योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः १०६

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १०५ योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)
सर्गः १०६
अज्ञातलेखकः
सर्गः १०७ →


षडोत्तरशततमः सर्गः १०६
राजोवाच ।
अस्ति तावदयं देशो नानावननदीयुतः ।
वसुधामण्डलस्यास्य सहोदर इवानुजः ।। १
अस्मिंश्चायमहं राजा पौराभिमतवृत्तिमान् ।
इन्द्रः स्वर्ग इवास्यां तु सभायां मध्यसंस्थित ।। २
यावदभ्यागतो दूरात्कश्चिच्छाम्बरिकस्त्वयम् ।
रसातलादभ्युदितो मायी मय इव स्वयम् ।। ३
अनेन भ्रमिताद्येह पिच्छिका तेजसोर्जिता ।
कल्पान्तपवनाभ्रेण शक्रचापलता यथा ।। ४
आलोक्यैतामहं लोलामस्याश्वस्य पुरः स्थितः ।
पृष्ठमारूढवानेक आत्मना भ्रान्तमानसः ।। ५
ततोऽद्रिं प्रलयक्षुब्धं पुष्करावर्तको यथा ।
तथा चलन्तं चलितः स्वश्वमारूढवानहम् ।। ६
गन्तुं प्रवृत्तो मृगयामेकोऽहमतिरंहसा ।
उर्वरामिव निर्भर्तुः कल्लोलः प्रलयाम्बुधेः ।। ७
तेनानिलविलोलेन दूरं नीतोऽस्मि वाजिना ।
योगाभ्यासजडेनाज्ञो मुग्धस्य मनसा यथा ।। ८
अकिंचनमनःशून्यं स्त्रीचित्तमिव निर्भरम् ।
ततः प्रलयनिर्दग्धजगदास्पदभीषणम् ।। ९

निष्पक्षिक्षारनीहारं निर्वृक्षमजलं महत् ।
संप्राप्तोऽहमपर्यन्तमरण्यं श्रान्तवाहनः ।। १०
तद्द्वितीयमिवाकाशं तथाष्टममिवाम्बुधिम् ।
पञ्चमं सागरमिव संशुष्कं शून्यकोटरम् ।। ११
ज्ञस्येव विततं चेतो मूर्खस्येव रुषाऽजवम् ।
अदृष्टजनसंसर्गमजाततृणपल्लवम् ।। १२
अरण्यमिदमासाद्य मतिर्मे खेदमागता ।
ललनेवैत्य दारिद्र्यं निरन्नफलबान्धवम् ।। १३
कचन्मरुमरीच्यम्बुपुरःप्लुतककुम्मुखम् ।
आसूर्यास्तं दिनं तत्र प्रक्रान्तं सीदता मया ।। १४
तदरण्यं मयातीतमतिकृच्छ्रेण खेदिना ।
विवेकिनेव संसारो मध्यशून्यतताकृति ।। १५
यदेतेनातिवाह्याहं प्राप्तवाञ्जङ्गलं क्रमात् ।
अस्ताद्रिसानुं खिन्नाश्वः शून्यभ्रान्त्येवभास्करः ।।१६
जम्बूकदम्बप्रायेषु कलालापाः पतत्रिणः ।
यत्र स्फुरन्ति खण्डेषु पान्थानामिव बान्धवाः ।। १७
यत्र शष्पशिखाश्रेण्यो दृश्यन्ते विरलाः स्थले ।
कदर्थलक्ष्म्या जिह्मस्य हृदीवानन्दवृत्तयः ।। १८
पूर्वादरण्यादरसात्तद्धि किंचित्सुखावहम् ।
अत्यन्तदुःखान्मरणाद्वरं व्याधिर्हि जन्तुषु ।। १९
तत्र जम्बीरखण्डस्य तलं संप्राप्तवानहम् ।
मार्कण्डेय इवागेन्द्रमेकार्णवविहारतः ।। २०
आलम्बिता मया तत्र स्कन्धसंसर्गिणी लता ।
नीला जलदमालेव तापतप्तेन भूभृता ।। २१
मयि प्रलम्बमानेऽस्यां प्रयातः स तुरङ्गमः ।
गङ्गावलम्बिनि नरे यथा दुष्कृतसंचयः ।। २२
चिरं दीर्घाध्वगः खिन्नस्तत्र विश्रान्तवानहम् ।
भानुरस्ताचलोत्सङ्गे तले कल्पतरोरिव ।। २३
यावत्समस्तसंसारव्यवहारभरैः समम् ।
रविर्विश्रमणायेव निविष्टोऽस्ताचलाङ्गणे ।। २४
शनैः श्यामिकया ग्रस्ते समस्ते भुवनोदरे ।
रात्रिसंव्यवहारेषु संप्रवृत्तेषु जङ्गले ।। २५
अहं तरुतृणे तस्मिन्पेलवे खण्डकोटरे ।
निलीनश्चिरलीनास्यः स्वनीडे विहगो यथा ।। २६
विषदष्टविवेकस्य कीनाशस्य गलत्स्मृतेः ।
विक्रीतस्येव दीनस्य मग्नस्येवान्धकूपके ।। २७
तत्र कल्पसमा रात्रिर्मोहमग्नस्य मे गता ।
एकार्णवोह्यमानस्य मार्कण्डेयमुनेरिव ।। २८
न स्नातवान्नार्चितवान्न तदा भुक्तवानहम् ।
केवलं मे गता रात्रिः सापदां धुरि तिष्ठतः ।। २९
विनिद्रस्य विधैर्यस्य स्फुरतः सह पल्लवैः ।
समं दुष्टातिदैर्घ्येण सा व्यतीयाय शर्वरी ।। ३०
ततस्तिमिरलेखासु सह तारेन्दुकैरवैः ।
मयीवापाद्यमानासु म्लानतामलमानने ।। ३१
शाम्यन्तीषु च वेतालक्ष्वेडासु जवजङ्गले ।
सहशीतार्तिमद्दन्तपङ्क्तिटाङ्कारसीत्कतैः ।। ३२
मामेवार्तिविनिर्मग्नं हसन्तीमिव दृष्टवान् ।
अहं पूर्वां दिशं प्राप्तमधुपानारुणामिव ।। ३३
क्षणादज्ञ इव ज्ञानं दरिद्र इव काञ्चनम् ।
दृष्टवानहमर्कं खे वारणारोहणोन्मुखम् ।। ३४
उत्थायास्तरणं वस्त्रं तत्तदास्फोटितं मया ।
हस्तिचर्मद्वरेणेव संध्यानृत्यानुरागिणा ।। ३५
प्रवृत्तस्तामहं स्फारां विहर्तुं जङ्गलस्थलीम् ।
कालो जगत्कुटीं कल्पदग्धभूतगणामिव ।। ३६
 न किंचिदृश्यते तत्र भूतं जरठजङ्गले ।
 अभिजातो गुणलवो यथा मूर्खशरीरके ।। ३७
 केवलं विगताशङ्कं खण्डभ्रमणचञ्चलम् ।
 चीचीकूचीतिवचना विहरन्ति विहङ्गमाः ।। ३८
अथाष्टभागमापन्ने व्योम्नो दिवसनायके ।
शुष्कावश्यायलेशासु स्नातास्विव लतासु च ।। ३९
 दृष्टा मया प्रभ्रमता दारिकौदनधारिणी ।
गृहीतामृतसत्कुम्भा दानवेनेव माधवी ।। ४०
तरत्तारकनेत्रां तां श्यामामधवलाम्बराम् ।
अहमभ्यागतस्तत्र शर्वरीमिव चन्द्रमाः ।। ४१
मह्यमोदनमाश्वेतद्बाले बलवदापदि ।
देहिदीनार्तिहरणात्स्फारतां यान्ति संपदः ।। ४२
क्षुदन्तर्महतीयं मे बाले वृद्धिमुपेयुषी ।
 कृष्णसर्पा प्रसूतेव कोटरस्था जरद्रुमे ।। ४३
याच्चयापि तया मह्यमित्थं दत्तं न किंचन ।
यत्नप्रार्थनया लक्ष्म्या यथा दुष्कृतिने धनम् ।। ४४
केवलं चिरकालेन मयात्यन्तानुगामिना ।
खण्डात्खण्डं निपतति च्छायाभूते पुरःस्थिते ।। ४५
तयोक्तं हारकेयूरिंश्चण्डालीं विद्धि मामिति ।
राक्षसीमिव सुक्रूरा पुरुषाश्वगजाशनाम् ।। ४६
राजन्यार्चनमात्रेण मत्तो नाप्नोषि भोजनम् ।
ग्राम्यादनभिजातेहात्सौजन्यमिव सुन्दरम् ।। ४७
इत्युक्तवत्या गच्छन्त्या खेलया च पदेपदे ।
कुञ्जकेषु निमज्जन्त्या लीलावनतयोदितम् ।। ४८
ददामि भोजनमिदं भर्ता भवसि चेन्मम ।
लोको नोपकरोत्यर्थैः सामान्यः स्निग्धतां विना ।। ४९
वाहयत्यत्र मे दान्तान्केदारे पुल्कसः पिता ।
श्मशान इव वेतालः क्षुधितो धूलिधूसरः ।। ५०
तस्येदमन्नं भवति भर्तृत्वे दीयते स्थिते ।
प्राणैरपि हि संपूज्या वल्लभाः पुरुषा यतः ।। ५१
अथोक्ता सा मया भर्ता भवामि तव सुव्रते ।
केनापदि विचार्यन्ते वर्णधर्मकुलक्रमाः ।। ५२
ततस्तयौदनादर्धं मह्यमेकं समर्पितम् ।
माधव्येवामृतादर्धमिन्द्रायार्तिमहत्पुरा ।। ५३
जम्बूफलरसः पीतः स भुक्तः पक्कणौदनः ।
विश्रान्तं च मया तत्र मोहापहृतचेतसा ।। ५४
मां तत्रार्कमिवापूर्य सा प्रावृट् श्यामला गता ।
हस्तेन समुपादाय प्राणं बहिरिव स्थितम् ।। ५५
दुराकृतिं दुरारम्भमाससाद भयप्रदम् ।
पितरं पीवराकारमवीचिमिव यातना ।। ५६
तया मदनुषङ्गिण्या स्वार्थस्तस्मै निवेदितः ।
मातङ्गाय भ्रमर्येव निःस्वनेनालिलग्नया ।। ५७
अयं मम भवेद्भर्ता तात हे तव रोचताम् ।
स तस्या बाढमित्युक्त्वा दिनान्ते समुपस्थिते ।। ५८
मुमोच दान्तावाबद्धौ कृतान्तः किङ्कराविव ।
नीहाराभ्रकडारासु दिक्षु प्रोद्धूलितासु च ।
वेतालबन्धनात्तस्माद्दिनान्ते चलिता वयम् ।। ५९
क्षणेन पक्कणं प्राप्ताः संध्यायां दीर्घजङ्गलात् ।
श्मशानादिव वेतालाः श्मशानमितरन्महत् ।। ६०
विकर्तितविभागस्थकपिकुक्कुटवायसम् ।
रक्तसिक्तोर्वराभागप्रभ्रमन्मक्षिकागणम् ।। ६१
शोषार्थं प्रसृतार्द्रान्त्रतन्त्रीजालपतत्खगम् ।
निष्कुटस्थितजम्बीरखण्डलग्नखगध्वनि ।। ६२
शुष्यद्गुरुवसापिण्डपूर्णालिन्दलसत्खगम् ।
दृष्टिप्रसृतरक्ताक्तचर्मस्रवदसृग्लवम् ।। ६३
बालहस्तस्थितक्रव्यपिण्डक्वणितमक्षिकम् ।
जर्जराधिष्ठचण्डालतर्जितारटितार्भकम् ।। ६४
तत्प्रविष्टा वयं कीर्णशिरान्त्र भीमपक्कणम् ।
मृतभूतं जगत्कल्पे कृतान्तानुचरा इव ।। ६५
संभ्रमोपहितानल्पकदलीदलपीठके ।
अहमास्थितवांस्तत्र नवे श्वशुरमन्दिरे ।। ६६
श्वश्र्वा मे केकराक्ष्या तु तेनासृग्लवचक्षुषा ।
जामातायमिति प्रोक्तं तया तदभिनन्दितम् ।। ६७
अथ विश्रम्य चण्डालभोजनान्यजिनासने ।
संचितान्युपभुक्तानि दुष्कृतानीव भूरिशः ।। ६८
अनन्तदुःखबीजानि न मनोज्ञतराण्यपि ।
तानि प्रणयवाक्यानि श्रुतान्यसुभगान्यलम् ।। ६९
निरभ्राम्बरनक्षत्रे कस्मिंश्चिद्दिवसे ततः ।
तैस्तैरारम्भसंरम्भैस्तैर्वस्त्रविभवार्पणैः ।। ७०
दत्ताप्यनेन सा मह्यं कुमारी भयदायिनी ।
सुकृष्णा कृष्णवर्णेन दुष्कृतेनेव यातना ।। ७१
सरभसमभितो विनेदुरत्र
प्रसृतमहामदिरासवाः श्वपाकाः ।
हतपटुपटहा विलासवन्तः
स्वयमिव दुष्कृतराशयो महान्तः ।। ७२
इत्यार्षे श्रीवासिष्ठमहारामायणे मो० उत्पत्तिप्रकरणे इन्द्रजालोपाख्याने चाण्डालीविवाहो नाम षडुत्तरशततमः सर्गः ।। १०६ ।।