ऋग्वेदः सूक्तं १.८८
← सूक्तं १.८७ | ऋग्वेदः - मण्डल १ सूक्तं १.८८ गोतमो राहूगणः |
सूक्तं १.८९ → |
दे. मरुतः। त्रिष्टुप्, १,६ प्रस्तारपंक्तिः, ५ विराड्रूपा |
आ विद्युन्मद्भिर्मरुतः स्वर्कै रथेभिर्यात ऋष्टिमद्भिरश्वपर्णैः ।
आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः ॥१॥
तेऽरुणेभिर्वरमा पिशङ्गैः शुभे कं यान्ति रथतूर्भिरश्वैः ।
रुक्मो न चित्रः स्वधितीवान्पव्या रथस्य जङ्घनन्त भूम ॥२॥
श्रिये कं वो अधि तनूषु वाशीर्मेधा वना न कृणवन्त ऊर्ध्वा ।
युष्मभ्यं कं मरुतः सुजातास्तुविद्युम्नासो धनयन्ते अद्रिम् ॥३॥
अहानि गृध्राः पर्या व आगुरिमां धियं वार्कार्यां च देवीम् ।
ब्रह्म कृण्वन्तो गोतमासो अर्कैरूर्ध्वं नुनुद्र उत्सधिं पिबध्यै ॥४॥
एतत्त्यन्न योजनमचेति सस्वर्ह यन्मरुतो गोतमो वः ।
पश्यन्हिरण्यचक्रानयोदंष्ट्रान्विधावतो वराहून् ॥५॥
एषा स्या वो मरुतोऽनुभर्त्री प्रति ष्टोभति वाघतो न वाणी ।
अस्तोभयद्वृथासामनु स्वधां गभस्त्योः ॥६॥
सायणभाष्यम्
‘आ विद्युन्मद्भिः' इति षडृचं चतुर्थं सूक्तम् । अत्रानुक्रम्यते - ‘ आ विद्युन्मद्भिराद्यान्त्ये प्रस्तारपङ्क्ती पञ्चमी विराड्रूपा' इति । पूर्ववदृषिदेवते । आद्या षष्टी च द्वे प्रस्तारपङ्क्ती । आद्यौ पादौ जागतौ तृतीयचतुर्थौ गायत्रौ यस्याः सा प्रस्तारपङ्क्तिः । सूत्रितं च - ‘ प्रस्तारपङ्क्तिः पुरतः ' ( पि. सू. ३. ४० ) इति । अस्यायमर्थः । ‘ जागतौ गायत्रौ च ' इत्यनुवर्तते । यदि पुरतः पुरस्तात् द्वौ जागतौ पादौ स्याताम् अन्त्यौ गायत्रौ सा प्रस्तारपङ्क्तिरिति । एतत्त्यत्' इत्येषा पञ्चमी विराड्रूपा । आदितस्त्रयः पादा एकादशका अन्त्योऽष्टकः सा विराड्रूपेत्युच्यते । विनियोगो लैङ्गिकः ॥
आ वि॒द्युन्म॑द्भिर्मरुतः स्व॒र्कै रथे॑भिर्यात ऋष्टि॒मद्भि॒रश्व॑पर्णैः ।
आ वर्षि॑ष्ठया न इ॒षा वयो॒ न प॑प्तता सुमायाः ॥१
आ । वि॒द्युन्म॑त्ऽभिः । म॒रु॒तः॒ । सु॒ऽअ॒र्कैः । रथे॑भिः । या॒त॒ । ऋ॒ष्टि॒मत्ऽभिः॑ । अश्व॑ऽपर्णैः ।
आ । वर्षि॑ष्ठया । नः॒ । इ॒षा । वयः॑ । न । प॒प्त॒त॒ । सु॒ऽमा॒याः॒ ॥१
आ । विद्युन्मत्ऽभिः । मरुतः । सुऽअर्कैः । रथेभिः । यात । ऋष्टिमत्ऽभिः । अश्वऽपर्णैः ।
आ । वर्षिष्ठया । नः । इषा । वयः । न । पप्तत । सुऽमायाः ॥१
हे मरुतः मितं निर्मितमन्तरिक्षं प्राप्य रुवन्ति शब्दं कुर्वन्तीति मरुतः । यद्वा । अमितं भृशं शब्दकारिणः । अथवा मितं स्वैर्निर्मितं मेघं प्राप्य विद्युदात्मना रोचमानाः । अथवा महत्यन्तरिक्षे द्रवन्तीति मरुतः । ये मध्यमस्थाने देवगणाः समाम्नातास्ते सर्वे मरुतः आख्यायन्ते । तथा चाहुः-- ‘ सर्वा स्त्री मध्यमस्थाना पुमान् वायुश्च सर्वगः । गणश्च सर्वे मरुत इति वृद्धानुशासनम् ' इति । पौराणिकास्त्वाचक्षते- ‘ मारीचात्कश्यपात्सप्तगणामका एकोनपञ्चाशत्संख्याका मरुतो जज्ञिरे ' इति । एवंभूता हे “मरुतः “रथेभिः आत्मीयैः रथैः “आ “यात अस्मदीयं यज्ञमागच्छत । कीदृशैः रथैः ।। “विद्युन्मद्भिः । विद्योतनं विद्युत् । विशिष्टदीप्तियुक्तैः “स्वर्कैः स्वञ्चनैः शोभनगमनयुक्तैः । यद्वा । शोभनमर्कोऽर्चनं स्तुतिर्येषामस्ति तादृशैः । अथवा शोभनदीप्तियुक्तैः । “ऋष्टिमद्भिः । ऋष्टयः शक्तिरूपाण्यायुधानि । स्थूणा इत्यन्ये । तद्वद्भिः । “अश्वपर्णैः । अश्वानां पतनं गमनं येषामस्ति तादृशैः । यद्वा । रंहणशीला मेघा रथाः । तैः सह अन्तरिक्षे वर्षणार्थमागच्छत । कीदृशैः । विद्युन्मद्भिः । विद्युता तडिता तद्वद्भिः स्वर्कैः शोभनगमनैः ऋष्टिमद्भिः । अर्षणं गमनम्। तत्स्वभावनीरयुक्तैः । अश्वपर्णैः । अश्वं व्याप्तं पर्णं पतनं गमनं येषाम् । अन्तरिक्षं व्याप्य वर्तमानैरित्यर्थः । हे “सुमायाः । माया इति कर्मणो ज्ञानस्य च नामधेयम् । शोभनकर्माणः शोभनप्रज्ञा वा मरुतः “वर्षिष्ठया प्रवृद्धतरया “इषा अस्मभ्यं दातव्येनान्नेन सह “नः अस्मान्प्रति “वयो “न पक्षिण इव शीघ्रम् “आ “पप्तत आपतत आगच्छतेत्यर्थः । अत्र निरुक्तम् - ‘ अथातो मध्यस्थाना देवगणास्तेषां मरुतः प्रथमागामिनो भवन्ति । मरुतो मितराविणो वा मितरोचिनो वा महद्द्रवन्तीति वा ' इति, विद्युन्मद्भिर्मरुतः स्वर्कैः स्वञ्चनैरिति वा स्वर्चनैरिति वा स्वर्चिभिरिति वा रथैरायात ऋष्टिमद्भिरश्वपर्णैश्वपतनैर्वर्षिष्ठेन च नोऽन्नेन वय इवापतत सुमायाः कल्याणकर्माणो वा कल्याणप्रज्ञा वा ' ( निरु. ११. १३-१४ ) इति ॥ विद्युन्मद्भिः । यवादेराकृतिगणत्वेन विद्युच्छब्दस्य यवाद्यन्तर्भावात् अयवादिभ्यः ' इत्यत्र अनुवृत्तेः ‘झयः' ( पा. सू. ८. २. १० ) इति मतुपो वत्वं न प्रवर्तते । ऋष्टिमद्भिः । ‘ह्रस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम् । अश्वपर्णैः । अशू व्याप्तौ । अशिप्रुषि' इत्यादिना क्वन्प्रत्ययः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वर्षिष्ठया । वृद्धशब्दात् आतिशायनिके इष्टनि ‘प्रियस्थिर इत्यादिना वर्षादेशः । पप्तत । ‘ पत्लृ गतौ ' । लङि लृदित्त्वात् च्लेः अङादेशः । ‘ पतः पुम्' (पा. सू. ७. ४. १९ ) इति पुमागमः ॥
ते॑ऽरु॒णेभि॒र्वर॒मा पि॒शङ्गैः॑ शु॒भे कं या॑न्ति रथ॒तूर्भि॒रश्वैः॑ ।
रु॒क्मो न चि॒त्रः स्वधि॑तीवान्प॒व्या रथ॑स्य जङ्घनन्त॒ भूम॑ ॥२
ते । अ॒रु॒णेभिः॑ । वर॑म् । आ । पि॒शङ्गैः॑ । शु॒भे । कम् । या॒न्ति॒ । र॒थ॒तूःऽभिः॑ । अश्वैः॑ ।
रु॒क्मः । न । चि॒त्रः । स्वधि॑तिऽवान् । प॒व्या । रथ॑स्य । ज॒ङ्घ॒न॒न्त॒ । भूम॑ ॥२
ते । अरुणेभिः । वरम् । आ । पिशङ्गैः । शुभे । कम् । यान्ति । रथतूःऽभिः । अश्वैः ।
रुक्मः । न । चित्रः । स्वधितिऽवान् । पव्या । रथस्य । जङ्घनन्त । भूम ॥२
“ते पूर्वोक्ता मरुतः “अरुणेभिः अरुणवर्णैः “पिशङ्गैः पिङ्गलवर्णैरुभयवर्णोपेतैः “रथतूर्भिः रथस्य प्रेरयितृभिः “अश्वैः “वरं देवानां वरीतारं “कं शब्दयितारं स्तुवन्तं यजमानम् “आ “यान्ति आगच्छन्ति । किमर्थम्। “शुभे तस्य शोभां कर्तुम् । अथवा शुभे उदकाय । वृष्ट्यर्थमित्यर्थः । तेषां मरुतां गणः “रुक्मो “न रोचमानं सुवर्णमिव “चित्रः अतिशयेन दर्शनीयः “स्वधितीवान् । स्वधितिः इति वज्रनाम । शत्रूणां खण्डकेनायुधेनोपेतः । एवंविधगणरूपास्ते मरुतः “रथस्य “पव्या चक्रधारया “भूम भूमिं “जङ्घनन्त अत्यर्थं घ्नन्ति । स्तोतृरक्षणार्थमागतानां तेषां मरुतां भारमसहमाना भूमिरतिपीडिता बभूवेत्यर्थः ॥ वरम् । व्रियन्ते देवाः अनेनेति वरः । ‘ ग्रहवृदृनिश्चि° ' इति करणे अप् । कम्। ‘ कै गै शब्दे । कायतीति कः । बहुलवचनात् कप्रत्ययः । रथतूर्भिः । ‘ तुर वरणे'। रथं तुतुरति त्वरा युक्तं कुर्वन्तीति रथतुरः । ‘क्विप् च ' इति क्विप् । भिसि ‘हलि च' इति दीर्घत्वम् । पव्या । ‘ पवी रथनेमिर्भवति' (निरु. ५. ५) इति यास्कः । ‘ पृङ् पवने । अस्मात् अच इः' इति इप्रत्ययः । ‘ उदात्तयणः० ' इति विभक्तेरुदात्तत्वम् । जङ्घनन्त । हन्तेर्यङन्तात् वर्तमाने छान्दसो लङ् । 'छन्दस्युभयथा ' इति शप आर्धधातुकत्वात् अतोलोपयलोपौ । भूम। भूमिशब्दादुत्तरस्य अमः ‘सुपां सुलुक् इति डादेशः । छान्दसं ह्रस्वत्वम् ।
श्रि॒ये कं वो॒ अधि॑ त॒नूषु॒ वाशी॑र्मे॒धा वना॒ न कृ॑णवन्त ऊ॒र्ध्वा ।
यु॒ष्मभ्यं॒ कं म॑रुतः सुजातास्तुविद्यु॒म्नासो॑ धनयन्ते॒ अद्रि॑म् ॥३
श्रि॒ये । कम् । वः॒ । अधि॑ । त॒नूषु॑ । वाशीः॑ । मे॒धा । वना॑ । न । कृ॒ण॒व॒न्ते॒ । ऊ॒र्ध्वा ।
यु॒ष्मभ्य॑म् । कम् । म॒रु॒तः॒ । सु॒ऽजा॒ताः॒ । तु॒वि॒ऽद्यु॒म्नासः॑ । ध॒न॒य॒न्ते॒ । अद्रि॑म् ॥३
श्रिये । कम् । वः । अधि । तनूषु । वाशीः । मेधा । वना । न । कृणवन्ते । ऊर्ध्वा ।
युष्मभ्यम् । कम् । मरुतः । सुऽजाताः । तुविऽद्युम्नासः । धनयन्ते । अद्रिम् ॥३
हे मरुतः “वः युष्माकं “तनूषु शरीरेष्वंसप्रदेशेषु “वाशीः शत्रूणामाक्रोशकम् आराख्यमायुधं “श्रिये “कम् ऐश्वर्यार्थं वर्तते इति शेषः । कम् इत्येतत् पादपूरणम् । तदुक्तम्- अथापि पादपूरणाः कमीमिद्विति' इति । तादृशा मरुतः “वना “न उच्छ्रितान् वृक्षसमूहानिव “मेधा मेधान् यज्ञान “ऊर्ध्वा ऊर्ध्वान् एकाहाहीनसत्ररूपेणोच्छ्रितान् “कृणवन्ते यजमानैः कारयन्ति । हे "सुजाताः शोभन जननयुक्ताः “मरुतः “युष्मभ्यं युष्मदर्थं "कं सुखकरम् “अद्रिं सोमाभिषवे प्रवृत्तं ग्रावाणं "तुविद्युम्नासः प्रभूतधना यजमानाः “धनयन्ते धनं कुर्वन्ति युष्माकं यागाय ग्रावभिरभिषुण्वन्तीत्यर्थः ॥ वाशीः । शत्रूणां भयोत्पादनेनाक्रोशशब्दकरणं वाशः । ततः छन्दसीवनिपौ' ' इति मत्वर्थीय ईकारः । व्यत्ययेनाद्युदात्तत्वम् । मेधा । ‘ सुपां सुलुक् ' इति शसो डादेशः । वना । ‘ शेश्छन्दसि बहुलम् इति शेर्लोपः । कृणवन्ते । “कृवि हिंसाकरणयोश्च'। लटि व्यत्ययेन आत्मनेपदम् । ‘धिन्विकृण्व्योर च' इति उप्रत्ययः । पुनरपि व्यत्ययेन अन्तादेशः । ‘ छन्दस्युभयथा ' इति आर्धधातुकत्वेन झस्य अङित्वात् गुणे अवादेशः । ऊर्ध्वा । पूर्ववत् डादेशः । धनयन्ते । धनशब्दात् तत्करोति' इति णिच् ॥
अहा॑नि॒ गृध्रा॒ः पर्या व॒ आगु॑रि॒मां धियं॑ वार्का॒र्यां च॑ दे॒वीम् ।
ब्रह्म॑ कृ॒ण्वन्तो॒ गोत॑मासो अ॒र्कैरू॒र्ध्वं नु॑नुद्र उत्स॒धिं पिब॑ध्यै ॥४
अहा॑नि । गृध्राः॑ । परि॑ । आ । वः॒ । आ । अ॒गुः॒ । इ॒माम् । धिय॑म् । वा॒र्का॒र्याम् । च॒ । दे॒वीम् ।
ब्रह्म॑ । कृ॒ण्वन्तः॑ । गोत॑मासः । अ॒र्कैः । ऊ॒र्ध्वम् । नु॒नु॒द्रे॒ । उ॒त्स॒ऽधिम् । पिब॑ध्यै ॥४
अहानि । गृध्राः । परि । आ । वः । आ । अगुः । इमाम् । धियम् । वार्कार्याम् । च । देवीम् ।
ब्रह्म । कृण्वन्तः । गोतमासः । अर्कैः । ऊर्ध्वम् । नुनुद्रे । उत्सऽधिम् । पिबध्यै ॥४
तृषितैर्गोतमैः स्तुता मरुतस्तेभ्यो गोतमेभ्यो देशान्तरे वर्तमानं कूपमुत्खायानीय प्रददुः। एतत् दृष्ट्वा कश्चिदृषिर्ब्रूते । हे गोतमाः “गृध्राः जलाभिकाङ्क्षायुक्तान् “वः युष्मान् "अहानि शोभनोदकोपेतानि दिनानि “परि “आ "अगुः पर्यागतानि परितः आभिमुख्येन प्राप्तानि । प्राप्य च "वार्कार्याँ वार्भिः उदकैर्निष्पाद्यां “धियं ज्योतिष्टोमादिलक्षणं कर्म च "देवीं द्योतमानमकुर्वन् । येष्वहःसु “ब्रह्म हविर्लक्षणमन्नम् “अर्कैः मन्त्रसाध्यैः स्तोत्रैः सह “कृण्वन्तः मरुद्भ्यः कुर्वन्तः "गोतमासः गौतमा ऋषयः “उत्सधिम् । उत्सो जलप्रवाहोऽस्मिन्धीयते इत्युत्सधिः कूपः तं “पिबध्यै स्वकीयपानाय “ऊर्ध्वं “नुनुद्रे नुनुदिरे देशान्तरे वर्तमानं कूपमुत्खातवन्तः । एतदीयस्तोत्रैः स्तुता मरुतः कूपमुत्खातवन्त इति यत् तदेतदीयस्तोत्रकारितमिति एतेषूपचर्यते ॥ गृध्राः । ‘ गृधु अभिकाङ्क्षायाम्।' सुसूधागृधिभ्यः क्रन्' इति क्रन्प्रत्ययः । ‘ सुपां सुपो भवन्ति ' इति शसो जस् । नित्त्वादाद्युदात्तत्वम् । अगुः । एतेर्लुङि • इणो गा लुङि' इति गादेशः । आतः' इति झेः जुस् । वार्कार्याम् । ‘डुकृञ् करणे'। ‘ ऋहलोर्ण्यत् । वार्भिः कार्या वार्कार्या । त्रिचक्रादित्वात् उत्तरपदान्तोदात्तत्वम् । नुनुद्रे । ‘ णुद प्रेरणे'। इरयो रे' इति रेआदेशः । उत्सधिम् । कर्मण्यधिकरणे च ' इति दधातेरधिकरणे किप्रत्ययः । पिबध्यै । ‘ पा पाने । तुमर्थे सेसेन्” ' इति शध्यैन्प्रत्ययः । ‘ पाघ्रा ' इत्यादिना पिबादेशः ॥
ए॒तत्त्यन्न योज॑नमचेति स॒स्वर्ह॒ यन्म॑रुतो॒ गोत॑मो वः ।
पश्य॒न्हिर॑ण्यचक्रा॒नयो॑दंष्ट्रान्वि॒धाव॑तो व॒राहू॑न् ॥५
ए॒तत् । त्यत् । न । योज॑नम् । अ॒चे॒ति॒ । स॒स्वः । ह॒ । यत् । म॒रु॒तः॒ । गोत॑मः । वः॒ ।
पश्य॑न् । हिर॑ण्यऽचक्रान् । अयः॑ऽदंष्ट्रान् । वि॒ऽधाव॑तः । व॒राहू॑न् ॥५
एतत् । त्यत् । न । योजनम् । अचेति । सस्वः । ह । यत् । मरुतः । गोतमः । वः ।
पश्यन् । हिरण्यऽचक्रान् । अयःऽदंष्ट्रान् । विऽधावतः । वराहून् ॥५
हे “मरुतः “एतत् "योजनं युज्यतेऽनेन देवतेति योजनम् एतत्सूक्तसाध्यं स्तोत्रम् । “त्यन्न त्यत् प्रसिद्धमन्यदुत्कृष्टं स्तोत्रमिव “अचेति सर्वैर्ज्ञायते । “वः युष्मदर्थं “यत् यदेतत्सूक्तरूपं स्तोत्रं “गोतमः ‘ ऋषिः “सस्वर्ह उच्चारितवान् खलु। किं कुर्वन् । “हिरण्यचक्रान् हिरण्मयचक्ररथारूढान् हितरमणीयकर्मयुक्तान् वा “अयोदंष्ट्रान् । दशतीति दंष्ट्रा चक्रधारा । अयोमयीभिश्चक्रधाराभिर्युक्तान् । यद्वा दंशनसाधना ऋष्टयो दंष्ट्राः । अयोमया ऋष्टयो येषाम् । तान् “विधावतः विविधमितस्ततः प्रवर्तमानान् “वराहून् । वरस्योत्कृष्टस्य शत्रोर्हन्तॄन् । यद्वा उत्कृष्टस्य वृष्ट्युदकस्याहर्तॄन् । अथवा उत्कृष्टानां देवतानामाह्वातॄन वरस्य हविषो भक्षयतॄन् वा । एवंभूतान् मरुतः “पश्यन् सम्यग्जानन् गोतमः यत्स्तोत्रं कृतवान् तदेतत्सर्वोत्कृष्टं सत् अस्माभिः सर्वैरुपलभ्यते इत्यर्थः । अत्र निरुक्तम् - अथाप्येते माध्यमका देवगणा वराहव उच्यन्ते । पश्यन्हिरण्यचक्रान्' (निरु. ५, ४ ) इति । अचेति । ‘ चिती संज्ञाने । छान्दसो वर्तमाने कर्मणि लुङ् । सस्वः । स्वृ शब्दोपतापयोः । लङि तिपि ‘ बहुलं छन्दसि ' इति शपः श्लुः । गुणे ‘ हल्ङ्याब्भ्यः० ' इति तलोपः । धातुस्वरेण अन्तोदात्तत्वम् । वराहून्। वरशब्दोपपदात् आङ्पूर्वात् हन्तेर्वा हरतेर्वा ह्वयतेर्वा जुहोतेरदनार्थात् वा हु इत्येतस्य निष्पत्तिः इति स्कन्दस्वामी । अस्य पृषोदरादित्वात् अभिमतसिद्धिः॥
ए॒षा स्या वो॑ मरुतोऽनुभ॒र्त्री प्रति॑ ष्टोभति वा॒घतो॒ न वाणी॑ ।
अस्तो॑भय॒द्वृथा॑सा॒मनु॑ स्व॒धां गभ॑स्त्योः ॥६
ए॒षा । स्या । वः॒ । म॒रु॒तः॒ । अ॒नु॒ऽभ॒र्त्री । प्रति॑ । स्तो॒भ॒ति॒ । वा॒घतः॑ । न । वाणी॑ ।
अस्तो॑भयत् । वृथा॑ । आ॒सा॒म् । अनु॑ । स्व॒धाम् । गभ॑स्त्योः ॥६
एषा । स्या । वः । मरुतः । अनुऽभर्त्री । प्रति । स्तोभति । वाघतः । न । वाणी ।
अस्तोभयत् । वृथा । आसाम् । अनु । स्वधाम् । गभस्त्योः ॥६
हे “मरुतः “स्या सा “एषा अस्मदीया स्तुतिः “वः युष्माकम् “अनुभर्त्री युष्माननुहरन्ती युष्मद्गुणसदृशी “प्रति “ष्टोभति प्रत्येकं स्तौति । स्तोभतिः स्तुतिकर्मा । तथा “वाघतो “न “वाणी । नशब्दः संप्रत्यर्थे । तदुक्तं यास्केन - अस्त्युपमार्थस्य संप्रत्यर्थे प्रयोगः ' ( निरु. ७. ३१ ) इति । इदानीम् ऋत्विक्संबन्धिनी वागपि “वृथा अनायासेन “आसाम् आभिः ऋग्भिः “अस्तोभयत् अस्तौत् । इदानीमित्युक्ते कदेत्याह । “गभस्त्योः अस्मदीययोर्बाह्वोः “स्वधाम् । अन्ननामैतत् । यदा बहुविधमन्नं मरुतः स्थापयन्ति । तामनुलक्ष्येत्यर्थः ॥ अनुभर्त्री । ‘ हृञ् हरणे ' । तृच् । ऋन्नेभ्यः' इति ङीप् । ‘ उदात्तयणो हल्पूर्वात्' इति नद्या उदात्तत्वम् ॥ ॥ १४ ॥
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|