ऋग्वेदः सूक्तं १.१७५
← सूक्तं १.१७४ | ऋग्वेदः - मण्डल १ सूक्तं १.१७५ अगस्त्यो मैत्रावरुणिः |
सूक्तं १.१७६ → |
दे. इन्द्रः।। १ स्कंधोग्रीवी बृहती, २-५ अनुष्टुप्, ६ त्रिष्टुप् |
मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः ।
वृषा ते वृष्ण इन्दुर्वाजी सहस्रसातमः ॥१॥
आ नस्ते गन्तु मत्सरो वृषा मदो वरेण्यः ।
सहावाँ इन्द्र सानसिः पृतनाषाळमर्त्यः ॥२॥
त्वं हि शूरः सनिता चोदयो मनुषो रथम् ।
सहावान्दस्युमव्रतमोषः पात्रं न शोचिषा ॥३॥
मुषाय सूर्यं कवे चक्रमीशान ओजसा ।
वह शुष्णाय वधं कुत्सं वातस्याश्वैः ॥४॥
शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः ।
वृत्रघ्ना वरिवोविदा मंसीष्ठा अश्वसातमः ॥५॥
यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ ।
तामनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥६॥
सायणभाष्यम्
'मत्स्यपायि' इति षडृचमेकादशं सूक्तमागस्त्यमैन्द्रम् । आद्या स्कन्धोग्रीवी बृहती द्वितीयपादस्य द्वादशाक्षरत्वादितरेषां त्रयाणामष्टाक्षरत्वाच्च । ‘द्वितीयश्चेन्न्यङ्कुसारिण्युरोबृहती वा स्कन्धोग्रीवी वा ' ( अनु. ७.३) इत्युक्तलक्षणसद्भावात् । अन्त्या त्रिष्टुप् । शिष्टास्त्रिष्टुबन्तपरिभाषायाः ‘आनुष्टुभं तु' इति विशेषवचनेनापोदितत्वादनुष्टुभः । ‘मत्सि षळानुष्टुभं तु त्रिष्टुबन्तं त्वाद्या स्कन्धोग्रीवी' इत्यनुक्रान्तम् । द्वितीये स्वरसाम्नि आद्यस्तृचः स्तोत्रियः ।“ अभिजिद्बृहत्पृष्ठः' इति खण्डे सूत्रितं- मत्स्यपायि ते मह एमेनं प्रत्येतन' ( आश्व. श्रौ. ८. ५) इति ॥
मत्स्यपा॑यि ते॒ मह॒ः पात्र॑स्येव हरिवो मत्स॒रो मद॑ः ।
वृषा॑ ते॒ वृष्ण॒ इन्दु॑र्वा॒जी स॑हस्र॒सात॑मः ॥१
मत्सि॑ । अपा॑यि । ते॒ । महः॑ । पात्र॑स्यऽइव । ह॒रि॒ऽवः॒ । म॒त्स॒रः । मदः॑ ।
वृषा॑ । ते॒ । वृष्णे॑ । इन्दुः॑ । वा॒जी । स॒ह॒स्र॒ऽसात॑मः ॥१
मत्सि। अपायि । ते । महः । पात्रस्यऽइव । हरिऽवः । मत्सरः । मदः ।
वृषा । ते । वृष्णे। इन्दुः । वाजी । सहस्रऽसातमः ॥ १ ॥
हे "हरिवः हरिभ्यां तद्वन्निन्द्र “महः महान् पूज्योऽयं सोमः “पात्रस्येव तत्पात्रेणेव सोमपात्रेण यथा धार्यते सोमस्तत्सदृशेन “ते त्वया । तृतीयार्थे षष्ठी । यद्वा । पात्रस्येव ते तव स्वभूतो महो महान् सोम इति वा योजना । “अपायि पीयते ॥ आशंसाया विवक्षितत्वाद्भूतवत्प्रयोगः ॥ यतः पिबसि अतः “मत्सि माद्यसि मादयस्व वा । पात्रे यथा सोमः पूर्यते तथा अत्यधिकं पिब पीत्वा च मादयस्वेत्यर्थः । किंच “वृष्णे “ते अभिमतवर्षित्रे तुभ्यम् । चतुर्थ्यर्थे षष्ठी। “मत्सरः मदसाधनः “मदः तर्पयिता “वृषा वर्षिता “इन्दुः क्लेदयिता आह्लादकारीत्यर्थः। “वाजी अन्नवान् । अन्नवा(का)र्यतृप्तिसद्भावादन्नवानित्युच्यते । “सहस्रसातमः अपरिमितदातृतमः सहस्रपुरुषसंभजनपर्याप्तशक्त्यतिशयो वा एवंमहानुभावः सोमः संपादितः । तं पिबेत्यर्थः ॥
आ न॑स्ते गन्तु मत्स॒रो वृषा॒ मदो॒ वरे॑ण्यः ।
स॒हावाँ॑ इन्द्र सान॒सिः पृ॑तना॒षाळम॑र्त्यः ॥२
आ । नः॒ । ते॒ । ग॒न्तु॒ । म॒त्स॒रः । वृषा॑ । मदः॑ । वरे॑ण्यः ।
स॒हऽवा॑न् । इ॒न्द्र॒ । सा॒न॒सिः । पृ॒त॒ना॒षाट् । अम॑र्त्यः ॥२
आ । नः । ते । गन्तु। मत्सरः । वृषा । मदः । वरेण्यः ।
सहऽवान् । इन्द्र । सानसिः । पृतनाषाट्। अमर्त्यः ॥ २ ॥
हे "इन्द्र "ते त्वां "नः अस्मदीयः मत्सरः मर्षणसाधनः सोमः “आ “गन्तु आगच्छतु । कीदृशोऽयम् । "वृषा वर्षकः "मदः तर्पयिता “वरेण्यः वरणीयः "सहावान् सहायवान् सहसा बलेन तद्वान् वा "सानसिः संभजनीयः पृतनाषाट् शत्रुसेनायाः अभिभविता “अमर्त्यः अविनाशी । ईदृशः सोमस्त्वामागच्छतु । यद्वा । उत्तरार्धं इन्द्रपरतया व्याख्येयः । हे इन्द्र सहवान् अस्मद्दत्तसोमसहायवान् बलवान् वा सानसिरस्माभिः संभजनीयः पृतनाषाडमर्त्यश्च भवसि ॥
त्वं हि शूर॒ः सनि॑ता चो॒दयो॒ मनु॑षो॒ रथ॑म् ।
स॒हावा॒न्दस्यु॑मव्र॒तमोष॒ः पात्रं॒ न शो॒चिषा॑ ॥३
त्वम् । हि । शूरः॑ । सनि॑ता । चो॒दयः॑ । मनु॑षः । रथ॑म् ।
स॒हऽवा॑न् । दस्यु॑म् । अ॒व्र॒तम् । ओषः॑ । पात्र॑म् । न । शो॒चिषा॑ ॥३
त्वम् । हि । शूरः । सनिता । चोदयः । मनुषः । रथम् ।।
सहऽवान् । दस्युम् । अव्रतम् । ओषः । पात्रम् । न । शोचिषा ।। ३ ।।
हे इन्द्र “त्वं खलु “शूरः शौर्योपेतः "सनिता दातासि । अतः "मनुषः मनुष्यस्य मे "रथं रंहणं स्पन्दनं मनोरथं वा स्वर्गगमनसाधनं यज्ञाख्यं रथं वा “चोदयः प्रेरय । किंच त्वं "सहावान् सोमसहायवान् बलवान् वा भूत्वा "दस्युम् उपक्षपयितारम् "अव्रतम् अकर्माणमननुष्ठायिनम् "ओषः दह । किमिव "शोचिषा दीप्त्या ज्वालया अग्निः "पात्रं "न स्वाधारं पात्रविशेषमिव । यागाधिकारी सन् यो न यजते तं दहेत्यर्थः ॥
मु॒षा॒य सूर्यं॑ कवे च॒क्रमीशा॑न॒ ओज॑सा ।
वह॒ शुष्णा॑य व॒धं कुत्सं॒ वात॒स्याश्वै॑ः ॥४
मु॒षा॒य । सूर्य॑म् । क॒वे॒ । च॒क्रम् । ईशा॑नः । ओज॑सा ।
वह॑ । शुष्णा॑य । व॒धम् । कुत्स॑म् । वात॑स्य । अश्वैः॑ ॥४
मुषाय । सूर्यम् । कवे । चक्रम् । ईशानः । ओजसा ।।
वह । शुष्णाय । वधम् । कुत्सम् । वातस्य । अश्वैः ॥ ४ ॥
हे "कवे क्रान्तदर्शिन्निन्द्र "ईशानः समर्थः सन् "सूर्यं सूर्यस्य ॥ ‘सुपां सुपो भवन्ति । इति षष्ठ्येकवचनस्य द्वितीयैकवचनादेशः ॥ तत्संबन्धि "चक्रम् एकम् “ओजसा बलेन सामर्थ्यातिशयेन “मुषाय अमुष्णाः ॥ ‘छन्दसि शायजपि ' इति शायजादेशः ॥ पूर्वं सूर्यरथस्य चक्रद्वयमस्ति एकमिन्द्रो मुमुष इतीतिहासः । तथा च मन्त्रान्तरं-' प्रान्यच्चक्रमवृहः सूर्यस्य कुत्सायान्यत् ' ( ऋ. सं. ५. २९, १०) इति । किंच “शुष्णाय एतन्नामकायासुराय तद्वधार्थम् । द्वितीयार्थे वा चतुर्थी । शुष्णं हन्तुमित्यर्थः । "कुत्सं कर्तनसाधनं “वधं वज्रं "वातस्य वायोः “अश्वैः वायुवेगैर्वाश्वैर्युक्तः सन् "वह अवहः शुष्णं हन्तुं वज्रमधारयः । यद्वा । शुष्णवधाय वज्रमवहः । तं च हत्वा तदीयैर्वायुवेगैरश्वैस्तदुपलक्षितैस्तदीयैर्धनैः कुत्सं महर्षिमगमः शुष्णासुरधनं कुत्सायादा इत्यर्थः । तथा चान्यत्र ‘त्वं कुत्सं शुष्णहत्येष्वाविथ ' ( ऋ. सं. १. ५१. ६ ), ' कुत्साय शुष्णमशुषम् ' (ऋ. सं. ४. १६. १२ ) इत्यादीति ॥
शु॒ष्मिन्त॑मो॒ हि ते॒ मदो॑ द्यु॒म्निन्त॑म उ॒त क्रतु॑ः ।
वृ॒त्र॒घ्ना व॑रिवो॒विदा॑ मंसी॒ष्ठा अ॑श्व॒सात॑मः ॥५
शु॒ष्मिन्ऽत॑मः । हि । ते॒ । मदः॑ । द्यु॒म्निन्ऽत॑मः । उ॒त । क्रतुः॑ ।
वृ॒त्र॒ऽघ्ना । व॒रि॒वः॒ऽविदा॑ । मं॒सी॒ष्ठाः । अ॒श्व॒ऽसात॑मः ॥५
शुष्मिन्ऽतमः । हि । ते । मदः । द्युम्निन्ऽतमः । उत । क्रतुः ।
वृत्रऽघ्ना । वरिवःऽविदा । मंसीष्ठाः । अश्वऽसातमः ॥ ५ ॥
हे इन्द्र “ते तव मदः सोमपानजनितः "शुष्मिन्तमः बलवत्तमः। “उत अपि च ते “क्रतुः कर्म व्यापारोऽस्मदर्थः “द्युम्निन्तमः अतिशयेनान्नवान् यशोवान् वा ॥ उभयत्र ‘अयस्मयादीनि च्छन्दसि ' इति भसंज्ञया बाधितत्वात् न लोपः ॥ हे इन्द्र “अश्वसातमः अश्वोपलक्षितबहुधनदास्त्वं “वृत्रघ्ना वृत्रघातिनौ "वरिवोविदा धनस्य परिचरणस्य वा वेदयितारौ लम्भयितारौ तव मदक्रतू "मंसीष्ठाः अनुज्ञातवानसि । शत्रुघातिनौ धनदातारौ च स्यातामित्यनुग्रहमकरोरित्यर्थः ।।
यथा॒ पूर्वे॑भ्यो जरि॒तृभ्य॑ इन्द्र॒ मय॑ इ॒वापो॒ न तृष्य॑ते ब॒भूथ॑ ।
तामनु॑ त्वा नि॒विदं॑ जोहवीमि वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥६
यथा॑ । पूर्वे॑भ्यः । ज॒रि॒तृऽभ्यः॑ । इ॒न्द्र॒ । मयः॑ऽइव । आपः॑ । न । तृष्य॑ते । ब॒भूथ॑ ।
ताम् । अनु॑ । त्वा॒ । नि॒ऽविद॑म् । जो॒ह॒वी॒मि॒ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥६
यथा । पूर्वेभ्यः । जरितृऽभ्यः । इन्द्र । मयःऽइव । आपः । न । तृष्यते । बभूथ ।
ताम् । अनु । त्वा । निऽविदम् । जोहवीमि । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥६॥
हे इन्द्र “पूर्वेभ्यो "जरितृभ्यः पुरातनेभ्यो गरितृभ्यः स्तोतृभ्यः “मयइव "बभूथ । मयः सुखम् । सुखस्वरूपमिवाभवः । तद्वत् स्तोतृभ्योऽस्मभ्यं सुखो भव । तत्र दृष्टान्तः । "तृष्यते "आपो “न तृषार्तस्योदकानि यथा सुखकराणीति तद्वत् । तस्मात् “तां “निविदं त्वत्प्रीतिकरीं प्रसिद्धां स्तुतिं “त्वा तुभ्यम् "अनु "जोहवीमि पुनःपुनः करोमि । यद्वा । तां निविदमनु । ' तृतीयार्थे ' (पा. सू. १. ४. ८५) इत्यनोः कर्मप्रवचनीयत्वम् ॥ तया स्तुत्या त्वां जोहवीमि । पुनःपुनराह्वयामि । विद्याम इति व्याख्यातम् ॥ ॥ १८ ॥
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|