नृपः स्वहृदयस्थितम्॥
॥इंद्रद्युम्न उवाच॥
चिरायुर्भगवान्भूमौ विश्रुतः सांप्रतं ततः॥ ७.२७ ॥
पृच्छाम्यहं भवान्वेत्ति इंद्रद्युम्नं नृपं न वा॥ ७.२८ ॥
॥श्रीमार्कंडेय उवाच॥
सप्तकल्पान्तरे नाभूत्कोपींद्रद्युम्नसंज्ञितः॥
भूपाल किमहं वच्मि तवान्यत्पृच्छ संशयम्॥ ७.२९ ॥
स निराशस्तदाकर्ण्य वचो भूपोग्निसाधने॥
समुद्योगं तदा चक्रे तं दृष्ट्वाह तदा मुनिः॥ ७.३० ॥
॥मार्कंडेय उवाच॥
मा साहसमिदं कार्षीर्भद्र वाचं श्रृणुष्व मे॥
एति जीवंतमानंदो नरं वर्षशतादपि॥ ७.३१ ॥
तत्करोमि प्रतीकारं तव दुःखोपशांतये॥
श्रृणु भद्र ममास्तीह बको मित्रं चिरंतनः॥ ७.३२ ॥
नाडीजंघ इति ख्यातः स त्वा ज्ञास्यत्यसंशयम्॥
तस्मादेहि द्रुतं यावदावां तत्र व्रजावहे॥ ७.३३ ॥
परोपकारैकफलं जीवितं हि महात्मनाम्॥
यदि ज्ञास्यत्यसंदिग्धमिंद्रद्युम्नं स वक्ष्यति॥ ७.३४ ॥
तौ प्रस्थिताविति तदा विप्रेंद्रनृपपुंगवौ॥
हिमाचलं प्रति प्रीतौ नाडीजंघालयं प्रति॥ ७.३५ ॥
बकोऽथ मित्रं स्वं वीक्ष्य चिरकालादुपागतम्॥
मार्कंडेयं ययौ प्रीत्युत्कंठितः सम्मुखं द्विजैः॥ ७.३६ ॥
कृतसंविदभूत्पूर्वं कुशलस्वागतादिना॥
पप्रच्छानंतरं कार्यं वदागमनकारणम्॥ ७.३७ ॥
मार्कंडेयोथ तं प्राह बकं प्रस्तुतमीप्सितम्॥
इंद्रद्युम्नं भवान्वेत्ति भूपालं पृथिवीतले॥ ७.३८ ॥
एतस्य मम मित्रस्य तेन ज्ञातेन कारणम्॥
नो वायं त्यजति प्राणान्पुरा वह्निप्रवेशनात्॥ ७.३९ ॥
एतस्य प्राणरक्षार्थं ब्रूहि जानासि चेन्नृपम्॥ ७.४० ॥
॥नडीजंघ उवाच॥
चतुर्दश स्मराम्यस्मि कल्पान्विप्रेंद्र सांप्रतम्॥
आस्तां तद्दर्शनं वार्तामपि वा न स्मराम्यहम्॥ ७.४१ ॥
इंद्रद्युम्नो महीपालः कोऽपि नासीन्महीतले॥
एतावन्मात्रमेवाहं जानामि द्विजपुंगव॥ ७.४२ ॥
॥नारद उवाच॥
ततः स विस्मयाविष्टस्तस्यायुरिति शुश्रुवान्॥
पप्रच्छ राजा को हेतुर्दानस्य तपसोऽथ वा॥
यदायुरीदृशं दीर्घं संजातमिति विस्मितः॥ ७.४३ ॥
॥नाडीजंघ उवाच॥
घृतकंबलमाहात्म्यान्मम देवस्य शूलिनः॥
दीर्घमायुरिदं विप्र शापाद्बकवपुः श्रृणु॥ ७.४४ ॥
पुरा जन्मन्यहं बालो ब्राह्मणस्याभवं भुवि॥
पाराशर्यसगोत्रस्य विश्वरूपस्य सन्मुनेः॥ ७.४५ ॥
बालको बक इत्येवं प्रतीतोऽतिप्रियः पितुः॥
चपलोऽतीव बालत्वे निसर्गादेव भद्रक॥ ७.४६ ॥
अथ मारकतं लिंगं देवतावसरात्पितुः॥
चापल्याद्वालभावाच्चापहृत्य निहितं मया॥ ७.४७ ॥
घृतस्य कुंभे संक्रांतौ मकरस्योत्तरायणे॥
अथ प्रातर्व्यतीतायां निशि यावत्पिता मम॥ ७.४८ ॥
निर्माल्यापनयं चक्रे तावच्छून्यं शिवालयम्॥
निशम्य कांदिशीको मां पप्रच्छ मधुरस्वरम्॥ ७.४९ ॥
वत्स क्व नु त्वया लिंगं नूनं विनिहितं वद॥
दास्यामि वांछितं यत्ते भक्ष्यमन्यत्तवेप्सितम्॥ ७.५० ॥
ततो मया बालभावाद्भक्ष्यलुब्धेन तत्पितुः॥
घृतकुंभांतराकृष्य भद्रलिंगं समर्पितम्॥ ७.५१ ॥
अथ काले तु संप्राप्ते प्रमीतोऽहं नृपालये॥
जातो जातिस्मारस्तावदानर्ताधिपतेः सुतः॥ ७.५२ ॥
घृतकंबलमाहात्म्यान्मकरस्थे दिवाकरे॥
अपि बाल्यादवज्ञानात्संयोगाद्‌घृतलिंगयोः॥ ७.५३ ॥
ततः संस्थापितं लिंगं प्राग्जन्म स्मरता मया॥
ततः प्रभृति लिंगानि घृतेनाच्छादयाम्यहम्॥ ७.५४ ॥
पितृपैतामहं प्राप्य राज्यं शक्त्यनुरूपतः॥
ततः प्रसन्नो भगवान्पार्वतीपतिराह माम्॥ ७.५५ ॥
पूर्वजन्मनि तुष्टोऽहं घृतकंबलपूजया॥
प्रयच्छाम्यस्मि त राज्यमधुनाभिमतं वृणु॥ ७.५६ ॥
ततो मया वृतः प्रादाद्गाणपत्यं मदीप्सितम्॥
कैलासे मां शिवो नित्यं संतुष्टः प्राह चेति च॥ ७.५७ ॥
तेनैव हि शरिरेण प्रणतं पुरतः स्थितम्॥
अद्यप्रभृति संक्रांतौ मकरस्यापरोपि यः॥ ७.५८ ॥
घृतेन पूजां कर्तासौ भावी मम गणः स्फुटम्॥
इत्युक्त्वा मां शिवो भद्र गणकोटीश्वरं व्यधात्॥ ७.५९ ॥
प्रतीपपालकंनाम संस्थितं शिवशासनम्॥
ततः कामादिभिः षड्भिः पदैश्चंक्रमणात्मिकाम्॥ ७.६० ॥
निसर्गचपलां प्राप्य भ्रमरीमिव तां श्रियम्॥
नैवालमभवं तस्या धारणे दैवयोगतः॥ ७.६१ ॥
विचचार तदा मत्तः किलाहं वारणो यथा॥
कृत्याकृत्यविचारेण विमुक्तोऽतीव गर्वितः॥ ७.६२ ॥
विद्यामभिजनं लक्ष्मीं प्राप्य नीचनरो यथा॥
आपदां पात्रतामेति सिंधूनामिव सागरः॥ ७.६३ ॥
अथ काले व्यतिक्रांते कियन्मात्रे यदृच्छया॥
विचरन्नगमं शैलं हिमानीरुद्धकंदरम्॥ ७.६४ ॥
तपस्यति मुनिस्तत्र गालवो भार्यया सह॥
सदैव तीव्रतपसा कृशो धमनिसंततः॥ ७.६५ ॥
ब्राह्मणस्य हि देहोयं नैवैहिकफलप्रियः॥
कृच्छ्राय तपसे चेह प्रेत्यानंतसुखाय च॥ ७.६६ ॥
तस्य भार्याऽतिरूपेण विजिग्ये विश्ववर्णिनी॥
तन्वी श्यामा मृगाक्षी सा पीनोन्नतपयोधरा॥ ७.६७ ॥
हंसगद्गदसंभाषा मत्तमातंगगामिनी॥
विस्तीर्णजघना मध्ये क्षामा दीर्घशिरोरुहा॥ ७.६८ ॥
निम्ननाभिर्विधात्रैषा निर्मिता संदिदृक्षुणा॥
विकीर्णमिव सौंदर्यमेकपात्रमिव स्थितम्॥ ७.६९ ॥
ततोऽविनीतस्तां वीक्ष्य भद्र गालववल्लभाम्॥
अहमासं शरव्रातैस्ताडितः पुष्पधन्विना॥
विवेकिनोऽपि मुनयस्तावदेव विवेकिनः॥ ७.७० ॥
यावन्न हरिणाक्षीणामपांगविवरेक्षिताः॥
मया व्यवसितं चित्ते तदानीं तां जिहीर्षुणा॥ ७.७१ ॥
इति चेति हरिष्यामि तपसा रक्षितां मुनेः॥
अस्याः कृते यदि शपेन्मुनिस्तत्र पराभवः॥ ७.७२ ॥
मम भावी भवेदेषा भार्या मृत्युरुतापि मे॥
तस्माच्छिष्यो भवाम्यस्य शुश्रूषानिरतो मुनेः॥ ७.७३ ॥
प्राप्यांतरं हरिष्यामि नास्य योग्येयमंगना॥
इति व्यवस्य विद्यार्थिमूर्तिमास्थाय गालवम्॥ ७.७४ ॥
नमस्कृत्य वचोऽवोचमिति भाव्यर्थनोदितः॥
तथा मतिस्तथा मित्रं व्यवसायस्तथा नृणाम्॥ ७.७५ ॥
भवेदवश्यं तद्भावि यथा पुंभिः पुरा कृतम्॥
विवेकवैराग्ययुतो भगवंस्त्वासमुपस्थितः॥ ७.७६ ॥
शिष्योऽहं भवता पाठ्यं कर्णधारं महामुनिम्॥
अपारपारदं विष्णुं विप्रमूर्तिमुपाश्रितम्॥ ७.७७ ॥
नमस्ये चेतनं ब्रह्मा प्रत्यक्षं गालवाख्यया॥
अविद्याकृष्णसर्पेण दष्टं तद्विषपीडितम्॥ ७.७८ ॥
उपदेशमहामंत्रैर्मां जांगुलिक जीवय॥
महामोहमहा वृक्षो हृद्यावापसमुत्थितः॥ ७.७९ ॥
त्वद्वाक्यतीक्ष्णधारेण कुठारेण क्षयं व्रजेत्॥
अपवर्गपथव्यापी मूढसंसर्गसेचनः॥ ७.८० ॥
छिद्यतां सूत्रधारेण विद्यापरशुनाधुना॥
भजामि तव शिष्योऽहं वरिवस्यापरश्चिरम्॥ ७.८१ ॥
समिद्दर्भान्मूलफलं दारूणि जलमेव च॥
आहरिष्येऽनुगृह्णीष्व विनीतं मामुपस्थितम्॥ ७.८२ ॥
इत्थं पुरा बकाभिख्यं बकवृत्तिमुपाश्रितम्॥
तदाऽऽर्जवे कृतमतिरनुजग्राह मां मुनिः॥ ७.८३ ॥
ततोऽतीव विनीतोऽहं भूत्वा तं ब्राह्मणीयुतम्॥
विश्वासनाय सुदृढं तोषयामि दिनेदिने॥ ७.८४ ॥
स च जानन्मुनिः पत्नीं पात्रभूतामविश्वसन्॥
स्त्रीचरित्रविदंके तां विधाय स्वपिति द्विजः॥ ७.८५ ॥
अथान्यस्मिन्दिने साभूद्ब्राह्मण्यथ रजस्वला॥
तद्दूरशायिनी रात्रौ विश्वासान्मे तपस्विनी॥ ७.८६ ॥
इदमन्तरमित्यंतर्विचिंत्याहं प्रहर्षितः॥
मलिम्लुचाकृतिर्भूत्वा निशीथे तामथाहरम्॥ ७.८७ ॥
विललाप तदा बाला ह्रियमाणा मयोच्चकैः॥
मैवं मैवमिति ज्ञात्वा मां स्वरेणाब्रवीन्मुनिम्॥ ७.८८ ॥
बकवृत्तिरयं दुष्टो धर्मकंचुकमाश्रितः॥
हरते मां दुराचारस्तस्मात्त्वं त्राहि गालव॥ ७.८९ ॥
तव शिष्यः पुरा भूत्वा कोप्वेषोद्य मलिम्लुचः॥
मां जिहीर्षति तद्रक्ष शरण्य शरणं भव॥ ७.९० ॥
तद्वाक्यसमकालं स प्रबुद्धो गालवो मुनिः॥
तिष्ठतिष्ठेति मामुक्त्वा गतिस्तम्भं व्यधान्मम॥ ७.९१ ॥
ततश्चित्राकृतिरहं स्तम्भितो मुनिनाऽभवम्॥
व्रीडितं प्रविशामीव स्वांगानि किल लज्जया॥ ७.९२ ॥
ततः प्रकुपितः प्राह मामभ्येत्याथ गालवः॥
तद्वज्रदुःसहं वाक्यं येनाहमभवं बकः॥ ७.९३ ॥
॥गालव उवाच॥
बकवृत्तिमुपाश्रित्य वंचितोऽहं यतस्त्वया॥
तस्माद्बकस्त्वं भविता चिरकालं नराधम॥ ७.९४ ॥
इति शप्तोऽहमभवं मुनिनाऽधर्ममाश्रितः॥
परदारोपसेवार्थमनर्थमिममागतः॥ ७.९५ ॥
न हीदृशमनायुष्यं लोके किंचन विद्यते॥
यादृशं पुरुषस्येह परदारोपसेवनम्॥ ७.९६ ॥
ततः सती सा मत्स्पर्शदूषितांगी तपस्विनी॥
मया विमुक्ता स्नात्वा मां तथैवानुशशाप ह॥ ७.९७ ॥
एवं ताभ्यामहं शप्तो ह्यश्वत्थपर्णवद्भयात्॥
कंपमानः प्रणम्योभाववोचं तत्र दम्पती॥ ७.९८ ॥
गणोऽहमीश्वरस्यैव दुर्विनीततरो युवाम्॥
निरोधमेवं कुरुतं भगवंतावनुग्रहम्॥ ७.९९ ॥
वाचि क्षुरो नावनीतं हृदयं हि द्विजन्मनाम्॥
प्रकुप्यंति प्रसीदंति क्षणेनापि प्रसादिताः॥ ७.१०० ॥
त्वयि विप्रतिपन्नस्य त्वमेव शरणं मम॥
भूमौ स्खलितपादानां भूमिरेवावलंबनम्॥ ७.१०१ ॥
गणाधिपत्यमपि मे जातं परिभवास्पदम्॥
विषदंता हि जायन्ते दुर्विनीतस्य सम्पदः॥ ७.१०२ ॥
विदुरेष्यद्धियाऽपायं परतोऽन्ये विवेकिनः॥
नैवोभयं विदुर्नीचा विनाऽनुभवमात्मनः॥ ७.१०३ ॥
दुर्वीनीतः श्रियं प्राप्य विद्यामैश्वर्यमेव वा॥
न तिष्ठति चिरं स्थाने यथाहं मदगर्वितः॥ ७.१०४ ॥
विद्यामदो धनमदस्तृतीयोऽभिजनो मदः॥
एते मदा मदांधानामेत एव सतां दमाः॥ ७.१०५ ॥
नोदर्कशालिनी बुद्धिर्येषामविजितात्मनाम्॥
तैः श्रियश्चपला वाच्यं नीयंते मादृशैर्जनैः॥ ७.१०६ ॥
तत्प्रसीद मुनिश्रेष्ठ शापांतं मेऽधुना कुरु॥
दुर्विनीतेष्वपि सदा क्षमाचारा हि साधवः॥ ७.१०७ ॥
इत्थं वचसि विज्ञप्ते विनीतेनापि वै मया॥
प्रसादप्रवणो भूत्वा शापांतं मे तदा व्यधात्॥ ७.१०८ ॥
॥गालव उवाच॥
छन्नकीर्तिसमुद्धारसहायस्त्वं भविष्यसि॥
यदेन्द्रद्युम्नभूपस्य तदा मोक्षमवाप्स्यसि॥ ७.१०९ ॥
इत्यहं मुनिशापेन तदाप्रभृति पर्वते॥
हिमाचले बको भूत्वा काश्यपेयो वसामि च॥ ७.११० ॥
राज्यं चिरायुरिति मे घृतकम्बलस्य जातिस्मरत्वमधुनापि तथानु भावान्॥
शापाद्बकत्वमभवन्मुनिगालवस्य तद्भद्र सर्वमुदितं भवताद्य पृष्टम्॥ ७.१११ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे महीप्रादुर्भावे सप्तमोऽध्यायः॥ ७ ॥ छ ॥