योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ००५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


पञ्चमः सर्गः ५
श्रीराम उवाच ।
भगवन्मुनिशार्दूल किमिवेह मनोभ्रमे ।
विद्यते कथमुत्पन्नं मनो मायामयं कुतः ।। १
उत्पत्तिमादाविति मे समासेन वद प्रभो ।
प्रवक्ष्यसि ततः शिष्टं वक्तव्यं वदतां वर ।। २
श्रीवसिष्ठ उवाच ।
महाप्रलयसंपत्तावसतां समुपागते ।
अशेषदृश्यसर्गादौ शान्तमेवावशिष्यते ।। ३
आस्तेऽनस्तमितो भास्वानजो देवो निरामयः ।
सर्वदा सर्वकृत्सर्वः परमात्मा महेश्वरः ।। ४
यतो वाचो निवर्तन्ते यो मुक्तैरवगम्यते ।
यस्य चात्मादिकाः संज्ञाः कल्पिता न स्वभावजाः ।। ५
यः पुमान्सांख्यदृष्टीनां ब्रह्म वेदान्तवादिनाम् ।
विज्ञानमात्रं विज्ञानविदामेकान्तनिर्मलम् ।। ६
यः शून्यवादिनां शून्यो भासको योऽर्कतेजसाम् ।
वक्ता मन्ता ऋतं भोक्ता द्रष्टा कर्ता सदैव सः ।। ७
सन्नप्यसद्यो जगति यो देहस्थोऽपि दूरगः ।
चित्प्रकाशो ह्ययं यस्मादालोक इव भास्वतः ।। ८
यस्माद्विष्ण्वादयो देवाः सूर्यादिव मरीचयः ।
यस्माज्जगन्त्यनन्तानि बुद्बुदा जलधेरिव ।। ९
यं यान्ति दृश्यवृन्दानि पयांसीव महार्णवम् ।
य आत्मानं पदार्थं च प्रकाशयति दीपवत् ।। १०
य आकाशे शरीरे च दृषत्स्वप्सु लतासु च ।
पांसुष्वद्रिषु वातेषु पातालेषु च संस्थितः ।। ११
यः प्लावयति संरब्धं पुर्यष्टकमितस्ततः ।
येन मूकीकृता मूढाः शिला ध्यानमिवास्थिताः ।।१२
व्योम येन कृतं शून्यं शैला येन घनीकृताः ।
आपो द्रुताः कृता येन दीपो यस्य वशो रविः ।। १३
प्रसरन्ति यतश्चित्राः संसारासारवृष्टयः ।
अक्षयामृतसंपूर्णादम्भोदादिव वृष्टयः ।। १४
आविर्भावतिरोभावमयास्त्रिभुवनोर्मयः ।
स्फुरन्त्यतितते यस्मिन्मराविव मरीचयः ।। १५
नाशरूपो विनाशात्मा योऽन्तःस्थः सर्वजन्तुषु ।
गुप्तो योऽप्यतिरिक्तोऽपि सर्वभावेषु संस्थितः ।। १६
प्रकृतिव्रततिर्व्योम्नि जाता ब्रह्माण्डसत्फला ।
चित्तमूलेन्द्रियदला येन नृत्यति वायुना ।। १७
यश्चिन्मणिः प्रकचति प्रतिदेहसमुद्गके ।
यस्मिन्निन्दौ स्फुरन्त्येता जगज्जालमरीचयः ।। १८
प्रशान्ते चिद्धने यस्मिस्फुरन्त्यमृतवर्षिणि ।
धाराजलानि भूतानि सृष्टयस्तडितः स्फुटाः ।। १९
चमत्कुर्वन्ति वस्तूनि यदालोकतया मिथः ।
असज्जातमसद्येन येन सत्सत्त्वमागतम् ।। २०
चलतीदमनिच्छस्य कायो यो यस्य संनिधौ ।
जडं परमरक्तस्य शान्तमात्मनि तिष्ठतः ।। २१
नियतिर्देशकालौ च चलनं स्पन्दनं क्रिया ।
इति येन गताः सत्तां सर्वसत्तातिगामिना ।। २२
शुद्धसंविन्मयत्वाद्यः खं भवेद्व्योमचिन्तया ।
पदार्थचिन्तयार्थत्वमिव तिष्ठत्यधिष्ठितः ।। २३
कुर्वन्नपीह जगतां महतामनन्त-
वृन्दं न किंचन करोति न काश्चनापि ।
स्वात्मन्यनस्तमयसंविदि निर्विकारे
त्यक्तोदयस्थितिमति स्थित एक एव ।। २४
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे मूलकारणदेवस्वरूपवर्णनं नाम पञ्चमः सर्गः ।। ५ ।।