योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ००४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


चतुर्थः सर्गः ४
श्रीवाल्मीकिरुवाच ।
कथयत्येवमुद्दामवचने मुनिनायके ।
श्रोतुमेकरसे जाते जने मौनमुपस्थिते ।। १
शान्तेषु किङ्किणीजालरवेषु स्पन्दनं विना ।
पञ्जरान्तरहारीतशुकेष्वप्यस्तकेलिषु ।। २
सुविस्मृतविलासासु स्थितासु ललनास्वपि ।
चित्रभित्ताविव न्यस्ते समस्ते राजसद्मनि ।। ३
मुहूर्तशेषमभवद्दिवसं मधुरातपम् ।
व्यवहारा रविकरैः सह तानवमाययुः ।। ४
ववुरुत्फुल्लकमलप्रकरामोदमांसलाः ।
वायवो मधुरस्पन्दाः श्रवणार्थमिवागताः ।। ५
श्रुतं चिन्तयितुं भानुरिवाहोरचनाभ्रमम् ।
तत्याजैकान्तमगमच्छून्यमस्तगिरेस्तटम् ।। ६
उत्तस्थुर्मिहिकारम्भसमता वनभूमिषु ।
विज्ञानश्रवणादन्तःशीतलाः शान्तता इव ।। ७
बभूवुरल्पसंचारा जना दशसु दिक्ष्वपि ।
सावधानतया श्रोतुमिव संत्यक्तचेष्टिताः ।। ८
छाया दीर्घत्वमाजग्मुर्वासिष्ठं वचनक्रमम् ।
इव श्रोतुमशेषाणां वस्तूनां दीर्घकन्धराः ।। ९
प्रतीहारः पुरः प्रह्वो भूत्वाह वसुधाधिपम् ।
देव स्नानद्विजार्चासु कालो व्यतिगतो भृशम् ।। १०
ततो वसिष्ठो भगवान्संहृत्य मधुरां गिरम् ।
अद्य तावन्महाराज श्रुतमेतावदस्तु वः ।। ११
प्रातरन्यद्वदिष्यामि इत्युक्त्वा मौनवानभूत् ।
इत्याकर्ण्यैवमस्तूक्त्वा भूपतिर्भूतिवृद्धये ।। १२
पुष्पपाद्यार्घसन्मानदक्षिणादानपूजया ।
सदेवर्षिमुनीन्विप्रान्पूजयामास सादरम् ।। १३
अथोत्तस्थौ सभा सर्वा सराजमुनिमण्डला ।
मण्डलाकीर्णरत्नौघपरिवेषावृतानना ।। १४
परस्पराङ्गसंघट्टरणत्केयूरकङ्कणा ।
हारभाराहृतस्वर्णपट्टाभोरुस्तनान्तरा ।। १५
शेखरोत्सङ्गविश्रान्तप्रबुद्धमधुपस्वनैः ।
सघुंघुमशिरोभारा वदद्भिरिव मूर्धजैः ।। १६
काञ्चनाभरणोद्द्योतकनकीकृतदिंग्मुखाः ।
बुद्धिस्थमुनिवागर्थसंशान्तेन्द्रियवृत्तयः ।। १७
जग्मुर्नभश्चरा व्योम भूचरा भूमिमण्डलम् ।
चक्रुर्दिनसमाचारं सर्वे ते स्वेषु सद्मसु ।। १८
एतस्मिन्नन्तरे श्यामा यामिनी समदृश्यत ।
जनसङ्गाद्विनिर्मुक्ता गृहे बालाङ्गना यथा ।। १९
देशान्तरं भासयितुं ययौ दिवसनायकः ।
सर्वत्रालोककर्तृत्वमेव सत्पुरुषव्रतम् ।। २०
उदभूदभितः संध्या तारानिकरधारिणी ।
उत्फुल्लकिंशुकवना वसन्तश्रीरिवोदिता ।। २१
चूतनीपकदम्बाग्रग्रामचैत्यगृहोदरे ।
निलिल्यिरे खगाश्चित्तेऽवदाता वृत्तयो यथा ।। २२
भानोर्भासा भूषितैर्मेघलेशैः
किंचित्किंचित्कुङ्कुमच्छाययेव ।
पाश्चात्त्योऽद्रिः पीतवासाः समेघैः-
स्ताराहारः श्रीयुतः खं समेतः ।। २३
पूजामादाय संध्यायां प्रगतायां यथागतम् ।
अन्धकाराः समुत्तस्थुर्वेताला वपुषा यथा ।। २४
अवश्यायकणास्पन्दी हेलाविद्युतपल्लवः ।
कोमलः कुमुदाशंसी ववावाशीतलोऽनिलः ।। २५
परमान्ध्यमुपाजग्मुदिशोऽविस्फुटतारकाः ।
लम्बदीर्घतमःकेश्यो विधवा इव योषितः ।। २६
आययौ भुवनं तेजः क्षीरपूरेण पूरयन् ।
रसायनमयाकारः शशिक्षीरार्णवो नभः ।। २७
जग्मुस्तिमिरसंघाताः पलाय्य क्वाप्यदृश्यताम् ।
श्रुतज्ञानगिरश्चित्तान्महीपानामिवाज्ञताः ।। २८
ऋषयो भूमिपालाश्च मुनयो ब्राह्मणास्तथा ।
चेतसीव विचित्रार्थाः स्वास्पदेषु विशश्रमुः ।। २९
यमकायोपमाश्यामा ययौ तिमिरमांसला ।
आययौ मिहिकास्फारा तत्र तेषामुषः शनैः ।। ३०
अन्तर्धानमुपाजग्मुस्तारा नभसि भासुराः ।
प्रभातपवनेनेव हृताः कुसुमवृष्टयः ।। ३१
दृश्यतामाजगामार्कः प्रभोन्मीलितलोचनः ।
विवेकवृत्तिर्महतां मनसीव नवोदिता ।। ३२
भानोर्भासा भूषितैर्मेघलेशैः
किंचित्किंचित्कुङ्कुमच्छाययेव ।
पूर्वक्ष्माभृत्पीतवासाः समेघै-
स्ताराहारः श्रीयुतः खं समेतः ।। ३३
सभां पुनरुपाजग्मुर्नभश्चरमहीचराः ।
ह्यस्तनेन क्रमेणैव कृतप्रातस्तनक्रमाः ।। ३४
पूर्ववत्संनिवेशेन विवेश सकला सभा ।
बभूवास्पन्दिताकारा वातमुक्तेव पद्मिनी ।। ३५
अथ प्रसङ्गमासाद्य रामो मधुरया गिरा ।
उवाच मुनिशार्दूलं वसिष्ठं वदतां वरम् ।। ३६
श्रीराम उवाच ।
भगवन्मनसो रूपं कीदृशं वद मे स्फुटम् ।
यस्मात्तेनेयमखिला तन्यते लोकमञ्जरी ।। ३७
श्रीवसिष्ठ उवाच ।
रामास्य मनसो रूपं न किंचिदपि दृश्यते ।
नाममात्रादृते व्योम्नो यथा शून्यजडाकृतेः ।। ३८
न बाह्ये नापि हृदये सद्रूपं विद्यते मनः ।
सर्वत्रैव स्थितं चैतद्विद्धि राम यथा नभः ।। ३९
इदमस्मात्समुत्पन्नं मृगतृष्णाम्बुसंनिभम् ।
रूपं तु क्षणसंकल्पाद्द्वितीयेन्दुभ्रमोपमम् ।। ४०
मध्ये यदेतदर्थस्य प्रतिभानं प्रथां गतम् ।
सतो वाप्यसतो वापि तन्मनो विद्धि नेतरत् ।। ४१
यदर्थप्रतिभानं तन्मन इत्यभिधीयते ।
अन्यन्न किंचिदप्यस्ति मनो नाम कदाचन ।। ४२
संकल्पनं मनो विद्धि संकल्पात्तन्न भिद्यते ।
यथो द्रवत्वात्सलिलं तथा स्पन्दो यथानिलात् ।।४३
यत्र संकल्पनं तत्र तन्मनोऽङ्ग तथा स्थितम् ।
संकल्पमनसी भिन्ने न कदाचन केचन ।। ४४
सत्यमस्त्वथवाऽसत्यं पदार्थप्रतिभासनम् ।
तावन्मात्रं मनो विद्धि तद्ब्रह्मैव पितामहः ।। ४५
आतिवाहिकदेहात्मा मन इत्यभिधीयते ।
आधिभौतिकबुद्धिं तु स आधत्ते चिरस्थितेः ।। ४६
अविद्या संसृतिश्चित्तं मनो बन्धो मलस्तमः ।
इति पर्यायनामानि दृश्यस्य विदुरुत्तमाः ।। ४७
नहि दृश्यादृते किंचिन्मनसो रूपमस्ति हि ।
दृश्यं चोत्पन्नमेवैतन्नेति वक्ष्याम्यहं पुनः ।। ४८
यथा कमलबीजान्तः स्थिता कमलवल्लरी ।
महाचित्परमाण्वन्तस्तथा दृश्यं जगत्स्थितम् ।। ४९
प्रकाशस्य यथाऽऽलोको यथा वातस्य चापलम् ।
यथा द्रवत्वं पयसि दृश्यत्वं द्रष्टरीदृशम् ।। ५०
अङ्गदत्वं यथा हेम्नि मृगनद्यां यथा जलम् ।
भित्तिर्यथा स्वप्नपुरे तथा द्रष्टरि दृश्यधीः ।। ९९
एवं द्रष्टरि दृश्यत्वमनन्यदिव यत्स्थितम् ।
तदप्युन्मार्जयाम्याशु त्वच्चित्तादर्शतो मलम् ।। ५२
यद्द्रष्टुरस्याद्रष्टृत्वं दृश्याभावे भवेद्वलात् ।
तद्विद्धि केवलीभावं तत एवासतः सतः ।। ५३
तत्तामुपगते भावे रागद्वेषादिवासनाः ।
शाम्यन्त्यस्पन्दिते वाते स्पन्दनक्षुब्धता यथा ।। ५४
असंभवति सर्वस्मिन्दिग्भूम्याकाशरूपिणि ।
प्रकाश्ये यादृशं रूपं प्रकाशस्यामलं भवेत् ।। ५५
त्रिजगत्त्वमहं चेति दृश्येऽसत्तामुपागते ।
द्रष्टुः स्यात्केवलीभावस्तादृशो विमलात्मनः ।। ५६
अनाप्ताखिलशैलादि प्रतिबिम्बे हि यादृशी ।
स्याद्दर्पणे दर्पणता केवलात्मस्वरूपिणी ।। ५७
अहं त्वं जगदित्यादौ प्रशान्ते दृश्यसंभ्रमे ।
स्यात्तादृशी केवलता स्थिते द्रष्टर्यवीक्षणे ।। ५८
श्रीराम उवाच ।
सच्चेन्न शाम्यत्येवेदं नाभावो विद्यते सतः ।
असत्तां च न विद्मोऽस्मिन्दृश्ये दोषप्रदायिनि ।। ५९
तस्मात्कथमियं शाम्येद्ब्रह्मन्दृश्यविषूचिका ।
मनोभवभ्रमकरी दुःखसंततिदायिनी ।। ६०
श्रीवसिष्ठ उवाच ।
अस्य दृश्यपिशाचस्य शान्त्यै मन्त्रमिमं श्रृणु ।
रामात्यन्तमयं येन मृतिमेष्यति नङक्ष्यति ।। ६१
यदस्ति तस्य नाशोऽस्ति न कदाचन राघव ।
तस्मात्तन्नष्टमप्यन्तर्बीजभूतं भवेद्धृदि ।। ६२
स्मृतिबीजाच्चिदाकाशे पुनरुद्भूय दृश्यधीः ।
लोकशैलाम्बराकारं दोषं वितनुतेऽतनुम् ।। ६३
इत्यनिर्मोक्षदोषः स्यान्न च तस्येह संभवः ।
यस्माद्देवर्षिमुनयो दृश्यन्ते मुक्तिभाजनम् ।। ६४
यदि स्याज्जगदादीदं तस्मान्मोक्षो न कस्यचित् ।
बाह्यस्थमस्तु हृत्स्थं वा दृश्यं नाशाय केवलम् ।। ६५
तस्मादिमां प्रतिज्ञां त्वं श्रृणु रामातिभीषणाम् ।
यामुत्तरेण ग्रन्थेन नूनं त्वमवबुध्यसे ।। ६६
अयमाकाशभूतादिरूपोऽहं चेति लक्षितः ।
जगच्छब्दस्य नामार्थो ननु नास्त्येव कश्चन ।। ६७
यदिदं दृश्यते किंचिद्दृश्यजातं पुरोगतम् ।
परं ब्रह्मैव तत्सर्वमजरामरमव्ययम् ।। ६८
पूर्णे पूर्णं प्रसरति शान्ते शान्तं व्यवस्थितम् ।
व्योमन्येवोदितं व्योम ब्रह्मणि ब्रह्म तिष्ठति ।। ६९
न दृश्यमस्ति सद्रूपं न द्रष्टा न च दर्शनम् ।
न शून्यं न जडं नो चिच्छान्तमेवेदमाततम् ।। ७०
श्रीराम उवाच ।
वन्ध्यापुत्रेण पिष्टोऽद्रिः शशशृङ्गं प्रगायति ।
प्रसार्य भुजसंपातं शिला नृत्यति ताण्डवम् ।। ७१
स्रवन्ति सिकतास्तैलं पठन्त्युपलपुत्रिकाः ।
गर्जन्ति चित्रजलदा इतीवेदं वचः प्रभो ।। ७२
जरामरणदुःखादिशैलाकाशमयं जगत् ।
नास्तीति किमिदं नाम भवताऽपि ममोच्यते ।। ७३
यथेदं न स्थितं विश्वं नोत्पन्नं न च विद्यते ।
तथा कथय मे ब्रह्मन्येनैतन्निश्चितं भवेत् ।। ७४
श्रीवसिष्ठ उवाच ।
नासमन्वितवागस्मि श्रृणु राघव कथ्यते ।
यथेदमसदाभाति वन्ध्यापुत्र इवाऽऽरवी ।। ७५
इदमादावनुत्पन्नं सर्गादौ तेन नास्त्यलम् ।
इदं हि मनसो भाति स्वप्नादौ पत्तनं यथा ।। ७६
मन एव च सर्गादावनुत्पन्नमसद्वपुः ।
तदेतच्छ्रणु वक्ष्यामि यथैवमनुभूयते ।। ७७
मनोदृश्यमयं दोषं तनोतीमं क्षयात्मकम् ।
असदेव सदाकारं स्वप्नः स्वप्नान्तरं यथा ।। ७८
तत्स्वयं स्वैरमेवाशु संकल्पयति देहकम् ।
तेनेयमिन्द्रजालश्रीर्विततेन वितन्यते ।। ७९
स्फुरति वल्गति गच्छति याचते
भ्रमति मज्जति संहरति स्वयम् ।
अपरतामुपयात्यपि केवलं
चलति चञ्चलशक्तितया मनः ।। ८०
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे उत्पत्तिप्रकरणार्थकल्पनं नाम चतुर्थः सर्गः ।। ४ ।।