योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ११९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


एकोनविंशोत्तरशततमः सर्गः ११९
श्रीवसिष्ठ उवाच ।
ऊर्मिकासंविदा हेम यथा विस्मृत्य हेमताम् ।
विरौति नाहं हेमेति तथात्माहंतयानया ।। १
श्रीराम उवाच ।
ऊर्मिकासंविदुदयः कथं हेम्नो यथा मुने ।
अहंता चात्मन इति यथावद्ब्रूहि मे प्रभो ।। २
श्रीवसिष्ठ उवाच ।
सत एवागमापायौ प्रष्टव्यौ नासतः सता ।
अहंत्वमूर्मिकात्वं च सती तु न कदाचन ।। ३
हेमं हेम्न्यूर्मिकां च त्वं गृहाणेत्युदितो यदि ।
यद्दीयते सोर्मिकेण तत्तदस्ति न संशयः ।। ४
श्रीराम उवाच ।
एवं चेत्तत्त्प्रभो किं स्यादूर्मिकात्वं तु कीदृशम्।
अनयैवार्थनिश्चित्या ज्ञास्यामि ब्रह्मणो वपुः ।। ५
श्रीवसिष्ठ उवाच ।
रूपं राघव नीरूपमसतश्चेन्निरूप्यते ।
तद्वन्ध्यातनयाकारगुणांस्त्वं समुदाहर ।। ६
ऊर्मिकात्वं मुधा भ्रान्तिर्मायैषा सत्स्वरूपिणी ।
रूपं तदेतदेवास्याः प्रेक्षिता यन्न दृश्यते ।। ७
मृगतृष्णाम्भसि द्वीन्दावहंतारूपकादिषु ।
एतावदेव रूपं यत्प्रेक्ष्यमाणं न लभ्यते ।। ८
यः शुक्तौ रजताकारं प्रेक्षते रजतस्य सः ।
न संप्राप्नोत्यणुमपि कणं क्षणमपि क्वचित् ।। ९
अपर्यालोकनेनैव सदिवासद्विराजते ।
यथा शुक्तौ रजतता जलं मरुमरीचिषु ।। १०
यन्नास्ति तस्य नास्तित्वं प्रेक्ष्यमाणं प्रकाशते ।
अप्रेक्ष्यमाणं स्फुरति मृगतृष्णास्विवाम्बुधीः ।। ११
असदेव च सत्कार्यकरं भवति च स्थिरम् ।
बालानां मरणायैव वेतालभ्रान्तिसंभ्रमः ।। १२
हेमतां वर्जयित्वैकां विद्यते हेम्नि नेतरत् ।
ऊर्मिकाकटकादित्वं तैलादिसिकतास्विव ।। १३
नेहास्ति सत्यं नो मिथ्या यद्यथा प्रतिभाव्यते ।
तत्तथार्थक्रियाकारि बालयक्षविकारवत् ।। १४
सद्वा भवत्वसद्वापि सुरूढं हृदये हि यत् ।
तत्तदर्थक्रियाकारि विषस्येवामृतक्रिया ।। १५
परमैषैव सा विद्या मायैषा संसृतिर्ह्यसौ ।
असतो निष्प्रतिष्ठस्य यदहंत्वस्य भावनम् ।। १६
हेम्न्यस्ति नोर्मिकादित्वमहन्ताद्यस्ति नात्मनि ।
अहन्ताभाववस्त्वेमं स्वच्छे शान्ते सिते परे ।। १७
न सनातनता काचिन्न च काचिद्विरिञ्चिता ।
न च ब्रह्माण्डता काचिन्न च काचित्सुतादिता ।। १८
न लोकान्तरता काचिन्न च स्वर्गादिता क्वचित् ।
न मेरुता नासुरता न मनस्त्वं न देहता ।। १९
न महाभूतता काचिन्न च कारणता क्वचित् ।
न च त्रिकालकलना न भावाभाववस्तुता ।। २०
त्वत्ताहन्तात्मता तत्ता सत्ताऽसत्ता न काचन ।
न क्वचिद्भेदकलना न भावो न च रञ्जना ।। २१
सर्वं शान्तं निरालम्बं जगत्त्वं शाश्वतं शिवम् ।
अनामयमनाभासमनामकमकारणम् ।। २२
न सन्नासन्न मध्यान्तं न सर्वं सर्वमेव च ।
मनोवचोभिरग्राह्यं शून्याच्छून्यं सुखात्सुखम् ।। २३
श्रीराम उवाच ।
अवबुद्धं समं ब्रह्म सर्वमेव मयाधुना ।
तथापि भूयः कथय सर्गः किमिव लोक्यते ।। २४
श्रीवसिष्ठ उवाच ।
परे शान्ते परं नाम स्थितमित्थमिदंतया ।
नेह सर्गो न सर्गाख्या काचिदस्ति कदाचन ।। २५
महार्णवाम्भसीवाम्बु संस्थिता परमेश्वरे ।
जलं द्रवत्वात्स्पन्दीव निस्पन्दं परमं पदम् ।। २६
भाः स्वात्मनीव कचति न कचत्येव तत्पदम् ।
भासां तत्त्वं हि कचनं पदं त्वकचनं विदुः ।। २७
अध ऊर्ध्वं वर्जयित्वा यथाब्धेरुदरे पयः ।
स्फुरत्येवं परे चित्त्वादिदं नानेव तत्परम् ।। २८
ईषद्विदः स्वयं चित्त्वाच्चेत्यतामिव गच्छति ।
बुद्ध्यते सर्ग इत्येव समास्थास्यति शाश्वतम् ।। २९
सर्गस्तु परमार्थस्य संज्ञेत्येव विनिश्चयः ।
नानास्ति नायमत्यन्तमम्बरस्य यथाम्बरम् ।। ३०
चित्तात्सर्गसमापत्तिरचित्तात्सर्गसंक्षयः ।
परे परमसंशान्ते हेम्नीव कटकभ्रमः ।। ३१
सन्नेव सर्गो सत्यत्वमेति चित्तशमोदये ।
असत्सत्तामवाप्नोति स्वतः संवेदनोदये ।। ३२
संवेदनमहंतावत्सर्गसंभ्रमसंभ्रमः ।
असंवेदनमाशान्तं परं विद्धि न तज्जडम् ।। ३३
नानेव सर्गो नानायं ज्ञस्यैकात्मशिवात्मकः ।
पुंस्त्वकर्मक्रिया सेना मृन्मयी शिल्पिनां यथा ।। ३४
इदं पूर्णमनारम्भमनन्तमनघोदरम् ।
पूर्णे पूर्णपरापूरैः पूर्णमेवावतिष्ठते ।। ३
यदयं लक्ष्यते सर्गस्तद्ब्रह्म ब्रह्मणि स्थितम् ।
नभो नभसि विश्रान्तं शान्तं शान्ते शिवे शिवम् ।। ३६
मुकुरप्रतिबिम्बस्थे नगरे नवयोजने ।
यथा दूरमदूरं च तथेशे तदतत्क्रमः ।। ३७
असदभ्युदितं विश्वं सदप्यभ्युदितं सदा ।
प्रतिभासात्सदाभासमवस्तुत्वादसन्मयम् ।। ३८
आदर्शनगराकारे मृगतृष्णाम्बुभास्वरे ।
द्विचन्द्रविभ्रमाभासे सर्गेऽस्मिन्कैव सत्यता ।। ३९
मायाचूर्णपरिक्षेपाद्यथा व्योम्नि पुरभ्रमः ।
तथा संविदि संसारः सारोऽसारश्च भासते ।। ४०
यावद्विचारदहनेन समूलदाहं
दग्धा न जर्जरलतेव बलादविद्या ।
शाखाप्रतानगहनानि बहूनि ताव-
न्नानाविधानि सुखदुःखवनानि सूते ।। ४१
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उत्पत्तिप्रकरणे हेमोर्म्युपदेशो नामैकोनविंशत्युत्तरशततमः सर्गः ।। ११९ ।।