योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः १११

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


एकादशोत्तरशततमः सर्गः १११
श्रीवसिष्ठ उवाच ।
अस्य चित्तमहाव्याधेश्चिकित्साया महौषधम् ।
स्वायत्तं श्रृणु वक्ष्यामि साधु सुस्वादु निश्चितम्।। १
स्वेनैव पौरुषेणाशु स्वसंवेदनरूपिणा ।
यत्नेन चित्तवेतालस्त्यक्त्वेष्टं वस्तु जीयते ।। २
त्यजन्नभिमतं वस्तु यस्तिष्ठति निरामयः ।
जितमेव मनस्तेन कुदन्त इव दन्तिना ।। ३
स्वसंवेदनयत्नेन पाल्यते चित्तबालकः ।
अवस्तुतो वस्तुनि च योज्यते बोध्यतेऽपि च ।। ४
शास्रसत्सङ्गधीरेण चिन्तातप्तमतापिना ।
छिन्धि त्वमायसेनायो मनसैव मनो मुने ।। ५
अयत्नेन यथा बाल इतश्चेतश्च योज्यते ।
भावैस्तथैव चेतोन्तः किमिवात्रास्ति दुष्करम् ।। ६
सत्कर्मणि समाक्रान्तमुदर्कोदयदायिनि ।
स्वपौरुषेणैव मनश्चेतनेन नियोजयेत् ।। ७
स्वायत्तमेकान्तहितं स्वेप्सितत्यागवेदनम् ।
यस्य दुष्करतां यातं धिक्तं पुरुषकीटकम् ।। ८
अरम्यं रम्यरूपेण भावयित्वा स्वसंविदा ।
मल्लेनेव शिशुश्चित्तमयत्नेनैव जीयते ।। ९
पौरुषेण प्रयत्नेन चित्तमाश्वेव जीयते ।
अचित्तेनाप्रयत्नेन पदं ब्रह्मणि दीयते ।। १०
स्वायत्तं च सुसाध्यं च स्वचित्ताक्रान्तिमात्रकम् ।
शक्नुवन्ति न ये कर्तुं धिक्तान्पुरुषजम्बुकान् ।। ११
स्वपौरुषैकसाध्येन स्वेप्सितत्यागरूपिणा ।
मनःप्रशममात्रेण विना नास्ति शुभा गतिः ।। १२
मनोमारणमात्रेण साध्येन स्वात्मसंविदा ।
निःसपत्नमनाद्यन्तमनिङ्गनमिहोच्यताम् ।। १३
ईप्सितावेदनाख्यात्तु मनःप्रशमनादृते ।
गुरूपदेशशास्त्रार्थमन्त्राद्या युक्तयस्तृणम् ।। १४
सर्वं सर्वगतं शान्तं ब्रह्म संपद्यते तदा ।
असंकल्पनशस्त्रेण च्छिन्नं चित्तं गतं यदा ।। १५
स्वसंवेदनसाध्येऽस्मिन्संकल्पानर्थशासने ।
शान्तायामत्र वपुषि पुंसः कैव कदर्थना ।। १६
नूनं दैवमनादृत्य मूढसंकल्पकल्पितम् ।
पुरुषार्थेन संवित्त्या नय चित्तमचित्तताम् ।। १७
तां महापदवीमेकां कामप्यधिगतं चिरम् ।
चित्तं चिद्भक्षितं कृत्वा चित्तादपि परो भव ।। १८
भव भावनया युक्तो युक्तः परमया धिया ।
धारयात्मानमव्यग्रो ग्रस्तचित्तं ततः परम् ।। १९
परं पौरुषमाश्रित्य नीत्वा चित्तमचित्तताम् ।
तां महापदवीमेहि यत्र नाशो न विद्यते ।। २०
संवेदनविपर्यासरूपिणी धीरिवाचला ।
जेतुमाशु मनो राम पौरुषेणैव शक्यते ।। २१
अनुद्वेगः श्रियो मूलमनुद्वेगात्प्रवर्तते ।
जन्तोर्मनोजयो येन त्रिलोकीविजयस्तृणम् ।। २२
न शस्त्रदलनोत्पातपाता यस्यां मनागपि ।
स्वभावमात्रव्यावृत्तौ तस्यां कैव कदर्थना ।। २३
अपि स्ववेदनाक्रान्तौ न शक्ता ये नराधमाः ।
कथं व्यवहरिष्यन्ति व्यवहारदशासु ते ।। २४
पुमान्मृतोऽस्मि जातोऽस्मि जीवामीति कुदृष्टयः ।
चेतसो वृत्तयो भान्ति चपलस्यासदुत्थिताः ।। २५
न कश्चनेह म्रियते जायते न च कश्चन ।
स्वयं वेत्ति मृतं स्वस्य लोकमन्यं स्वकं मनः ।। २६
इतो याति परं लोकं स्फुरत्यन्यतया मनः ।
तत्तस्यैत्येतदामोक्षमतो मृतिभयं कुतः ।। २७
इहलोकेन विचरत्विहलोके परत्र च ।
चित्तमामोक्षमास्तेऽस्य रूपमन्यन्न विद्यते ।। २८
मृते भ्रातरि भृत्यादौ क्लेश आक्रियतेऽनृतः ।
तत्स्वचित्तं स्वचैतन्यव्यावृत्तात्मेति मे मतिः ।। २९
सति पथ्ये तते शुभ्रे चित्तोपशमनादृते ।
तिर्यगूर्ध्वमधस्ताच्च भूयोभूयो विचारितम् ।। ३०
यावन्नास्ति किलोपायश्चित्तोपशमनादृते ।
ऋते तथ्ये तते शुभ्रे बोधे हृद्युदिते सति ।। ३१
मनोविलयमात्रेण विश्रान्तिरुपजायते ।
व्यायते हृदयाकाशे चिति चिच्चक्रधारया ।। ३२
मनो मारय निःशङ्कं त्वां प्रबध्नन्ति नाधयः ।
यदि रम्यमरम्यत्वे त्वया संविदितं विदा ।। ३३
छिन्नान्येव तदाङ्गानि चित्तस्येति मतिर्मम ।
अयं सोऽहमिदं तन्म एतावन्मात्रकं मनः ।। ३४
तदभावनमात्रेण दात्रेणेव विलूयते ।
छिन्नाभ्रमण्डलं व्योम्नि यथा शरदि धूयते ।। ३५
वातेनाकल्पनेनैवं तथा तद्धूयते मनः ।
भवन्ति यत्र शस्त्राग्निपवनास्तत्र भीर्भवेत् ।। ३६
स्वायते मृदुनि स्वच्छे किमसंकल्पने भयम् ।
इदं श्रेय इद नेति सिद्धमाबालमक्षतम् ।। ३७
बालं पुत्रमिवोदारे मनः श्रेयसि योजयेत् ।
अक्षयं चानवं चेतःसिंहं संसृतिबृंहणम् ।
घ्नन्ति ये ते जयन्तीह निर्वाणपददायिनः ।। ३८
भीमाः संभ्रमदायिन्यः संकल्पकदनादिमाः ।
विपदः संप्रसूयन्ते मृगतृष्णा मराविव ।। ३९
कल्पान्तपवना वान्तु यान्तु चैकत्वमर्णवाः ।
तपन्तु द्वादशादित्या नास्ति निर्मनसः क्षतिः ।। ४०
मनोबीजात्समुद्यन्ति सुखदुःखे शुभाशुभे ।
संसारखण्डका एते लोकसप्तकपल्लवाः ।। ४१
असंकल्पनमात्रैकसाध्ये सकलसिद्धिदे ।
असंकल्पनसाम्राज्ये तिष्ठावष्टब्धतत्पदः ।। ४२
प्रयच्छत्युत्तमानन्दं क्षीयमाणं मनः क्रमात् ।
काष्ठक्षीणाङ्गकाङ्गारो यथाङ्गारक्षयार्थिनः ।। ४३
अपि ब्रह्मकुटीलक्षं मनसश्चेत्समीहितम् ।
तदणोरन्तरे व्यक्तं विभक्तं परिदृश्यते ।। ४४
संकल्पमात्रविभवेन कृतात्यनर्थं
संकल्पमात्रविभवेन सुसाधितार्थम् ।
संतोषमात्रविभवेन मनो विजित्य
नित्योदितेन जयमेहि निरीप्सितेन ।। ४५
परमपावनया विमनस्तया
समतया मतयात्मविदामपि ।
शमितया मितयान्तरहंतया
यदवशिष्टमजं पदमस्तु तत् ।। ४५

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उत्पत्तिप्रकरणे चित्तचिकित्सानामैकादशोत्तरशततमः सर्गः ।। १११ ।।