योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः १२०
← सर्गः ११९ | योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्) सर्गः १२० अज्ञातलेखकः |
सर्गः १२१ → |
श्रीवसिष्ठ उवाच ।
हेमोर्मिकादिवन्मिथ्या कथितायाः क्षयोन्मुखम् ।
त्वं महत्त्वमविद्यायाः शृणु राघव कीदृशम् ।। १
लवणोऽसौ महीपालस्तथा दृष्ट्वा तदा भ्रमम् ।
द्वितीये दिवसे गन्तुं प्रवृत्तस्तां महाटवीम् ।। २
यत्र दृष्टं मया दुःखमरण्यानीं स्मरामि ताम् ।
चित्तादर्शगतां विन्ध्यात्कदाचिल्लभ्यते हि सा ।। ३
इति निश्चित्य सचिवैः प्रययौ दक्षिणापथम् ।
पुनर्दिग्विजयायेव प्राप्य विन्ध्यमहीधरम् ।। ४
पूर्वदक्षिणपाश्चात्यमहार्णवतटस्थलीम् ।
बभ्राम कौतुकात्सर्वां व्योमवीथीमिवोष्णगुः ।। ५
अथैकस्मिन्प्रदेशे तां चिन्तामिव पुरोगताम् ।
ददर्शोग्रामरण्यानीं परलोकमहीमिव ।। ६
स तत्र विहरंस्तांस्तान्वृत्तान्तान्सकलानथ ।
दृष्टवान्पृष्टवांश्चैव ज्ञातवांश्च विसिस्मिये ।। ७
तान्परिज्ञातवांश्चासीद्व्याधान्पुल्कसजान्पुनः ।
विस्मयाकुलया बुद्ध्या भूयो बभ्राम संभ्रमी ।। ८
अथ प्राप्य महाटव्यां पर्यन्ते धूमधूसरे ।
तमेव ग्रामकं यस्मिन्सोऽभवत्पुष्टपुल्कसः ।। ९
तत्रापश्यज्जनांस्तांस्तांस्ताः स्त्रियस्ताः कुटीरकाः ।
नानाकाराञ्जनाधारांस्तांस्तांश्च वसुधातटान् ।। १०
तांश्चाकाण्डपरिभ्रष्टांतान्वृक्षांस्तांस्त्वनुव्रजान् ।
तांस्तथैव समुद्देशास्ताऋयाधानेकलान्सुतान् ।। ११
अन्यासु वृद्धासु सबाष्पनेत्रास्वार्तार्तियुक्तासु च वर्णयन्ती ।
अकालकान्तारविशीर्णबन्धुर्दुःखान्यसंख्यानि सखीषु वृद्धा ।। १२
वृद्धा प्रवृद्धोज्ज्वलनेत्रबाष्पा कष्टं बताशुष्ककुचा कृशाङ्गी ।
अवग्रहोग्राशनिदग्धदेशे तत्रार्तनादा परिरोदितीदम् ।। १३
हा पुत्रि पुत्रावृतसर्वगात्रे दिनत्रयाभोजनजर्जराङ्गि ।
कृत्वासिना वर्मणि जीर्णदेहाः कथं क्व मुक्ता भवतासवस्ते ।। १४
तालीदलालम्बनमम्बुदाद्रौ दन्तान्तरस्थारुणसत्फलस्य ।
स्मरामि गुञ्जाफलदाम भर्तुः पुरस्थमुद्रामरहासिनस्ते ।। १५
कदम्बजम्बीरलवङ्गगुञ्जा-कुञ्जान्तरतस्तु चरत्तरक्षोः ।
पश्यामि पुत्रस्य कदा नु भूयो भयंकराण्युड्यतिवल्गितानि ।। १६
न तानि कामस्य विलासिनीह मुखेऽपि शोभालसितानि सन्ति ।
तमालनीले चिबुकैकदेशे सुतस्य चान्यास्यगतामिषस्य ।। १७
सुतापनीता सह तेन भर्त्रा यमेन यस्या यमुना समाना ।
तमालवल्लीसहपुष्पगुच्छा समीरणेनेव वने वरेण ।। १८
हा पुत्रि गुञ्जाफलदामहारे समुन्नताभोगपयोधराङ्गि ।
वातोल्लसत्कज्जललोलवर्णे पर्णाम्बरे बादरजम्बुदन्ते ।। १९
हा राजपुत्रेन्दुसमानकान्त संत्यज्य शुद्धान्तविलासिनीस्ताः ।
रतिं प्रयातोऽसि ममात्मजायां न सापि ते सुस्थिरतामुपेता ।। २०
संसारनद्याः सुतरङ्गभङ्गैः क्रियाविलासैर्विहितोपहासैः ।
किं नाम तुच्छं न कृतं नृपेशो यद्योजितः पुष्कसकन्यकायाम् ।। २१
सा त्रस्तसारङ्गसमाननेत्रा स दृप्तशार्दूलसमानवीर्यः ।
उभौ गतावेकपदेन नाशमाशा सहार्थेन यथा महेहा ।। २२
मृतेश्वराश्वस्तनिजात्मजास्मि दुर्देशयातास्मि च दुर्गताऽस्मि ।
दुर्जातिजातास्मि महापदेऽस्मि साक्षाद्भयं भोऽस्मि महापदस्मि ।। २३
नीचावमानप्रभवस्य मन्योः क्षुधाप्रपन्नस्य कलत्रकस्य ।
शोकस्य वृत्तावनिवार्यवृत्तेर्नार्यस्म्यनेकायतनं विनाथा ।। २४
दैवोपतप्तस्य विबान्धवस्य मूढस्य रूढस्य महाधिभूमौ ।
यत्प्राणनं यन्मरणं महापद्यस्यात्मनिर्जीवितमुत्तमं तत् ।। २५
जनैर्विहीनस्य कुदेशवृत्तेर्दुःखान्यनन्तानि समुल्लसन्ति ।
सहस्रशाखारससंकुलानि तृणानि वर्षास्विव पर्वतस्य ।। २६
एवं लपन्तीं स्वकलत्रवृद्धां दासीभिराश्वास्य नृपः स्त्रियं ताम् ।
पप्रच्छ किंवृत्तमिहैव का च का ते सुता कश्च सुतस्तवेति ।। २७
उवाच सा बाष्पविलोचनाथ ग्रामस्त्वयं पुष्पसघोषनामा ।
इहाभवत्पुष्कसकः पतिर्मे बभूव तस्येन्दुसमा सुतैका ।। २८
सा दैवयोगात्पतिमिन्द्रतुल्यमिहागतं दैववशेन भूपम् ।
अयं विशीर्णं मधुकुम्भमाप वने वराकी करभी यथैका ।। २९
सा तेन सार्धं सुचिरं सुखानि भुक्त्वा प्रसूता तनयाः सुतांश्च ।
वृद्धिं गता काननकोटरेऽस्मिंस्तुम्बीलता पादपसंश्रितेव ।। ३०
इत्यार्षे श्रीवसिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूत्पत्तिप्रकरणे चण्डालीशोचनं नाम विंशत्युत्तरशततमः सर्गः ।। १२० ।।