ऋग्वेदः सूक्तं १.४९
← सूक्तं १.४८ | ऋग्वेदः - मण्डल १ सूक्तं १.४९ प्रस्कण्वः काण्वः। |
सूक्तं १.५० → |
दे. उषाः। अनुष्टुप्। |
उषो भद्रेभिरा गहि दिवश्चिद्रोचनादधि ।
वहन्त्वरुणप्सव उप त्वा सोमिनो गृहम् ॥१॥
सुपेशसं सुखं रथं यमध्यस्था उषस्त्वम् ।
तेना सुश्रवसं जनं प्रावाद्य दुहितर्दिवः ॥२॥
वयश्चित्ते पतत्रिणो द्विपच्चतुष्पदर्जुनि ।
उषः प्रारन्नृतूँरनु दिवो अन्तेभ्यस्परि ॥३॥
व्युच्छन्ती हि रश्मिभिर्विश्वमाभासि रोचनम् ।
तां त्वामुषर्वसूयवो गीर्भिः कण्वा अहूषत ॥४॥
सायणभाष्यम्
उषो भद्रेभिः' इति चतुर्ऋचं षष्ठं सूक्तम् । अत्रानुक्रम्यते - उषश्चतुष्कमानुष्टुभं तु ' इति । कण्वपुत्रः प्रकण्व ऋषिः । तुह्यादिपरिभाषया इदमुत्तरं चानुष्टुभम् । पूर्वत्र ‘ उषस्यं तु ' इत्युक्तत्वात् इदमपि सूक्तम् उषस्यम् । प्रातरनुवाकस्योषस्ये क्रतावानुष्टुभे छन्दस्येतत्सूक्तम् । सूत्र्यते हि -- ‘ उषो भद्रेभिरित्यानुष्टुभम् ' ( आश्व. श्रौ. ४. १४) इति । आश्विनशस्त्रेऽप्येतत्सूक्तं , ' प्रातरनुवाकन्यायेन' ( आश्व. श्रौ. ६. ५) इत्यतिदेशात् ॥
उषो॑ भ॒द्रेभि॒रा ग॑हि दि॒वश्चि॑द्रोच॒नादधि॑ ।
वह॑न्त्वरु॒णप्स॑व॒ उप॑ त्वा सो॒मिनो॑ गृ॒हम् ॥१
उषः॑ । भ॒द्रेभिः॑ । आ । ग॒हि॒ । दि॒वः । चि॒त् । रो॒च॒नात् । अधि॑ ।
वह॑न्तु । अ॒रु॒णऽप्स॑वः । उप॑ । त्वा॒ । सो॒मिनः॑ । गृ॒हम् ॥१
उषः । भद्रेभिः । आ । गहि । दिवः । चित् । रोचनात् । अधि ।
वहन्तु । अरुणऽप्सवः । उप । त्वा । सोमिनः । गृहम् ॥१
हे "उषः उषोदेवते “भद्रेभिः भन्दनीयैः शोभनैर्मार्गैः "दिवः अन्तरिक्षलोकात् । रोचनात् रोचमानात् दीप्यमानात्। अधिः उपर्यर्थः । उपरि वर्तमानात् । चित् इति पूजितार्थः। पूजितात् एवंविधादन्तरिक्षलोकात् "आ "गहि आगच्छ। हे उषः "अरुणप्सवः अरुणवर्णा गावः "सोमिनः सोमयुक्तस्य यजमानस्य "गृहं देवयजनरूपं यज्ञगृहं "त्वा त्वाम् "उप “वहन्तु प्रापयन्तु ॥ गहि । गमेर्लोटि बहुलं छन्दसि' इति शपो लुक् । हेरपित्त्वेन ङित्त्वे ' अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः । ‘ अतो हेः' इति लुक् न भवति, असिद्धवदत्रा भात् ' इति अनुनासिकलोपस्यासिद्धत्वात् । रोचनात् ।' रुच दीप्तौ । ‘ अनुदात्तेतश्च हलादेः' इति युच् । योरनादेशे ‘ चितः' इत्यन्तोदात्तत्वम् । अरुणप्सवः । ‘ प्सा भक्षणे'। प्सान्ति भक्षयन्ति स्तनं पिबन्तीति प्सवो वत्साः । औणादिकः कुप्रत्ययः । आतो लोप इटि च ' इति आकारलोपः। अरुणाः प्सवो यासां तास्तथोक्ताः । अत्र वत्सानामारुण्यप्रतिपादनात् मातॄणामपि तथात्वं गम्यते । ‘ पैतृकमश्वा अनुहरन्ते । मातृकं गावोऽनुहरन्ते' (पा. म. १. ३. २१. ५) इति गोनर्दीयः । तासां च उषोवाहनस्त्वं निघण्टावुक्तम् - अरुण्यो गाव उषसाम्' (नि. १. १५, ७ ) इति । अरुणशब्दः ‘अर्तेश्च ' ( उ. सू. ५. ६८५) इति उनन्प्रत्ययान्तः । तृणाख्यायां चित् ' ( उ. सू. ३. ३३९ ) इत्यतः ‘चित्' इत्यनुवृत्तेरन्तोदात्तः । स एव बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन शिष्यते ॥
सु॒पेश॑सं सु॒खं रथं॒ यम॒ध्यस्था॑ उष॒स्त्वम् ।
तेना॑ सु॒श्रव॑सं॒ जनं॒ प्रावा॒द्य दु॑हितर्दिवः ॥२
सु॒ऽपेश॑सम् । सु॒ऽखम् । रथ॑म् । यम् । अ॒धि॒ऽअस्थाः॑ । उ॒षः॒ । त्वम् ।
तेन॑ । सु॒ऽश्रव॑सम् । जन॑म् । प्र । अ॒व॒ । अ॒द्य । दु॒हि॒तः॒ । दि॒वः॒ ॥२
सुऽपेशसम् । सुऽखम् । रथम् । यम् । अधिऽअस्थाः । उषः । त्वम् ।
तेन । सुऽश्रवसम् । जनम् । प्र । अव । अद्य । दुहितः । दिवः ॥२
हे "उषः "त्वं "यं "रथम् "अध्यस्थाः अधितिष्ठसि। कीदृशं रथम्। "सुपेशसं शोभनावयवं शोभनरूपयुक्तं वा । ‘ पेश इति रूपनाम ' (निरु. ८. ११ ) इति यास्कः । यद्वा । शोभनहिरण्ययुक्तम् । ‘ पेशः कृशनम् ' ( नि. १. २. ६) इति तन्नामसु पाठात् । "सुखं शोभनेन स्वेन आकाशेन युक्तं विस्तृतमित्यर्थः । यद्वा । सुखहेतुभूतम् । अथवा सुखमिति क्रियाविशेषणम् । सुखं यथा भवति तथेत्यर्थः । हे "दिवः “दुहितः द्युलोकसकाशात् उत्पन्ने उषोदेवते "तेन रथेन "अद्य अस्मिन् काले “सुश्रवसं शोभनहविर्युक्तं “जनं यजमानं "प्राव प्रकर्षेण गच्छ ॥ सुपेशसम् । ‘ पिश अवयवे'। अस्मात् असुन्प्रत्ययः । नित्त्वदाद्युदात्तः पेशस्शब्दः । शोभनं पेशो यस्यासौ सुपेशाः । ‘ आद्युदात्तं द्व्यच्छन्दसि ' इत्युत्तरपदाद्युदात्तत्वम् । अध्यस्थाः । तिष्ठतेः ‘ छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लुङि गातिस्था° ' इति सिचो लुक् । अडागम उदात्तः । यद्वृत्तयोगादनिघातः । ‘ तिङि चोदात्तवति' इति गतेरनुदात्तत्वम् । तेन । अन्येषामपि दृश्यते ' इति संहितायां दीर्घः । सुश्रवसम् । श्रव इत्यन्ननाम श्रूयत इति सतः ' ( निरु. १०. ३ ) इति यास्कः । सुपेशसमितिवदुत्तरपदाद्युदात्तत्वम् । अव । ‘ अव रक्षणगतिप्रीतितृप्ति° ' इत्युक्तत्वात् अत्र अवतिर्गत्यर्थः । दुहितर्दिवः । परमपि च्छन्दसि ' इति षष्ठ्यन्तस्य पूर्वामन्त्रिताङ्गवद्भावे सति पदद्वयसमुदायस्य आष्टमिकं सर्वानुदात्तत्वम् ॥
वय॑श्चित्ते पत॒त्रिणो॑ द्वि॒पच्चतु॑ष्पदर्जुनि ।
उष॒ः प्रार॑न्नृ॒तूँरनु॑ दि॒वो अन्ते॑भ्य॒स्परि॑ ॥३
वयः॑ । चि॒त् । ते॒ । प॒त॒त्रिणः॑ । द्वि॒ऽपत् । चतुः॑ऽपत् । अ॒र्जु॒नि॒ ।
उषः॑ । प्र । आ॒र॒न् । ऋ॒तून् । अनु॑ । दि॒वः । अन्ते॑भ्यः । परि॑ ॥३
वयः । चित् । ते । पतत्रिणः । द्विऽपत् । चतुःऽपत् । अर्जुनि ।
उषः । प्र । आरन् । ऋतून् । अनु । दिवः । अन्तेभ्यः । परि ॥३
हे "अर्जुनि शुभ्रवर्णे “उषः उषोदेवते "ते तव "ऋतूँरनु गमनान्यनुलक्ष्य "द्विपत् द्विपात् मनुष्यादिकं "चतुष्पत् गवादिकं तथा “पतत्रिणः पतत्रवन्तः पक्षोपेताः “वयश्चित् पक्षिणश्च “दिवः “अन्तेभ्यः आकाशप्रान्तेभ्यः "परि उपरि “प्रारन् प्रकर्षेण गच्छन्ति । रात्रावन्धकारेणाभिभूताः सर्वे प्राणिनः त्वदागमानन्तरं चेष्टावन्तो भवन्तीत्यर्थः ॥ पतत्रिणः । ‘ पत्लृ गतौ । पतत्यनेनेति पतत्रम् । ‘ अमिनक्षि° (उ. सू. ३. ३८५) इत्यादिना अत्रन्प्रत्ययः । ततो मत्वर्थीय इनिः । द्विपत् । द्वौ पादावस्येति संख्यासुपूर्वस्य ' ( पा. सू. ५. ४. १४० ) इति पाशब्दस्य अन्त्यलोपः समासान्तः । अयस्मयादित्वेन भत्वात् ‘ पादः पत्' ( पा. सू. ६. ४. १३०) इति पद्भावः ।। ‘ द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ ' ( पा. सू. ६. २. १९७ ) इत्युत्तरपदान्तोदात्तत्वम् । चतुष्पत् । चत्वारः पादा अस्य । स्वरव्यतिरिक्तं पूर्ववत् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ‘ इणः षः' इत्यनुवृत्तौ इदुदुपधस्य चाप्रत्ययस्य ' ( पा. सू. ८. ३. ४१ ) इति विसर्जनीयस्य षत्वम् । न च परत्वेनास्य असिद्धत्वात् कुप्वोः क पौ च ' ( पा. सू. ८. ३. ३७) इति उपध्मानीयादेशः शङ्कनीयः, येन नाप्राप्तिन्यायेन तस्यापवादत्वात् । अपवादस्तु परमपि पूर्वं बाधते एव' इति वृत्तावुक्तम् । आरन् । ‘ऋ गतौ । ‘ छन्दसि लुङ्लङलिटः ' इति वर्तमाने लुङि ‘ सर्तिशास्त्यर्तिभ्यश्च ' इति च्लेः अङादेशः । ‘ ऋदृशोऽङि गुणः' इति गुणः । आडागमः । ऋतून् । ‘ऋ गतौ ' । अस्मात् औणादिको भावे कुप्रत्ययः । अनु । अनुर्लक्षणे ' ( पा. सू. १. ४.८४ ) इति अनोः कर्मप्रवचनीयत्वम् ‘ कर्मप्रवचनीययुक्ते° ' (पा. सू. २. ३. ८) इति द्वितीया । संहितायां ' दीर्घादटि समानपादे ' इति नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वा ' इति रोः पूर्वस्य वर्णस्य सानुनासिकत्वम् । दिवः । ‘ ऊडिदम्' इति विभक्तिरुदात्ता । अन्तेभ्यः । पञ्चम्याः परावध्यर्थे ' इति विसर्जनीयस्य सत्वम् ।।
व्यु॒च्छन्ती॒ हि र॒श्मिभि॒र्विश्व॑मा॒भासि॑ रोच॒नम् ।
तां त्वामु॑षर्वसू॒यवो॑ गी॒र्भिः कण्वा॑ अहूषत ॥४
वि॒ऽउ॒च्छन्ती॑ । हि । र॒श्मिऽभिः॑ । विश्व॑म् । आ॒ऽभासि॑ । रो॒च॒नम् ।
ताम् । त्वाम् । उ॒षः॒ । व॒सु॒ऽयवः॑ । गीः॒ऽभिः । कण्वाः॑ । अ॒हू॒ष॒त॒ ॥४
विऽउच्छन्ती । हि । रश्मिऽभिः । विश्वम् । आऽभासि । रोचनम् ।
ताम् । त्वाम् । उषः । वसुऽयवः । गीःऽभिः । कण्वाः । अहूषत ॥४
हे "उषः "व्युच्छन्ती तमो वर्जयन्ती त्वं "रश्मिभिः स्वकीयैस्तेजोभिः "विश्वं सर्वं भूतजातं "रोचनं रोचमानं प्रकाशयुक्तं यथा भवति तथा “आ भासि आ समन्तात् प्रकाशसे । “हि यस्मादेवं तस्मात् “तां तादृशीं “त्वां “वसूयवः वसुकामाः "कण्वाः मेधाविन ऋत्विजः कण्वगोत्रोत्पन्ना वा महर्षयः “गीर्भिः स्तुतिलक्षणैर्वचोभिः "अहूषत स्तुतवन्तः' इत्यर्थः । कण्व इति मेधाविनाम, कण्वः ऋभुः ( नि. ३. १५. ७ ) इति तन्नामसु पाठात् ॥ आभासि । ‘भा दीप्तौ । अदादित्वात् शपो लुक् । सिपः पित्त्वादनुदात्तत्वे धातुस्वरः । ‘ हि च ' इति निघातप्रतिषेधः । ‘ तिङि चोदात्तवति' इति गतेरनुदात्तत्वम् । रोचनम् । रुच दीप्तौ ।' अनुदात्तेतश्च हलादेः' इति युच् । ‘ चितः' इत्यन्तोदात्तत्वम् । वसूयवः । वसु धनमात्मन इच्छन्तः । सुप आत्मनः क्यच् । ‘ अकृत्सार्वधातुकयो:०' इति दीर्घः । ‘ क्याच्छन्दसि ' इति उप्रत्ययः । गीर्भिः। ‘ सावेकाचः०' इति विभक्तेरुदात्तत्वम् । कण्वाः । कण शब्दार्थः । ‘ अशिप्रुषिलटिकणि° ' इत्यादिना क्वन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । अहूषत । ह्वेञो लुङि ‘ ह्वः संप्रसारणम्' इत्यनुवृत्तौ ‘ बहुलं छन्दसि ' इति संप्रसारणम् । परपूर्वत्वे ‘ हलः' इति दीर्घत्वम् । च्लेः सिच् । एकाचः' इति इट्प्रतिषेधः। संज्ञापूर्वकस्य विधेरनित्यत्वात गुणाभावः ॥ ॥ ६ ॥
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|