योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ००९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


नवमः सर्गः ९
श्रीवसिष्ठ उवाच ।
तच्चित्तास्तद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च तन्नित्यं तुष्यन्ति च रमन्ति च ।। १
तेषां ज्ञानैकनिष्ठानामात्मज्ञानविचारिणाम् ।
सा जीवन्मुक्ततोदेति विदेहान्मुक्ततैव या ।। २
श्रीराम उवाच ।
ब्रह्मन्विदेहमुक्तस्य जीवन्मुक्तस्य लक्षणम् ।
ब्रूहि येन तथैवाहं यते शास्त्रदृशा धिया ।। ३
श्रीवसिष्ठ उवाच ।
यथास्थितमिदं यस्य व्यवहारवतोऽपि च ।
अस्तं गतं स्थितं व्योम जीवन्मुक्तः स उच्यते ।। ४
बोधैकनिष्ठतां यातो जाग्रत्येव सुषुप्तवत् ।
या आस्ते व्यवहर्तैव जीवन्मुक्तः स उच्यते ।। ५
नोदेति नास्तमायाति सुखे दुःखे मुखप्रभा ।
यथाप्राप्तस्थितेर्यस्य जीवन्मुक्तः स उच्यते ।। ६
यो जागर्ति सुषुप्तस्थो यस्य जाग्रन्न विद्यते ।
यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते ।। ७
रागद्वेषभयादीनामनुरूपं चरन्नपि ।
योऽन्तर्व्योमवदच्छस्थः स जीवन्मुक्त उच्यते ।। ८
यस्य नाहंकृतो भावो यस्य बुद्धिर्न लिप्यते ।
कुर्वतोऽकुर्वतो वापि स जीवन्मुक्त उच्यते ।। ९
यस्योन्मेषनिमेषार्धाद्विदः प्रलयसंभवौ ।
पश्येत्त्रिलोक्याः स्वसमः स जीवन्मुक्त उच्यते ।। १०
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षामर्षभयोन्मुक्तः स जीवन्मुक्त उच्यते ।। ११
शान्तसंसारकलनः कलावानपि निष्कलः ।
यः सचित्तोऽपि निश्चित्तः स जीवन्मुक्त उच्यते ।।१२
यः समस्तार्थजातेषु व्यवहार्यपि शीतलः ।
पदार्थेष्वपि पूर्णात्मा स जीवन्मुक्त उच्यते ।। १३
जीवन्मुक्तपदं त्यक्त्वा देहे कालवशीकृते ।
विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ।। १४
विदेहमुक्तो नोदेति नास्तमेति न शाम्यति ।
न सन्नासन्न दूरस्थो न चाहं न च नेतरः ।। १५
सूर्यो भूत्वा प्रतपति विष्णुः पाति जगत्त्रयम् ।
रुद्रः सर्वान्संहरति सर्गान्सृजति पद्मजः ।। १६
खं भूत्वा पवनस्कन्धं धत्ते सर्षिसुरासुरम् ।
कुलाचलगतो भूत्वा लोकपालपुरास्पदः ।। १७
भूमिर्भूत्वा बिभर्तीमां लोकस्थितिमखण्डिताम् ।
तृणगुल्मलता भूत्वा ददाति फलसंततिम् ।। १८
बिभ्रज्जलानलाकारं ज्वलति द्रवति द्रुतम् ।
चन्द्रोऽमृतं प्रसवति मृतं हालाहलं विषम् ।। १९
तेजः प्रकटयत्याशास्तनोत्यान्ध्यं तमो भवत् ।
शून्यं सद्व्योमतामेति गिरिः सन् रोधयत्यलम् ।। २०
करोति जंगमं चित्तः स्थावरं स्थावराकृतिः ।
भूत्वार्णवो वलयति भूस्त्रियं वलयो यथा ।। २१
परमार्कवपुर्भूत्वा प्रकाशान्तं विसारयन् ।
त्रिजगत्त्रसरेण्वोघं शान्तमेवावतिष्ठते ।। २२
यत्किंचिदिदमाभाति भातं भानमुपैष्यति ।
कालत्रयगतं दृश्यं तदसौ सर्वमेव च ।। २३
श्रीराम उवाच ।
कथमेवं वद ब्रह्मन्भूयते विषमा हि मे ।
दृष्टिरेषाथ दुष्प्राप्या दुराक्रम्येति निश्चयः ।। २४
श्रीवसिष्ठ उवाच ।
मुक्तिरेषोच्यते राम ब्रह्मैतत्समुदाहृतम् ।
निर्वाणमेतत्कथितं श्रृणु तत्प्राप्यते कथम् ।। २५
यदिदं दृश्यते दृश्यमहन्त्वन्तादिसंयुतम् ।
सतोऽप्यस्यात्यनुत्पत्त्या बुद्धयैतदवाप्यते ।। २६
श्रीराम उवाच ।
विदेहमुक्तास्त्रैलोक्यं संपद्यन्ते यदा तदा ।
मन्येते सर्गतामेव गता वेद्यविदांवर ।। २७
श्रीवसिष्ठ उवाच ।
विद्यते चेत्त्रिभुवनं तत्तत्तां संप्रयान्तु ते ।
यत्र त्रैलोक्यशब्दार्थो न संभवति कश्चन ।। २८
एतत्त्रिलोकतां यातं ब्रह्मेत्युक्तार्थधीः कुतः ।
तस्मान्नो संभवत्येषा जगच्छब्दार्थकल्पना ।। २९
अनन्यच्छान्तमाभासमात्रमाकाशनिर्मलम् ।
ब्रह्मैव जगदित्येतत्सर्वं सत्त्वावबोधतः ।। ३०
अहं हि हेमकटके विचार्यापि न दृष्टवान् ।
कटकत्वं क्वचिन्नाम ऋते निर्मलहाटकात् ।। ३१
जलादृते पयोवीचौ नाहं पश्यामि किंचन ।
वीचित्वं तादृशं दृष्टं यत्र नास्त्येव तत्र हि ।। ३२
स्पन्दत्वं पवनादन्यन्न कदाचन कुत्रचित् ।
स्पन्द एव सदा वायुर्जगत्तस्मान्न भिद्यते ।। ३३
यथा शून्यत्वमाकाशे ताप एव मरौ जलम् ।
तेज एव सदा लोके ब्रह्मैव त्रिजगत्तथा ।। ३४
श्रीराम उवाच ।
अत्यन्ताभावसंपत्त्या जगद्दृश्यस्य मुक्तता ।
ययोदेति मुने युक्त्या तां ममोपदिशोत्तमाम् ।। ३५
मिथःसंपन्नयोर्द्रष्ट्रदृश्ययोरेकसंख्ययोः ।
द्वयाभावे स्थितिं याते निर्वाणमवशिष्यते ।। ३६
दृश्यस्य जगतस्तस्मादत्यन्तासंभवो यथा ।
ब्रह्मैवेत्थं स्वभावस्थं बुध्यते वद मे तथा ।। ३७
कयैतज्ज्ञायते युक्त्या कथमेतत्प्रसिद्ध्यति ।
एतस्मिंस्तु मुने सिद्धे न साध्यमवशिष्यते ।। ३८
श्रीवसिष्ठ उवाच ।
बहुकालमियं रूढा मिथ्याज्ञानविषूचिका ।
नूनं विचारमन्त्रेण निर्मूलमुपशाम्यति ।। ३९
न शक्यते झटित्येषा समुत्सादयितुं क्षणात् ।
समप्रपतने ह्यद्रौ समरोहावरोहणे ।। ४०
तस्मादभ्यासयोगेन युक्त्या न्यायोपपत्तिभिः ।
जगद्भ्रान्तिर्यथा शाम्येत्तवेदं कथ्यते श्रृणु ।। ४१
वक्ष्याम्याख्यायिकां राम यामिमां बोधसिद्धये ।
तां चेच्छृणोषि तत्साधो मुक्त एवासि बोधवान् ।। ४२
अथोत्पत्तिप्रकरणं मयेदं तव कथ्यते ।
यत्किलोत्पद्यते राम तेन मुक्तेन भूयते ।। ४३
इयमित्थं जगद्भ्रान्तिर्भात्यजातैव खात्मिका ।
इत्युत्पत्तिप्रकरणे कथ्यतेऽस्मिन्मयाधुना ।। ४४
यदिदं दृश्यते किंचिज्जगत्स्थावरजङ्गमम् ।
सर्वं सर्वप्रकाराढ्यं ससुरासुरकिन्नरम् ।। ४५
तन्महाप्रलये प्राप्ते रुद्रादिपरिणामिनि ।
भवत्यसददृश्यात्म क्वापि याति विनश्यति ।। ४६
ततः स्तिमितगम्भीरं न तेजो न तमस्ततम् ।
अनाख्यमनभिव्यक्तं सत्किंचिदवशिष्यते ।। ४७
न शून्यं नापि चाकारं न दृश्यं न च दर्शनम् ।
न च भूतपदार्थौघो यदनन्ततया स्थितम् ।। ४८
किमप्यव्यपदेशात्म पूर्णात्पूर्णतराकृति ।
न सन्नासन्न सदसन्न भावो भवनं न च ।। ४९
चिन्मात्रं चेत्यरहितमनन्तमजरं शिवम् ।
अनादिमध्यपर्यन्तं यदनादि निरामयम् ।। ५०
यस्मिञ्जगत्प्रस्फुरति दृष्टमौक्तिकहंसवत् ।
यश्चेदं यश्च नैवेदं देवः सदसदात्मकः ।। ५१
अकर्णजिह्वानासात्वग्नेत्रः सर्वत्र सर्वदा ।
श्रृणोत्यास्वादयति यो जिघ्रेत्स्पृशति पश्यति ।। ५२
स एव सदसद्रूपं येनालोकेन लक्ष्यते ।
सर्गचित्रमनाद्यन्तं स्वरूपं चाप्य रञ्जनम् ।। ५३
अर्धोन्मीलितदृश्यभ्रूमध्ये तारकवज्जगत् ।
व्योमात्मैव सदाभासं स्वरूपं योऽभिपश्यति ।। ५४
यस्यान्यदस्ति न विभोः कारणं शशशृङ्गवत् ।
यस्येदं च जगत्कार्यं तरङ्गौघ इवाम्भसः ।। ५५
ज्वलतः सर्वतोऽजस्रं चित्तस्थानेषु तिष्ठतः ।
यस्य चिन्मात्रदीपस्य भासा भाति जगत्त्रयम् ।। ५६
यं विनाऽर्कादयोऽप्येते प्रकाशास्तिमिरोपमाः ।
सति यस्मिन्प्रवर्तन्ते त्रिजगन्मृगतृष्णिकाः ।। ५७
सस्पन्दे समुदेतीव निःस्पन्दान्तर्गते न च ।
इयं यस्मिञ्जगल्लक्ष्मीरलात इव चक्रता ।। ५८
जगन्निर्माणविलयविलासो व्यापको महान् ।
स्पन्दास्पन्दात्मको यस्य स्वभावो निर्मलोऽक्षयः ।। ५९
स्पन्दास्पन्दमयी यस्य पवनस्येव सर्वगा ।
सत्ता नाम्नैव भिन्नेव व्यवहारान्न वस्तुतः ।। ६०
सर्वदैव प्रबुद्धो यः सुप्तो यः सर्वदैव च ।
न सुप्तो न प्रबुद्धश्च यः सर्वत्रैव सर्वदा ।। ६१
यदस्पन्दं शिवं शान्तं यत्स्पन्दं त्रिजगत्स्थितिः ।
स्पन्दास्पन्दविलासात्मा य एको भरिताकृतिः ।। ६२
आमोद इव पुष्पेषु न नश्यति विनाशिषु ।
प्रत्यक्षस्थोऽप्यथाग्राह्यः शौक्ल्यं शुक्लपटे यथा ।। ६३
मूकोपमोऽपि योऽमूको मन्ता योऽप्युपलोपमः ।
यो भोक्ता नित्यतृप्तोऽपि कर्ता यश्चाप्यकिंचनः ।। ६४
योऽनङ्गोऽपि समस्ताङ्गः सहस्रकरलोचनः ।
न किंचित्संस्थितेनापि येन व्याप्तमिदं जगत् ।। ६५
निरिन्द्रियबलस्यापि यस्याशेषेन्द्रियक्रियाः ।
यस्य निर्मननस्यैता मनोनिर्माणरीतयः ।। ६६
यदनालोकनाद्भान्तिसंसारोरगभीतयः ।
यस्मिन्दृष्टे पलायन्ते सर्वाशाः सर्वभीतयः ।। ६७
साक्षिणि स्फार आभासे ध्रुवे दीप इव क्रियाः ।
सति यस्मिन्प्रवर्तन्ते चित्तेहाः स्पन्दपूर्विकाः ।। ६८
यस्माद्धटपटाकारपदार्थशतपङ्कतयः ।
तरङ्गगणकल्लोलवीचयो वारिधेरिव ।। ६९
स एवान्यतयोदेति यत्पदार्थशतभ्रमैः ।
कटकाङ्गदकेयूरनूपुरैरिव काञ्चनम् ।। ७०
यस्त्वमेकोऽवभासात्मा योऽहमेते जनाश्च ये ।
यश्च न त्वमबुद्धात्मा नाहं नैते जनाश्च यः ।। ७१
अन्येवाप्यतिरिक्तेव सैवासेव च भङ्गुरा ।
पयसीव तरङ्गाली यस्मात्फुरति दृश्यभूः ।। ७२
यतः कालस्य कलना यतो दृश्यस्य दृश्यता ।
मानसी कलना येन यस्य भासा विभासनम् ।। ७३
क्रियां रूपं रसं गन्धं शब्दं स्पर्शं च चेतनम् ।
यद्वेत्सि तदसौ देवो येन वेत्सि तदप्यसौ ।। ७४
द्रष्टुरदर्शनदृश्यानां मध्ये यद्दर्शनं स्थितम् ।
साध्यो तदवधानेन स्वात्मानमवबुध्यसे ।। ७५
अजमजरमनाद्यं शाश्वतं ब्रह्म नित्यं
शिवममलममोघं वन्यमुच्चैरनिन्द्यम् ।
सकलकलनशून्यं कारणं कारणाना-
मनुभवनमवेद्यं वेदनं विश्वमन्तः ।। ७६
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे परमकारणवर्णनं नाम नवमः सर्गः ।। ९ ।।