ऋग्वेदः सूक्तं १.७८
← सूक्तं १.७७ | ऋग्वेदः - मण्डल १ सूक्तं १.७८ गोतमो राहूगणः |
सूक्तं १.७९ → |
दे. अग्निः। गायत्री |
अभि त्वा गोतमा गिरा जातवेदो विचर्षणे ।
द्युम्नैरभि प्र णोनुमः ॥१॥
तमु त्वा गोतमो गिरा रायस्कामो दुवस्यति ।
द्युम्नैरभि प्र णोनुमः ॥२॥
तमु त्वा वाजसातममङ्गिरस्वद्धवामहे ।
द्युम्नैरभि प्र णोनुमः ॥३॥
तमु त्वा वृत्रहन्तमं यो दस्यूँरवधूनुषे ।
द्युम्नैरभि प्र णोनुमः ॥४॥
अवोचाम रहूगणा अग्नये मधुमद्वचः ।
द्युम्नैरभि प्र णोनुमः ॥५॥
सायणभाष्यम्
' अभि त्वा ' इति पञ्चर्चं पञ्चमं सूक्तं गोतमस्यार्षमाग्नेयं गायत्रम् । तथा चानुक्रान्तम्-- अभि त्वा गायत्रं तु ' इति । विनियोगो लैङ्गिकः ॥
अ॒भि त्वा॒ गोत॑मा गि॒रा जात॑वेदो॒ विच॑र्षणे ।
द्यु॒म्नैर॒भि प्र णो॑नुमः ॥१
अ॒भि । त्वा॒ । गोत॑माः । गि॒रा । जात॑ऽवेदः । विऽच॑र्षणे ।
द्यु॒म्नैः । अ॒भि । प्र । नो॒नु॒मः॒ ॥१
अभि । त्वा । गोतमाः । गिरा । जातऽवेदः । विऽचर्षणे ।
द्युम्नैः । अभि । प्र । नोनुमः ॥१
हे "जातवेदः जातानां वेदितः “विचर्षणे विशेषेण सर्वस्य द्रष्टः एवंभूताग्ने “त्वा त्वां “गोतमाः अस्य सूक्तस्य द्रष्टा गोतम ऋषिः । ऋषेरेकत्वेऽपि पूजार्थं बहुवचनम् । “गिरा स्तोत्रलक्षणया वाचा “अभि आभिमुख्येन अस्तौदिति शेषः । तद्वद्वयमपि त्वां द्युम्नैः त्वदीयगुणप्रकाशकैर्मन्त्रैः "अभि “प्र “णोनुमः आभिमुख्येन पुनःपुनः स्तुमः ॥ नोनुमः । ‘णु स्तुतौ । अस्मात् यङ्लुगन्तात् लट् । ‘ उपसर्गादसमासेऽपि ' इति णत्वम् ॥
तमु॑ त्वा॒ गोत॑मो गि॒रा रा॒यस्का॑मो दुवस्यति ।
द्यु॒म्नैर॒भि प्र णो॑नुमः ॥२
तम् । ऊं॒ इति॑ । त्वा॒ । गोत॑मः । गि॒रा । रा॒यःऽका॑मः । दु॒व॒स्य॒ति॒ ।
द्यु॒म्नैः । अ॒भि । प्र । नो॒नु॒मः॒ ॥२
तम् । ऊं इति । त्वा । गोतमः । गिरा । रायःऽकामः । दुवस्यति ।
द्युम्नैः । अभि । प्र । नोनुमः ॥२
“रायस्कामः धनकामः “गोतमः यमग्निं “गिरा स्तुत्या "दुवस्यति परिचरति “तमु तमेव त्वां “द्युम्नैः द्योतमानैः स्तोत्रैराभिमुख्येन पुनःपुनः स्तुमः ॥ रायस्कामः । रायो धनानि कामयते इति रायस्कामः । 'कर्मण्यण् । तत्पुरुषे कृति बहुलम् ' इति बहुलवचनात् अलुक् । ' ऊडिदम् । इत्यादिना पूर्वपदस्य विभक्तेरुदात्तत्वम् । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । अतः कृकमिकंसकुम्भ ' ( पा. सू. ८. ३. ४६ ) इति विसर्जनीयस्य सत्वम् । दुवस्यति । ‘दुवस उपतापे परिचरणे च' । कण्ड्वादिः ॥
तमु॑ त्वा वाज॒सात॑ममङ्गिर॒स्वद्ध॑वामहे ।
द्यु॒म्नैर॒भि प्र णो॑नुमः ॥३
तम् । ऊं॒ इति॑ । त्वा॒ । वा॒ज॒ऽसात॑मम् । अ॒ङ्गि॒र॒स्वत् । ह॒वा॒म॒हे॒ ।
द्यु॒म्नैः । अ॒भि । प्र । नो॒नु॒मः॒ ॥३
तम् । ऊं इति । त्वा । वाजऽसातमम् । अङ्गिरस्वत् । हवामहे ।
द्युम्नैः । अभि । प्र । नोनुमः ॥३
हे अग्ने “वाजसातमं वाजानामन्नानामतिशयेन सनितारं दातारं तमेव “त्वा त्वाम् “अङ्गिरस्वत् अङ्गिरस इव "हवामहे आह्वयामः । शिष्टं गतम् ॥ वाजसातमम् । ‘ षणु दाने'। ‘जनसनखनक्रमगमो विट्'।विड्वनोरनुनासिकस्यात्' इति आत्वम्। अतिशयेन वाजसा वाजसातमः। तमपः पित्त्वादनुदात्तत्वे कृदुत्तरपदप्रकृतिस्वर एव शिष्यते । अङ्गिरस्वत् । तेन तुल्यम्' इति वतिः । ‘नभोऽङ्गिरोमनुषां वत्युपसंख्यानम्' (पा. सू. १, ४, १८. ३) इति भत्वेन पदत्वाभावात् रुत्वाद्यभावः ।।
तमु॑ त्वा वृत्र॒हन्त॑मं॒ यो दस्यूँ॑रवधूनु॒षे ।
द्यु॒म्नैर॒भि प्र णो॑नुमः ॥४
तम् । ऊं॒ इति॑ । त्वा॒ । वृ॒त्र॒हन्ऽत॑मम् । यः । दस्यू॑न् । अ॒व॒ऽधू॒नु॒षे ।
द्यु॒म्नैः । अ॒भि । प्र । नो॒नु॒मः॒ ॥४
तम् । ऊं इति । त्वा । वृत्रहन्ऽतमम् । यः । दस्यून् । अवऽधूनुषे ।
द्युम्नैः । अभि । प्र । नोनुमः ॥४
हे अग्ने “दस्यून् उपक्षपयितॄन् राक्षसादीन् “यः त्वम् “अवधूनुषे अवचालयसि स्थानात् प्रच्यावयसि “वृत्रहन्तमं वृत्राणां पाप्मनाम् अतिशयेन हन्तारं “तमु “त्वा तमेव त्वां द्युम्नैरित्यादि पूर्ववत् ॥ वृत्रहन्तमम् । अतिशयेन वृत्रहा वृत्रहन्तमः । पदसंज्ञायां नलोपे ‘नाद्धस्य ' ( पा. सू. ८. २. १७) इति तमपो नुट् । दस्यून् ।' दीर्घादटि समानपादे' इति नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वा ' इति ऊकारः सानुनासिकः ।।
अवो॑चाम॒ रहू॑गणा अ॒ग्नये॒ मधु॑म॒द्वचः॑ ।
द्यु॒म्नैर॒भि प्र णो॑नुमः ॥५
अवो॑चाम । रहू॑गणाः । अ॒ग्नये॑ । मधु॑ऽमत् । वचः॑ ।
द्यु॒म्नैः । अ॒भि । प्र । नो॒नु॒मः॒ ॥५
अवोचाम । रहूगणाः । अग्नये । मधुऽमत् । वचः ।
द्युम्नैः । अभि । प्र । नोनुमः ॥५
ऋषिः कृतं स्तोत्रमनयोपसंहरति । “रहूगणाः रहूगणस्य पुत्रा वयं गोतमाः "अग्नये अङ्गनादिगुणयुक्ताय देवाय “मधुमद्वचः माधुर्योपेतं वचनम् “अवोचाम प्रावादिष्म । तद्वचनरूपैः द्युम्नैः द्योतमानैः स्तोत्रैः पुनःपुनरग्निं वयम् “अभि “प्र “णोनुमः आभिमुख्येन प्रकर्षेण स्तुमः ॥ ॥ २६ ॥
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|