योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ००८
अष्टमः सर्गः ८
श्रीराम उवाच ।
कयैतज्ज्ञायते युक्त्या कथमेतत्प्रसिध्यति ।
न्यायानुभूत एतस्मिन्न ज्ञेयमवशिष्यते ।। १
श्रीवसिष्ठ उवाच ।
बहुकालमियं रूढा मिथ्याज्ञानविषूचिका ।
जगन्नाम्न्यविचाराख्या विना ज्ञानं न शाम्यति ।। २
वदाम्याख्यायिका राम या इमा बोधसिद्धये ।
ताश्चेच्छृणोषि तत्साधो मुक्त एवासि बुद्धिमान् ।। ३
नो चेदुद्वेगशीलत्वादर्धादुत्थाय गच्छसि ।
तत्तिर्यग्धर्मिणस्तेऽद्य न किंचिदपि सेत्स्यति ।। ४
योऽयमर्थं प्रार्थयते तदर्थं यतते तथा ।
सोऽवश्यं तदवाप्नोति न चेच्छ्रान्तो निवर्तते ।। ५
साधुसंगमसच्छास्त्रपरो भवसि राम चेत् ।
तद्दिनैरेव नो मासैः प्राप्नोषि परमं पदम् ।। ६
श्रीराम उवाच ।
आत्मज्ञानप्रबोधाय शास्त्रं शास्त्रविदां वर ।
किं नाम तत्प्रधानं स्याद्यस्मिञ्ज्ञाते न शोच्यते ।। ७
श्रीवसिष्ठ उवाच ।
आत्मज्ञानप्रधानानामिदमेव महामते ।
शास्त्राणां परमं शास्त्रं महारामायणं शुभम् ।। ८
इतिहासोत्तमादस्मताद्बोधः प्रवर्तते ।
सर्वेषामितिहासानामयं सार उदाहृतः ।। ९
श्रुतेऽस्मिन्वाड्मये यस्माज्जीवन्मुक्तत्वमक्षयम् ।
उदेति स्वयमेवात इदमेवातिपावनम् ।। १०
स्थितमेवास्तमायाति जगद्दृश्यं विचारणात् ।
यथा स्वप्ने परिज्ञाते स्वप्नादावेव भावना ।। ११
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ।
इमं समस्तविज्ञानशास्त्रकोशं विदुर्बुधाः ।। १२
य इदं श्रृणुयान्नित्यं तस्योदारचमत्कृतेः ।
बोधस्यापि परं बोधं बुद्धिरेति न संशयः ।। १३
यस्मै नेदं त्वरुचये रोचते दुष्कृतोदयात् ।
विचारयतु यत्किंचित्सच्छास्त्रं ज्ञानवाङ्मयम् ।। १४
जीवन्मुक्तत्वमस्मिंस्तु श्रुते समनुभूयते ।
स्वयमेव यथा पीते नीरोगत्वं वरौषधे ।। १५
श्रूयमाणे हि शास्त्रेऽस्मिञ्छ्रोता वेत्त्येतदात्मना ।
यथावदिदमस्माभिर्ननूक्तं वरशापवत् ।। १६
नश्यति संसृतिदुःखमिदं ते
स्वात्मविचारणया कथयैव ।
नो धनदानतपःश्रुतवेदै-
स्तत्कथनोदितयत्नशतेन ।। १७
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे सच्छास्त्रनिरूपणं नामाष्टमः सर्गः ।। ८ ।।