योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः १०२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


द्वि उत्तरशततमः सर्गः १०२
श्रीवसिष्ठ उवाच ।
स्वसंकल्पवशान्मूढो मोहमेति न पण्डितः ।
अक्षये क्षयसंकल्पान्मुह्यते शिशुरेव हि ।। १
श्रीराम उवाच ।
कोऽसौ संकल्पितः केन क्षयो ब्रह्मविदां वर ।
असतैव महामोहं येनादात्तत्सदैव हि ।। २
श्रीवसिष्ठ उवाच ।
असता भूतसंघेन क्षयोऽहंकारनामधृक् ।
वेतालः शिशुनेवेह मिथ्यैव परिकल्पितः ।। ३
एकस्मिन्नेव सर्वस्मिन्स्थिते परमवस्तुनि ।
कुतः कोऽयमहं नाम कथं नाम किलोदितः ।। ४
वस्तुतो नास्त्यहंकारः परमात्मन्यभेदिनि ।
असम्यग्दर्शनान्मार्गीसरित्तीव्रातपे यथा ।। ५
मनोमणिमहारम्भः संसार इति लक्ष्यते ।
आत्मनात्मानमाश्रित्य स्फुरत्यन्तर्यथाम्भसा ।। ६
असम्यग्दर्शनं तेन त्यज राम निराश्रयम् ।
साश्रयं सत्यमानन्दि सम्यग्दर्शनमाश्रय ।। ७
धिया विचारधर्मिण्या मोहसंरम्भहीनया ।
विचारयाधुना सत्यमसत्यं संपरित्यज ।। ८
अबद्धो बद्ध इत्युक्त्वा किं शोचसि मुधैव हि ।
अनन्तस्यात्मतत्त्वस्य किं कथं केन बध्यते ।। ९
नानाऽनानात्वकलना त्वविभिन्नमहात्मनि ।
सर्वस्मिन्ब्रह्मतत्त्वेऽस्मिन्किं बद्धं किं विमुच्यते ।। १०
अनार्तोऽप्यार्तिमान्भाति च्छिन्नेऽङ्गे किंच ताम्यति ।
भेदाभेदविकारार्तिः काचिन्नात्मनि विद्यते ।। ११
देहे नष्टे क्षते क्षीणे कात्मनः क्षतिरागता ।
भस्त्रायां परिदग्धायां भस्त्रापूरो न नश्यति ।। १२
देहः पततु वोदेतु का नः क्षतिरुपस्थिता ।
को नष्टः प्रक्षते पुष्पे आमोदो व्योमसंश्रयः ।। १३
आपतन्तु वपुःपद्मे सुखदुःखहिमश्रियः ।
आकाशोडुयनालीनां का नः क्षतिरुपस्थिता ।। १४
देहः पततु वोदेतु यातु वा गगनान्तरम् ।
तद्विलक्षणरूपस्य कासौ भवति मे क्षतिः ।। १५
यथा पयोदमरुतोर्यथा षट्पदपद्मयोः ।
तथा राघव संबन्धस्त्वच्छरीरत्वदात्मनोः ।। १६
मनो राम शरीरं हि जगतः सकलस्य च ।
आद्या शक्तिश्चिदध्यात्मा न नश्यति कदाचन ।। १७
योऽसावात्मा महाप्राज्ञ न नश्यति न गच्छति ।
न नश्यति कदाचिच्च किं मुधा परितप्यसे ।। १८
विशीर्णेऽभ्रे यथा वातः शुष्केऽब्जे षट्पदो यथा ।
यात्यनन्तपदं व्योम तथात्मा देहसंक्षये ।। १९
संसारेऽस्मिन्विहरतो मनोऽपि हि न नश्यति ।
ज्ञानाग्निना विना जन्तोरात्मनाशे तु का कथा ।। २०
यः कुण्डवदरन्यायो यो घटाकाशयोः क्रमः ।
स्थितिर्देहात्मनोः सैव सविनाशाविनाशयोः ।। २१
बदरं हस्तमायाति यथा स्फुटति कुण्डके ।
आत्मा गगनमायाति तथा चलति देहके ।। २२
कुम्भे गच्छत्यकुम्भत्वं कुम्भाकाशो यथाम्बरे ।
तिष्ठत्येवमयं क्षीणे देहे देही निरामयः ।। २३
मनोदेहो हि जन्तूनां देशकालतिरोहितः ।
मुहुर्मृतिपटाच्छन्नः शठे किं परिदेवना ।। २४
देशकालतिरोधाने मूढोऽपि मरणे नरः ।
किं बिभेति महाबाहो नेह पश्यति कश्चन ।। २५
अतस्त्वं वासनां राम मिथ्यैवाहमिति स्थिताम् ।
त्यज पक्षीश्वरो व्योमगमनोत्क इवाण्डकम् ।। २६
एषा हि मानसी शक्तिरिष्टानिष्टनिबन्धनी ।
अनयैव मुधा भ्रान्त्या स्वप्नवत्परिकल्पना ।। २७
 अविद्यैषा दुरन्तैषा दुःखायैषा विवर्धते ।
 अपरिज्ञायमानैषा तनोतीदमसन्मयम् ।। २८
 एषा तुच्छवदाकाशं तुषारमलिनं यथा ।
परिपश्यति विभ्रान्ता स्वरूपस्य स्वभावतः ।। २९
 असदेवेदमारम्भमन्थरं सदिवोत्थितम् ।
 कल्पितं जगदाभोगि दीर्घस्वप्न इवैतया ।। ३०
 भावनामात्र एवास्याः स्वरूपं कर्तृतां गतम् ।
जगन्नामाविलं चक्षुर्व्योम्नि बिम्बरुचामिव ।। ३१
लयमस्याः स्वरूपं त्वं नय राम विचारणात् ।
यथा हिमशिलायास्तु तपनाद्दिवसाधिपः ।। ३२
हिमाभावार्थिनोऽर्कस्य स्वोदयेनेप्सितं यथा ।
सिद्ध्यत्येवं विचारेण मनोनाशार्थिनोऽर्थितम् ।। ३३
अविद्याऽसंप्रबुद्धा हि विततानर्थदुर्गमा ।
नानेन्द्रजालकलनां शम्बरो हेम वर्षति ।। ३४
स्वविनाशक्रियां चैतां मन एव करोत्यलम् ।
मनो ह्यात्मवधं नाम नाटकं परिनृत्यति ।। ३५
आत्मानमीक्षते चेतः स्वविनाशाय केवलम् ।
नहि जानाति दुर्बुद्धिर्विनाशं प्रत्युपस्थितम् ।। ३६
स्वयं संकल्पमात्रेण स्वविनाशदृशामिदम् ।
मनः संसाधयत्याशु क्लेशो नात्रोपयुज्यते ।। ३७ ।

स्वसंकल्पविकल्पांशं विवेकोपहितं मनः ।
संत्यज्य रूपमाभोगि करोत्यात्मावबोधनम् ।। ३८
महोदयो मनोनाशो महोच्छेदस्य तूदयः ।
मनोनाशे प्रयत्नं त्वं कुरु मा मनसो जवे ।। ३९
अविरलसुखदुःखवृक्षखण्डे
विषमकृतान्तमहोरगे वनेऽस्मिन् ।
प्रभुरिदमखिले विवेकहीनं
सुभग मनो महदापदेकहेतुः ।। ४०
इत्युक्तवत्यथ मुनौ दिवसो जगाम
सायंतनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम
श्यामाक्षये रविकरैश्च सहाजगाम ।। ४१
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे दे० मो० उपदेशकरणं नाम द्वि उत्तरशततमः सर्गः ।। १०२ ।।