योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०९६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्रीवसिष्ठ उवाच ।
मनो हि भावनामात्रं भावना स्पन्दधर्मिणी ।
क्रिया तद्भावितारूपं फलं सर्वोऽनुधावति ।। १
श्रीराम उवाच ।
विस्तरेण मम ब्रह्मन् जडस्याप्यजडाकृतेः ।
रूपमारूढसंकल्पं मनसो वक्तुमर्हसि ।। २
श्रीवसिष्ठ उवाच ।
अनन्तस्यात्मतत्त्वस्य सर्वशक्तेर्महात्मनः ।
संकल्पशक्ति रचितं यद्रूपं तन्मनो विदुः ।। ३
भावः सदसतोर्मध्ये नृणां चलति यश्चलः ।
कलनोन्मुखतां यातस्तद्रूपं मनसो विदुः ।। ४
नाहं वेदावभासात्मा कुर्वाणोऽस्मीति निश्चयः ।
तस्मादेकान्तकलनस्तद्रूपं मनसो विदुः ।। ५
कल्पनात्मिकया कर्मशक्त्या विरहितं मनः ।
न संभवति लोकेऽस्मिन्गुणहीनो गुणी यथा ।। ६
यथा वह्न्यौष्ण्ययोः सत्ता न संभवति भिन्नयोः ।
तथैव कर्ममनसोस्तथात्ममनसोरपि ।। ७
स्वेनैव चित्तरूपेण कर्मणा फलधर्मिणा ।
संकल्पैकशरीरेण नानाविस्तरशालिना ।। ८
इदं ततमनेकात्म मायामयमकारणम् ।
विश्वं विगतविन्यासं वासनाकल्पनाकुलम् ।। ९
या येन वासना यत्र सतेवारोपिता यथा ।
सा तेन फलसूस्तत्र तदेव प्राप्यते तथा ।। १०
कर्म बीजं मनःस्पन्दः कथ्यतेऽथानुभूयते ।
क्रियास्तु विविधास्तस्य शाखाश्चित्रफलास्तरोः ।। ११
मनो यदनुसंधत्ते तत्कर्मेन्द्रियवृत्तयः ।
सर्वाः संपादयन्त्येतास्तस्मात्कर्म मनः स्मृतम् ।। १२
मनो बुद्धिरहंकारश्चित्तं कर्माथ कल्पना ।
संसृतिर्वासना विद्या प्रयत्नः स्मृतिरेव च ।। १३
इन्द्रियं प्रकृतिर्माया क्रिया चेतीतरा अपि ।
चित्राः शब्दोक्तयो ब्रह्मन्संसारभ्रमहेतवः ।। १४
काकतालीययोगेन त्यक्तस्फारदृगाकृतेः ।
चितेश्चेत्यानुपातिन्याः कृताः पर्यायवृत्तयः ।। १५
श्रीराम उवाच ।
परायाः संविदो ब्रह्मन्नेताः पर्यायवृत्तयः ।
कल्प्यमानविचित्रार्थाः कथं रूढिमुपागताः ।। १६
श्रीवसिष्ठ उवाच ।
गतेव सकलङ्कत्वं कदाचित्कल्पनात्मकम् ।
उन्मेषरूपिणी नाना तदैव हि मनःस्थिता ।। १७
भावनामनुसंधानं यदा निश्चित्य संस्थिता ।
तदैषा प्रोच्यते बुद्धिरियत्ताग्रहणक्षमा ।। १८
यदा मिथ्याभिमानेन सत्तां कल्पयति स्वयम् ।
अहंकाराभिमानेन प्रोच्यते भवबन्धनी ।। १९
इदं त्यक्त्वेदमायाति बालवत्पेलवा यदा ।
विचारं संपरित्यज्य तदा सा चित्तमुच्यते ।। २०
यदा स्पन्दैकधर्मत्वात्कर्तुर्या शून्यशंसिनी ।
आधावति स्पन्दफलं तदा कर्मेत्युदाहृता ।। २१
काकतालीययोगेन त्यक्त्वैकघननिश्चयम् ।
यदेहितं कल्पयति भावं तेनेह कल्पना ।। २२
पूर्वदृष्टमदृष्टं वा प्राग्दृष्टमिति निश्चयैः ।
यदैवेहां विधत्तेऽन्तस्तदा स्मृतिरुदाहृता ।। २३
यदा पदार्थशक्तीनां संभुक्तानामिवाम्बरे ।
वसत्यस्तमितान्येहा वासनेति तदोच्यते ।। २४
अस्त्यात्मतत्त्वं विमलं द्वितीया दृष्टिरङ्किता ।
जाता ह्यविद्यमानैव तदा विद्येति कथ्यते ।। २५
स्फुरत्यात्मविनाशाय विस्मारयति तत्पदम् ।
मिथ्याविकल्पजालेन तन्मलं परिकल्प्यते ।। २६
श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा विमृश्य च ।
इन्द्रमानन्दयत्येषा तेनेन्द्रियमिति स्मृतम् ।। २७
सर्वस्य दृश्यजालस्य परमात्मन्यलक्षिते ।
प्रकृतत्वेन भावानां लोके प्रकृतिरुच्यते ।। २८
सदसत्तां नयत्याशु सत्तां वा सत्त्वमञ्जसा ।
सत्तासत्ताविकल्पोऽयं तेन मायेति कथ्यते ।। २९
दर्शनश्रवणस्पर्शरसनघ्राणकर्मभिः ।
क्रियेति कथ्यते लोके कार्यकारणतां गता ।। ३०
चितेश्चेत्यानुपातिन्या गतायाः सकलङ्कताम् ।
प्रस्फुरद्रूपधर्मिण्या एताः पर्यायवृत्तयः ।। ३१
चित्ततामुपयाताया गतायाः प्रकृतं पदम् ।
स्वैरेव संकल्पशतैर्भृशं रूढिमुपागताः ।। ३२
चेतनीयकलङ्काङ्काज्जाड्यजालानुपातिनी ।
संख्याविभागकलना स्ववैकल्याकुलेव चित् ।। ३३
जीव इत्युच्यते लोके मन इत्यपि कथ्यते ।
चित्तमित्युच्यते सैव बुद्धिरित्युच्यते तथा ।। ३४
नानासंकल्पकलिलं पर्यायनिचयं बुधाः ।
वदन्त्यस्याः कलङ्किन्याश्च्युतायाः परमात्मनः ।। ३५
श्रीराम उवाच ।
मनः किं स्याज्जडं ब्रह्मंस्तथा वापि च चेतनम् ।
इत्येको मम तत्त्वज्ञ निश्चयोऽन्तर्न जायते ।। ३६
श्रीवसिष्ठ उवाच ।
मनो हि न जडं राम नापि चेतनतां गतम् ।
म्लानाऽजडा तदा दृष्टिर्मन इत्येव कथ्यते ।। ३७
मध्ये सदसतो रूपं प्रतिभूतं यदाविलम् ।
जगतः कारणं नाम तदेतच्चित्तमुच्यते ।। ३८
शाश्वतेनैकरूपेण निश्चयेन विना स्थितिः ।
येन सा चित्तमित्युक्ता तस्माज्जातमिदं जगत् ।। ३९
जडाजडदृशोर्मध्ये दोलारूपं स्वकल्पनम् ।
यच्चितो म्लानरूपिण्यास्तदेतन्मन उच्यते ।। ४०
चिन्निःस्पन्दो हि मलिनः कलङ्कविकलान्तरम् ।
मन इत्युच्यते राम न जडं न च चिन्मयम् ।। ४१
तस्येमानि विचित्राणि नामानि कलितान्यलम् ।
अहंकारमनोबुद्धिजीवाद्यानीतराण्यपि ।। ४२
यथा गच्छति शैलूषो रूपाण्यलं तथैव हि ।
मनो नामान्यनेकानि धत्ते कर्मान्तरं व्रजत् ।। ४३
चित्राधिकारवशतो विचित्रा विकृताभिधाः ।
यथा याति नरः कर्मवशाद्याति तथा मनः ।। ४४
या एताः कथिताः संज्ञा मया राघव चेतसः ।
एता एवान्यथा प्रोक्ता वादिभिः कल्पनाशतैः ।। ०५
स्वभावाभिमतां बुद्धिमारोप्य मनसा कृताः ।
मनोबुद्धीन्द्रियादीनां विचित्रा नामरीतयः ।। ४६
मनो हि जडमन्यस्य भिन्नमन्यस्य जीवतः ।
तथाहंकृतिरन्यस्य बुद्धिरन्यस्य वादिनः ।। ४७
अहंकारमनोबुद्धिदृष्टयः सृष्टिकल्पनाः ।
एकरूपतया प्रोक्ता या मया रघुनन्दन ।।
नैयायिकैरितरथा तादृशैः परिकल्पिताः ।
अन्यथा कल्पिताः सांख्यैश्चार्वाकैरपि चान्यथा ।। ४९
जैमिनीयैश्चार्हतैश्च बौद्धैर्वैशेषिकैस्तथा ।
अन्यैरपि विचित्रैस्तैः पाञ्चरात्रादिभिस्तथा ।। ५०
सर्वैरेव च गन्तव्यं तैः पदं पारमार्थिकम् ।
विचित्रं देशकालोत्थैः पुरमेकमिवाध्वगैः ।। ५१
अज्ञानात्परमार्थस्य विपरीतावबोधतः ।
केवलं विवदन्त्येते विकल्पैरारुरुक्षवः ।। ५२
स्वमार्गमभिशंसन्ति वादिनश्चित्रया दृशा ।
विचित्रदेशकालोत्था मार्गं स्वं पथिका इव ।। ५३
तैर्मिथ्या राघव प्रोक्ताः कर्ममानसचेतसाम् ।
स्वविकल्पार्पितैरर्थैः स्वाः स्वा वैचित्र्ययुक्तयः ।। ५४
यथैव पुरुषः स्नानदानादानादिकाः क्रियाः ।
कुर्वंस्तत्कर्तृवैचित्र्यमेति तद्वदिदं मनः ।। ५५
विचित्रकार्यवशतो नामभेदेन कर्तृता ।
मनः संप्रोच्यते जीववासनाकर्मनामभिः ।। ५५
चित्तमेवेदमखिलं सर्वेणैवानुभूयते ।
अचित्तो हि नरो लोकं पश्यन्नपि न पश्यति ।। ५७
श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा शुभाशुभम् ।
अन्तर्हर्षं विषादं च समनस्को हि विन्दति ।। ५८
आलोक इव रूपाणामर्थानां कारणं मनः ।
बध्यते बद्धचित्तो हि मुक्तचित्तो हि मुच्यते ।। ५९
तज्जडानां परं विद्धि जडं येनोच्यते मनः ।
न चावगच्छति जडं मनो यस्य हि चेतनम् ।। ६०
न चेतनं न च जडं यदिदं प्रोत्थितं मनः ।
विचित्रसुखदुःखेहं जगदभ्युदितं तदा ।। ६१
एकरूपे हि मनसि संसारः प्रविलीयते ।
उपाविलं कारणं तैर्भ्रान्त्या जगदुपस्थितम् ।। ६२
अजडं हि मनो राम संसारस्य न कारणम् ।
जडं चोपलधर्मापि संसारस्य न कारणम् ।। ६३
न चेतनं न च जडं तस्माज्जगति राघव ।
मनः कारणमर्थानां रूपाणामिव भासनम् ।। ६४
चित्तादृतेऽन्यद्यद्यस्ति तदचित्तस्य किं जगत् ।
सर्वस्य भूतजातस्य समग्रं प्रविलीयते ।। ६५
नानाकर्मवशावेशान्मनो नानाभिधेयताम् ।
एकं विचित्रतामेति कालो नाना यथर्तुमिः ।। ६६
यदि नामामनस्कारमहंकारेन्द्रियक्रियाः ।
क्षोभयन्ति शरीरं तत्सन्तु जीवादयः परे ।। ६७
दर्शनेषु तु ये प्रोक्ता भेदा मनसि तर्कतः ।
क्वचित्कचिद्वादकरैरपवादकरैः किल ।। ६८
ते हि राम न बुध्यन्ते विशिष्यन्ते न च क्वचित् ।
सर्वा हि शक्तयो देवे विद्यन्ते सर्वगा यतः ।। ६९
यदैव खलु शुद्धाया मनागपि हि संविदः ।
जडेव शक्तिरुदिता तदा वैचित्र्यमागतम् ।। ७०
ऊर्णनाभाद्यथा तन्तुर्जायते चेतनाज्जडः ।
नित्यप्रबुद्धात्पुरुषाद्ब्रह्मणः प्रकृतिस्तथा ।। ७१
अविद्यावशतश्चित्तभावनाः स्थितिमागताः ।
चिति पर्यायशब्दा हि भिन्नास्ते नेह वादिनाम् ।। ७२
जीवो मनश्च ननु बुद्धिरहंकृतिश्चेत्येवं प्रथामुपगतेयमनिर्मला चित् ।
सैषोच्यते जगति चेतनचित्तजीवसंज्ञागणेन किल नास्ति विवाद एषः ।। ७३
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे मनःसंज्ञाविचारो नाम षण्णवतितमः सर्गः ।। ९६ ।।