योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०३१
← सर्गः ३० | योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्) सर्गः ०३१ अज्ञातलेखकः |
सर्गः ३२ → |
श्रीवसिष्ठ उवाच ।
एवमाकलयन्त्यौ ये निर्गत्य जगतो निजात् ।
अन्तःपुरं ददृशतुर्झटित्येव विनिर्गते ।। १
स्थितपुष्पभरापूर्णमहाराजमहाशवम् ।
शवपार्श्वोपविष्टान्तश्चित्तलीलाशरीरकम् ।। ५
घनरात्रितयाल्पाल्पमहानिद्राजनाकुलम् ।
धूपचन्दनकर्पूरकुङ्कुमामोदमन्थरम् ।। ३
तमालोक्यापरं भर्तुः संसारं गन्तुमादृता ।
पपात लीला संकल्पदेहेनात्रैव तन्नभः ।। ४
विवेश भर्तुः संकल्पसंसारं किंचिदाततम् ।
संसारावरणं भित्त्वा भित्त्वा ब्रह्माण्डकर्परम् ।। ५
प्राप सार्धं तया देव्या पुनरावरणान्वितम् ।
ब्रह्माण्डमण्डपं स्फारं तं प्रविश्य तथा जवात् ।। ६
ददर्श भर्तुः संकल्पजगज्जम्बालपल्वलम् ।
सिंहीव शैलकुहरं तमो जलदपङ्किलम् ।। ७
देव्यो विविशतुस्तत्ते व्योम व्योमात्मिके जगत् ।
ब्रह्माण्डेऽन्तर्यथा पक्वं मृदुबिल्वं पिपीलिके ।। ८
तत्र लोकान्तराण्यद्रीनन्तरिक्षमतीत्य ते ।
प्रापतुर्भूतलं शैलमण्डलाम्भोधिसंकुलम् ।। ९
मेरुणालंकृतं जम्बुद्वीपं नवदलोदरम् ।
गत्वाथ भारते वर्षे लीलानाथस्य मण्डलम् ।। 3.31.१०
एतस्मिन्नन्तरे तस्मिन्मण्डले मण्डितावनौ ।
चक्रेऽवस्कन्दनं कश्चित्सामन्तोद्रिक्तभूमिपः ।। ११
तेन संग्रामसंरम्भे प्रेक्षार्थं समुपागतैः ।
त्रैलोक्यभूतैस्तद्व्योम बभूवात्यन्तसंकटम् ।। १२
अशङ्कितागते तत्ते देव्यौ ददृशतुर्नभः ।
नभश्चरगणाक्रान्तमम्बुदैरिव मालितम् ।। १३
सिद्धचारणगन्धर्वगणविद्याधरान्वितम् ।
शूरग्रहणसंरब्धस्वर्गलोकाप्सरोवृतम् ।। १४
रक्तमांसोन्मुखोन्मत्तभूतरक्षःपिशाचकम् ।
पुष्पवृष्टिभिरापूर्णहस्तविद्याधराङ्गनम् ।। १५
वेतालयक्षकूश्माण्डैर्द्वन्द्वालोकनसादरैः ।
आयुधापातरक्षार्थं गृहीताद्रितटैर्वृतम् ।। १६
अस्त्रमार्गनभोभागविद्रवद्भूतमण्डलम् ।
आहोपुरुषिकाक्षुब्धप्रेक्षकामोदनोद्भटम् ।। १७
आसन्नभीमसंग्रामकिंवदन्तीपरस्परम् ।
लीलाहासविलासोत्कसुन्दरीधृतचामरम् ।। १८
धर्माप्रेक्ष्यप्रयुक्ताग्र्यमुनिस्वस्त्ययनस्तवम् ।
संपन्नानेकलोकेशवनितावसरस्तवम् ।। १९
स्वर्गार्हशूरानयनव्यग्रेन्द्रभटभासुरम् ।
शूरार्थालंकृतोत्तुङ्गलोकपालाख्यवारणम् ।। 3.31.२०
आगच्छच्छूरसन्मानोन्मुखगन्धर्वचारणम् ।
शूरोन्मुखामरस्त्रैणकटाक्षेक्षितसद्भटम् ।। २१
वीरदोर्दण्डकाश्लेषलम्पटस्त्रीगणाकरम् ।
शुक्लेन शूरयशसा चन्द्रीकृतदिवाकरम् ।। २२
श्रीराम उवाच ।
भगवञ्छूरशब्देन कीदृशः प्रोच्यते भटः ।
स्वर्गालंकरण कः स्यात्को वा डिम्भाहवो भवेत् ।। २३
श्रीवसिष्ठ उवाच ।
शास्त्रोक्ताचारयुक्तस्य प्रभोरर्थेन यो रणे ।
मृतो वाथ जयी वा स्यात्स शूरः शूरलोकभाक् ।।२४
अन्यथा प्राणिकृत्ताङ्गो रणे यो मृतिमाप्नुयात् ।
डिम्भाहवहतः प्रोक्तः स नरो नरकास्पदम् ।। २५
अयथाशास्त्रसंचारवृत्तेरर्थेन युध्यते ।
यो नरस्तस्य संग्रामे मृतस्य निरयोऽक्षयः ।। २६
यथासंभवशास्त्रार्थलोकाचारानुवृत्तिमान् ।
युध्यते तादृशश्चैव भक्तः शूरः स उच्यते ।। २७
गोरर्थे ब्राह्मणस्यार्थे मित्रस्यार्थे च सन्मते ।
शरणागतयत्नेन स मृतः स्वर्गभूषणम् ।। २८
परिपाल्यस्वदेशैकपालने यः स्थितः सदा ।
राजा मृतास्तदर्थं ये ते वीरा वीरलोकिनः ।। २९
प्रजोपद्रवनिष्ठस्य राज्ञोऽराज्ञोऽथ वा प्रभोः ।
अर्थेन ये मृता युद्धे ते वै निरयगामिनः ।। 3.31.३०
ये हि राज्ञामराज्ञां वाप्ययथाशास्त्रकारिणाम् ।
रणे म्रियन्ते छिन्नाङ्गास्ते वै निरयगामिनः ।। ३१
धर्म्यं यथा तथा युद्धं यदि स्यात्तर्हि संस्थितिः ।
नाशयेयुरलं मत्ताः परलोकभयोज्झिताः ।। ३२
यत्र यत्र हतः शूरः स्वर्ग इत्यवशोक्तयः ।
धर्मे योद्धा भवेच्छूर इत्येवं शास्त्रनिश्चयः ।। ३३
सदाचारवतामर्थे खड्गधारां सहन्ति ये ।
ते शूरा इति कथ्यन्ते शेषा डिम्भाहवाहताः ।। ३४
तेषामर्थे रणे व्योम्नि तिष्ठन्त्युत्कण्ठिताशयाः ।
शूरीभूतमहासत्त्वदयितोक्तिसुराङ्गनाः ।। ३५
विद्याधरीमधुरमन्थरगीतिगर्भं
मन्दारमाल्यवलनाकुलकामिनीकम् ।
विश्रान्तकान्तसुरसिद्धविमानपङ्क्ति
व्योमोत्सवोच्चरितशोभमिवोल्ललास ।। ३६
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे युद्धप्रेक्षिकास्थिताम्बरवर्णनं नामैकत्रिंशः सर्गः ।। ३१ ।।