स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः २१

विकिस्रोतः तः
← अध्यायः २० स्कन्दपुराणम्
अध्यायः २१
वेदव्यासः
अध्यायः २२ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६


॥नारद उवाच॥
तमालोक्य पलायंतं विध्वस्तध्वजकार्मुकम्॥
दैत्यांश्च मुदितानिंद्रः कर्तव्यं नाध्यगच्छत॥ २१.१ ॥
अथायान्निकटं विष्णोः सुरेशस्त्वरयान्वितः॥
उवाच चैनं मधुरमुत्साहपरिबृंहितम्॥ २१.२ ॥
किमेभिः क्रीडसे देव दानवैर्दुष्टमानसैः॥
दुर्जनैर्लब्धरंध्रस्य पुरुषस्य कुतः क्रियाः॥ २१.३ ॥
शक्तेनोपेक्षितो नीचो मन्यते बलमात्मनः॥
तस्मान्न नीचं मतिमानुषेक्षेत कथंचन॥ २१.४ ॥
अथाग्रेसरसंपत्त्या रथिनो जयमाययुः॥
कस्ते सखाभवत्पूर्वं हिरण्याक्षवधे विभो॥ २१.५ ॥
हिरण्यकशिपुर्दैत्यो वीर्यशाली मदोद्धतः॥
प्राप्य त्वां तृमवन्नष्टस्तत्र कोऽग्रेसरस्तव॥ २१.६ ॥
पूर्वं प्रतिबला दैत्या मधुकैटभसन्निभाः॥
निविष्टास्त्वां तु संप्राप्य शलभा इव पावकम्॥ २१.७ ॥
युगेयुगे च दैत्यानां त्वत्तो नाशोऽभवद्धरे॥
तथैवाद्येह भीतानां त्वं हि विष्णो सुराश्रयः॥ २१.८ ॥
एवं संनोदितो विष्णुर्व्यवर्धत महाभुजः॥
बलेन तेजसा ऋद्ध्या सर्वभूताश्रयोऽरिहा॥ २१.९ ॥
अथोवाच सहस्राक्षं केशवः प्रहसन्निव॥
एवमेतद्यथा प्राह भवानस्मद्गतं वचः॥ २१.१० ॥
त्रैलोक्यदानवान्सर्वान्दग्धुं शक्तः क्षणादहम्॥
दुर्जस्तारकः किं तु मुक्त्वा सप्तदिनं शिशुम्॥ २१.११ ॥
महिषश्चैव शुंभश्च उभौ वध्यौ च योषिता॥
जंभो दुर्वाससा शप्तः शक्रवध्यो भवानिति॥
तस्मात्त्वं दिव्यवीर्येण जहि जंभं मदोत्कटम्॥ २१.१२ ॥
अवध्यः सर्वभूतानां त्वामृते स तु दानवः॥ २१.१३ ॥
मया गुप्तो रणे जंभो जगत्कंटकमुद्धर॥
तद्वैकुंठवचः श्रुत्वा सहस्राक्षोमरारिहा॥ २१.१४ ॥
समादिशत्सुराध्यक्षान्सैन्यस्य रचनां प्रति॥
ततश्चाभ्यर्थितो देवैर्विष्णुः सैन्यमकल्पयत्॥ २१.१५ ॥
यत्सारं सर्वलोकस्य वीर्यस्य तपसोऽपि च॥
तदैकादश रुद्रांश्च चकाराग्रेसरान्हरिः॥ २१.१६ ॥
व्यालीढांगा महादेवा बलिनो नीलकंधराः॥
चंद्रखंडत्रिपुंड्राश्च पिंगाक्षाः शूलपाणयः॥ २१.१७ ॥
पिंगोत्तुंगजटाजूटाः सिंहचर्मावसायिनः॥
भस्मोद्धूलितगात्राश्च भुजमंडलभैरवाः॥ २१.१८ ॥
कपालीशादयो रुद्रा विद्रावितमहाऽसुराः॥
कपाली पिंगलो भीमो विरुपाक्षो विलोहितः॥ २१.१९ ॥
अजकः शासनः शास्ता शंभुश्चंद्रो भवस्तथा॥
एत एकादशनंतबला रुद्राः प्रभाविनः॥ २१.२० ॥
अपालयंत त्रिदशान्विगर्जंत इवांबुदाः॥
हिमाचलाभे महति कांचनांबुरुहस्रहि॥ २१.२१ ॥
प्रचंचलमहाहेमघंटासंहतिमंडिते॥
ऐरावते चतुर्दंते मत्तमातंग आस्थितः॥ २१.२२ ॥
महामदजलस्रावे कामरूपे शतक्रतुः॥
तस्थौ हिमगिरेः श्रृंगे भानुमानिव दीप्तिमान्॥
तस्यारक्षत्पदं सव्यं मारुतोऽमितविक्रमः॥ २१.२३ ॥
जुगोपापरमग्निश्च ज्वालापूरितदिङ्मुखः॥
पृष्ठरक्षोऽभव द्विष्णुः समरेशः शतक्रतोः॥ २१.२४ ॥
आदित्या वसवो विश्वे मरुतश्चाश्विनावपि॥
गंधर्वा राक्षसा यक्षाः सकिंनरमहोरगाः॥ २१.२५ ॥
कोटिशःकोटिशः गृत्वा वृंदं चिह्नोपलक्षितम्॥
विश्रावयंतः स्वां कीर्तिं बंदिवृन्दैः पुरः सरैः॥ २१.२६ ॥
चेलुर्दैत्यवधे दृप्ता नानावर्णायुधध्वजाः॥ २१.२७ ॥
शतक्रतोरमरनिकायपालिता पताकिनी याननिनादनादिता॥
सितोन्नतध्वजपटकोटिमंडिता बभूव सा दितिसुतोकवर्धिनी॥ २१.२८ ॥
आयांतीं तां विलोक्याथ सुरसेनां गजासुरः॥
गजरूपी महांश्चैव संहारांभोधिविक्रमः॥ २१.२९ ॥
परश्वधायुधो दैत्यो दशनौष्ठकसंपुटः॥
ममर्द चरणे देवांश्चिक्षेपान्यान्करेण च॥ २१.३० ॥
परान्परशुना जघ्ने दैत्येंद्रो रौद्रविक्रमः॥
तस्यैवं निघ्नतः क्रुद्धा देवगन्धर्वकिंनराः॥ २१.३१ ॥
मुमुचुः संहताः सर्वे चित्रशस्त्रास्त्रसंहतिम्॥
परश्वधांश्च चक्राणि भिण्डिपालान्समुद्गरान्॥ २१.३२ ॥
कुन्तान्प्रासाञ्छरांस्तीक्ष्णान्मुद्गरांश्चापि दुःसहान्॥
तान्सर्वान्सोग्रसद्दैत्यो यूथपः कवलानिव॥ २१.३३ ॥
कोपस्फुरितदंष्ट्राग्रः करस्फोटेन नादयन्॥
सुरान्नघ्नंश्चराराजौ दुष्प्रेक्ष्यः सोऽथ दानवः॥ २१.३४ ॥
यस्मिन्यस्मिन्निपतति सुर वृंदे गजासुरः॥
तस्मिस्तीस्मिन्महाशब्दो हाहाकारो व्यजायत॥ २१.३५ ॥
अथ विद्रवमानं तब्लं प्रेक्ष्व समंततः॥
रुद्राः परस्परं प्रोचुरहंकारोत्थितार्चिषः॥ २१.३६ ॥
भोभो गृह्णत दैत्येंद्रं भिंदतैनं महाबलाः॥
कर्षतैनं शितैः शूलैर्भञ्जतैनं हि मर्मसु॥ २१.३७ ॥
कपाली वाक्यमाकर्ण्य शूलं सितशितंमुखे॥
संमार्ज्य वामहस्तेन संरंभाद्विवृतेक्षणः॥ २१.३८ ॥
प्रोत्फुल्लारुणनीलाब्जसंहतिः सर्वतो दिशः॥
अथागाद्भुकुटीवक्रो दैत्येंद्राभिमुखो रणे॥ २१.३९ ॥
दृढेन मुष्टिबन्धेन शूलं विषृभ्य निर्मलः॥
जघान कुम्भदेशे तु कपाली गजदानवम्॥ २१.४० ॥
ततो दशापि ते रुद्रा निर्मलायोमयै रणे॥
जघ्नुः शूलैस्तु दैत्येंद्रं शैलवर्ष्माणमाहवे॥ २१.४१ ॥
सुस्राव शोणितं पश्चात्सर्वस्रोतस्सु तस्य वै॥
शूलरक्तेन रुद्रस्य शुशुभे गजदानवः॥ २१.४२ ॥
प्रोत्फुल्लामलनीलाब्जं शरदीवामलं सरः॥
भस्मशुभ्रतनुच्छायै रुद्र र्हंसैरिवावृतम्॥ २१.४३ ॥
क्रुद्धं कपालिनं दैत्यः प्रचलत्कर्णपल्लवः॥
भवं च दन्तैर्बिभिदे नाभिदेशे जगासुरः॥ २१.४४ ॥
दृष्ट्वानुरक्तं रुद्राभ्यां नवरुद्रास्ततो द्रुतम्॥
विव्यधुर्विशिखैः शूलैः शरीरममरद्विषः॥ २१.४५ ॥
ततः कपालिनं त्यक्त्वा भवं चासुरपुंगवः॥
वेगेन कुपितो दैत्यो नव रुद्रानुपाद्रवत्॥
ममर्द चरणाघातैर्दन्तैश्चापि करेण च॥ २१.४६ ॥
ततोऽसौ शूलयुद्धेन श्रममासादितो यदा॥
तदा कपाली जग्राह करमस्यामरद्विषः॥ २१.४७ ॥
भ्रामयामास चातीव वेगेन च गजासुरम्॥
दृष्ट्वाश्रमातुरं दैत्यं किंचिच्च्यावितजीवितम्॥ २१.४८ ॥
निरुत्साहं रणे तस्मिन्गतयुद्धोत्सवोऽभवत्॥
ततो भ्रमत एवास्य चर्म उत्कृत्त्य भैरवम्॥ २१.४९ ॥
स्रवत्सर्वांगर क्तौघं चकारांबरमात्मनः॥
तुष्टुवुस्तं तदा देवा बहुधा बहुभिः स्तवैः॥ २१.५० ॥
ऊचुश्चैनं चयो हन्यात्स म्रियेत ततस्त्वसौ॥
दृष्ट्वा कपालिनो रूपं गजचर्मांबरावृतम्॥ २१.५१ ॥
वित्रेसुर्दुद्रुवुर्जघ्नुर्निपेतुश्च सहस्रशः॥
एवं विलुलिते तस्मिन्दानवेन्द्रे महाबले॥ २१.५२ ॥
गजं मत्तमथारुह्य शतदुन्दुभिनादितम्॥
निमिरभ्यपतत्तूर्णं सुरसैन्यानि लोडयन्॥ २१.५३ ॥
यांयां निमिगजो याति दिशं तांतां सवाहनाः॥
दुद्रुवुश्चुक्रुशुर्देवा भयेनाकंपिता मुहुः॥ २१.५४ ॥
गन्धेन सुरमातंगा दुद्रुवुस्तस्य हस्तिनः॥
पलायितेषु सैन्येषु सुराणां पाकशासनः॥ २१.५५ ॥
तस्थौ दिक्पालकैः सार्धमष्टभिः केशवेन च॥
संप्राप्तस्तस्य मातंगो यावच्छक्रगजं प्रति॥ २१.५६ ॥
तावच्छक्रगजो भीतो मुक्त्वा नादं सुभैरवम्॥
ध्रियमाणोऽपि यत्नेन चकोर इव तिष्ठति॥ २१.५७ ॥
पलायति गजे तस्मिन्नारूढः पाकशासनः॥
विपरीतमुखं युद्धं दानवेन्द्रेण सोऽकरोत्॥ २१.५८ ॥
शतक्र तुस्तु शूलेन निमिं वक्षस्यताडयत्॥
गदया दंतिनं तस्य गल्लदेशेहनद्भृशम्॥ २१.५९ ॥
तं प्रहारचिंत्यैव निमिर्निर्भयपौरुषः॥
ऐरावतं कटीदेशे मुद्गरेणाभ्यताडयत्॥ २१.६० ॥
स हतो मुद्गरेणाथ शक्रकुञ्जर आहवे॥
जगाम पश्चात्पद्भ्यां च पृथिवीं भूधराकृतिः॥ २१.६१ ॥
लाघवात्क्षिप्रमुत्थाय ततोऽमरमहागजः॥
रणादपससर्पाथ भीषितो निमिहस्तिना॥ २१.६२ ॥
ततो वायुर्ववौ रूक्षो बहुशर्करपांशुलः॥
सम्मुखो निमिमातंगोऽकंपनोऽचलकंपनः॥
स्रुतरक्तो बभौ शैलो घनधातुह्रदो यता॥ २१.६३ ॥
धनेशोऽपि गदां गुर्वी तस्य दानवहस्तिनः॥
मुमोच वेगान्न्यपतत्सा गदा तस्य मूर्धनि॥ २१.६४ ॥
गजो गदानिपातेन स तेन परिमूर्छितः॥
दंतैर्भित्वा धरां वेगात्पपाताचलसन्निभः॥ २१.६५ ॥
पतिते च गजे तस्मिन्सिंहनादो महानभूत्॥
सर्वतः सुरसैन्यानां गजबृंहितबृंहितः॥ २१.६६ ॥
हेषारवेण चाश्वानां राणास्फोटैश्च धन्विनाम्॥
गजं तं निहतं दृष्ट्वा निमिं चापि पराङ्मुखम्॥ २१.६७ ॥
सुराणां सिंहनादं च सन्नादितदिगंतरम्॥
जंभो जज्वाल कोपेन संदीप्त इव पावकः॥ २१.६८ ॥
ततः स कोपरक्ताक्षो ध्नुष्यारोप्य सायकम्॥
तिष्ठेति चाब्रवीत्तारं सारथिं चाप्यनंदयत्॥ २१.६९ ॥
तमायांतमभिप्रेक्ष्य धनुष्याहितसा यकम्॥
शतक्रतुरदीनात्मा दृढमादत्त कार्मुकम्॥ २१.७० ॥
बाणं च तैलधौताग्रमर्धचंद्रमजिह्मगम्॥ २१.७१ ॥
तेनास्यट सशरं चापं चिच्छेद बलवृत्रहा॥
अपास्य तद्धनुश्छिन्नं जंभो दानवनंदनः॥ २१.७२ ॥
अन्यत्कार्मुकादाय वेगवद्भारसाधनम्॥
शरांश्चाशीविषाकारांस्तैलधौताजिह्मगान्॥ २१.७३ ॥
शक्रं विव्याध दशभिर्जत्रुदेशे च पत्रिबिः॥
हृदये च त्रिभिश्चैव द्वाभ्यां च स्कन्धयोर्द्वयोः॥ २१.७४ ॥
शक्रोपि दानवेन्द्राय बाणजालम भीरयन्॥
अप्राप्तान्दानवेन्द्रस्तु शराश्छक्रभुजेरितान्॥ २१.७५ ॥
चिच्छेद शतधाऽऽकाशे शरैरग्निशिखोपमैः॥
ततश्च शरजालेन देवेन्द्रो दानवेश्वरम्॥ २१.७६ ॥
आच्छादयत यत्नेन वर्षास्विव घनैर्नभः॥
दैत्योऽपि बाणजालेन विव्याध सायकैः शितैः॥ २१.७७ ॥
यथा वायुर्घनाटोपं यदवार्यं दिशां मुखे॥
शक्रोऽथ क्रोधसंरंभान्न विशेषयते यदा॥ २१.७८ ॥
दानवेन्द्रं तदा चक्रे गंधर्वास्त्रं महाद्भुतम्॥
ततोऽस्य तेजसा व्याप्तमभूद्गनगोचरम्॥ २१.७९ ॥
गन्धर्वनगरैश्चापि नानाप्राकारतोरणैः॥
मुंचद्भिरद्भुताकारैरस्त्रवृष्टिं समंततः॥ २१.८० ॥
तयास्त्रवृष्ट्या दैत्यानां हन्यमाना महाचमूः॥
जंभं शरणमागच्छत्त्राहित्राहीति भारत॥ २१.८१ ॥
ततो जंभो महावीर्यो विनद्य प्रहसन्मुहुः॥
स्मरन्साधुसमाचारं दैत्यानामभयं ददौ॥ २१.८२ ॥
ततोऽस्त्रं मौशलंनाम मुमोच सुमहाभयम्॥
अथोग्रमुसलैः सर्वमभवत्पूरितं जगत्॥ २१.८३ ॥
तैश्च भग्नानि सर्वाणि गंधर्वनगराणि च॥
अथोग्रैक प्रहारेण रथमश्वं गजं सुरम्॥ २१.८४ ॥
चूर्णयामास तत्क्षिप्रं शतशोऽथ सहस्रशः॥
ततः सुराधिपः सक्रस्त्वाष्ट्रमस्त्रमुदैरयत्॥ २१.८५ ॥
संध्यमाने ततश्चास्त्रे निश्चेरुः पावकार्चिषः॥
ततो यंत्रमया विद्याः प्रादुरासन्सहस्रशः॥ २१.८६ ॥
तैर्यंत्रैरभवद्युद्धमंतरिक्षं वितारकम्॥
तैर्यंत्रैर्मौशलं भग्नं हन्यंते चासुरास्तदा॥ २१.८७ ॥
शैलास्त्रं मुमुचे जंभो यंत्रसंघातचूर्णनम्॥
व्यामप्रमाणैरुपलैस्ततो वर्षः प्रवर्तत॥ २१.८८ ॥
त्वाष्ट्रोण निर्मितान्याशु यानि यंत्राणि भारत॥
तेनोपल निपातेन गतानि तिलशस्ततः॥ २१.८९ ॥
ततः शिरस्सु देवानां शिलाः पेतुर्महाजवाः॥
दारयंत्यश्च वसुधां चतुरंगबलं च तत्॥ २१.९० ॥
ततो वज्रास्त्रमकरोत्सस्राक्षः पुरंदरः॥
शिलामहार्षंव्यशीर्यत समंततः॥ २१.९१ ॥
ततः प्रशांतैः शैलास्त्रैर्जंभो भूधरसन्निभः॥
ऐषीकमस्त्रमकरोच्चूर्णितान्यपराक्रमः॥ २१.९२ ॥
ऐषीकेणागमन्नाशं वज्रास्त्रं गिरिदारणम्॥
विजृंभत्यथ चैषीके परमास्त्रेऽतिदारुणे॥ २१.९३ ॥
जज्वलुर्देवसैन्यानि सस्यंदनगजानि च॥
दह्यमानेष्व नीकेषु तेजसास्त्रस्य सर्वतः॥ २१.९४ ॥
आग्नेयमस्त्रमकरोद्बलहा पाकशासनः॥
तेनास्त्रेण च तन्नाशमैषीकमगमत्तदा॥ २१.९५ ॥
तस्मिन्प्रतिहते चास्त्रे पावकास्त्रं व्यजृंभत॥
जज्वाल सेना जंभस्य रथः सारथिरेव च॥ २१.९६ ॥
तः प्रतिहतास्त्रोऽसौ दैत्येंद्रः प्रतिभानवान्॥
वारुणास्त्रं मुमोचाथशमनं पावकार्चिषाम्॥ २१.९७ ॥
ततो जलधरैर्व्योम स्फुरद्विद्युल्लताकुलैः॥
गंभीराक्षसमाधारैश्चाभ्यपूर्यत मोदिनी॥ २१.९८ ॥
करींद्रकरतुल्याभिर्धाराभिः पूरितं जगत्॥
शांतमाग्नेयमस्त्रं च विलोक्येंद्रश्चकार ह॥ २१.९९ ॥
वायव्यमस्त्रमतुलं तेन मेघा ययुः क्षयम्॥
वायव्यास्त्रबलेनाथ निर्धूते मेघमंडले॥ २१.१०० ॥
बभूवानाविलं व्योम नीलोत्पलदलप्रभम्॥
वायुना चातिरूपेण कंपिताश्चैव दानवाः॥ २१.१०१ ॥
न शेकुस्तत्र ते स्थातुं रणेऽपि बलिनोऽपि ये॥
जभस्ततोऽभवच्छौलो दशयोजनविस्तृतः॥ २१.१०२ ॥
मारुतप्रतिघातार्थं दानवानां बलाधिपः॥
नानाश्चर्यसमायुक्तो नानाद्रुमलतावृतः॥ २१.१०३ ॥
ततः प्रशमिते वायौ दैत्येंद्र पर्वताकृतौ॥
महाशनिं वज्रमयीं मुमोचाशु शतक्रतुः॥ २१.१०४ ॥
तयाशन्या पतितया दैत्यस्याच लरूपिणः॥
कंदराणि व्यशीर्यंतं समंतान्निर्झराणि च॥ २१.१०५ ॥
ततः सा दानवेंद्रस्य शैलमाया न्यवर्तत॥
निवृत्तशैलमायोऽथ दानवेंद्रो मदोत्कटः॥ २१.१०६ ॥
बभूव कुंजरो भीमो महाशैलमयाकृतिः॥
ममर्द च सुरानीकं दंतैश्चाभ्यहनत्सुरान्॥ २१.१०७ ॥
बभंज पृष्ठतः कांश्चित्करेणाकृष्य दानवः॥
ततः क्षपयतस्तस्य सुरसैन्यानि वृत्रहा॥ २१.१०८ ॥
अस्त्रं त्रैलोक्यदुर्धर्षं नारसिंहं मुमोच ह॥
ततः सिंहसस्राणि निश्चेरुर्मंत्रतेजसा॥ २१.१०९ ॥
हृष्टदंष्ट्राट्टहासानि क्रकचाभनखानि च॥
तैर्विपाटितगात्रोऽसौ गजमायां व्यपोहयत्॥ २१.११० ॥
ततश्चाशीविषो घोरोऽभवत्फणसमाकुलः॥
विषनिःश्वासनिर्दग्धसुरसैन्यमहारथः॥ २१.१११ ॥
ततोऽस्त्रं गारुडं चक्रे शक्रः संप्रहरन्रॅणे॥
ततस्तस्माद्गरुत्मंतः सहस्राणि विनिर्ययुः॥ २१.११२ ॥
तैर्गरुत्मद्भिरासाद्य जंभं भुजगरूपिणम्॥
कृतस्तु संढशो दैत्यः सास्य माया व्यनश्यत॥ २१.११३ ॥
मायायाम च प्रनष्टायां ततो जंभो महासुरः॥
चकार रूपमतुलं चंद्रादित्यपदानुगम्॥ २१.११४ ॥
विवृत्तनयनो ग्रस्तुमियेष सुरपुंगवान्॥
ततोऽस्य प्रविशद्वक्त्र समहारथकुंजरा॥ २१.११५ ॥
सुरसेनाऽभवद्भीमं पातालोत्तालतालुकम्॥
सैन्येषु ग्रस्यमानेषु दानवेन बलीयसा॥ २१.११६ ॥
शक्रो दीनत्वमापन्नः श्रांतवाहनवाहनः॥
कर्तव्यतां नाध्यगच्छत्प्रोवाचेदं जनार्दनम्॥ २१.११७ ॥
किमनंतरमेवास्ति कर्तव्यं नो विशेषतः॥
तदादिश घटामोऽस्य दानवस्य युयुत्सतः॥ २१.११८ ॥
ततो हरिरुवाचेदं वज्रायुधमुदारधीः॥
न सांप्रतं रणं त्याज्यं शत्रुकातरभैरवम्॥ २१.११९ ॥
मा गच्छ मोहं मा गच्छ क्षिप्रमस्त्रं स्मर प्रभो॥
नारायणास्त्रं प्रयतः श्रुत्वेति मुमुचे स च॥ २१.१२० ॥
एतस्मिन्नंतरे दैत्यो विवृतास्योऽग्रसत्क्षणात्॥
त्रीणित्रीणि च लक्षाणि किंनरोरगरक्षसाम्॥ २१.१२१ ॥
ततो नारायणास्त्रं च निपपातास्य वक्षसि॥
महास्त्रभिन्नहृदयः सुस्राव रुधिरं च सः॥ २१.१२२ ॥
ततः स्वतेजसा रूपं तस्य दैत्यस्य नाशितंम्॥
ततश्चां तर्दधे दैत्यः कृत्वा हासं महोत्कटम्॥ २१.१२३ ॥
गगनस्थः स दैत्येन्द्रः शस्त्राशनिमतींद्रियः॥
मुमोच सुरसैन्यानां सहारकरणीं पराम्॥ २१.१२४ ॥
तथा परश्वधांश्चक्रवज्रबाणान्समुद्गरान्॥
कुंतान्खड्गान्भिंडिपालानयोमुखगुडांस्तथा॥ २१.१२५ ॥
ववर्ष दानवो रोषादवध्यानक्षयानपि॥
तैरस्त्रैर्दानवोन्मुक्तैर्देवानीकेषु भीषणैः॥ २१.१२६ ॥
बाहुभिर्धरणी पूर्णा शिरोभिश्च सकुंडलैः॥
ऊरुभिर्गजहस्ताभैः करींद्रैश्चाचलोपमैः॥ २१.१२७ ॥
भग्नेषा दंडचक्राक्षै रथैभिः सह॥
दुःसंचाराभवत्पृथ्वी मांसशोणितकर्दमा॥ २१.१२८ ॥
रुधिरौघह्रदावर्ता गजदेहशिलोच्चया॥
कबंधनृत्यबहुला महा सुरप्रवाहिनी॥ २१.१२९ ॥
श्रृगालगृध्रध्वांक्षाणां परमानंदकारिणी॥
पिशाचजातिभिः कीर्णं पीत्वाऽऽमिषं सशोणितम्॥ २१.१३० ॥
असंभ्रमाभिर्भार्याभिः सह नृत्यद्भिरुद्धता॥
काचित्पत्नी प्रकुपिता गजकुंभांतमौक्तिकैः॥ २१.१३१ ॥
पिशाचो यत्र चाश्वानां खुरानेकत्र चाकरोत्॥
कर्णपूरेषु मोदंते पश्यंत्यन्याः सरोषतः॥ २१.१३२ ॥
प्रसादयंति बहुधा महाकर्णार्थकोविदाः॥
केचिद्वदन्ति भो देवा भो दैत्याः प्रार्थयामहे॥ २१.१३३ ॥
आकल्पमेवं योद्धव्यमस्माकं तृप्तिहेतवे॥
केचिदूचुरयं दैत्यो देवोयमतिमांसलः॥ २१.१३४ ॥
म्रियते यदि संग्रामे धातुर्दद्भोऽपयाचितम्॥
केचिद्युध्यत्सु वीरेषु सृक्किणी संलिहंति च॥ २१.१३५ ॥
एतेन पयसा विद्मो दुर्जनः सुजनो यथा॥
केचिद्रक्तनदीनां च तीरेष्वास्तिक्यबुद्धयः॥ २१.१३६ ॥
पितॄन्देवांस्तर्पयंति शोणितैश्चामिषैः शुभैः॥
केचिदामिषराशिस्था दृष्ट्वान्यस्य करामिषम्॥ २१.१३७ ॥
देहिदेहीति वाशांतो धनिनः कृपणा यथा॥
केचित्स्वयं प्रतृप्ताश्च दृष्ट्वा वै खादतः परान्॥ २१.१३८ ॥
सरोषमोष्ठौ निर्भुज्य पश्यंत्येवात्यसूयया॥
केचित्स्वमुदरं क्रुद्धा निंदंति ताडयंति च॥ २१.१३९ ॥
सर्वभक्षमभीप्संतस्तृप्ताः परधनं यथा॥
केचिदाहुरद्य एव श्लाघ्या सृष्टिस्तु वेधसः॥ २१.१४० ॥
सुप्रभातं सुनक्षत्रं पूर्वमासीद्धृथैव तत्॥
एवं बहुविधालापे पलादानां ततस्ततः॥ २१.१४१ ॥
अदृश्यः समरे जंभो देवाञ्ठस्त्रैरचूर्णयत्॥
ततः शक्रोधनेशश्च वरुणः पवनोऽनलः॥ २१.१४२ ॥
यमोऽथ निर्ऋतिश्चापि दिव्यास्त्राणि महाबलाः॥
आकाशे मुमुचुः सर्वे दानवायाभिसंध्य तु॥ २१.१४३ ॥
व्यर्थतां जग्मुरस्त्राणि देवानां दानवं प्रति॥
यथातिक्रूरचित्तानामार्ये कृत्यशतान्यपि॥ २१.१४४ ॥
गतिं न विविदुश्चापि श्रांता दैत्याश्च देवताः॥
दैत्यास्त्रभिन्नसर्वांगा गावः शीतार्दिता इव॥ २१.१४५ ॥
परस्परं व्यलीयंत हाहाकिंभाविवादिनः॥
तामवस्थां हरिर्दृष्ट्वा देवाञ्छक्रमुवाच ह॥ २१.१४६ ॥
अघोरमंत्रं स्मर देवराज अस्त्रं हि यत्पाशुपतप्रभावम्॥
रुद्रेण तुष्टेन तव प्रदत्तमव्याहतं वीरवराभिघाति॥ २१.१४७ ॥
एवं स शक्रो हरिबोधितस्तदा प्रणम्य देवं वृषकेतुमीश्वरम्॥
समाददे बाणममित्रघातनं संपूजितं दैवरणेऽर्द्धचंद्रम्॥ २१.१४८ ॥
धनुष्यजय्ये विनियोज्य बुद्धिमान्न्ययोजयत्तत्र अघोरमंत्रम्॥ २१.१४९ ॥
ततो वधायाशु मुमोच तस्य वा आकृष्य कर्णांतमकुंठदीधितिम्॥
अथासुरः प्रेक्ष्य महास्त्रमापतद्विसृज्य मायां सहसा व्यवस्थितः॥ २१.१५० ॥
प्रवेपमानेन मुखेन युज्यताचलेन गात्रेण च संभ्रमाकुलः॥
ततस्तु तस्यास्त्रवराभिमंत्रितः शरोर्धचंद्रः प्रसभं महारणे॥ २१.१५१ ॥
पुरंदरस्येष्वसनप्रमुक्तो मध्यार्कविंवं वपुषा विडंबयन्॥ २१.१५२ ॥
किरीटकूटस्फुरकांतिसंकुलं सुगंधिनानाकुसुमाधिवासितम्॥
प्रकीर्णधूमज्वलनाभमूर्धजं न्यपातयज्जंभिशिरः सकुंडलम्॥ २१.१५३ ॥
तस्मिन्निंद्रहते जंभे प्रशशंसुः सुरा बहु॥
वासुदेवोऽपि भगवान्साधु साध्विति चाब्रवीत्॥ २१.१५४ ॥
ततो जंभं हतं दृष्ट्वा दानवेन्द्राः पराङ्‌मुखाः॥
सर्वे ते भग्नसंकल्पा दुद्रुवुस्तारकं प्रति॥ २१.१५५ ॥
तांश्च त्रस्तान्समालोक्य श्रुत्वा स चतुरो हतान्॥
सारथिं प्रेरयामास याहींद्रं लघु संगरे॥ २१.१५६ ॥
तथेत्युक्त्वा स च प्रायात्तारके रथमास्थिते॥
सावलेपं च सक्रोधं सगर्वं सपराक्रमम्॥ २१.१५७ ॥
साविष्कारं सधिक्कारं प्रयातो दानवेश्वरः॥
स युक्तं रथमास्थाय सहस्रेण गरुत्मताम्॥ २१.१५८ ॥
सर्वायुधपरिष्कारं सर्वास्त्रपरिरक्षितम्॥
त्रैलोक्यऋद्धिसंपन्नं कल्पांतांतकनादितम्॥ २१.१५९ ॥
सैन्येन महता युक्तो नादयन्विदिशो दिशः॥
सहस्राक्षश्च तं दृष्ट्वा त्यक्त्वा वाहनदंतिनम्॥ २१.१६० ॥
रथं मातलिना युक्तं तप्तहेमपरिष्कृतम्॥
चतुर्योजनविस्तीर्णं सिद्धसंघपरिष्कृतम्॥ २१.१६१ ॥
गंधर्वकिंनरोद्गीतमप्सरोनृत्यसंकुलम्॥ २१.१६२ ॥
सर्वायुधमहाबाधं महारत्नसमाचितम्॥
अध्यतिष्ठत्तं रथं च परिवार्य समंततः॥ २१.१६३ ॥
दांशिता लोकपालाश्च तसथुः सगरुडध्वजाः॥
ततश्चचाल वसुधा ववौ रूक्षो मरुद्गणैः॥ २१.१६४ ॥
चेलुश्च सागराः सप्त तथाऽनश्यद्रवेः प्रभा॥
ततो जज्वलुरस्त्राणि ततोऽकंपंत वाहनाः॥ २१.१६५ ॥
ततः समस्तमुद्वृत्तं ततोदृस्यत तारकः॥
एकतस्तारको दैत्यः सुरसंघास्तथैकतः॥ २१.१६६ ॥
लोकावसाद मेकत्र लोकोद्धरणमेकतः॥
चराचराणि भूतानि भयविस्मयवंति च॥ २१.१६७ ॥
प्रशशंसुः सुराः पार्थ तदा तस्मिन्समागमे॥ २१.१६८ ॥
अस्त्राणि तेजांसि धनानि योधा यशो बलं वीरपराक्रमाश्च॥
सत्त्वौजसान्यंग बभूवुरेषां देवासुराणां तपसः परं तु नः॥ २१.१६९ ॥
अथाभिमुखमायांतं देवा विनतर्पवभिः॥
बाणैरनलकल्पाग्रार्विव्यधुस्तारकं प्रति॥ २१.१७० ॥
स तानचिंत्य दैत्येंद्रो देवबाणक्षतान्हृदि॥
बाणैर्व्योम दिशः पृथ्वीं पूरयामास दानवः॥ २१.१७१ ॥
नारायणं च सप्तत्या नवत्या च हुताशनम्॥
दशभिर्मारुतं मूर्ध्नि यमं दशभिरेव च॥ २१.१७२ ॥
धनदं चैव सप्त्या वरुणं च तथाष्टभिः॥
विंशत्या निर्ऋतिं दैत्यः पुनश्चाष्टभिरेव च॥ २१.१७३ ॥
विव्याध पुनरेकैकं दशभिर्मर्मभेदिभिः॥
तथा च मातलिं दैत्यो विव्याध त्रिभिराशुगैः॥ २१.१७४ ॥
गरुडं दशभिश्चैव महिषं नवभिस्तथा॥
पुनर्दैर्त्योऽथ देवानां तिलशो नतपर्वभिः॥ २१.१७५ ॥
चकार वर्मजालानि चिच्छेद च धनूंषि च॥
ततो विकवचा देवा विधनुष्काः प्रपीडिताः॥ २१.१७६ ॥
चापान्यन्यानि संगृह्य यावन्मुंचंति सायकान्॥
तावद्बाणं समाधाय कालानलसमप्रभम्॥ २१.१७७ ॥
ताडयामास शक्रं स हृदि सोपि मुमोचह॥
ततोंऽतरिक्षमालोक्य दृष्ट्वा सूर्यशताकृती॥ २१.१७८ ॥
तार्क्ष्यविष्णू समाजघ्ने शराभ्यां तावमुह्यताम्॥
प्रेतनाथस्य वह्नेश्च वरुणस्य शितैः शरैः॥ २१.१७९ ॥
निर्ऋतेश्चाकरोत्कार्यं भीतबीतं विमोहयन्॥
निरुच्छ्वासं समाहृत्य चक्रे बाणैः समीरणम्॥ २१.१८० ॥
ततः प्राप्य हरिः संज्ञां प्रोत्साह्य च दिशां पतीन्॥
बाणेन सारथेः कायाच्छिरोऽहार्षीत्सकुण्डलम्॥ २१.१८१ ॥
धूमकेतोर्ज्वलात्क्रुद्धस्तस्य च्छित्त्वा न्यपातयत्॥
दैत्यराजकिरीटयं च चिच्छेद वासवस्ततः॥ २१.१८२ ॥
धनेशश्च धनुः क्रुद्धो बिभेदबहुधा शरैः॥
वायुश्चक्रे च तिलशो रथं वा क्षोणिकूबरम्॥ २१.१८३ ॥
निर्ऋतिस्तिलशो वर्ण चक्रे बाणैस्ततो रणे॥
कृत्वैतदतुलं कर्मतिष्ठतिष्ठेति चाब्रुवन्॥ २१.१८४ ॥
लिहंतः सृक्किणीं देवा वासुदेवादयस्तदा॥
दृष्ट्वा तत्कर्म देवानां तारकोऽतुलविक्रमः॥ २१.१८५ ॥
मुमोच मुद्गरं भीमं सहस्राक्षाय संगरे॥
दृष्ट्वा मुद्गरमायांतमनिवार्यं रणाजिरे॥ २१.१८६ ॥
रथादाप्लुत्य धरणीमगमत्पाकशासनः॥
मुद्गरोऽपि रथोपस्थे पपात परुषस्वनः॥ २१.१८७ ॥
स रथं चूर्णयामास न ममार च मातलिः॥
गृहीत्वा पट्टिशं दैत्यो जधानोरसि केशवम्॥ २१.१८८ ॥
स्कन्धे गरुत्मतः सोऽपि निषसाद विचेतनः॥
खड्गेन राक्षसेन्द्रं च भित्त्वा भूमावपातयत्॥ २१.१८९ ॥
यमं च पातयामास भूमौ दैत्यो मुखे हतम्॥
वह्निं च भिंडिपालेन चक्रे हत्वा विचेतनम्॥ २१.१९० ॥
वायुं पदा तदाक्षिप्य पातयामास भूतले॥
धनेशं तद्धनुष्कोट्या कुट्टयामास कोपनः॥ २१.१९१ ॥
ततो देवनिकायानामेकैकं क्षणमात्रतः॥
तेषामेव जघानासौ शस्त्रैर्बालान्यथा गुरुः॥ २१.१९२ ॥
लब्धसंज्ञस्ततो विष्णुश्चक्रं जग्राह दुर्धरम्॥
रानवेंद्रवसामेदोरुधिरेणाभिरंजितम्॥ २१.१९३ ॥
मुमोच दानवेंद्रस्य दृढं वक्षसि केशवः॥
पपात चक्रं दैत्यस्य पतितं भास्करद्युति॥ २१.१९४ ॥
व्यशीर्यताथ कायेऽस्य नीलोत्पलमिवाश्मनि॥
ततो वज्रं महेन्द्रोऽपि प्रमुमोचार्चितं चिरम्॥ २१.१९५ ॥
तस्मिञ्जयाशा शक्रस्य दानवेन्द्राय संयुगे॥
तारकस्य च संप्राप्य शरीरं शौर्यशालिनः॥ २१.१९६ ॥
विशीर्यत विकीर्णार्चिः शतधा खण्डशो गतम्॥
ततो वायुरदीनात्मा वेगेन महता नदन्॥ २१.१९७ ॥
ज्वलितज्वलनाभासमंकुशं प्रमुमोच ह॥
विशीर्णं तस्य तच्चांगे दृष्ट्वा वायुर्महारुषा॥ २१.१९८ ॥
ततः शैलेन्द्रमुत्पाट्य पुष्पितद्रुमकंदरम्॥
चिक्षेप दानवेन्द्राय दशयोजनविस्तृतम्॥ २१.१९९ ॥
महीधरं तमायांतं सस्मितं दैत्यपुंगवः॥
जग्राह वामहस्तेन बालः कन्दुकलीलया॥ २१.२०० ॥
ततस्तेनैव चाहत्य पातयामास चांतकम्॥
दण्डं ततः समुद्यम्य कृतांतः क्रोधमूर्छितः॥ २१.२०१ ॥
दैत्येन्द्रमूर्ध्नि चिक्षेप भ्राम्य वेगेन दुर्जयम्॥
सोऽसुरस्यापतन्मूर्ध्नि दैत्यस्तं जगृहे स्मयन्॥ २१.२०२ ॥
कल्पांतलोकदहनो ज्वलनो रोषसंज्वलन्॥
शक्तिं चिक्षेपदुर्धर्षां दानवेन्द्राय संयुगे॥ २१.२०३ ॥
ततः शिरीषमालेव सास्य वक्षस्यराजत॥
ततः खड्गं समाकृष्य कोशादाकाशनिर्मलम्॥ २१.२०४ ॥
द्युति भासितत्रैलोक्यं लोकपालोऽपि निर्ऋतिः॥
चिक्षेप दानवेन्द्राय तस्य मूर्ध्नि पपात ह॥ २१.२०५ ॥
पतितश्चागमत्खड्गः स शीघ्रं शतखण्डताम्॥
जलेशश्च ततः क्रुद्धो महाभैरवरूपिणम्॥ २१.२०६ ॥
मुमोच पाशं दैत्येन्द्रभुजबन्धाबिलाषुकः॥
स दैत्यभुजमासाद्य पाशः सद्यो व्यपद्यत॥ २१.२०७ ॥
स्फुटितः क्रकचक्रूरदशनालिरहीश्वरः॥
ततोऽश्विनौ सचंद्रार्कौ साध्याश्च वसवश्च ये॥ २१.२०८ ॥
यक्षराक्षसगनधर्वाः सर्पाश्चास्त्रैः पृथग्विधैः॥
जघ्नुर्दैत्येश्वरं सर्वे भूयशस्ते महाबलाः॥ २१.२०९ ॥
न चास्त्राण्यस्यासज्जन्त गात्रे वज्राचलोपमे॥
ततो देवनवप्लुत्य तारको दानवादिपः॥ २१.२१० ॥
जघान कोटिशः क्रुद्धो मुष्टिपार्ष्णिभिरेव च॥
तथाविधं तस्य वीर्यमालोक्य भगवान्हरिः॥ २१.२११ ॥
पलायध्वमहो देवा वदन्नन्तर्हितोऽभवत्॥
शक्रादयस्ततो देवाः पलायनकृतादराः॥ २१.२१२ ॥
कालनेमिमुखैर्दैत्येरुपरुद्धा मदोत्कटैः॥
मुष्टिभिः पादघातैश्च केशष्वाकृष्य तैर्मुदा॥ २१.२१३ ॥
तारिताः शुष्कसरितं देवमार्गाश्च दंशिताः॥
बहुधा चाप्यकृष्यंत लोकपाला महासुरैः॥ २१.२१४ ॥
ततो निनादः संजज्ञे दैत्यानां बलशालिनाम्॥
कम्पयन्पृथिवीं द्यां च पातालानि च भारत॥ २१.२१५ ॥
जयेति मुदिता दैत्यास्तुष्टुवुस्तारकं तदा॥
शंखांश्च पूरयामासुः कुन्देन्दुसदृशप्रभान्॥ २१.२१६ ॥
धनुर्बाणरवांश्चोग्रान्कराघातांश्च चक्रिरे॥
भृशं हर्षान्विता दैत्या नेदुश्च ननृतुर्मुहुः॥ २१.२१७ ॥
ततो देवान्पुरस्कृत्य पशुपालः पशूनिव॥
दैत्येन्द्रो रथमास्थाय जगाम सहितोऽसुरैः॥ २१.२१८ ॥
महीसागरकूलस्थं तारकः स पुरं बली॥
योजनद्वादशायामं ताम्रप्राकारशोभितम्॥ २१.२१९ ॥
प्रासादर्बहुभिः कीर्णं दिव्याश्चर्योपशोभितम्॥
यत्र शब्दास्त्रयो नैव जीर्यंते चानिशंपुरे॥ २१.२२० ॥
गीतघोषश्च व्याघोषो भुज्यंतां विषयास्त्विति॥
तत्प्रविश्य पुरं राजा जगाम स्वकमालयम्॥ २१.२२१ ॥
महोत्सवेन महता पुत्रस्त्रीप्रतिनंदितः॥
तत्र दिव्यां सभां राजा प्राप्य सिंहासनस्थितः॥ २१.२२२ ॥
स्तूयमानो दितिसुतैरप्सरोभिर्विनोदितः॥
दिव्यासनस्थैर्दैत्येंद्रैर्वृतः सिंहैरिव प्रभुः॥ २१.२२३ ॥
एतस्मिन्नंतरे काचि द्दिव्यस्त्री तत्पुरेऽभवत्॥
विस्मितस्तैर्वृतो दैत्यैः प्रोवाचेदं स्मयन्निव॥ २१.२२४ ॥
रूपेणानुपमा पार्थ नानाभरणभूषिता॥
तां दृष्टवा तारको राजा भृशं वै विस्मितोऽभवत्॥ २१.२२५ ॥
कासि देवी मम ब्रूहि किं मया रूपसुंदरि॥
त्वत्समां योषितं नैव दृष्टवंतः पुरा वयम्॥ २१.२२६ ॥
॥स्त्र्युवाच॥
अहं त्रैलोक्यलक्ष्मीति विद्धि मां दैत्यसत्तम॥
अर्जिता तपसा चास्मि त्वया वीर्येण वा विभो॥ २१.२२७ ॥
वीर्यवंतं त्वनलसं तपस्विनमकातरम्॥
दातारं चापि भोक्तारं युक्त्या सेवामि तं नरम्॥ २१.२२८ ॥
भीरुं निर्विण्ण्मत्यर्थं साध्वीपीडाकरं नरम्॥
सर्वातिशंकिनं सद्यस्त्यजामि दितिनंदन॥ २१.२२९ ॥
महेंद्रण च माता ते यदा सा व्यपमानिता॥
तदैव त्यक्तप्रायोऽसाविदानीं तव संवशे॥ २१.२३० ॥
तारकश्च ततः प्राह परमं चेति तां तदा॥
सा चाविवेश तं देवी त्रिजगत्पूजिता रमा॥ २१.२३१ ॥
ततो दैत्याधिपं नार्यो दानवानां विभूषिताः॥
वीरकांस्यमुपादाय वर्धयांचक्रिरे मुदा॥ २१.२३२ ॥
देवाश्च द्वारि तिष्ठंति बद्धा दैत्यैर्भृशातुराः॥
उपहस्यमाना नारीभिर्दैत्यैरन्यैश्च नागरैः॥ २१.२३३ ॥
एतस्मिन्नंतरे विष्णुर्दैत्यरूपं समास्थितः॥
उपहासकमध्यस्थो गाथे द्वे प्राह बुद्धिमान्॥ २१.२३४ ॥
इदमल्पतरंनाम यदमीषां च दृश्यते॥
मातृक्रोधं स्मरन्राजा किंकिं यन्न करिष्यति॥ २१.२३५ ॥
बलीयांसं समासाद्य न नमेद्यो न चास्ति सः॥
मर्कवच्छ्वेतबाकीयैरुपायैः स्थीयतां सुराः॥ २१.२३६ ॥
उपहासमुखेनामी उपदेशं हरेर्मुखात्॥
समाकर्ण्य ततो देवा मर्क्करूपेण संस्थिताः॥ २१.२३७ ॥
नृत्यंतस्ते च बहुधा दैत्याश्चासुरयोषितः॥
भृशं च नोदयामासुर्मुदा भोज्यानि ते ददुः॥ २१.२३८ ॥
विष्णुर्दैत्यप्रतीहारं ततः प्रोवाच बुद्धिमान्॥
विनोदाय महाराज्ञो मर्कानेतान्प्रकीर्तय॥ २१.२३९ ॥
प्रतीहारस्ततो हृष्टः सभामध्ये विवेश सः॥
जानुभ्यां धरणीं गत्वा बद्धा च करसंपुटम्॥ २१.२४० ॥
उवाचानाविलं वाक्यमल्पाक्षरपरिस्फुटम्॥
दैत्येंद्र मर्कवृंदानि द्वारि तिष्ठंति ते प्रभो॥ २१.२४१ ॥
भृशं विनोदकारिणि स्पृहा चेद्द्रष्टुमर्हसि॥
तन्निशम्याब्रवीद्राजा किं चिरं क्रियते त्वया॥ २१.२४२ ॥
क्षत्ता चेति वचः श्रुत्वा कालनेमिं तदाब्रवीत्॥
मर्कानेतान्महाराजो द्रष्टुमिच्छति शीघ्रतः॥ २१.२४३ ॥
रक्षपाल सहैभिस्त्वं राजानमनुकूलय॥
कालनेमिरुपादाय मर्कान्यातो नृपं ततः॥ २१.२४४ ॥
मर्कमध्ये विष्णुमर्को यातस्त्यक्त्वा च दैत्यताम्॥
ततस्तारकदैत्यस्य पुरतो ननृतुर्भृशम्॥ २१.२४५ ॥
मर्का दैत्यकरोत्तालैर्हर्षनादविनोदितैः॥
ततोऽतिमुदितो राजा तेषां नृत्येन सोऽब्रवीत्॥ २१.२४६ ॥
अभयं वो मर्कदेवास्तुष्टो यच्छाम्यहं त्विदम्॥
मद्गृहे स्थीयतामेव न च कार्यं भयं हृदि॥ २१.२४७ ॥
इति श्रुत्वा विष्णुमर्कः प्रनृत्यन्नि दमब्रवीत्॥
राजन्विज्ञातुमिच्छामस्तव गेहावधिं वयम्॥ २१.२४८ ॥
एवमुक्ते प्रहस्याह तारको दैत्यसत्तमः॥
त्रिभूमिकं हि मे गेहमिदं यद्भुवनत्रयम्॥ २१.२४९ ॥
हरिमर्कस्ततः प्राह यद्येवं स्वं वचः स्मर॥
त्रैलोक्ये विचरंत्वेते मर्का राजन्सुनिर्भयाः॥ २१.२५० ॥
अश्वमेधशतस्यापि सत्यं राजन्विशिष्यते॥
धर्ममेनं स्मरन्सत्यं वचनं कुरु दैत्यप॥ २१.२५१ ॥
ततः सुविस्मितो दैत्यः प्राहेदं वचनं तदा॥
मर्कटाहो प्रबुद्धोऽसि सत्यं ब्रूहि च को भवान्॥ २१.२५२ ॥
॥श्रीभगवानुवाच॥
अहं नारायणोनाम यदि श्रोत्रमुपागतः॥
देवानां रक्षणार्थाय मर्करूपमुपाश्रितः॥ २१.२५३ ॥
तच्चेन्मान्यतमो धर्मस्तव तद्वचनं स्वकम्॥
परिपालय ते गेहं विचरंतु सुरास्त्वमी॥ २१.२५४ ॥
अवलोपश्च राजेंद्र न कर्तव्यस्त्वया हृदी॥
वीरोऽहमिति संचिन्त्य पश्यता कालजं बलम्॥ २१.२५५ ॥
पर्यायैर्हन्यमानानामभिहंता न विद्यते॥
मौढ्यमेतत्तु यद्द्वेष्टा कर्ताहमिति मन्यते॥ २१.२५६ ॥
ऋषींश्च देवांश्च महासुरांश्च त्रैविद्यवृद्धांश्च वने मुनींश्च॥
कं वापदो नोपनमंति काले कालस्य वीर्यं न तु कर्तुरेतत्॥ २१.२५७ ॥
न मंत्रबलवीर्येण प्रज्ञया पौरुषेण वा॥
अलभ्यं लभ्यते काले काले सुप्तोपि विंदति॥ २१.२५८ ॥
न मातृपितृशुश्रूषा न च दैवतपूजनम्॥
नान्यो गुणसमाचारः पुरषस्य सुखावहः॥ २१.२५९ ॥
न विद्या न तपो दानं न मित्राणि न वांधवाः॥
शक्नुवंति परित्रातुं नरं कालेन पीडितम्॥ २१.२६० ॥
नागामिगमनार्थं हि प्रतिघातशतैरपि॥
शक्नुवंति प्रतिव्योढुमृते कालबलं नराः॥ २१.२६१ ॥
देहवत्पुण्यकर्माणि जीववत्काल उच्यते॥
द्वयोः समागमे दैत्य कार्याणां सिद्धिरिष्यते॥ २१.२६२ ॥
अहो दैत्य त्वद्विशिष्टा दैत्यानां कोटयः पुरा॥
शाल्मलेस्तूलवत्क्षिप्ताः कालवातेन दुर्दशाः॥ २१.२६३ ॥
इदं तु लब्ध्वा त्वं स्थानमात्मानं बहु मन्यसे॥
सर्वभूतभवं देवं ब्रह्माणमिव शाश्वतम्॥ २१.२६४ ॥
न चेदमचलं स्थानमनंतं चापि कस्यचित्॥
त्वं तु बालिशया बुद्ध्या ममेदमिति मन्यसे॥ २१.२६५ ॥
अविश्वास्ये विश्वसिषि मन्यसे चाऽध्रुवं ध्रुवम्॥
ममेदमिति मोहात्त्वं त्रिलोकीश्रियमीप्ससि॥ २१.२६६ ॥
नेयं तव न चास्माकं न चान्येषां स्थिरा मता॥
अतिक्रम्य बहून्यांस्त्वयि तावदियं स्थिता॥ २१.२६७ ॥
कंचित्कालमियं स्थित्वा त्वयि तारक चंचला॥
पुंश्चलीवातिचपला पुनरन्यं गमिष्यति॥ २१.२६८ ॥
सरत्नौषदिसंपन्नं ससरित्पर्वताकरम्॥
तानिदानीं न पश्यामि यैर्भुक्तं भुवनत्रयम्॥ २१.२६९ ॥
हिरण्यकशिपुर्वीरो हिरण्याक्षश्च दुर्जयः॥
प्रह्रादो नमुचिर्वीरो विप्रचित्तिर्विरोचनः॥ २१.२७० ॥
कीर्तिः शूरश्च वीरश्च वातापिरिल्वलस्तथा॥
अश्वग्रीवः शंबरश्च पुलोमा मधुकैटभौ॥ २१.२७१ ॥
विश्वजित्प्रमुखाश्चान्ये दानवेंद्रा महाबलाः॥
कालेन निहताः सर्वे कालो हि बलवत्तरः॥ २१.२७२ ॥
सर्वैर्वर्षायुतं तप्तं न त्वमेको महातपाः॥
सर्वे सत्यव्रतपराः सर्वे चासन्बहुश्रुताः॥ २१.२७३ ॥
सर्वे यथार्हदातारः सर्वे दाक्षायणीसुताः॥
ज्वलंतः प्रजयंतश्च कालेन प्रतिसंहताः॥ २१.२७४ ॥
मुंचेच्छां कामभोगेषु मुंचेमं श्रीभवं मदम्॥
एतदैश्वर्यनाशे त्वां शोकः संपीडयिष्यति॥ २१.२७५ ॥
शोककाले शुचो मात्वं हर्षकाले च मा हृषः॥
अतीतानागते हि त्वा प्रत्युत्पन्नेन वर्तय॥ २१.२७६ ॥
इंद्रं चेदागतः कालः सदा युक्त मतंद्रितम्॥
क्षमस्व न चिराद्दैत्य त्वामप्युपगमिष्यति॥ २१.२७७ ॥
को हि स्थातुमलं लोके मम क्रुद्धस्य संयुगे॥
कालस्तु बलवान्प्राप्तस्तेन तिष्ठामि तारक॥ २१.२७८ ॥
त्वमेव वेत्सि मां दैत्य योहं यादृक्पराक्रमः॥
कल्पेकल्पे महादैत्याः कोटिशोऽर्बुदशोहताः॥ २१.२७९ ॥
येषां त्वं कोटिभागेऽपि परिपूर्णो न तारक॥
कल्पेकल्पे सृजामीदं ब्रह्मादि सकलं जगत्॥ २१.२८० ॥
इच्छन्संजीवयाम्येतदनिच्छन्नाशये क्षणात्॥
न हि त्वां नोत्सहे हंतुं सर्वदैत्यसमायुतम्॥ २१.२८१ ॥
अंगुल्यग्रेण दैत्येंद्र पुनर्धर्मं नलोपये॥
यद्यहं प्रवरो भूत्वा धर्मं ब्रह्मवरात्मकम्॥ २१.२८२ ॥
लोपयामि ततः कं च धर्मोऽयं शरणं व्रजेत्॥
अहं कर्तेति मा मंस्थाः कर्तायस्तु सदा प्रभुः॥ २१.२८३ ॥
सोऽयं कालः पचेद्विश्वं वृक्षे फलमिवागतम्॥
यैरेव कर्मभिः सौख्यं दुःखं तैरेवकर्मभिः॥ २१.२८४ ॥
प्राप्नोति पुरुषो दैत्य पश्य कालस्य चित्रताम्॥
सर्वं कालवशादेव बोद्वव्यं धीर्युतेर्नरैः॥ २१.२८५ ॥
स्वकर्मपरिपाकस्य फलदं वै विदुर्बुधाः॥
तस्मात्कर्म शुभं कार्यं पुण्यात्पुण्यात्मकं च यत्॥ २१.२८६ ॥
पुण्येन तत्र सोख्यं स्याद्दृःखं पापेन निश्चितम्॥
इति संचिंत्य दैत्येंद्र स्वं वचः परिपालय॥
मदुक्तं वचनं सर्वं यदि मंतुमिहार्हसि॥ २१.२८७ ॥
॥तारक उवाच॥
मामत्र संस्थितं दृष्ट्वा कालनेमिमुखैर्युतम्॥ २१.२८८ ॥
कस्येह न व्यथेद्बुर्मृत्योरपि जिवांसतः॥
सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी॥ २१.२८९ ॥
ब्रवीषि यद्यत्त्वं वाक्यं ततथैव न संशयः॥
को हि विश्वासमर्थेषु शरीरे वा शरीरभृत्॥ २१.२९० ॥
कर्तुमुत्सहते लोके दृष्ट्वा संप्रस्थितं जगत्॥
अहमप्येवमेवैनं लोकं जानाम्यशाश्वतम्॥ २१.२९१ ॥
कालाग्नावाहितं घोरे गुह्ये सततगत्वरे॥
इदमद्य करिष्यामि श्वःकर्तास्मीतिवादिनः॥ २१.२९२ ॥
कालो हरति संप्राप्ते नदीवेग इवोन्मुखान्॥
इदानीं तावदेवासौ मया दृष्टो न विस्मृतः॥ २१.२९३ ॥
कालेन ह्रियमाणानां प्रलापः श्रूयते नृणाम्॥
ईर्ष्याभिमानलोभेषु कामक्रो धभयेषु च॥ २१.२९४ ॥
स्पृहामोहातिवादेषु लोकः सक्तो न बुध्यते॥
गुरुं वाप्यगुरुं वापि कृत्याकृत्यं च केशव॥ २१.२९५ ॥
जानामि त्वामहं विष्णो सर्वभूतवरं प्रभुम्॥
किं कुर्मः स्वस्वभावेन बलिना त्वां न मन्महे॥ २१.२९६ ॥
केचिद्भजंति त्वां भक्त्या वैरेण हेलया परे॥
सर्वेनुकंप्यास्ते तुभ्यमतरात्मासि देहिनाम्॥ २१.२९७ ॥
पुराणः शाश्वतो धर्मः सर्वप्राणभृतां समः॥
मामालंब्य मया मुक्ता यांतु सर्वे दिवौकसः॥ २१.२९८ ॥
पुनर्मर्कस्वरूपेण भ्रांतव्यं भुवनत्रयम्॥
स्पृहापि यज्ञभागानां न कार्या समयस्त्वयम्॥ २१.२९९ ॥
एवमुक्ते तारकेण देवा हर्षं प्रपेदिरे॥
मुच्यते हृतलोमापि मेषो लाभो हि सौनिकात्॥ २१.३०० ॥
॥श्रीभगवानुवाच॥
दैत्येंद्र भव तत्त्वज्ञो विद्याज्ञानतपोन्वितः॥
कालं पश्यसि सुव्यक्तं पाणावामलकं यथा॥ २१.३०१ ॥
कालचारित्रतत्त्वज्ञ शिवभक्त महामते॥
वज्रांगसुत धन्योऽसि स्पृहणीयोऽसि धीमताम्॥ २१.३०२ ॥
यावत्ते तपसो वीर्यं तावद्भुंक्ष्वजगत्त्रयम्॥
एतेन समयेनैते चरिष्यंति सुरा जगत्॥ २१.३०३ ॥
इत्युक्त्वा मर्कयूथेन वृतो नारायणः प्रभुः॥
स्थानादस्मादपाक्रम्य मेरुं प्रति ययौ तदा॥ २१.३०४ ॥
ततो मेरुं समागम्य प्रोवाच वचनं हरिः॥
भवंतो यांतु ब्रह्मणं स धास्यति च वो हितम्॥ २१.३०५ ॥
अप्रमत्तैः सदा भाव्यं पाल्यश्च समयस्तथा॥
इत्युक्त्वा भगवान्विष्णुस्तत्रैवांतरधीयत॥ २१.३०६ ॥
प्रणतः संस्तुतो देवैर्ब्रह्माणं च सुरा ययुः॥ २१.३०७ ॥
दिव्योत्तमैस्तत्र गतैरभिष्टुतो विदीप्ततेजा भुवनत्रयेऽपि॥
वज्रांगपुत्रोऽपि मुमोद वीरः शिवप्रसादेन महर्द्धिमाप्य॥ २१.३०८ ॥
स्वयमिन्द्रो निमिर्वह्निः कालनेमिर्यमोऽपि च॥
स्तम्भश्च निर्ऋतिस्थाने महिषो वरुणास्तथा॥ २१.३०९ ॥
मेषो वाताधिकारि च कुजंभो धनदोऽभवत्॥
अन्येषां चाधिकारांश्च दैत्यानां तारको ददौ॥ २१.३१० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे देवासुरसंग्रामे तारकविजयवर्णननामैकविंशतितमोऽध्यायः॥ २१ ॥ छ ॥