योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०३७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


सप्तत्रिंशः सर्गः ३७
श्रीवसिष्ठ उवाच ।
रणे रभसनिर्लूननरवारणदारुणे ।
अहंपूर्वमहंपूर्वमिति वृन्दानुपातिनि ।। १
एते चान्ये च बहवस्तत्र भस्मत्वमागताः ।
प्रविशन्तः प्रयत्नेन शलभा इव पावके ।। २
अत्रान्ये मध्यदेशीया जना नोदाहृता मया ।
तानिमाञ्छृणु वक्ष्यामि पक्षाँल्लीलामहीभृतः ।। ३
तद्देहिकाः शूरसेना गुडा अश्वघनायकाः ।
उत्तमज्योतिभद्राणि मदमध्यमिकादयः ।। ४
सालूकाकोद्यमालास्या दौज्ञेयाः पिप्पलायनाः ।
माण्डव्याः पाण्डुनगराः सौग्रीवाद्या गुरुग्रहाः ।। ५
पारियात्राः कुराष्ट्राश्च यामुनोदुम्बरा अपि ।
राज्याह्वा उज्जिहानाश्च कालकोटिकमाथुराः ।। ६
पाञ्चाला धर्मारण्याश्च तथैवोत्तरदक्षिणाः ।
पाञ्चालकाः कुरुक्षेत्रास्तथा सारस्वता जनाः ।। ७
अवन्तीस्यन्दनश्रेणीकुन्तिपाञ्चनदेरितैः ।
स्पन्दमाना विद्रवन्ती निपपात महाभृगौ ।। ८
कोशब्रह्मावसानाश्च च्छिन्ना वस्त्रवतीजनैः ।
भूमौ निपतिताः सन्तो मिलिता मत्तवारणैः ।। ९
शूरा दाशपुराः शस्त्रनिकृत्तोदरकन्धराः ।
बाणक्षितिभिराक्रम्य योजिता योजने ह्रदे ।। १०
दीर्णोदरविनिर्यातस्वान्त्रतन्त्रीनियन्त्रिताः ।
शान्तिकाःशान्तसंचाराः पिशाच्चैश्चर्विता निशि ।। ११
उद्रवैर्भद्रगिरिभिः संग्रामाध्वरदीक्षितैः ।
क्षोणिगर्तेषु निक्षिप्ता मरगाः कमठा इव ।। १२
प्रद्रुता विद्रवद्रक्ता विद्रावितमहारयः ।
दण्डिकास्थानिलोद्धूता हैहयैर्हरिणा इव ।। १३
दन्तिदन्तविनिर्भिन्ना दरदा दलितारयः ।
नीता रक्तमहानद्या द्रुमाणां पल्लवा इव ।। १४
नाराचैश्चर्विताश्चीना जीर्णा जर्जरजीविताः ।
जहुर्जलनिधौ देहान्भारभूतानिव स्थितान् ।। १५
कर्णाटसुभटोड्डीनकुन्ताकलितकन्धराः ।
भग्ना नलदशूराश्च तारकानिकरा इव ।। १६
करीन्द्रमकरव्यूहरंहःसंहतहेतयः ।
केशाकेशिकृतारम्भा विनेदुर्दाशकाः शकाः ।। १७
दशार्णाः पाशनिर्मुक्तश्रृङ्खला जालभीरवः ।
निलीना रक्तजम्बाले वैतसास्तिमयो यथा ।। १८
गुर्जरानीकनाशेन गुर्जरीकेशलुञ्चनम् ।
विहितं तङ्गणोत्तुङ्गनासिशङ्कुशतै रणे ।। १९
सिषिचुः शस्त्रकर्णौघाद्विन्दुभ्यो निगडा गुहान् ।
शरधारावनानीव वीरहेतिप्रभाम्बुदाः ।। २०
भुशुण्डीमण्डलोद्द्योतश्यामार्कोत्पातभीरुषु ।
आभीरेष्वरयः पेतुर्गोगणा हरितेष्विव ।। २१
कान्तकाञ्चनकान्तासीत्ताम्रसंग्रामवाहिनी ।
भुक्ता गौडभटेनाङ्ग नखकेशनिकर्षणैः ।। २२
रणे नगनयासंख्यकवच्चक्रनिकृन्तनैः ।
तङ्गणाः कणशः कीर्णाः कङ्कगृध्रेषुभासकैः ।। २३
लगुडालोडनोड्डीनं गौडं गुडुगुडारवम् ।
श्रुत्वा गान्धारगावोऽग्रे दुद्रुवुर्द्रविडा इव ।। २४
आकाशगार्णवप्रख्यो वहच्छककदम्बकः ।
अकरोत्पारसीकानां घननैशतमोभ्रमम् ।। २५
मन्दराहननोड्डीनस्वच्छक्षीरार्णवोदरे ।
वनानीवायुधान्यासञ्छत्रुप्रालेयसानुनि ।। २६
यदम्बुदैरिवोड्डीनं शस्त्रवृन्दैर्नभोङ्गणे ।
तद्दृष्टं वीचिवलनैर्लोलैः प्लुतमिवार्णवे ।। २७
शतचन्द्रं सितच्छत्रैः शरैः शलभनिर्भरम् ।
शक्तिभिः किल नीरन्ध्रं दृष्टमाकाशकाननम् ।। २८
वीरासवसमाक्रन्दकारिणः केकयैः कृताः ।
कङ्कैः कङ्ककुलाक्रान्तव्योमोद्धूलितमस्तकाः ।। २९
किरातसैन्यकन्यानां कामं कलकलारवैः ।
अङ्गैरनङ्गतां नीत्वा भैरवैरिव गर्जितम् ।। ३०
काशैस्तद्देहकाः क्रांता अदृश्यैर्मायया खगैः ।
निर्धूतपक्षैः क्षुभितैः पवनैरिव पांसवः ।। ३१
उन्मत्ताः सुविनिर्धूतास्त्यक्तहेतिरणाम्बराः ।
नार्मदा नर्मनिर्मातृ ननृतुर्जहसुर्जगुः ।। ३२
प्रक्वणत्किंकिणीजालं शक्तिवर्षमुपागतम् ।
साल्वबाणानिलोद्भूतमगमत्पृषदाकृति ।। ३३
शैव्यास्तु खण्डिताः कौन्तैर्भ्रमत्कुन्तैर्विघट्टिताः ।
शवीभूता दिवं नीता दृष्टा विद्याधरा इव ।। ३४
धराधरणधर्मिण्या धीरया हीनसेनया ।
लुण्ठिताः पाण्डुनगराश्चलनोल्लासमात्रतः ।। ३५
त देहकाः पाञ्चनदैर्दलिता मत्तकाशिभिः ।
कुन्तदन्तद्रुमोद्दामा नगा इव मतङ्गजैः ।। ३६
ब्रह्मावत्सनका नीपैश्चक्रैः कृत्ता गता महीम् ।
सहयाः क्रकचोन्कृत्ता वृक्षाः कुसुमिता इव ।। ३७
श्वेतकाकाननं लूनं कुठारैर्जठरेरितैः ।
एतद्ददाह पार्श्वस्थो भद्रेशः शरवह्निना ।। ३८
काष्ठयोधे निरालानं मग्ना जीर्णा मतङ्गजाः ।
लयमाजग्मुरायुद्धमिद्धेग्नाविन्धनं यथा ।। ३९
मित्रगर्तास्त्रिगर्तात्ता भ्रमित्वोर्ध्वं तृणोपमम् ।
विविशुर्व्यस्तमूर्धानः पातालान्तं पलायितुम् ।। ४०
मन्दानिलचलाम्भोधिभासुरे मागधे बले ।
निर्मग्ना वनिला मन्दाः पङ्के जीर्णगजा इव ।। ४१
चेदयश्चेतनां जह्रुस्तङ्गणानां रणाङ्गणे ।
पुष्पाणां पथि शीर्णानां सौकुमार्यमिवातपाः ।। ४२
कौसलाः पौरवारावमसहन्तोऽन्तका इव ।
तैरुन्मुक्तगदाप्रासशरशक्त्यतिवृष्टयः ।। ४३
बभूवुर्भल्लकृत्ताङ्गाऽविस्मया विद्रुमद्रुमाः ।
इवाद्रौ विद्रवन्त्यार्द्रसान्द्रासृक्सूर्यमूर्तयः ।। ४४
नाराचौघमहाहेतिमारुताधूतमूर्तयः ।
बभ्रमुर्भ्रमरानीकभासुरा जलदा इव ।। ४५
शरधाराधरा मेघाः शरोर्णापूर्णमेषकाः ।
शरपत्रावृता वृक्षा भ्रमुस्तद्गर्जनागजाः ।। ४६
वनराज्यजराजीर्णाः कन्दाकस्थलजन्तवः ।
अत्रुटन्परमाकृष्टाः पेलवा इव तन्तवः ।। ४७
रथेषु ध्वस्तचक्रेषु निखातेऽमुत्र मूर्धसु ।
निपेतुर्जनसंघाता मेघा इव वनाद्रिषु ।। ४८
शालतालवनं प्राप्य जनतावलनं वनम् ।
भुजावकर्तनं चासीदुत्तालं स्थाणुकाननम् ।। ४९
ननर्दुर्नन्दनोद्यानसुन्दर्यो मत्तयौवनाः ।
वनोपवनदेशेषु मेरोर्वीरवराश्रिताः ।। ५०
तावत्तारारवं रेजे सैन्यकाननमुत्तमम् ।
यावन्न परपक्षेण प्राप्तं कल्पानलार्चिषा ।। ५१
छिन्नाः पिशाचसंयुक्ता भूतापहृतहेतयः ।
पातयित्वा ययुः कर्णान्दशार्णास्तर्णका इव ।। ५२
जहुर्भग्नेश्वराः कान्ति तां जिगीषवनौजसा ।
कासयः कमलानीव शुष्कस्रोतस्विनौजसा ।। ५३
तुषाका मेसलैः कीर्णाः शरशक्त्यसिमुद्गरैः ।
विद्रुता नरकैः क्षिप्ताः कटकच्छलना अपि ।। ५४
कौन्तक्षेत्राः प्रस्थवासैः स्थित्वा योधिभिरावृताः ।
गुणा इव खलाक्रान्ता गता व्यक्तमशक्तताम् ।। ५५
द्विपयो बाहुधानानां क्षणेनादाय मस्तकम्।
भल्लैः पलाय्याशु गता विलूनकमला इव ।। ५६
मिथः सारस्वता नीत्वा आदिनान्तं कृताजयः ।
पण्डिता इव वादेषु नोद्विग्ना न पराजिताः ।। ५७
खर्वगाः खदिताः क्षुद्रा यातुधानैः परावृताः ।
तेजः परममाजग्मुः शान्ताग्नय इवेन्धनैः ।। ५८
कियदाख्यायत एत-
ज्जिह्वानिचयैः किलालमाकुलितः ।
वासुकिरपि वर्णयितुं
न समर्थो रणवरं राम ।। ५९
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे मो०
लीलो० जनपदवर्णनं नाम सप्तत्रिंशः सर्गः ।।३७।।