योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०४६
← सर्गः ४५ | योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्) सर्गः ०४६ अज्ञातलेखकः |
सर्गः ४७ → |
श्रीराम उवाच ।
एवं संकथयन्तीषु तासु तस्मिन्गृहोदरे ।
विदूरथः किमकरोन्निर्गत्य कुपितो गृहात् ।। १
श्रीवसिष्ठ उवाच ।
विदूरथः स्वसदनान्निर्गतः परिवारितः ।
परिवारेण महता ऋक्षौघेणेव चन्द्रमाः ।। २
सन्नद्धसर्वावयवो लग्नहारविभूषणः ।
महाजयजयारावैः सुरेन्द्र इव निर्गतः ।। ३
समादिशन्योधगणं शृण्वन्मण्डलसंस्थितिम् ।
आलोकयन्वीरगणानारुरोह नृपो रथम् ।। ४
कूटाकारसमाकारं मुक्तामाणिक्यमण्डितम् ।
पताकापञ्चभिर्व्याप्तं द्युविमानमिवोत्तमम् ।। ऽ
चक्रभित्तिपरिप्रोतप्रकचत्काञ्चनाङ्कुरम् ।
मुक्ताजालरणत्कारचारुविक्रमकूबरम् ।। ६
सुग्रीवैर्लक्षणोपेतैः प्रशस्तैः प्रचलैः कृशैः ।
जवोड्डयनवेगेन प्रवहद्भिः सुरानिव ।। ७
वायुं जवेन सहसा असहद्भिर्गतिक्रमैः ।
प्रोह्यद्भिरिव पश्चार्धमापिबद्भिरिवाम्बरम् ।। ८
योजितैरिव संपूर्णैश्चन्द्रैश्चामरदीप्तिभिः ।
अश्वैरष्टभिराबद्धमाशापूरकहेषितैः ।। ९
अथोदपतदुद्दामनागाभ्ररवनिर्भरः ।
शैलभित्तिप्रतिध्वानदारुणो दुन्दुभिध्वनिः ।। १०
मत्तसैनिकनिर्मुक्तैर्व्याप्तं कलकलारवैः ।
किंकिणीजालनिर्ध्वानैर्हेतिसंघट्टघट्टितैः ।। ११
धनुश्चटचटाशब्दैः शरसीत्कारगायनैः ।
परस्पराङ्गनिष्पिष्टकवचौघझणज्झणैः ।। १२
ज्वलदग्निटणत्कारैरार्तिमत्क्रन्दनारवैः ।
परस्परभटाह्वानैर्बन्दिविक्षुब्धरोदनैः ।। १३
शिलाघनीकृताशेषब्रह्माण्डकुहरो ध्वनिः ।
हस्तग्राह्योऽभवद्भीमो दशाशाकुञ्जपूरकः ।। १४
अथोदपतदादित्यपथपीवररोधकम् ।
रजोनिभेन भूपीठमम्बरोड्डयनोन्मुखम् ।। १५
गर्भवासमिवापन्नं तेनासीत्तन्महापुरम् ।
मूढत्वं यौवनेनेव घनतामाययौ तमः ।। १६
प्रययुः क्वापि दीपौघा दिवसेनेव तारकाः ।
आययुर्बलमालोला नैशभूतपरम्पराः ।। १७
ददृशुस्तन्महायुद्धं द्वे लीले सा कुमारिका ।
प्रस्फुटद्धृदयेनेव देवीदत्तमहादृशौ ।। १८
प्रशेमुरथ हेतीषु प्रोद्यत्कटकटारवाः ।
एकार्णवपयःपूरैर्वालवा इव वह्नयः ।। १९
शनैः सेनां समाकर्षन्नाज्ञायत बलान्तरम् ।
विवेशपक्षप्रोड्डीनो मेरुरेकमिवार्णवम् ।। २०
अथोदभूद्गुणध्वानं चटच्चटदिति स्फुटम् ।
रचितांशुमयाम्भोदाश्चेरुः परपरम्पराः ।। २१
ययुरम्बरमाश्रित्य नानाहेतिविहंगमाः ।
प्रसस्रुरलमात्तासुमलिनाः शस्त्रदीप्तयः ।। २२
जज्वलुः शस्त्रसंघट्टज्वलना उल्मुकाग्निवत् ।
जगर्जुः शरधारौघान्वर्षन्तो वीरवारिदाः ।। २३
विविशुः क्रकचक्रूरा वीराङ्गेषु च हेतयः ।
पेतुः पटपटारावं हेतिनिष्पिष्टयोऽम्बरे ।। २४
जग्मुः शमं तमांस्याशु शस्त्रकानलदीपकैः ।
बभूवुरखिला सेना नवनाराचरोमशाः ।। २५
उत्तस्थुर्यमयात्रायां कबन्धनटपङ्क्तयः ।
जगुरुच्चै रणोद्रेकं पिशाच्यो रणदारिकाः ।। २६
उदगुर्दन्तसंघट्टटंकारा दन्तिनां बलात् ।
ऊहुः क्षपणपाषाणमहानद्यो नभस्तले ।। २७
पेतुः शवा निवातास्तसंशुष्कवनपर्णवत् ।
निर्ययुर्लोहिता नद्यो रणाद्रेर्मृतिवर्षिणः ।। २८
प्रशेमुः पांसवो रक्तैस्तमांस्यायुधवह्निभिः ।
युद्धैकध्यानतः शब्दा भयानि मृतिनिश्चयैः ।। २९
अभवत्केवलं युद्धमपशब्दमसंभ्रमम् ।
अनाकुलाम्बुवाहाभं खड्गवीचिसटांकृतम् ।। ३०
खदखदरवसंवहच्छरोघं
टकटकितारवसंपतद्भुशुण्डि ।
झणझणरवसंमिलन्महास्त्रं
तिमितिमिवद्रणमास दुस्तरं तत् ।। ३१
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने विदूरथनिर्याणं नाम षट्चत्वारिंशः सर्गः ।। ४६ ।।