ऋग्वेदः सूक्तं १.१४८
← सूक्तं १.१४७ | ऋग्वेदः - मण्डल १ सूक्तं १.१४८ दीर्घतमा औचथ्यः |
सूक्तं १.१४९ → |
दे. अग्निः। त्रिष्टुप् |
मथीद्यदीं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम् ।
नि यं दधुर्मनुष्यासु विक्षु स्वर्ण चित्रं वपुषे विभावम् ॥१॥
ददानमिन्न ददभन्त मन्माग्निर्वरूथं मम तस्य चाकन् ।
जुषन्त विश्वान्यस्य कर्मोपस्तुतिं भरमाणस्य कारोः ॥२॥
नित्ये चिन्नु यं सदने जगृभ्रे प्रशस्तिभिर्दधिरे यज्ञियासः ।
प्र सू नयन्त गृभयन्त इष्टावश्वासो न रथ्यो रारहाणाः ॥३॥
पुरूणि दस्मो नि रिणाति जम्भैराद्रोचते वन आ विभावा ।
आदस्य वातो अनु वाति शोचिरस्तुर्न शर्यामसनामनु द्यून् ॥४॥
न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति ।
अन्धा अपश्या न दभन्नभिख्या नित्यास ईं प्रेतारो अरक्षन् ॥५॥
सायणभाष्यम्
‘मथीद्यत्' इति पञ्चर्चमष्टमं सूक्तं दैर्घतमसं त्रैष्टुभमाग्नेयम् । ‘मथीद्यत्' इत्यनुक्रमणिका सूक्तत्रयमध्यस्य तृतीयत्वेन पूर्वं विनियोग उक्तः ॥
मथी॒द्यदीं॑ वि॒ष्टो मा॑त॒रिश्वा॒ होता॑रं वि॒श्वाप्सुं॑ वि॒श्वदे॑व्यं ।
नि यं द॒धुर्म॑नु॒ष्या॑सु वि॒क्षु स्व१॒॑र्ण चि॒त्रं वपु॑षे वि॒भावं॑ ॥१
मथी॑त् । यत् । ई॒म् । वि॒ष्टः । मा॒त॒रिश्वा॑ । होता॑रम् । वि॒श्वऽअ॑प्सुम् । वि॒श्वऽदे॑व्यम् ।
नि । यम् । द॒धुः । म॒नु॒ष्या॑सु । वि॒क्षु । स्वः॑ । न । चि॒त्रम् । वपु॑षे । वि॒भाऽव॑म् ॥१
मथीत् । यत् । ईम् । विष्टः । मातरिश्वा । होतारम् । विश्वऽअप्सुम् । विश्वऽदेव्यम् ।
नि । यम् । दधुः । मनुष्यासु । विक्षु । स्वः । न । चित्रम् । वपुषे । विभाऽवम् ॥१
"होतारं देवानामाह्वातारं “विश्वाप्सुम् । अप्स्विति रूपनाम । नानारूपं पार्थिववैद्युतजाठरादिभेदेन अहवनीयादिभेदेन वा । यद्वा । कालीकराल्यादिरूपेण ज्वालानां वैरूप्याद्विश्वरूपत्वम् । “विश्वदेव्यं सर्वदेवयोग्यक्रियासाधुं “यदीं यम् एनमग्निं “मातरिश्वा वृष्ट्यादिनिर्मात्रन्तरिक्षश्वसनो वायुः “विष्टः काष्ठेष्वन्तःप्रविष्टः सन् “मथीत् अमथ्नात् प्रवर्धयदित्यर्थः । ‘ मथे विलोडने'। ‘ हृयन्तक्षण° ' इति वृद्धिप्रतिषेधः ।। पुनः स एव विशेष्यते । “यम् अग्निं "मनुष्यासु मत्वा कर्म कुर्वतीषु “विक्षु ऋत्विग्रूपासु प्रजासु पूर्वं “वपुषे यज्ञशरीरसिद्धये “नि “दधुः धारयन्ति यजमानाः । मनुष्यशब्दो निरुक्ते बहुधा निरुक्तः-’ मनुष्याः कस्मान्मत्वा कर्माणि सीव्यन्ति मनस्यमानेन सृष्टा मनोरपस्यं मनुषो वा ' (निरु. ३. ७ ) इति । यद्वा । पूर्वं देवा मनुष्यासु मनोरपत्यभूतासु विक्षु प्रजासु प्राणिषु वपुषे स्वरूपाय यागादिस्वरूपप्रकाशाय शरीरधारणाय वा जाठराग्निरूपेण नि दधुः स्थापितवन्तः । तत्र दृष्टान्तः । “स्वर्णं स्वरणं स्वीरणं वा। आदित्यमिव “चित्रं चायनीयं “विभावं विविधप्रकाशवन्तं यथा प्रकाशादिसाधनाय धारयन्ति तद्वत् । स्वशब्दं यास्कः एवं निरुवाच- ' स्वरादित्यो भवति सु अरणः सु ईरणः स्वृतो रसान्त्स्वृतो भासं ज्योतिषां स्वृतो भासेति वा ' ( निरु. २. १४) इति । ईदृशं यं नि दधुस्तं मथीदिति पूर्वत्रान्वयः ।।
द॒दा॒नमिन्न द॑दभन्त॒ मन्मा॒ग्निर्वरू॑थं॒ मम॒ तस्य॑ चाकन् ।
जु॒षन्त॒ विश्वा॑न्यस्य॒ कर्मोप॑स्तुतिं॒ भर॑माणस्य का॒रोः ॥२
द॒दा॒नम् । इत् । न । द॒द॒भ॒न्त॒ । मन्म॑ । अ॒ग्निः । वरू॑थम् । मम॑ । तस्य॑ । चा॒क॒न् ।
जु॒षन्त॑ । विश्वा॑नि । अ॒स्य॒ । कर्म॑ । उप॑ऽस्तुतिम् । भर॑माणस्य । का॒रोः ॥२
ददानम् । इत् । न । ददभन्त । मन्म । अग्निः । वरूथम् । मम । तस्य । चाकन् ।
जुषन्त । विश्वानि । अस्य । कर्म । उपऽस्तुतिम् । भरमाणस्य । कारोः ॥२
“मन्म मननीयं स्तोत्रं हविरादिकं वा “ददानमित् अग्नये कुर्वाणमेव मां दम्भितारो वैरिणः न ददभन्त दम्भितुं हिंसितुं न प्रभवन्ति ।। दम्भेः ' बहुलं छन्दसि ' इति विकरणस्य श्लुः । व्यत्ययेन अन्तादेशः ।। मम कोऽतिशय इति उच्यते । “तस्य तादृशस्य प्रदातुः “मम “वरूथं वरणीयं स्तोत्रा- दिकम् अयम् “अग्निः “चाकन् अत्यर्थं कामयते ।। कनतिः कान्तिकर्मा । अस्मात् यङ्गलुगन्तात् लङि छान्दसः अडभावः । बहुलादेव वा छान्दसः तुजादित्वात् अभ्यासदीर्घः । । यस्मादेवं तस्मात् न दभ्नुवन्तीत्यर्थः । न केवलमग्निरेव कामयते किंतु सर्वे देवाः कामयन्त इत्याह । “उपस्तुतिं “भरमाणस्य कुर्वाणस्य “कारोः स्तोतुः “अस्य यजमानस्य मम “विश्वानि सर्वाणि हविष्प्रदानादिरूपाणि “जुषन्त सर्वे देवाः । अतो न ददभन्तेत्यर्थः । ।
नित्ये॑ चि॒न्नु यं सद॑ने जगृ॒भ्रे प्रश॑स्तिभिर्दधि॒रे य॒ज्ञिया॑सः ।
प्र सू न॑यन्त गृ॒भयं॑त इ॒ष्टावश्वा॑सो॒ न र॒थ्यो॑ रारहा॒णाः ॥३
नित्ये॑ । चि॒त् । नु । यम् । सद॑ने । ज॒गृ॒भ्रे । प्रश॑स्तिऽभिः । द॒धि॒रे । य॒ज्ञिया॑सः ।
प्र । सु । न॒य॒न्त॒ । गृ॒भय॑न्तः । इ॒ष्टौ । अश्वा॑सः । न । र॒थ्यः॑ । र॒र॒हा॒णाः ॥३
नित्ये । चित् । नु । यम् । सदने । जगृभ्रे । प्रशस्तिऽभिः । दधिरे । यज्ञियासः ।
प्र । सु । नयन्त । गृभयन्तः । इष्टौ । अश्वासः । न । रथ्यः । ररहाणाः ॥३
“यज्ञियासः यज्ञयोग्या यजमाना ऋत्विजो वा “यं मथनेनोत्पन्नमग्निं “नित्ये “चित् “सदने नित्ये एव गार्हपत्यलक्षणे अग्न्यासादनस्थाने “नु क्षिप्रं “जगृभ्रे गृह्णन्ति ।। ग्रहेर्लिटि ' इरयो रे ' इति रेभावः । ' हृग्रहोर्भः ० ' इति भत्वम् ।। ' नित्यं गतश्रियः ध्रियते नित्यं गार्हपत्यम्' इति सू्त्रात् गार्हपत्यो नित्यः । तदाश्रयत्वात सदनमपि नित्यमुच्यते । गृहीत्वा “प्रशस्तिभिः प्रशंसाभिः स्तुतिभिः “दधिरे धारयन्ति आहवनीयार्थम् । धृत्वा च “इष्टौ एषणसाधने यज्ञे निमित्तभूते सति “गृभयन्तः ऋत्विजः “प्र “सू “नयन्त सुष्ठु प्रणयन्ति । तत्र दृष्टान्तः । “ररहाणाः रंहसा गच्छन्तः ।। ' रहि गतौ ' । छान्दसस्य लिटः कानच् । ' अनित्यमागमशासनम् ' इति नुमभावः । । “रथ्यः रथवन्तस्तत्र नियुक्ताः ।। ' छन्दसीवनिपौ ' इति रथशब्दात् मत्वर्थीय ईकारः ।। “अश्वासो “न अश्वा इव । ते यथा धृत्वा रथस्वामिनम् अभिमतदेशं नयन्ति तद्वत् ।।
पु॒रूणि॑ द॒स्मो नि रि॑णाति॒ जम्भै॒राद्रो॑चते॒ वन॒ आ वि॒भावा॑ ।
आद॑स्य॒ वातो॒ अनु॑ वाति शो॒चिरस्तु॒र्न शर्या॑मस॒नामनु॒ द्यून् ॥४
पु॒रूणि॑ । द॒स्मः । नि । रि॒णा॒ति॒ । जम्भैः॑ । आत् । रो॒च॒ते॒ । वने॑ । आ । वि॒भाऽवा॑ ।
आत् । अ॒स्य॒ । वातः॑ । अनु॑ । वा॒ति॒ । शो॒चिः । अस्तुः॑ । न । शर्या॑म् । अ॒स॒नाम् । अनु॑ । द्यून् ॥४
पुरूणि । दस्मः । नि । रिणाति । जम्भैः । आत् । रोचते । वने । आ । विभाऽवा ।
आत् । अस्य । वातः । अनु । वाति । शोचिः । अस्तुः । न । शर्याम् । असनाम् । अनु । द्यून् ॥४
अत्र दावाग्निरूपेण अयं स्तूयते । “दस्मः उपक्षपयिता अयमग्निः “पुरूणि बहूनि वृक्षादीनि “नि “रिणाति नितरां हिनस्ति । । ' री गतिरेषणयोः ' । प्वादित्वात् ह्रस्वः ।। केन साधनेनेति तदुच्यते । “जम्भैः दन्तस्थानीयाभिर्ज्वालाभिः । “आत् दाहानन्तरं “वने वृक्षादिसमूहात्मके “विभावा विविध- प्रकाशयुक्तः सन् “रोचते दीप्तो भवति । “आत् अनन्तरम् “अस्य “शोचिः ज्वालानुकूलं “वातः अग्निसखिभूतो वायुः “अनु “द्यून् । अन्विति वीप्सार्थे । प्रतिदिनमनुकूलं “वाति । ज्वालाः आदाय गच्छति । तत्र दृष्टान्तः । “अस्तुः क्षेप्तुः सकाशात् “असनां गच्छन्तीं “शर्यां “न । शरो नाम हिंसासाधनलोहमयम् इषुमुखं तत्प्रचुराम् । यद्वा । शरो नाम वंशावान्तरजातीयः काष्ठविशेषः । तद्विकाराम् इषुमिव । ' शर्या इषवः शरमय्यः ' (निरु. ५ .४) इति यास्कः । यद्वा । शर एव शर्या । अथवा । शरो हिंसा । तत्करोति इति शर्या इषुः । तां यथा वायुः नोदकजन्यः वेगो वा अनुकूलं प्रेरयति तद्वत् ।।
न यं रि॒पवो॒ न रि॑ष॒ण्यवो॒ गर्भे॒ सन्तं॑ रेष॒णा रे॒षयं॑ति ।
अ॒न्धा अ॑प॒श्या न द॑भन्नभि॒ख्या नित्या॑स ईं प्रे॒तारो॑ अरक्षन् ॥५
न । यम् । रि॒पवः॑ । न । रि॒ष॒ण्यवः॑ । गर्भे॑ । सन्त॑म् । रे॒ष॒णाः । रे॒षय॑न्ति ।
अ॒न्धाः । अ॒प॒श्याः । न । द॒भ॒न् । अ॒भि॒ऽख्या । नित्या॑सः । ई॒म् । प्रे॒तारः॑ । अ॒र॒क्ष॒न् ॥५
न । यम् । रिपवः । न । रिषण्यवः । गर्भे । सन्तम् । रेषणाः । रेषयन्ति ।
अन्धाः । अपश्याः । न । दभन् । अभिऽख्या । नित्यासः । ईम् । प्रेतारः । अरक्षन् ॥५
“यम् अग्निं “गर्भे गर्भवद्रक्षके अरणिमध्ये “सन्तं वर्तमानं “रिपवः नराः “न “रेषयन्ति न दुःखयन्ति । तथा “रिषण्यवः अन्ये हिंसकाः । । ' दुरस्युर्द्रविणस्युर्वृषण्यति रिषण्यति ' पा सू ७ ४. ३६) इति क्यचि निपात्यते । ' क्याच्छन्दसि ' इति उः ।। “न हिंसन्ति । कीदृशास्ते । “रेषणाः हिंसनस्वभावाः । यद्वा । तैः क्रियमाणा हिंसनप्रकारा न हिंसन्ति । । किंच अस्य “अभिख्या अभितः ख्यातिं माहात्म्यम् “अन्धाः ज्ञानशक्तिरहिता अविद्वांसः अत एव “अपश्याः अद्रष्टारः । यद्वा । विद्वांसोऽप्यभावयितारः अनुपासका इत्यर्थः । ईदृग्रूपा उभयेऽपि “न “दभन् न दभ्नुवन्ति न हिंसन्ति । लौकिकोपकारेणापि प्रयोजकत्वादिति भावः । तर्ह्यस्य पारमार्थिकं रूपं के जानन्तीति चेत् उच्यते । “नित्यासः नित्या अविचलितभक्तयः अग्निहोत्रादिनित्यकर्मरता वा । अग्न्यनुग्रहात् स्वयमपि नित्या भविष्यन्तीति भावि नित्यत्वमाश्रित्य नित्या उपचर्यन्ते । तादृशा यजमानाः “प्रेतारः यज्ञादिना तमेव तर्पयितारः सन्तः “ईम् एनम् “अरक्षन् रक्षन्ति यज्ञादिरूपेण भजन्ते इत्यर्थः ॥ ॥ १७ ॥
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|