योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०२५
← सर्गः २४ | योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्) सर्गः ०२५ अज्ञातलेखकः |
सर्गः २६ → |
श्रीवसिष्ठ उवाच ।
नभःस्थलाद्गिरिग्रामं गच्छन्त्यौ कंचिदेव ते ।
ज्ञप्तिचित्तस्थितं भूमितलं ददृशतुः स्त्रियौ ।। १
ब्रह्माण्डनरहृत्पद्मं दिगष्टकदलं बृहत् ।
गिरिकेसरसंबाधं स्वामोदभरसुन्दरम् ।। २
सरित्केसरिकानालमध्येऽवश्यायबिन्दुकम् ।
शर्वरिभ्रमरीभ्रान्तं भूतौघमशकाकुलम् ।। ३
अन्तर्गुणगणाकीर्णं सुरन्ध्रैः सुषिरैर्वृतम् ।
उह्यमानपयःपूरैर्दिवसालोककान्तिमत् ।। ४
रसार्द्रं खे भ्रमद्धंसं रात्रिसंकोचभाजनम् ।
पातालपङ्कनिर्मग्ननागनाथमृणालकम् ।। ५
कदाचिदास्पदाम्भोधिकम्पकम्पितदिग्दलम् ।
अधोनालगतानन्तदैत्यदानवकण्टकम् ।। ६
असुरस्त्रैणवल्लर्या संभोगसुकुमारया ।
प्राप्यभूभृन्महाबीजहृदयं भूतबीजया ।।
जम्बूद्वीप इति ख्यातां विपुलां तत्र कर्णिकाम् ।
सरित्केसरिकानाला नगरग्रामकेसराम् ।। ८
कुलशैलेश्वरोत्तुङ्गबीजसप्तकसुन्दरीम् ।
मध्यस्थोच्चमहामेरुबीजाक्रान्तनभस्थलीम् ।। ९
सरःप्रालेयकणिकां वनजङ्गलधूलिकाम् ।
स्थलेष्वामण्डलान्तस्थजनजालालिमण्डलाम् ।। १०
तां योजनशताकारैः प्रतिराकं प्रबोधिभिः ।
सागरैर्भ्रमरैर्व्याप्ता दिक्वतुष्टयशालिभिः ।। ११
दिग्दलाष्टकविश्रान्तससुराम्भोधिषट्पदाम् ।
भ्रातृभिर्नवभिर्भूपैर्नवधा परिकल्पिताम् ।। १२
लक्षयोजनविस्तीर्णामाकीर्णां च रजोलवैः ।
नानाजनपदव्यूहस्थिरावश्यायसीकराम् ।। १३
द्वीपात्तु द्विगुणं मानं लवणार्णवलेखया ।
दधत्या वलितां बाह्ये प्रकोष्ठमिव कम्बुना ।। १४
ततोऽपि द्विगुणं देहं दधत्या वलयाकृतिम् ।
जगद्भूतलताव्याप्तां शाकाख्यद्वीपलेखया ।। १ ऽ
ततोऽपि द्विगुणाकारं धारयन्त्या च वेष्टिताम् ।
प्रत्यग्रक्षीरपूर्णाब्धिलेखया स्वादुशीतया ।। १६
ततोऽपि द्विगुणाकारं धारयन्त्योपवेष्टिताम् ।
नानाजनालंकृतया कुशाख्यद्वीपलेखया ।। १७
ततोऽपि द्विगुणाकारं धारयन्त्या च वेष्टिताम् ।
दध्यब्धिलेखया नित्यसंतर्पितसुरौघया ।। १८
ततः क्रौञ्चाभिधद्वीपलेखयैवं प्रमाणया ।
वेष्टितां खातरचया नवां नृपपुरीमिव ।। १९
ततोऽपि च घृताम्भोधिलेखयैवं प्रमाणया ।
ततोऽपि शाल्मलीद्वीपलेखया मलपूर्णया ।। २०
ततः सुरामहाम्भोधिलेखया पुष्पशुभ्रया ।
शेषस्य देहलतया हरिमूर्तिमिवावृताम् ।। २१
ततो गोमेदकद्वीपलेखयैवप्रमाणया ।
इक्ष्वब्धिलेखयाप्येवं हिमवत्सानुशुद्धया ।।
ततोऽपि पुष्करद्वीपलेखया द्विगुणस्थया ।
अन्ते स्वादूदकाम्भोधिलेखयैवं प्रमाणया ।। २३
ततो दशगुणेनाथ पातालतलगामिना ।
निखातवलयेनोच्चैः श्वभ्रसंभाररूपिणा ।। २४
पातालगामिमार्गेण वलितां भयदात्मना ।
एतस्मात्खलु सर्वस्मात्ततो दशगुणोच्चया ।। २५
आव्योमसु चतुर्दिक्षु श्वभ्रसंभारभीषया ।
अर्धोन्म्लानतमोरूपलग्ननीलोत्पलस्रजा ।। २६
नानामाणिक्यशिखरकह्लारकुमुदाब्जया ।
लोकालोकाचलोत्तालविपुलोद्दाममालया ।। २७
वलितां त्रिजगल्लक्ष्मीधम्मिल्लवलनामिव । ।
एतस्मादेव सर्वस्मात्ततो दशगुणात्मना ।। २८
अज्ञातभूतसंचारनाम्नारण्येन मालिताम् ।
एतस्मादेव सर्वस्मात्ततो दशगुणात्मना ।। २९
नभसेव चतुर्दिक्कं व्याप्तामतुलवारिणा ।
एतस्मादेव सर्वस्मात्ततो दशगुणात्मना ।। ३०
मेर्वादिद्रावणोत्केन ज्वालाजालेन मालिताम् ।
एतस्मादथ सर्वस्मात्ततो दशगुणात्मना ।। ३१
मेर्वाद्यचलसङ्घातं नयता तृणपांसुवत् ।
वहताद्रीन्द्रविस्फोटकारिणा जवहारिणा ।। ३२
निःशून्यत्वादशब्देन मरुता परितो वृतम् ।
एतस्मादथ सर्वस्मात्ततो दशगुणात्मना ।। ३३
परितो वलितं व्योम्ना निःशून्येनैकरूपिणा ।
अथ योजनकोटीनां शतेन घनरूणिणा ।
व्याप्तं ब्रह्माण्डकुड्येन हैमेनापि द्विपर्वणा ।। ३४
इति जलधिमहाद्रिलोकपालत्रिदशपुराम्बरभूतलैः परीतम् ।
जगदुदरमवेक्ष्य मानुषी द्राग्भुवि निजमन्दिरकोटरं ददर्श ।। ३५
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० भूलोकवर्णनं नाम पञ्चविंशः सर्गः ।। २५ ।।