महाभारतम्-02-सभापर्व-015
← सभापर्व-014 | महाभारतम् द्वितीयपर्व महाभारतम्-02-सभापर्व-015 वेदव्यासः |
सभापर्व-016 → |
|
राजसूयविषये श्रीकृष्णयुधिष्ठिरभीमानां संवादः।। 1।।
युधिष्ठिर उवाच।
उक्तं त्वया बुद्धिमता यन्नान्यो वक्तुमर्हति।
संशयानां हि निर्मोक्ता त्वन्नान्यो विद्यते भुवि।। 2-15-1
गृहे गृहे हि राजानः स्वस्य स्वस्य प्रियङ्कराः।
न च साम्राज्यमाप्तास्ते सम्राट्शब्दो हि कृच्छ्रभाक्। 2-15-2
कथं परानुभावज्ञः स्वं प्रशंसितुमर्हति।
परेण समवेतस्तु यः प्रशस्यः स पूज्यते।। 2-15-3
विशाला बहुला भूमिर्बहुरत्नसमाचिता।
दूरं गत्वा विजानाति श्रेयो वृष्णिकुलोद्वह।। 2-15-4
शममेव परं मन्ये शमात्क्षेमं भवेन्मम।
आरम्भे पारमेष्ठ्यं तु न प्राप्यमिति मे मतिः।। 2-15-5
एवमेते हि जानन्ति कुले जाता मनस्विनः।
कश्चित्कदाचिदेतेषां भवेच्छ्रेष्ठो जनार्दन। 2-15-6
वयं यैव महाभाग जरासन्धभयात्तदा।
शङ्किताः स्म महाभाग द्वौरात्म्यात्तस्य चानघ।। 2-15-7
अहं हि तव दुर्धर्ष भुजवीर्याश्रयः प्रभो।
नात्मानं बलिनं मन्ये त्वयि तस्माद्विशङ्किते।। 2-15-8
त्वत्सकाशाच्च रामाच्च भीमसेनाच्च माधव।
अर्जुनाद्वा महाबाहो हन्तुं शक्यो नवेति वै।
एवं जानन्हि वार्ष्णेय विमृशामि पुनः पुनः।। 2-15-9
त्वं मे प्रमाणभूतोऽसि सर्वकार्येषु केशव।
तच्छ्रुत्वा चाब्रवीद्भीमो वाक्यं वाक्यविशारदः।। 2-15-10
भीम उवाच।।
अनारम्भपरो राजा वल्मीक इव सीदति।
दुर्बलश्चानुपायेन बलिनं योऽधितिष्ठति।। 2-15-11
अतन्द्रितश्च प्रायेण दुर्बलो बलिनं रिपुम्।
जयेत्सम्यक्प्रयोगेण नीत्याऽर्थानात्मनो हितान्।। 2-15-12
कृष्णे नयो मयि बलं जयः पार्थे धनञ्जये।
मागधं साधयिष्याम इष्टिं त्रय इवाग्नयः।। 2-15-13
`त्वद्बुद्धिबलमाश्रित्य सर्वं प्राप्स्यति धर्मराट्।
जयोऽस्माकं हि गोविन्द येषां नाथो भवान्सदा'।। 2-15-14
कृष्ण उवाच।
अर्थानारभते बालो नानुबन्धमवेक्षते।
तस्मादरिं न मृष्यन्ति बालमर्थपरायणम्।। 2-15-15
जित्वा जय्यान्यौवनाश्विः पालनाच्च भगीरथः।
कार्तवीर्यस्तपोवीर्याद्बलात्तु भरतो विभुः।। 2-15-16
ऋद्ध्या मरुत्तस्तान्पञ्च सम्राजस्त्वनुशुश्रुम।
`सर्वान्वंश्याननुमृशन्नैते सन्ति युगे युगे'।। 2-15-17
साम्राज्यमिच्छतस्ते तु सर्वाकारं युधिष्ठिर।
निग्राह्यलक्षणं प्राप्तिर्धर्मार्थनयलक्षणैः।। 2-15-18
बार्हद्रथो जरासन्धस्तद्विद्धि भरतर्षभ।
न चैनं प्रत्यत्युद्ध्यन्त कुलान्येकशतं नृपाः।। 2-15-19
तस्मादिह बलादेव साम्राज्यं कुरुते हि सः।। 2-15-20
रत्नभाजो हि राजानो जरासन्धमुपासते।
न च तुष्यति तेनापि बाल्यादनयमास्थितः।। 2-15-21
मूर्धाभिषिक्तं नृपतिं प्रधानपुरुषो बलात्।
आदत्ते न च नो दृष्टोऽभागः पुरुषतः क्वचित्।। 2-15-22
एवं सर्वान्वशे चक्रे जरासन्धः शतावरान्।
तं दुर्बलतरो राजा कथं पार्थ उपैष्यति।। 2-15-23
`तण्डुलप्रस्थके राजा कपर्दिनमुपासते'।
प्रोक्षितानां प्रमृष्टानां राज्ञां पशुपतेर्गृहे।
पशूनामिव प्रमृष्टानां राज्ञां पशुपतेर्गृहे। 2-15-24
क्षत्रियः शस्त्रमरणो यदा भवति सत्कृतः।
ततः स्म मागधं सङ्ख्ये प्रतिबाधेम यद्वयम्।। 2-15-25
षडशीतिः समानीताः शेषा राजंश्चतुर्दश।
जरासन्धेन राजानस्ततः क्रूरं प्रवर्त्स्यते।। 2-15-26
प्राप्नुयात्स यशो दीप्तं तत्र यो विघ्नमाचरेत्।
जयेद्यश्च जरासन्धं स सम्राण्णियतं भवेत्।। 2-15-27
।। इति श्रीमन्महाभारते सभापर्वणि
मन्त्रपर्वणि पञ्चदशोऽध्यायः।। 25।।
2-15-18 युधिष्ठिर धर्मार्थनयलक्षणैः सहिता प्राप्तिः पालनं निग्राह्यलक्षणं साम्राज्यं च तेऽस्ति ।।
2-15-19 बार्हद्रथं जरासन्धं तं विद्धि इति क. घ.पाठः।।
2-15-22 बलात्प्रधानपुरुषः जरासन्धः पुरुषतः पुरुषेषु अभागः अस्वीकृतः।।
सभापर्व-014 | पुटाग्रे अल्लिखितम्। | सभापर्व-016 |