योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः १०५

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १०४ योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)
सर्गः १०५
अज्ञातलेखकः
सर्गः १०६ →


पञ्चोत्तरशततमः सर्गः १०५
श्रीवसिष्ठ उवाच ।
मुहूर्तद्वितयेनाथ बोधमाप महीपतिः ।
प्रावृषेण्याम्बुनिर्मुक्तमम्भोरुहमिवोत्तमम् ।। १
आसनात्साङ्गदोत्तंसः प्रबुद्धोऽसावकम्पयत् ।
सवनाभोगशृङ्गाग्र्यो भूकम्प इव पर्वतः ।। २
बभूवाथ प्रबुद्धोऽसावासनोपरि कम्पितः ।
विक्षुब्ध इव पातालवारणे शङ्कराचलः ।। ३
पतन्तं धारयामासुस्तं पुरोगा नृपं भुजैः ।
मेरुं प्रलयविक्षुब्धं कुलशैलास्तटैरिव ।। ४
पुरोगैर्धार्यमाणोऽसौ पर्याकुलमतिर्नृपः ।
वीचिविक्षोभितस्येन्दोर्बभार वनमाः श्रियः ।। ५
कोऽयं प्रदेशः कस्येयं सभेति स नृपः शनैः ।
दध्वान मज्जदम्भोजकोशस्थ इव षट्पदः ।। ६
अथोवाच सभा देव किमेतदिति सादरम् ।
रणन्मधुकरी भानुं दृष्टराहुमिवालिनी ।। ७
अथैनं परिपप्रच्छुः पुरोगा मन्त्रिणस्तथा ।
प्रलयोल्लाससंत्रस्तं मार्कण्डेयमिवामराः ।। ८
त्वयीत्थं संस्थिते देव वयमत्यन्तमाकुलाः ।
अभेद्यमपि भिन्दन्ति निर्निमित्तं भ्रमा मनः ।। ९
आपातरमणीयेषु पर्यन्तविरसेषु च ।
भोगेष्विव विकल्पेषु केषु ते लुलितं मनः ।। १०
सततोदारवृत्तासु कथासु परिशीतलम् ।
मनस्ते निर्मलं कस्मात्संभ्रमेषु निमज्जति ।। ११
तुच्छालम्बनमालूनविशीर्णं लोकवृत्तिषु ।
मनो मोहमुपादत्ते न महत्त्वविजृम्भितम् ।। १२
सातत्येन हि यैवास्य मनसो वृत्तिरुत्थिता ।
शरीरमदमत्तासु तामेवैतद्विधावति ।। १३
अतुच्छालम्बनं धीरं प्रबुद्धं गुणहारि च ।
तवापि हि मनश्चित्रमालूनमिव लक्ष्यते ।। १४
अनभ्यस्तविवेकं हि देशकालवशानुगम् ।
मन्त्रौषधिवशं याति मनो नोदारवृत्तिमत् ।। १५
नित्यमात्तविवेकस्य कथमालूनशीर्णता ।
धुनोति विततं चेतो वात्येव विबुधाचलम् ।। १६
इति जातानुगीर्णस्य भूपतेः कान्तिराननम् ।
भूषयामास शीतांशुं मासान्त इव पूर्णता ।। १७
रराज राजा सौम्यास्यमुन्मीलितविलोचनः ।
गते हिमर्तावुल्लासिपुष्पौघ इव माधवः ।। १८
अथातिसंभ्रमाश्चर्यखिन्नास्मृतिमुखो बभौ ।
आसन्नमृत्युरालोक्य राहुमिन्दुरिवाम्बरे ।। १९
ऐन्द्रजालिकमालोक्य प्रोवाचाथ हसन्निव ।
बभुं हिंसात्मकं दृष्ट्वा सर्परूपीव तक्षकः ।। २०
जाल्म जालजटालेन किमेतद्भवता कृतम् ।
येनास्पन्दप्रसन्नोऽब्धिः क्षणादेत्य प्रसन्नताम् ।। २१
चित्रं चित्रा हि देवस्य पदार्थशतशक्तयः ।
सुशक्तमपि मे चित्तं याभिर्मोहे निवेशितम् ।। २२
क्व वयं लोकपर्यायकृतान्तपदवेदिनः ।
क्व मनोमोहदायिन्यो वितताः प्रकृतापदः ।। २३
अप्यभ्यस्तमहाज्ञानं मनस्तिष्ठति देहके ।
कदाचिन्मोहमादत्ते क्षणं मतिमतामपि ।। २४
इदमाश्चर्यमाख्यानं श्रूयतां रे सभासदः ।
मम शाम्बरिकेणेह यन्मुहूर्तं प्रदर्शितम् ।। २५
दृष्टवानहमेतस्मिन्बह्वीः कार्यदशाश्चलाः ।
मुहूर्तं प्रार्थितोऽध्वस्तशक्रसृष्टिरिवालजः ।। २६
इत्युक्त्वोन्मुखनेत्रेषु सभ्येषु स हसन्निव ।
राजा वर्णयितुं चित्रं वृत्तान्तमुपचक्रमे ।। २७
राजोवाच ।
इह विविधपदार्थसंकुलायां
ह्रदनदपत्तनपर्वताकुलायाम् ।
कुलशिखरिसमुद्रसंकरायां
भुवि विभवावलितोऽस्त्ययं प्रदेशः ।। २८
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उ० इन्द्रजालोपाख्याने राजावबोधो नाम पञ्चोत्तरशततमः सर्गः ।। १०५ ।।