सामग्री पर जाएँ

ऋग्वेदः सूक्तं १.१५५

विकिस्रोतः तः
← सूक्तं १.१५४ ऋग्वेदः - मण्डल १
सूक्तं १.१५५
दीर्घतमा औचथ्यः
सूक्तं १.१५६ →
दे. विष्णुः, १-३ इन्द्राविष्णू। जगती ।


प्र वः पान्तमन्धसो धियायते महे शूराय विष्णवे चार्चत ।
या सानुनि पर्वतानामदाभ्या महस्तस्थतुरर्वतेव साधुना ॥१॥
त्वेषमित्था समरणं शिमीवतोरिन्द्राविष्णू सुतपा वामुरुष्यति ।
या मर्त्याय प्रतिधीयमानमित्कृशानोरस्तुरसनामुरुष्यथः ॥२॥
ता ईं वर्धन्ति मह्यस्य पौंस्यं नि मातरा नयति रेतसे भुजे ।
दधाति पुत्रोऽवरं परं पितुर्नाम तृतीयमधि रोचने दिवः ॥३॥
तत्तदिदस्य पौंस्यं गृणीमसीनस्य त्रातुरवृकस्य मीळ्हुषः ।
यः पार्थिवानि त्रिभिरिद्विगामभिरुरु क्रमिष्टोरुगायाय जीवसे ॥४॥
द्वे इदस्य क्रमणे स्वर्दृशोऽभिख्याय मर्त्यो भुरण्यति ।
तृतीयमस्य नकिरा दधर्षति वयश्चन पतयन्तः पतत्रिणः ॥५॥
चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतीँरवीविपत् ।
बृहच्छरीरो विमिमान ऋक्वभिर्युवाकुमारः प्रत्येत्याहवम् ॥६॥


सायणभाष्यम्

‘प्र वः पान्तम्' इति षडृचं षोडश सूक्तं दैर्घतमसं जागतम् । पूर्वत्र वैष्णवं हि' इत्युक्तत्वात् वैष्णवम् । आद्यस्तृच इन्द्रदेवताकश्च । प्र वो जागतं त्वैन्द्रश्चाद्यस्तृचः' इत्यनुक्रमणिका। आभिप्लविकेषूक्थ्येषु स्तोमातिशंसने उक्तो विनियोगः ॥


प्र व॒ः पान्त॒मन्ध॑सो धियाय॒ते म॒हे शूरा॑य॒ विष्ण॑वे चार्चत ।

या सानु॑नि॒ पर्व॑ताना॒मदा॑भ्या म॒हस्त॒स्थतु॒रर्व॑तेव सा॒धुना॑ ॥१

प्र । वः॒ । पान्त॑म् । अन्ध॑सः । धि॒या॒ऽय॒ते । म॒हे । शूरा॑य । विष्ण॑वे । च॒ । अ॒र्च॒त॒ ।

या । सानु॑नि । पर्व॑तानाम् । अदा॑भ्या । म॒हः । त॒स्थतुः॑ । अर्व॑ताऽइव । सा॒धुना॑ ॥१

प्र । वः । पान्तम् । अन्धसः । धियाऽयते । महे । शूराय । विष्णवे । च । अर्चत ।

या । सानुनि । पर्वतानाम् । अदाभ्या । महः । तस्थतुः । अर्वताऽइव । साधुना ॥१

हे अध्वर्य्वादयः “वः युष्माकं संबन्धि “पान्तं पालनस्वभावं पातव्यं वा “अन्धसः अन्धः सोमरूपमन्नं “प्र “अर्चत प्रकर्षेण संपादयत । कस्मै । “धियायते स्तुतीरिच्छते “महे महते “शूराय विक्रान्तायेन्द्राय "विष्णवे व्यापकायैतन्नामकाय देवाय “च । कस्तयोरतिशय इति उच्यते । “या यौ इन्द्राविष्णू “पर्वतानां प्रीणनवतां पूरणवतां वा । पर्वतशब्दो यास्केनैवं निरुक्तः -- ‘ पर्ववान् पर्वतः पर्व पुनः पृणातेः प्रीणातेर्वा ' इति । उक्तलक्षणानां लोकानाँ “सानुनि समुच्छ्रितप्रदेशे । सर्वलोके इत्यर्थः । अथवा मेघानां समुच्छ्रितप्रदेशे । पर्वतशब्दः मेघनामसु उक्तत्वात् । तत्र “तस्थतुः तिष्ठतः । कीदृशौ तौ । “अदाभ्या अदम्भनीयौ परैरनभिभाव्यौ अत एव "महः महान्तौ । यद्वा । महो महसि स्वतेजसि सानुनीत्यनेन संबन्धः । तत्र दृष्टान्तः । “साधुना अभिमतदेशप्रापणसमर्थेन “अर्वता वेगवताश्वेन “इव । तेन यथा अत्युच्छ्रितं प्रदेशमारोहति तद्वदुच्चं पदमारूढौ । तस्मात्ताभ्यामर्चत ।।


सोमातिरेके तृतीयसवने एषा वैकल्पिकी याज्या। तथा च सूत्रितं - ‘ त्वेषमित्था समरणं शिमीवतोरिति वा याज्या' (आश्व. श्रौ. ६. ७) इति ॥

त्वे॒षमि॒त्था स॒मर॑णं॒ शिमी॑वतो॒रिन्द्रा॑विष्णू सुत॒पा वा॑मुरुष्यति ।

या मर्त्या॑य प्रतिधी॒यमा॑न॒मित्कृ॒शानो॒रस्तु॑रस॒नामु॑रु॒ष्यथ॑ः ॥२

त्वे॒षम् । इ॒त्था । स॒म्ऽअर॑णम् । शिमी॑ऽवतोः । इन्द्रा॑विष्णू॒ इति॑ । सु॒त॒ऽपाः । वा॒म् । उ॒रु॒ष्य॒ति॒ ।

या । मर्त्या॑य । प्र॒ति॒ऽधी॒यमा॑नम् । इत् । कृ॒शानोः॑ । अस्तुः॑ । अ॒स॒नाम् । उ॒रु॒ष्यथः॑ ॥२

त्वेषम् । इत्था । सम्ऽअरणम् । शिमीऽवतोः । इन्द्राविष्णू इति । सुतऽपाः । वाम् । उरुष्यति ।

या । मर्त्याय । प्रतिऽधीयमानम् । इत् । कृशानोः । अस्तुः । असनाम् । उरुष्यथः ॥२

हे "इन्द्राविष्णू "शिमीवतोः इष्टप्रदानादिकर्मवतोः “वां युवयोः “इत्था इत्थं “त्वेषं प्रदीप्तं “समरणं सम्यग्यागदेशगमनं "सुतपाः हुतशिष्टसोमपीतयजमानः "उरुष्यति रक्षति यागेन पूजयति । यद्वा । शिमीवतोः प्रहरणादिकर्मवतोः वां युवयोः त्वेषं दीप्तं शौर्योपेतं समरणं सम्यक्परस्परगमनोपेतं वृष्टिप्रदानाय मेघविदारणरूपं यजमान उरुष्यति रक्षति स्तौतीत्यर्थः । कस्तयोरतिशय इति उच्यते । “या यौ इन्द्राविष्णू “मर्त्याय मनुष्याय हविर्दात्रे यजमानाय "प्रतिधीयमानमित् प्रतिधातव्यं फलरूपम् “असनाम् असनं चलनशीलं प्रदानशीलमन्नादिकम् “अस्तुः अभिमतक्षेप्तुर्निरसितुर्वा शत्रूणां “कृशानोः अग्नेः सकाशात् "उरुष्यथः अविच्छेदेन प्रवर्तयथः । वह्नौ हुतं हविः स्वीकृत्य तन्मुखादेव फलमपि दास्यथ इत्यर्थः ।


ता ईं॑ वर्धन्ति॒ मह्य॑स्य॒ पौंस्यं॒ नि मा॒तरा॑ नयति॒ रेत॑से भु॒जे ।

दधा॑ति पु॒त्रोऽव॑रं॒ परं॑ पि॒तुर्नाम॑ तृ॒तीय॒मधि॑ रोच॒ने दि॒वः ॥३

ताः । ई॒म् । व॒र्ध॒न्ति॒ । महि॑ । अ॒स्य॒ । पौंस्य॑म् । नि । मा॒तरा॑ । न॒य॒ति॒ । रेत॑से । भु॒जे ।

दधा॑ति । पु॒त्रः । अव॑रम् । पर॑म् । पि॒तुः । नाम॑ । तृ॒तीय॑म् । अधि॑ । रो॒च॒ने । दि॒वः ॥३

ताः । ईम् । वर्धन्ति । महि । अस्य । पौंस्यम् । नि । मातरा । नयति । रेतसे । भुजे ।

दधाति । पुत्रः । अवरम् । परम् । पितुः । नाम । तृतीयम् । अधि । रोचने । दिवः ॥३

“ताः सोमरूपाः प्रसिद्धा आहुतयो यजमानेन हुताः “ईम् एतत् “अस्य इन्द्रस्य “महि महत् “पौंस्यं पुंसः कर्म वक्ष्यमाणरूपं बलं “वर्धन्ति वर्धयन्ति । ईमित्यनर्थको वा । स चेन्द्रः सोमपानजनितं सामर्थ्यं “मातरा द्यावापृथिव्यौ “नि “नयति नितरां प्रापयति । किमर्थम् । "रेतसे प्राणिनां पुत्राद्युत्पादनसामर्थ्याय “भुजे तेषां भोगाय रक्षणाय वा । कुत्रेति तदुच्यते । “दिवः द्योतमानस्यादित्यस्य “अधि अधिकं “रोचने रोचमाने मण्डले। “नाम नमनं द्यावापृथिव्योः स्थापितं सामर्थ्यं “पुत्रः पुरुत्राता सर्वो जनः “पितुः पालकाद्विष्णोरनुग्रहात् । यद्वा । पितुः स्वोत्पादकात् स्वयमुत्पन्नं सत् “अवरं निकृष्टं नाम पौत्रसंज्ञं “परं तदुत्कृष्टं पुत्र इति नाम तदुभयापेक्षया “तृतीयं पितेति नाम “दधाति धारयति । त्रीणि वाव रेतांसि पिता पुत्रः पौत्रः' (तै. सं. ५. ६. ८. ४ ) इति श्रुतेः । अस्यायमर्थः । अग्नौ हुताः सोमाहुतयः आदित्यमण्डलं प्राप्य द्वादशात्मनः सवितुर्मूर्त्यन्तरौ इन्द्राविष्णू पोषयन्ति तुष्टौ तौ मेघद्वारा वर्षतः । तया वृष्ट्या सस्यादिद्वारा प्रजाः पुत्रपौत्रादिरूपेण वर्धयत इत्येवं महानुभावौ इन्द्राविष्णू इति ॥


तत्त॒दिद॑स्य॒ पौंस्यं॑ गृणीमसी॒नस्य॑ त्रा॒तुर॑वृ॒कस्य॑ मी॒ळ्हुष॑ः ।

यः पार्थि॑वानि त्रि॒भिरिद्विगा॑मभिरु॒रु क्रमि॑ष्टोरुगा॒याय॑ जी॒वसे॑ ॥४

तत्ऽत॑त् । इत् । अ॒स्य॒ । पौंस्य॑म् । गृ॒णी॒म॒सि॒ । इ॒नस्य॑ । त्रा॒तुः । अ॒वृ॒कस्य॑ । मी॒ळ्हुषः॑ ।

यः । पार्थि॑वानि । त्रि॒ऽभिः । इत् । विगा॑मऽभिः । उ॒रु । क्रमि॑ष्ट । उ॒रु॒ऽगा॒याय॑ । जी॒वसे॑ ॥४

तत्ऽतत् । इत् । अस्य । पौंस्यम् । गृणीमसि । इनस्य । त्रातुः । अवृकस्य । मीळ्हुषः ।

यः । पार्थिवानि । त्रिऽभिः । इत् । विगामऽभिः । उरु । क्रमिष्ट । उरुऽगायाय । जीवसे ॥४

“अस्य महानुभावस्य “तत्तत् “पौंस्यं पुंस्त्वं पराक्रमातिशयं “गृणीमसि गृणीमः स्तुमः । कीदृशस्यास्य । “इनस्य सर्वस्य स्वामिनः “त्रातुः पालकस्य “अवृकस्य । वृको हिंसकः शत्र्वादिः । तद्रहितस्य "मीळ्हुषः सेक्तुर्नित्यतरुणस्य । स्तुत्येषु पराक्रमेषु मध्ये एकमुदाहरति । “यः विष्णुः “पार्थिवानि पृथिव्यादीनि प्रथनवन्ति वा सामर्थ्यात् रजांसीति गम्यते । लोकत्रयस्यापि पृथिवीशब्दवाच्यत्वं पूर्वमुदाहृतम् । तानि “त्रिभिरिद्विगामभिः त्रिभिरेव विविधगमनैः "उरु विस्तीर्णं यथा भवति तथा “क्रमिष्ट क्रान्तवान् विचक्रमे इत्यर्थः । “उरुगायाय उरुगातव्याय “जीवसे लोकत्रयरक्षणाय । यद्वा । उरुगायाय ॥ षष्ठ्यर्थे चतुर्थी ॥ उरुगायस्य विष्णोरीदृशं पराक्रमं गृणीमसि । किमर्थम् । जीवसे जीवनाय रक्षणाय ॥


द्वे इद॑स्य॒ क्रम॑णे स्व॒र्दृशो॑ऽभि॒ख्याय॒ मर्त्यो॑ भुरण्यति ।

तृ॒तीय॑मस्य॒ नकि॒रा द॑धर्षति॒ वय॑श्च॒न प॒तय॑न्तः पत॒त्रिण॑ः ॥५

द्वे इति॑ । इत् । अ॒स्य॒ । क्रम॑णे॒ इति॑ । स्वः॒ऽदृशः॑ । अ॒भि॒ऽख्याय॑ । मर्त्यः॑ । भु॒र॒ण्य॒ति॒ ।

तृ॒तीय॑म् । अ॒स्य॒ । नकिः॑ । आ । द॒ध॒र्ष॒ति॒ । वयः॑ । च॒न । प॒तय॑न्तः । प॒त॒त्रिणः॑ ॥५

द्वे इति । इत् । अस्य । क्रमणे इति । स्वःऽदृशः । अभिऽख्याय । मर्त्यः । भुरण्यति ।

तृतीयम् । अस्य । नकिः । आ । दधर्षति । वयः । चन । पतयन्तः । पतत्रिणः ॥५

“अस्य “स्वर्दृशः स्वर्गस्य सर्वस्य वा द्रष्टुर्विष्णोः “द्वे “इत् “क्रमणे द्वे एव पदे "मर्त्यः मनुष्यः “अभिख्याय सर्वभूत्यादिना प्रख्याय “भुरण्यति गच्छति भजते। भुरण्यतिः कण्ड्वादिर्गतिकर्मा, ‘भुरण्यति शवति ' (नि. २. १४. १६) इति तत्कर्मसु पाठात् । प्रसिद्धत्वात् भूलोकं वृष्ट्यागमनादन्तरिक्षं चेत्युभे क्रमणे जानाति । “अस्य विष्णोः “तृतीयं क्रमणं द्युलोकाख्यं कोऽपि मर्त्यः ”नकिः नैव “आ “दधर्षति बुद्ध्या नाभिभवति ज्ञातुं न शक्नोतीत्यर्थः । न केवलं मनुष्य एव अपि तु “वयश्चन वेतारो मरुतोऽपि । कीदृशास्ते । “पतयन्तः सर्वत्र गमनसमर्थाः तथा “पतत्रिणः पतनशीला गरुडादयो वायवो वा नकिरा दधर्षति नैव शक्नुवन्ति ॥ धृषेर्लेटि अडागमः ॥ सत्यलोकस्य अत्यन्तविप्रकृष्टत्वेन सर्वेषामविषयत्वादिति भावः ॥


च॒तुर्भि॑ः सा॒कं न॑व॒तिं च॒ नाम॑भिश्च॒क्रं न वृ॒त्तं व्यतीँ॑रवीविपत् ।

बृ॒हच्छ॑रीरो वि॒मिमा॑न॒ ऋक्व॑भि॒र्युवाकु॑मार॒ः प्रत्ये॑त्याह॒वम् ॥६

च॒तुःऽभिः॑ । सा॒कम् । न॒व॒तिम् । च॒ । नाम॑ऽभिः । च॒क्रम् । न । वृ॒त्तम् । व्यती॑न् । अ॒वी॒वि॒प॒त् ।

बृ॒हत्ऽश॑रीरः । वि॒ऽमिमा॑नः । ऋक्व॑ऽभिः । युवा॑ । अकु॑मारः । प्रति॑ । ए॒ति॒ । आ॒ऽह॒वम् ॥६

चतुःऽभिः । साकम् । नवतिम् । च । नामऽभिः । चक्रम् । न । वृत्तम् । व्यतीन् । अवीविपत् ।

बृहत्ऽशरीरः । विऽमिमानः । ऋक्वऽभिः । युवा । अकुमारः । प्रति । एति । आऽहवम् ॥६

अयमादित्यात्मा विष्णुः “चतुर्भिः “साकं सहितां "नवतिं “च । चतुर्नवतिमित्यर्थः । एतत्संख्याकान् कालावयवान् “नामभिः स्वकीयनमनप्रकारैः प्रेरणविशेषैः “वृत्तं यथा भवति तथा “व्यतीन् विविधातनस्वभावान् वृत्तं “चक्रं “न बह्वरोपेतं चक्रमिव तं यथा शत्रोरुपरि प्रक्षेपेण भ्रमयति तद्वदुक्तसंख्याकान् कालावयवान् “अवीविपत् कम्पयति भ्रमयति॥ ‘ टुवेपृ कम्पने '। ण्यन्तात् लुङि चङि रूपम् ॥ के पुनस्ते उच्यते । संवत्सर एकः । अयने द्वे। पञ्चर्तवः । द्वादश मासाः । चतुर्विंशत्यर्धमासाः । त्रिंशदहोरात्राः । अष्टौ यामाः । एकस्मिन् दिने पर्यावर्तमानानि मेषादीनि द्वादश लग्नानीति मिलित्वा चतुरधिकनवतिसंख्याकानवीविपत्। नन्वादित्यः स्वयमपि इतरवत्परिभ्रमति कथं भ्रमयति इत्युच्यते । नैष दोषः । एतेषां भ्रामकस्य धुवस्य विष्णोः मूर्त्यंन्तरत्वात्। अथवा स्वभ्रमणाधीनत्वादितरेषां परिभ्रमणस्य अतः स्वयं भ्रमयति इत्युच्यते । एवं कलात्मकः विष्णुः “बृहच्छरीरः विराडात्मना सर्वदेवमनुष्यादिशरीराणां स्वशरीरत्वात् । बृहच्छरीरत्वमेवोपपादयति । “विमिमानः विविधमात्मानं मिमानो देवतिर्यगात्मना विभज्य स्थापयन् । यद्वा । “ऋक्वभिः स्तुतिमद्भिः मन्त्रवद्भिः वा विमिमानः । यद्यपि विभुस्तथापि भक्त्याधीनत्वात् स्तुत्या मीयते । “युवा सर्वत्र मिश्रणशीलो नित्यतरुणो वा अत एव “अकुमारः अनल्पः एवंभूतो महाविष्णुः “आहवम् आह्वानं “प्रत्येति गच्छति यज्ञदेशम् ॥ ॥ २५ ॥


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१५५&oldid=351260" इत्यस्माद् प्रतिप्राप्तम्