योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः १०४

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १०३ योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)
सर्गः १०४
अज्ञातलेखकः
सर्गः १०५ →


चतुरुत्तरशततमः सर्गः १०४
श्रीवसिष्ठ उवाच ।
अत्र ते श्रृणु वक्ष्यामि वृत्तान्तमिममुत्तमम् ।
जागतीहेन्द्रजालश्रीश्चित्तायत्ता यथा स्थिता ।। १
अस्त्यस्मिन्वसुधापीठे नानावनसमाकुलः ।
उत्तरापाण्डवो नाम स्फीतो जनपदो महान् ।। २
नीरन्ध्रघनगम्भीरवनविश्रान्ततापसः ।
विद्याधरीकृतलतादोलोपवनपत्तनः ।। ३
वातोद्धूताञ्जकिञ्जल्कपुञ्जपिञ्जरपर्वतः ।
लसत्कुसुमसंभारवनमालावतंसकः ।। ४
करञ्जमञ्जरीकुञ्जगुच्छपर्यन्तजङ्गलः ।
खर्जूरान्तरितग्रामो घुंघुमध्वनिताम्बरः ।। ५
एकपिङ्गशिलाश्रेणीशालिकेदारपिङ्गलः ।
नीलकण्ठारवोद्दामवनजङ्गलमण्डितः ।। ६
सारसारवसंरम्भरणत्कनककाननः ।
तमालपाटलीनीलगिरिग्रामककुण्डलः ।। ७
विचित्रविहगव्यूहविरावकृतकाकलिः ।
नदीपरिसरोन्निद्रपारिभद्रद्रुमारुणः ।। ८
गायत्कलमकेदारदारिकाहृतमन्मथः ।
पुष्पफलचलद्वातव्याधूतकुसुमाम्बुदः ।। ९
दरीगृहविनिष्क्रान्तसिद्धचारणबन्दिकम् ।
स्वर्गादिव समानीय लावण्यमभिनिर्मितः ।। १०
गायत्किन्नरगन्धर्वकदलीखण्डमण्डपः ।
मन्दानिलरवोद्भूतः पुष्पोपवनपाण्डुरः ।। ११
तत्रास्ति लवणो नाम राजा परमधार्मिकः ।
हरिश्चन्द्रकुलोद्भूतो भूमाविव दिवाकरः ।। १२
यद्यशःकुसुमोत्तंसपाण्डुरस्कन्धमण्डलाः ।
तत्र शैला विराजन्ते हाराः प्रोद्धूलिता इव ।। १३
कृपाणशकलोत्कृत्तनिःशेषारातिमण्डलः ।
अरातिलोकः प्राप्नोति यदनुस्मरणाज्ज्वरम् ।। १४
यस्योदारसमारम्भमार्यलोकानुपालनम् ।
चरितं संस्मरिष्यन्ति हरेरिव चिरं जनाः ।। १७
यस्याप्सरोमिरद्रीन्द्रमूर्धस्वमरसद्मसु ।
विकासिपुलकोल्लासं गीयन्ते गुणगीतयः ।। १६
यस्य स्वःसुन्दरीगीता लोकपालचिरश्रुताः ।
विरिञ्चिहंसैर्ध्वन्यन्ते स्वभ्यासाद्गुणगीतयः ।। १७
स्वप्नेष्वपि न सामान्या यस्योदारचमत्कृतिः ।
राम दृष्टा श्रुता वापि दैन्यदोषमयी क्रिया ।। १८
जिह्मतां यो न जानाति न दृष्टा येन धृष्णुता ।
उदारता येन धृता ब्रह्मणेवाक्षमालिका ।। १९
दिनाष्टभागमाकाशमागते दिवसाधिपे ।
स कदाचित्सभास्थाने सिंहासनगतोऽभवत् ।। २०
सुखोपविष्टे तत्रास्मिन्राजनीन्दाविवाम्बरे ।
प्रविशन्तीषु सामन्तसेनासु च ससंभ्रमम् ।। २१
गायन्तीष्वथ कान्तासु सूपविष्टेषु राजसु ।
मनो हरति साह्लादे वीणावंशकलारवे ।। २२
चारुचामरहस्तासु सविलासासु राजनि ।
देवासुरगुरुप्रख्ये विश्रान्ते मन्त्रिमण्डले ।। २३
प्रस्तुतेषु प्रविष्टेषु राजकार्येषु मन्त्रिभिः ।
प्रोक्तासु देशवार्तासु निपुणैश्चारुमन्त्रिभिः ।। २४
इतिह्यसमये पुण्ये वाच्यमाने च पुस्तके ।
पठत्सु च स्तुतीः पुण्याः पुरः प्रह्वेषु वन्दिषु ।। २५
सभां विवेश साटोपः कश्चित्तामैन्द्रजालिकः ।
वर्षेणाहितसंरम्भो वसुधामिव वारिदः ।। २६
स ननाम महीपालं शिखरोदारकन्धरम् ।
पादोपान्तगतः कान्तं शैलं फलतरुर्यथा ।। २७
सच्छायस्योन्नतांसस्य फलिनः पुष्पभासिनः ।
स विवेश पुरो राज्ञस्तरोरग्रे कपिर्यथा ।। २८
चपलो लम्पटोऽर्थानामामोदसुखमारुतम् ।
उवाचोत्कन्धरं भूपं सपद्ममिव षट्पदः ।। २९
विलोकय विभो तावदेकामिह खरोलिकाम् ।
पीठस्थ एव साश्चर्यां व्योम्नि चन्द्र इवावनिम् ।। ३०
इत्युक्त्वा पिच्छिका तेन भ्रामिता भ्रमदायिनी ।
नानाविरचनाबीजं मायेव परमात्मनः ।। ३१
तां ददर्श महीपालस्तेजोरेणुविराजिताम् ।
शक्रः सुरविमानस्थः स्वकार्मुकलतामिव ।। ३२
सभां सैन्धवसामन्तो विवेशास्मिन्क्षणे तदा ।
तारापरिकरापूर्णां व्योमवीथीमिवाम्बुदः ।। ३३
तं चैवानुजगामाश्वः सौम्यः परमवेगवान् ।
देवलोकोन्मुखं तुष्टं शक्रमुच्चैःश्रवा इव ।। ३४
स तमश्वमुपादाय पार्थिवं समुवाच ह ।
सोच्चैःश्रवा इव क्षीरसागरो मरुतां पतिम् ।। ३५
इदमुच्चैःश्रवःप्रख्यं हयरत्नं महीपते ।
जवोडुयनशीलेन मूर्तिमानिव मारुतः ।। ३६
अश्वोऽयमस्मत्प्रभुणा प्रभो संप्रहितस्त्वयि ।
राजते हि पदार्थश्रीर्महतामर्पणाच्छुभा ।। ३७
इत्युक्तवति तस्मिंस्तु प्रत्युवाचैन्द्रजालिकः ।
जलदस्तनिते शान्ते चातकोऽम्बुधरं यथा ।। ३८
सदश्वमेनमारुह्य भुवनं विहर प्रभो ।
स्वप्रतापाहितानल्पशोभामुर्वीं रविर्यथा ।। ३९
अश्वमालोकयामास तेनोक्त इति पार्थिवः ।
निर्घातस्तनितं मेघं मयूर इव सूत्करः ।। ४०
अथानिमेषया दृष्ट्या राजा चित्रोपमाकृतिः ।
बभूवालोकयन्नश्वं लिपिकर्मार्पितोपमः ।। ४१
क्षणमालोक्य पीठस्थस्तस्थौ संस्थगितेक्षणः ।
दृष्ट्याऽऽक्षुब्धः समुद्रोऽद्रिमीनकैः करवो यथा ।।४२
तस्थौ मुहूर्तयुग्मं स ध्यानासक्त इवात्मनि ।
वीतरागो मुनिः क्षुब्धः परानन्द इव स्थितः ।। ४३
बोधितः केनचिन्नासौ स्वप्रतापजितोर्जितः ।
धिया कामप्ययं भूयश्चिन्तां चिन्तयतीति च ।। ४४
बभूवुः केवलं तत्र निःस्पन्दसितचामराः ।
चामरिण्यो हि शर्वर्यः स्तम्भितेन्दुकरा इव ।। ४५
विरेजुर्विस्मयापूर्णा निःस्पन्दास्ते सभासदः ।
निःस्पन्दकिञ्जल्कदलाः पद्माः पङ्ककृता इव ।। ४६
प्रशशाम सभास्थाने जनकोलाहलः शनैः ।
प्रशान्तप्रावृषि व्योमन्याम्भोदमिव गर्जितम् ।। ४७
संदेहसागरे मग्ना जग्मुश्चिन्तां सुमन्त्रिणः ।
विषीदति गदापाणावसुराजाविवामराः ।। ४८
विततविस्मितजिह्नितया तया
जनतया भयमोहविषण्णया ।
स्तिमितचक्षुषि भूमिपतौ स्थिते
मुकुलिताज्जवनस्य धृता द्युतिः ।। ४९
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे इन्द्रजालोपाख्याने नृपव्यामोहो नाम चतुरुत्तरशततमः सर्गः ।। १०४ ।।