योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०१०

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ०९ योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)
सर्गः १०
अज्ञातलेखकः
सर्गः ११ →
उत्पत्तिप्रकरणम्

सर्गः १

सर्गः २

सर्गः ३

सर्गः ४

सर्गः ५

सर्गः ६

सर्गः ७

सर्गः ८

सर्गः ९

सर्गः १०

सर्गः ११

सर्गः १२

सर्गः १३

सर्गः १४

सर्गः १५

सर्गः १६

सर्गः १७

सर्गः १८

सर्गः १९

सर्गः २०

सर्गः २१

सर्गः २२

सर्गः २३

सर्गः २४

सर्गः २५

सर्गः २६

सर्गः २७

सर्गः २८

सर्गः २९

सर्गः ३०

सर्गः ३१

सर्गः ३२

सर्गः ३३

सर्गः ३४

सर्गः ३५

सर्गः ३६

सर्गः ३७

सर्गः ३८

सर्गः ३९

सर्गः ४०

सर्गः ४१

सर्गः ४२

सर्गः ४३

सर्गः ४४

सर्गः ४५

सर्गः ४६

सर्गः ४७

सर्गः ४८

सर्गः ४९

सर्गः ५०

सर्गः ५१

सर्गः ५२

सर्गः ५३

सर्गः ५४

सर्गः ५५

सर्गः ५६

सर्गः ५७

सर्गः ५८

सर्गः ५९

सर्गः ६०

सर्गः ६१

सर्गः ६२

सर्गः ६३

सर्गः ६४

सर्गः ६५

सर्गः ६६

सर्गः ६७

सर्गः ६८

सर्गः ६९

सर्गः ७०

सर्गः ७१

सर्गः ७२

सर्गः ७३

सर्गः ७४

सर्गः ७५

सर्गः ७६

सर्गः ७७

सर्गः ७८

सर्गः ७९

सर्गः ८०

सर्गः ८१

सर्गः ८२

सर्गः ८३

सर्गः ८४

सर्गः ८५

सर्गः ८६

सर्गः ८७

सर्गः ८८

सर्गः ८९

सर्गः ९०

सर्गः ९१

सर्गः ९२

सर्गः ९३

सर्गः ९४

सर्गः ९५

सर्गः ९६

सर्गः ९७

सर्गः ९८

सर्गः ९९

सर्गः १००

सर्गः १०१

सर्गः १०२

सर्गः १०३

सर्गः १०४

सर्गः १०५

सर्गः १०६

सर्गः १०७

सर्गः १०८

सर्गः १०९

सर्गः ११०

सर्गः १११

सर्गः ११२

सर्गः ११३

सर्गः ११४

सर्गः ११५

सर्गः ११६

सर्गः ११७

सर्गः ११८

सर्गः ११९

सर्गः १२०

सर्गः १२१

सर्गः १२२


दशमः सर्गः १०

श्रीराम उवाच ।
महाप्रलयसंपत्तौ यदेतदवशिष्यते ।
भवत्येतदनाकारं नाम नास्त्यत्र संशयः ।। १
न शून्यं कथमेतत्स्यान्न प्रकाशः कथं भवेत् ।
कथं वा न तमोरूपं कथं वा नैव भास्वरम् ।। २
कथं वा नैव चिद्रूपं जीवो वा न कथं भवेत् ।
कथं न बुद्धितत्त्वं स्यात्कथं वा न मनो भवेत् ।। ३
कथं वा नैव किंचित्स्यात्कथं वा सर्वमित्यपि ।
अनयैव वचोभङ्ग्या मम मोह इवोदितः ।। ४
श्रीवसिष्ठ उवाच ।
विषमोऽयमतिप्रश्नो भवता समुदाहृतः ।
भेत्तास्म्यहं त्वयत्नेन नैशं तम इवांशुमान् ।। ५
महाकल्पान्तसंपत्तौ यत्तत्सदवशिष्यते ।
तद्राम न यथा शून्यं तदिदं श्रृणु कथ्यते ।। ६
अनुत्कीर्णा यथा स्तम्भे संस्थिता शालभञ्जिका ।
तथा विश्वं स्थितं तत्र तेन शून्यं न तत्पदम् ।। ७
अयमित्थं महाभोगो जगदाख्योऽवभासते ।
सत्यो भवत्वसत्यो वा यत्र तत्र त्वशून्यता ।। ८
यथा न पुत्रिकाशून्यः स्तम्भोऽनुत्कीर्णपुत्रिकः ।
तथा भातं जगद्ब्रह्म तेन शून्य न तत्पदम् ।। ९
सौम्याम्भसि यथा वीचिर्न चास्ति नच नास्ति च ।
तथा जगद्ब्रह्मणीदं शून्याशून्यपदं गतम् ।। १०
देशकालादि शान्तत्वात्पुत्रिकारचनं द्रुमे ।
संभवत्ययथाऽतो वै तेनानन्ते विमुह्यते ।। ११
तत्स्तम्भपुत्रिकाद्येतत्परमार्थे जगत्स्थितेः ।
एकदेशेन सदृशमुपमानं न सर्वथा ।। १२
न कदाचिदुदेतीदं परस्मान्न च शाम्यति ।
 इत्थं स्थितं केवलं सद्ब्रह्म स्वात्मनि संस्थितम् ।। १३
अशून्यापेक्षया शून्यशब्दार्थपरिकल्पना ।
अशून्यत्वात्संभवतः शून्यताशून्यते कुतः ।। १४
ब्रह्मण्ययं प्रकाशो हि न संभवति भूतजः ।
सूर्यानलेन्दुतारादिः कुतस्तत्र किलाव्यये ।। १५
महाभूतप्रकाशानामभावस्तम उच्यते ।
महाभूताभावजं तु तेनात्र न तमः क्वचित् ।। १६
स्वानुभूतिः प्रकाशोऽस्य केवलं व्योमरूपिणः ।
योऽन्तरस्ति स तेनैव नत्वन्येनानुभूयते ।। १७
मुक्तं तमःप्रकाशाभ्यामित्येतदजरं पदम् ।
आकाशकोशमेवेदं विद्धि कोशं जगत्स्थितेः ।। १८
बिल्वस्य बिल्वमध्यस्य यथा भेदो न कश्चन ।
तथास्ति ब्रह्मजगतोर्न मनागपि भिन्नता ।। १९
सलिलान्तर्यथा वीचिर्मृदन्तर्घटको यथा ।
तथा यत्र जगत्सत्ता तत्कथं खात्मकं भवेत् ।। २०
भूर्जलाद्युपमानश्रीः साकारान्ता समानसा ।
ब्रह्म त्वाकाशविशदं तस्यान्तस्थं तथैव तत् ।। २१
तस्माद्यादृक्चिदाकाशमाकाशादपि निर्मलम् ।
तदन्तस्थं तादृगेव जगच्छब्दार्थभागपि ।। २२

मरीचेऽन्तर्यथा तैक्ष्ण्यमृते भोक्तुर्न लक्ष्यते ।
चिन्मात्रत्वं चिदाकाशे तथा चेत्यकलां विना ।। २३
तस्माच्चिदप्यचिद्रूपं चेत्यरिक्तं तदात्मनि ।
जगत्ता तादृगेवेयं तावन्मात्रात्मतावशात् ।। २४
रूपालोकमनस्कारास्तन्मया एव नेतरत् ।
यथास्थितमतो विश्वं सुषुप्तं तुर्यमेव वा ।। २५
तेन योगी सुषुप्तात्मा व्यवहार्यपि शान्तधीः ।
आस्ते ब्रह्म निराभासं सर्वाभाससमुद्गकः ।। २६
आकारिणि यथा सौम्ये स्थितास्तोये महोर्मयः ।
अनाकृतौ तथा विश्वं स्थितं तत्सदृशं परे ।। २७
पूर्णात्पूर्णं प्रसरति यत्तत्पूर्णं निराकृति ।
ब्रह्मणो विश्वमाभातं तद्धि स्वार्थं विचक्षितम् ।। २८
पूर्णात्पूर्णं प्रसरति संस्थितं पूर्णमेव तत् ।
अतो विश्वमनुत्पन्नं यच्चोत्पन्नं तदेव तत् ।। २९
चेत्यासंभवतस्तस्मिन्यदेका जगदर्थता ।
आस्वादका संभवतो मरीचे कैव तीक्ष्णता ।। ३०
सत्येवेयमसत्यैव चित्तचेत्यादिता परे ।
तद्भावात्प्रतिबिम्बस्य प्रतिबिम्बार्हता कुतः ।। ३१
परमाणोरपि परं तदणीयो ह्यणीयसः ।
शुद्धं सूक्ष्मं परं शान्तं तदाकाशोदरादपि ।। ३२
दिक्कालाद्यनवच्छिन्नरूपत्वादतिविस्तृतम् ।
तदनाद्यन्तमाभासं भासनीयविवर्जितम् ।। ३३

चिद्रूपमेव नो यत्र लभ्यते यत्र जीवता ।
कथं स्याच्चित्तताकारा वासना नित्यरूपिणी ।। ३४
चिद्रूपानुदयादेव तत्र नास्त्येव जीवता ।
न बुद्धिता चित्तता वा नेन्द्रियत्वं न वासना ।। ३५
एवमित्थं महारम्भपूर्णमप्यजरं पदम् ।
अस्मद्दृष्ट्या स्थितं शान्तं शून्यमाकाशतोऽधिकम् ।। ३६
श्रीराम उवाच ।
परमार्थस्य किं रूपं तस्यानन्तचिदाकृतेः ।
पुनरेतन्ममाचक्ष्व निपुणं बोधवृद्धये ।। ३७
श्रीवसिष्ठ उवाच ।
महाप्रलयसंपत्तौ सर्वकारणकारणम् ।
शिष्यते परमं ब्रह्म तदिदं वर्ण्यते श्रृणु ।। ३८
नाशयित्वा स्वमात्मानं मनसो वृत्तिसंक्षये ।
सद्रूपं यदनाख्येयं तद्रूपं तस्य वस्तुनः ।। ३९
नास्ति दृश्यं जगद्द्रष्टा दृश्याभावाद्विलीनवत् ।
भातीति भासनं यत्स्यात्तद्रूपं तस्य वस्तुनः ।। ४०
चितेर्जीवस्वभावाया यदचेत्योन्मुखं वपुः ।
चिन्मात्रं विमलं शान्तं तद्रूपं परमात्मनः ।। ४१
अङ्गलग्नेऽपि वातादौ स्पर्शाद्यनुभवं विना ।
जीवतश्चेतसो रूपं यत्तद्वै परमात्मनः ।। ४२
अस्वप्नाया अनन्ताया अजडाया मनःस्थितेः ।
यद्रूपं चिरनिद्रायास्तत्तदानघ शिष्यते ।। ४३
यद्व्योम्नो हृदयं यद्वा शिलायाः पवनस्य च ।
तस्याचेत्यस्य चिद्व्योम्नस्तद्रूपं परमात्मनः ।। ४४
अचेत्यस्यामनस्कस्य जीवतो या स्वभावतः ।
स्यात्स्थितिः सा परा शान्ता सत्ता तस्याद्यवस्तुनः ।। ४५
चित्प्रकाशस्य यन्मध्यं प्रकाशस्यापि खस्य वा ।
दर्शनस्य च यन्मध्यं तद्रूपं ब्रह्मणो विदुः ।। ४६
व्रेदनस्य प्रकाशस्य दृश्यस्य तमसस्तथा ।
वेदनं यदनाद्यन्तं तद्रूपं परमात्मनः ।। ४७
यतो जगदुदेतीव नित्यानुदितरूप्यपि ।
विभिन्नवदिवाभिन्नं तद्रूपं परमार्थकम् ।। ४८
व्यवहारपरस्यापि यत्पाषाणवदासनम् ।
अव्योम्न एव व्योमत्वं तद्रूपं परमात्मनः ।। ४९
वेद्यवेदनवेत्तृत्वरूपत्रयमिदं पुरः ।
यत्रोदेत्यस्तमायाति तत्तत्परमदुर्लभम् ।। ५०
वेद्यवेदनवेत्तृत्वं यत्रेदं प्रतिबिम्बति ।

अबुद्ध्यादौ महादर्शे तद्रूपं परमं स्मृतम् ।। ५१
मनः स्वप्नेन्द्रियैर्मुक्तं यद्रूपं स्यान्महाचितेः ।
जङ्गमे स्थावरे वापि तत्सर्वान्तेऽवशिष्यते ।। ५२
स्थावराणां हि यद्रूपं तच्चेद्बोधमयं भवेत् ।
मनोबुद्ध्यादिनिर्मुक्तं तत्परेणोपमीयते ।। ५३
ब्रह्मार्कविष्णुहरशक्रसदाशिवादि
शान्तौ शिवं परममेतदिहैकमास्ते ।
सर्वोपधिव्ययवशादविकल्परूपं
चैतन्यमात्रमयमुज्झितविश्वसङ्गम् ।। ५४

इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे महाकल्पान्तावशिष्टपरमभाववर्णनं नाम दशमः सर्गः ।। १० ।।