योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०११
एकादशः सर्गः ११
श्रीराम उवाच ।
इदं रूपमिदं दृश्यं जगन्नास्तीति भासुरम् ।
महाप्रलयसंप्राप्तौ भो ब्रह्मन्क्वेव तिष्ठति ।। १
श्रीवसिष्ठ उवाच ।
कुत आयाति कीदृग्वा वन्ध्यापुत्रः क्व गच्छति ।
क्व याति कुत आयाति वद वा व्योमकाननम् ।। २
श्रीराम उवाच ।
वन्ध्यापुत्रो व्योमवनं नैवास्ति न भविष्यति ।
कीदृशी दृश्यता तस्य कीदृशी तस्य नास्तिता ।। ३
श्रीवसिष्ठ उवाच ।
वन्ध्यापुत्रव्योमवने यथा न स्तः कदाचन ।
जगदाद्यखिलं दृश्यं तथा नास्ति कदाचन ।। ४
न चोत्पन्ने न च ध्वंसि यत्किलादौ न विद्यते ।
उत्पत्तिः कीदृशी तस्य नाशशब्दस्य का कथा ।। ५
श्रीराम उवाच ।
वन्ध्यापुत्रनभोवृक्षकल्पना तावदस्ति हि ।
सा यथा नाशजन्माढ्या तथैवेदं न किं भवेत् ।। ६
श्रीवसिष्ठ उवाच ।
तुल्यस्यातुलदुःस्थस्य भावकैः किल तोलनम् ।
निरन्वया यथैवोक्तिर्जगत्सत्ता तथैव हि ।। ७
यथा सौवर्णकटके दृश्यमानमिदं स्फुटम् ।
कटकत्वं तु नैवास्ति जगत्त्वं न तथा परे ।। ८
आकाशे च यथा नास्तिशून्यत्वं व्यतिरेकवत् ।
जगत्त्वं ब्रह्मणि तथा नास्त्येवाप्युपलब्धिमत् ।। ९
कज्जलान्न यथा कार्ष्ण्यं शैत्यं च न यथा हिमात् ।
पृथगेवं भवेद्बुद्धं जगन्नास्ति परे पदे ।। १०
यथा शैत्यं न शशिनो न हिमाद्व्यतिरिच्यते ।
ब्रह्मणो न तथा सर्गो विद्यते व्यतिरेकवान् ।। ११
मरुनद्यां यथा तोयं द्वितीयेन्दौ यथेन्दुता ।
नास्त्येवेह जगन्नाम दृष्टमप्यमलात्मनि ।। १२
आदावेव हि यन्नास्ति कारणासंभवात्स्वयम् ।
वर्तमानेऽपि तन्नास्ति नाशः स्यात्तत्र कीदृशः ।। १३
क्वासंभवद्भूतजाड्यं पृथ्व्यादेर्जडवस्तुनः ।
कार्यकारणं भवितुं शक्तं छायायाश्चातपो यथा ।। १४
कारणाभावतः कार्यं नेदं तत्किंचनोदितम् ।
यत्तत्कारणमेवास्ति तदेवेत्थमवस्थितम् ।। १५
अज्ञानमेव यद्भाति संविदाभासमेव तत् ।
यज्जगद्दृश्यते स्वप्ने संवित्कचनमेव तत् ।। १६
संवित्कचनमेवान्तर्यथा स्वप्ने जगद्भ्रमः ।
सर्गादौ ब्रह्मणि तथा जगत्कचनमाततम् ।। १७
यदिदं दृश्यते किंचित्सदैवात्मनि संस्थितम् ।
नास्तमेति न चोदेति जगत्किंचित्कदाचन ।। १८
यथा द्रवत्वं सलिलं स्पन्दनं पवनो यथा ।
यथा प्रकाश आभासो ब्रह्मैव त्रिजगत्तथा ।। १९
यथा पुरमिवास्तेऽन्तर्विदेव स्वप्नसंविदः ।
तथा जगदिवाभाति स्वात्मैव परमात्मनि ।। २०
श्रीराम उवाच ।
एवं चेत्तत्कथं ब्रह्मन्सुघनप्रत्ययं वद ।
इदं दृश्यविषं जातमसत्स्वप्नानुभूतिवत् ।। २१
सति दृश्ये किल द्रष्टा सति द्रष्टरि दृश्यता ।
एकसत्त्वे द्वयोर्बन्धो मुक्तिरेकक्षये द्वयोः ।। २२
अत्यन्तासंभवो यावद्बुद्धो दृश्यस्य न क्षयः ।
तावद्द्रष्टरि दृश्यत्वं न संभवति मोक्षधीः ।। २३
दृश्यं चेत्संभवत्यादौ पश्चात्क्षयमुपालभेत् ।
तद्दृश्यस्मरणानर्थरूपो बन्धो न शाम्यति ।। २४
यत्र क्वचन संस्थस्य स्वादर्शस्येव चिद्गतेः ।
प्रतिबिम्बो लगत्येव सर्वस्मृतिमयो ह्यलम् ।। २५
आदावेव हि नोत्पन्नं दृश्यं नास्त्येव चेत्स्वयम् ।
द्रष्टुर्दृश्यस्वभावत्वात्तत्संभवति मुक्तता ।। २६
तस्मादसंभवन्मुक्तेर्मम प्रोत्सार्य युक्तिभिः ।
अत्यन्तासंभवो यावत्कथयात्मविदां वर ।। २७
श्रीवसिष्ठ उवाच ।
असदेव सदा भाति जगत्सर्वात्मकं यथा ।
श्रृण्वहं कथया राम दीर्घया कथयामि ते ।। २८
व्यवसायकथावाक्यैर्यावत्तत्रानुवर्णितम् ।
न विश्राम्यति ते तावद्धृदि पांसुर्यथा ह्रदे ।। २९
अत्यन्ताभावमस्यास्त्वं जगत्सर्गभ्रमस्थितेः ।
बुद्धैकध्याननिष्ठात्मा व्यवहारं करिष्यसि ।। ३०
भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचलाचलाः ।
दृशस्त्वां वेधयिष्यन्ति न महाद्रिमिवेषवः ।। ३१
स एषोऽस्त्येक एवात्मा न द्वितीयास्ति कल्पना ।
जगदत्र यथोत्पन्नं तत्ते वक्ष्यामि राघव ।। ३२
तस्मादिमानि सकलानि विजृम्भितानि
सोऽपीदमङ्ग सकलासकलं महात्मा ।
रूपावलोकनमनोमननप्रकारा
कारास्पदं स्वयमुदेति विलीयते च ।। ३३
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे परमार्थवर्णनं नामैकादशः सर्गः ।। ११ ।।