योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः १२१

विकिस्रोतः तः
← सर्गः १२० योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)
सर्गः १२१
[[लेखकः :|]]
सर्गः १२२ →

चण्डाल्युवाच ।
केनचित्त्वथ कालेन ग्रामकेऽस्मिञ्जनेश्वर ।
अवृष्टिदुःखमभवद्भीषणं भग्नमानवम् ।। ५
महतानेन दुःखेन सर्वे ते ग्रामका जनाः ।
विनिर्गत्य गता दूरं सर्वे पञ्चत्वमागताः ।। २
तेनेमा दुःखभागिन्यः शून्या वयमिह प्रभो ।
सौम्य शोचाम सद्वाष्पमाचान्तेक्षणधारया ।। ३
इत्याकर्ण्याङ्गनावक्त्राद्राजा विस्मयमागतः ।
मन्त्रिणां मुखमालोक्य चित्रार्पित इवाभवत् ।। ४
भूयो विचारयामास तदाश्चर्यमनुत्तमम् ।
भूयो भूयोऽथ पप्रच्छ बभूवाश्चर्यवानिति ।। ५
तेषां समुचितैर्दानसन्मानैर्दुःखसंक्षयम् ।
कृत्वा करुणयाविष्टो इष्टलोकपरावरः ।। ६
स्थित्वा तत्र चिरं कालं विमृश्य नियतेर्गतीः ।
आजगाम गृहं पौरैर्वन्दितः प्रविवेश ह ।। ७
प्रातस्तत्र सभास्थाने मामपृच्छदसौ नृपः ।
कथमेवं मुने स्वप्नः प्रत्यक्षमिति विस्मितः ।। ८
यथावस्तुतया तस्य तत उक्तः स तादृशः ।
संशयो हृदयान्नुन्नो वातेनेवाम्बुदो दिवः ।। ९
इत्येवं राघवाविद्या महती भ्रमदायिनी ।
असत्सत्तां नयत्याशु सच्चासत्तां नयत्यलम् ।। १०
श्रीराम उवाच ।
कथमेवं वद ब्रह्मन्स्वप्नः सत्यत्वमागतः ।
भ्रमोदार इवैषोऽर्थो न मे गलति चेतसि ।। ११
श्रीवसिष्ठ उवाच ।
सर्वमेतदविद्यायां संभवत्येव राघव ।
घटेषु पटता दृष्टा स्वप्नसंभ्रमितादिषु ।। १२
दूरं निकटवद्भाति मुकुरेऽन्तरिवाचलः ।
चिरं शीघ्रत्वमायाति पुनः श्रेष्ठेव यामिनी ।। १३
असंभवश्च भवति स्वप्ने स्वमरणं यथा ।
असच्च सदिवाभाति स्वप्नेष्विव नभोगतिः ।। १४
सुस्थितं सुष्ठ चलति भ्रमे भूपरिवर्तवत् ।
अचलं चलतामेति मदविक्षुब्धचित्तवत् ।। १५
वासनावलितं चेतो यद्यथा भावयत्यलम् ।
तत्तथानुभवत्याशु न तदस्ति न वाप्यसत् ।। १६
यदैवाभ्युदिता विद्या त्वहंत्वादिमयी मुधा ।
तदैवानादिमध्यान्ता भ्रमस्यानन्ततोदिता ।। १७
प्रतिभासवशादेव सर्वो विपरिवर्तते ।
क्षणः कल्पत्वमायाति कल्पश्च भवति क्षणः ।। १८
विपर्यस्तमतिर्जन्तुः पश्यत्यात्मानमेडकम् ।
बिभर्ति सिंहतामेडो वासनावशतः स्वयम् ।। १९
विषमभ्रमदाविद्यामोहाहन्तादयः समाः ।
सर्वे चित्तविपर्यासफलसंपत्तिहेतुतः ।। २०
काकतालीयवच्चेतोवासनावशतः स्वतः ।
संवदन्ति महारम्भा व्यवहाराः परस्परम् ।। २१
वृत्तं प्राक्पक्कणे राज्ञः कस्यचिल्लवणस्य यत् ।
प्रतिभातं तदेतस्य सद्वासद्वा मनोगतम् ।। २२
विस्मरत्यपि विस्तीर्णां कृतां चेतःक्रियां यथा ।
तथा कृतामप्यकृतामिति स्मरति निश्चितम् ।। २३
तथा न भुक्तवानस्मि भुक्तवानिति चेतसि ।
स्वप्ने देशान्तरगमे प्राकृतोऽप्यवबुद्ध्यते ।। २४
विन्ध्यपुष्कससुग्रामे व्यवहारोऽयमीदृशः ।
प्रतिभासागतस्तस्य स्वप्ने पूर्वकथा यथा ।। २५
अथवा लवणेनाशु दृष्टो यः स्वप्नविभ्रमः ।
स एव संविदं प्राप्तो विन्ध्यपुष्कसचेतसि ।। २६
लावणी प्रतिभाऽऽरूढा विन्ध्यापुष्कसचेतसि ।
विन्ध्यपुष्कससंविद्वाऽऽरूढा पार्थिवचेतसि ।। २७
यथा बहूनां सदृशं वचनं नाम मानसम् ।
तथा स्वप्नेऽपि भवति कालो देशः क्रियापि च ।।२८
व्यवहारगतेस्तस्याः सत्तास्ति प्रतिभासतः ।
सत्ता सर्वपदार्थानां नान्या संवेदनादृते ।। २९
संवेदनेतरा भाति वीचिर्वा जलसंगतिः ।
भूतभव्यभविष्यस्था तरुबीजे तरुर्यथा ।। ३०
तस्याः सत्त्वमसत्त्वं च न सन्नासदिति स्थितम् ।
सत्सदेव हि संवित्तेरसंवित्तेरसन्मयम् ।। ३१
नाविद्या विद्यते किंचित्तैलादि सिकतास्विव ।
हेम्नः किं कटकादन्यत्पदं स्याद्धेमतां विना ।। ३२
अविद्ययात्मतत्त्वस्य संबन्धो नोपपद्यते ।
संबन्धः सदृशानां च यः स्फुटः स्वानुभूतितः ।। ३३
जतुकाष्ठादिसंबन्धो यः समासमयोगतः ।
नान्योन्यानुभवायासौ तदेकस्पन्दमात्रकम् ।। ।३४
परमार्थमयं सर्वं यथा तेनोपलादयः ।
चिता समभिचेत्यन्ते संबन्धवशतः समाः ।। ३५
यदा चिन्मात्रसन्मात्रमयाः सव जगद्गताः ।
भावास्तदा विभान्त्येते मिथः स्वानुभवस्थितेः ।। ३६
न संभवति संबन्धो विषमाणां निरन्तरः ।
न परस्परसंबन्धाद्विनानुभवनं मिथः ।। ३७
सदृशे सदृशं वस्तु क्षणाद्गत्वैकतामलम् ।
रूपमास्फारयत्येकमेकत्वादेव नान्यथा ।। ३८
चिच्चेत्यमिलिता दृश्यरूपयोदेति चेतनः ।
[ जडं जडेन मिलितं घनं संपद्यते जडम् ।]
न च चिज्जडयोरैक्यं वैलक्षण्यात्क्वचिद्भवेत् ।। ३९
चिज्जडौ चित्र एकत्र न तौ संमिलतः क्वचित् ।
चिन्मयत्वाच्चिदालम्भश्चिदालम्भेन वेदनम् ।। ४०
दारुपाषाणभेदानां नतु ह्येते चिदात्मकाः ।
पदार्थो हि पदार्थेन परिणाम्यनुभूयते ।। ४१
जिह्वयैव रसास्वादः सजातीयामलोदयः ।
ऐक्यं च विद्धि संबन्धं नास्त्यसावसमानयोः ।। ४२
जडचेतनयोस्तेन नोपलादि जडं मतम् ।
चिदेवोपलकुड्यादिरूपिणीति मिता चिता ।। ४३
एकीभावं गता द्रष्टदृश्यादि कुरुते भ्रमम् ।
काष्ठोपलाद्यशेषं हिं परमार्थमयं यतः ।। ४४
तदात्मना तत्संबन्धे दृश्यत्वेनोपलभ्यते ।
सर्वं सर्वप्रकाराढ्यमनन्तमिव यत्नतः ।। ४५
विश्वं सन्मात्रमेवैतद्विद्धि तत्त्वविदां वर ।
असत्तात्यागनिष्ठेन विश्वं लक्षशतभ्रमैः ।। ४६
पूरितं चिच्चमत्कारो नच किंचन पूरितम् ।
संकल्पनागरा नॄणां मिथः स्पन्दन्ति नो यथा ।। ४७
न देशकालरोधाय तथा सर्गेष्विति स्थितिः ।
भेदबोधे हि सर्गत्वमहंत्वादिभ्रमोदयः ।। ४८
हेमसंवित्परित्यागे कटकादिभ्रमो यथा ।
कटकादिभ्रमो हेम्नि देशाद्देशं भवाद्भवम् ।। ४९
दृग्दर्शनपरित्यागे नाविद्यास्ति पृथक्सदा ।
कटकादिमहाभेदमेकं हेम यथामलम् ।। ५०
बोधैकत्वादयं सर्गस्तदेवासन्नयत्यलम् ।
सेना मृत्संविदा चित्रा मृन्मात्रमिव मृन्मयी ।। ५१
जलमेकं तरङ्गादि दार्वेकं शालभञ्जिका ।
मृन्मात्रमेकं कुम्भादि ब्रह्मैकं त्रिजगद्भ्रमः ।। ५२
संबन्धे दृश्यदृष्टीनां मध्ये द्रष्टुर्हि यद्वपुः ।
द्रष्टृदर्शनदृश्यादिवर्जितं तदिदं परम् ।। ५३
देशाद्देशं गते चित्ते मध्ये यच्चेतसो वपुः ।
अजाड्यसंविन्मननं तन्मयो भव सर्वदा ।। ५४
अजाग्रत्स्वप्ननिद्रस्य यत्ते रूपं सनातनम् ।
अचेतनं चाजडं च तन्मयो भव सर्वदा ।। ५५
जडतां वर्जयित्वैकां शिलाया हृदयं हि तत् ।
अक्षुब्धो वाथवा क्षुब्धस्तन्मयो भव सर्वदा ।। ५६
कस्यचित्किंचनापीह नोदेति न विलीयते ।
अक्षुब्धो वाथवाक्षुब्धः स्वस्थस्तिष्ठ यथासुखम् ।।५७
नाभिवाञ्छति नो द्वेष्टि देहे किंचित्क्वचित्पुमान् ।
स्वस्थस्तिष्ठ निराशङ्कं देहवृत्तिषु मा पत ।। ५८
भविष्यद्ग्रामकग्राम्यकार्यव्यवसितो यथा ।
चित्तवृत्तिषु मा तिष्ठ तथा सत्यात्मतां गतः ।। ५९
यथा देशान्तरनरो यथा काष्ठं यथोपलः ।
तथैव पश्य चित्तं त्वमचित्तैव यदात्मना ।। ६०
यथा दृषदि नास्त्यम्बु यथाम्भस्यनलस्तथा ।
स्वात्मन्येवास्ति नो चित्तं परमात्मनि तत्कुतः ।।६१
प्रेक्ष्यमाणं न यत्किंचित्तेन यत्क्रियते क्वचित् ।
कृतं भवति तन्नेति मत्वा चित्तातिगो भवेत् ।। ६२
अत्यन्तानात्मभूतस्य यश्चित्तस्यानुवर्तते ।
पर्यन्तवासिनः कस्मान्न म्लेच्छस्यानुवर्तते ।। ६३
निरन्तरमनादृत्य त्वमाराच्चित्तपुष्कसम् ।
स्वस्थमास्स्व निराशङ्कं पङ्केनेव कृतो जडः ।। ६४
चित्तं नास्त्येव मे भूतं मृतमेवाद्य वेत्ति वा ।
भव निश्चयवान्भूत्वा शिलापुरुषनिश्चलः ।। ६५
प्रेक्षायामस्ति नो चित्तं तद्विहीनोऽसि तत्त्वतः ।
स किमर्थमनर्थेन तद्व्यर्थेन कदर्थ्यसे ।। ६६
असता चित्तयक्षेण ये मुधा स्ववशे कृताः ।
तेषां पेलवबुद्धीनां चन्द्रादशनिरुत्थितः ।। ६७
चित्तं दूरे परित्यज्य योऽसि सोऽसि स्थिरो भव ।
भव भावनया मुक्तो युक्त्या परमयान्वितः ।। ६८
असतो येऽनुवर्तन्ते चेतसोऽसत्यरूपिणः ।
व्योममारणकर्मैकनीतकालान्धिगस्तु तान् ।। ६९
व्यपगलितमना महानुभावो
भव भवपारगतो भवामलात्मा ।
सुचिरमपि विचारितं न लब्धं
मलममलात्मनि मानसात्म किंचित् ।। ७०
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूत्पत्तिप्रकरणे चित्ताभावप्रतिपादनं नामैकविंशत्युत्तरशततमः सर्गः ।। १२१ ।।