योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०७४

विकिस्रोतः तः
Jump to navigation Jump to search


चतुःसप्ततितमः सर्गः ७४

श्रीवसिष्ठ उवाच ।
तस्य तत्रोर्ध्वशृङ्गस्य तस्यां भुवि महावनौ ।
ददर्श मध्यमां सूचीं प्रोत्थितां सशिखामिव ।। १
एकपादं तपस्यन्तीं शुष्यन्तीं शिरऊष्मणा ।
सततानशनां शुष्कपिण्डीभूतोदरत्वचम् ।। २
सकृद्विकसितास्येन गृहीत्वेवातपानिलान् ।
पश्चात्त्यजन्तीं हृदये मे न मान्तीत्यनारतम् ।। ३
शुष्कां चण्डांशुकिरणैर्जर्जरां वनवायुभिः ।
अचलन्तीनिजात्स्थानात्स्नापितामिन्दुरश्मिभिः ।। ४
पूर्वं रजोणुनैकेन संविष्टच्छन्नमस्तकाम् ।
कृतार्थत्वं कथयतीं ददतान्यस्य नास्पदम् ।। ५
अरण्यान्येव दत्त्वार्थ चिरं जातशिखामिव ।
मूर्ध्न्यवस्थापितप्राणजटाजूटवलीमिव ।। ६
तां प्रेक्ष्य पवनः सूचीं विस्मयाकुलचेतनः ।
प्रणम्यालोक्य सुचिरं भीतभीत इवागतः ।। ७
महातपस्विनी सूची किमर्थं तप्यते तपः ।
नेति प्रष्टुं शशाकासौ तत्तेजोराशिनिर्जितः ।। ८
भगवत्या महासूच्या अहो चित्रं महातपः ।
इत्येव केवलं ध्यायन्मारुतो गगनं ययौ ।। ९
समुल्लङ्घ्याभ्रमार्ग तु वातस्कन्धानतीत्य च ।
सिद्धवृन्दानधः कृत्वा सूर्यमार्गमुपेत्य च ।। 3.74.१०
ऊर्ध्वमेत्य विमानेभ्यः प्राप शक्रपुरान्तरे ।
सूचीदर्शनपुण्यं तमालिलिङ्ग पुरंदरः ।। ११
पृष्टश्च कथयामास दृष्टं सर्वं मयेत्यसौ ।
सहदेवनिकायाय शक्रायास्थानवासिने ।। १२
वायुरुवाच ।
जम्बूद्वीपेऽस्ति शैलेन्द्रो हिमवान्नाम सून्नतः ।
जामाता यस्य भगवान्साक्षाच्छशिकलाधरः ।। १३
तस्योत्तरे महाशृङ्गपृष्ठे परमरूपिणी ।
स्थिता तपस्विनी सूची तपश्चरति दारुणम् ।। १४
बहुनात्र किमुक्तेन वाताद्यशनशान्तये ।
यया स्वोदरसौषिर्यं पिण्डीकृत्वा निवारितम् ।। १५
शान्तसंकोचसूक्ष्मार्थं विकास्यास्यं रजोणुना ।
तयाद्य स्थगितं शीतवाताशननिवृत्तये ।। १६
तस्यास्तीव्रेण तपसा तुहिनाकरमुत्सृजन् ।
अग्न्याकारमयो गृह्णन् देव दुःसेव्यतां गतः ।। १७
तदुत्तिष्ठाशु गच्छामः सर्व एव पितामहम् ।
तद्वरार्थमनर्थाय विद्धि तत्सुमहत्तपः ।। १८
इति वातेरितः शक्रः सहदेवगणेन सः ।
जगाम ब्रह्मणो लोकं प्रार्थयामास तं विभुम् ।। १९
सूच्या वरमहं दातुं गच्छामि हिमवच्छिरः ।
ब्रह्मणेति प्रतिज्ञाते शक्रः स्वर्गमुपाययौ ।। 3.74.२०
एतावताथ कालेन सा बभूवातिपावनी ।
सूची निजतपस्तापतापितामरमन्दिरा ।। २१
मुखरन्ध्रस्थितार्कांशुदृशा स्वच्छाययैव सा ।
विकासिन्या विवर्तिस्था चोदितान्तमवेक्षिता ।। २२
कौशेयरूपया सूच्या मेरुः स्थैर्येण निर्जितः ।
मज्जनं नैति वृद्ध्वैवं मुक्तमाद्यन्तयोर्दिने ।। २३
मध्याह्ने तापभीत्येव विशन्त्या मारुतान्तरम् ।
अन्यदा गौरवाद्दृष्ट्वा दूरतः प्रेक्षमाणया ।। २४
सा तामवेक्षते क्षारात्तापादङ्गे निमज्जति ।
संकटे विस्मरत्येव जनो गौरवसत्क्रियाम् ।। २५
छायासूची तापसूची यश्चात्मा स तृतीयया ।
त्रिकोणं तपसा पूतं वाराणस्या समं कृतम् ।। २६
गतास्तेन त्रिकोणेन त्रिवर्णपरिखावता ।
वायवः पांसवो येऽपि ते परां मुक्तिमागताः ।। २७
विदितपरमकारणाद्य जाता स्वयमनुचेतनसंविदं विचार्य ।
स्वमननकलनानुसार एकस्त्विह हि गुरुः परमो न राघवान्यः ।। २८

इत्यार्षे श्रवासिष्ठमहारामायणे उत्पत्तिप्रकरणे सूचीतपःपरिपाकवर्णनं नाम चतुःसप्ततितमः सर्गः ।। ७४ ।।