योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०८०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


अशीतितमः सर्गः ८०

श्रीवसिष्ठ उवाच ।
महानिशि महारण्ये महाराक्षसकन्यया ।
इति प्रोक्ते महाप्रश्ने महामन्त्री गिरं ददौ ।। १
मन्त्र्युवाच ।
शृणु तोयदसंकाशे प्रश्नमेतं भिनद्मि ते ।
अनुक्रमात्मकं मत्तं गजेन्द्रमिव केसरी। ।। २
भवत्या परमात्मैष कथितः कमलेक्षणे ।
अनयैव वचोभङ्ग्या प्रश्नविद्बोधयोग्यया ।। ३
अनाख्यत्वादगम्यत्वान्मनः षष्ठेन्द्रियस्थितेः ।
चिन्मात्रमेवमात्माणुराकाशादपि सूक्ष्मकः ।। ४
चिदणोः परमस्यान्तः सदिवासदिवापि वा ।
बीजेऽन्तर्द्रुमसत्तेव स्फुरतीदं जगत्स्थितम् ।। ५
सत्किंचिदनुभूतित्वात्सर्वात्मकतया स्वतः ।
तदात्मकतया पूर्वं भावाः सत्तां किलागताः ।। ६
आकाशं बाह्यशून्यत्वादनाकाशं तु चित्त्वतः ।
अतीन्द्रियत्वान्नो किंचित्स एवाणुरनन्तकः ।। ७
सर्वात्मकत्वाद्भुक्ते च तेन किंचिन्न किंचन ।
चिदणोः प्रतिभा सा स्यादेकस्यानेकतोदिता ।
असत्येव यथा हेम्नः कटकादि तथा परे ।। ८
एषोऽणुः परमाकाशः सूक्ष्मत्वादप्यलक्षितः ।
मनःषष्ठेन्द्रियातीतः स्थितः सर्वात्मकोऽपि सन् ।। ९
सर्वात्मकत्वान्नैवासौ शून्यो भवति कर्हिचित् ।
यदस्ति न तदस्तीति वक्ता मन्ता इति स्मृतः ।। 3.80.१०
कयाचिदपि युक्त्येह सतोऽसत्त्वं न युज्यते ।
सर्वात्मा स्वात्मगुप्तेन अपूरेणेव दृश्यते ।। ११
चिन्मात्राणुः स एवेह सर्वं किंचिन्मनःस्थितम् ।
न किंचिदिन्द्रियातीत रूपत्वादमलः स्थितः ।। १२
स एव चैकोऽनेकश्च सर्वसत्त्वात्मवेदनात् ।
स एवेदं जगद्धत्ते जगत्कोशस्तथैव हि ।। १३
इमाश्चित्तमहाम्भोधौ त्रिजगल्लववीचयः ।
प्रज्ञास्तस्मिन्कचन्त्यप्सु द्रवत्वाच्चक्रता इव ।। १४
चित्तेन्द्रियाद्यलभ्यत्वात्सोऽणुः शून्यस्वरूपवत् ।
स्वसंवेदनलभ्यत्वादशून्यं व्योमरूप्यपि ।। १३
सोऽहं भवानेव भवान्संपन्नोऽद्वैतवेदनात् ।
स भवान्न भवेन्नाहं जातो बोधबृहद्वपुः ।। १६
त्वंताहंतात्मकं सर्वं विनिगीर्यावबोधतः ।
न त्वं नाहं न सर्वं च सर्वं वा भवति स्वयम् ।। १७
गच्छन्न गच्छत्येषोऽणुर्योजनौघगतोऽपि सन् ।
संवित्त्या योजनौघत्वं तस्याणोरन्तरे स्थितम् ।। १८
न गच्छत्येष यातोऽपि संप्राप्तोऽपि च नागतः ।
स्वसत्ताकाशकोशान्तर्वासित्वाद्देशकालयोः ।। १९
गम्यं यस्य शरीरस्थं क्व किलासौ प्रयाति हि ।
कुचकोटरगः पुत्रः किं मात्रान्यत्र वीक्ष्यते ।। 3.80.२०
गम्यो यस्य महादेशो यावत्संभवमक्षयः ।
अन्तस्थः सर्वकर्तुर्हिं स कथं क्वेव गच्छति ।। २१
यथा देशान्तरप्राप्ते कुम्भे वक्त्रसमुद्रिते ।
तदाकाशस्य गमनागमने न तथात्मनः ।। २२
चित्तता स्थाणुता स्वान्तर्यदा स्तोऽनुभवात्मिके ।
चेतनस्य जडस्यैव तदासौ द्वयमेव च ।। २३
यदा चेतनपाषाणसत्तैकात्मैकचिद्वपुः ।
तदा चेतन एवासौ पाषाण इव राक्षसि ।। २४
परमव्योम्न्यनाद्यन्ते चिन्मात्रपरमात्मना ।
विचित्रं त्रिजगच्चित्रं तेनेदमकृतं कृतम् ।। २५
तत्संवित्त्या वह्निसत्ता तेनात्यक्तानलाकृतिः ।
सर्वगोऽप्यदहत्येव स जगद्द्रव्यपावकः ।। २६
प्रज्वलद्भास्वराकारान्निर्मलाद्गगनादपि ।
प्रज्वलच्चेतनैकात्मा तस्मादग्निः स जायते ।। २७
संवेदनाद्यदर्कादिप्रकाशस्य प्रकाशकः ।
न नश्यत्यात्मभारूपो महाकल्पाम्बुदैरपि ।। २८
अनेत्रलभ्योऽनुभवरूपो हृद्गृहदीपकः ।
सर्वसत्ताप्रदोऽनन्तः प्रकाशः परमः स्मृतः ।। २९
प्रवर्ततेऽस्मदालोको मनःषष्ठेन्द्रियातिगात् ।
येनान्तरापि वस्तूनां दृष्टा दृश्यचमत्कृतिः ।। 3.80.३०
लतागुल्माङ्कुरादीनामनक्षाणां च पोषकः ।
उत्सेधवेदनाकारः प्रकाशोऽनुभवात्मकः ।। ३१
कालाकाशक्रियासत्ता जगत्तत्रास्ति वेदने ।
स्वामी कर्ता पिता भोक्ता आत्मत्वाच्च न किंचन ।। ३२
अणुत्वमजहत्सोऽणुर्जगद्रत्नसमुद्गकः ।
मातृमानप्रमेयात्म जगन्नास्तीति केवले ।। ३३
स एव सर्वजगति सर्वत्र कचति स्फुटम् ।
यदा जगत्त्समुद्गेऽस्मिंस्तदासौ परमो मणिः ।। ३४
दुर्बोधत्वात्तमः सोऽणुश्चिन्मात्रत्वात्प्रकाशदृक् ।
सोऽस्ति संवित्तिरूपत्वादक्षातीतस्तथा न सन् ३५
दूरे सोऽनक्षलभ्यत्वाच्चिदूपत्वान्न दूरगः ।
सर्वसंवेदनाच्छैलो ह्यसावेवाणुरेव सन् ।। ३६
तत्संवेदनमात्रं यत्तदिदं भासते जगत् ।
न सत्यमस्ति शैलादि तेनाणावेव मेरुता ।। ३७
निमेषप्रतिभासो हि निमेष इति कथ्यते ।
कल्पेति प्रतिभासो हि कल्पशब्देन कथ्यते ।। ३८
कल्पक्रियाविलासो हि निमेषः प्रतिभासते ।
बहुयोजनकोटिस्थं मनस्येव महापुरम् ।। ३९
निमेषजठरे कल्पसंभवः समुदेति हि ।
महानगरनिर्माणं मुकुरेऽन्तरिवामले ।। 3.80.४०
निमेषकल्पशैलादिपूरयोजनकोटयः ।
यत्राऽणावेव विद्यन्ते तत्र द्वैतैक्यते कुतः ।। ४१
कृतवान्प्रागिदमहमिति बुद्धावुदेति हि ।
क्षणात्सत्यमसत्यं च दृष्टान्तः स्वप्नविभ्रमः ।। ४२
दुःखे कालः सुदीर्घो हि सुखे लघुतरः सदा ।
रात्रिर्द्वादशवर्षाणि हरिश्चन्द्रस्य चोदिता ।। ४३
निश्चयो य उदेत्यन्तः सत्यात्मा सत्य एव च ।
हेम्नीव कटकादित्वं स एव चिति राजते ।। ४४
न निमेषोऽस्ति नो कल्पो नादूरं न च दूरता ।
चिदणुप्रतिभैवैवं स्थितान्यान्यान्यवस्तुवत् ।। ४५
प्रकाशतमसोर्दूरादूरयोः क्षणकल्पयोः ।
एकचिद्देहयोरेव न भेदोऽस्ति मनागपि ।। ४६
प्रत्यक्षमक्षसारत्वादप्रत्यक्षं ततोऽतिगम् ।
दृश्यत्वेनैष वोदेति चेता द्रष्टैव सद्वपुः ।। ४७
यावत्कटकसंवित्तिस्तावन्नास्तीव हेमता ।
यावच्च दृश्यतापत्तिस्तावन्नास्तीव सा कला ।। ४८
कटकत्वेऽकृतेऽदृष्टे सुवर्णत्वमिवाततम् ।
केवलं निर्मलं शुद्धं ब्रह्मैव परिदृश्यते ।। ४९
सर्वत्वादेव सद्रूपो दुर्लक्ष्यत्वादसद्वपुः ।
चेतनश्चेतनात्मत्वाच्चेत्यासंभवतस्त्वचित् ।। 3.80.५०
चिच्चमत्कारमात्रात्मन्यस्मिंश्चित्प्रतिभात्मनि ।
जगत्यनिलवृक्षाभे चिच्चेत्यकलने कुतः ।। ५१
यथा तापस्य पीनस्य भासनं मृगतृष्णिका ।
एवं पीवरमद्वैतं तथा चिद्भासनं जगत् ।। ५२
अर्कांशुभिः सूक्ष्मतरनिर्माणं यदनामयम् ।
अस्तितानास्तिते तत्र कल्पादेरिव कैव धीः ।। ५३
माययांशुकणाङ्के खे यथा कचति काञ्चनम् ।
तथा जगदिदं भाति चिच्चेत्यकलने कुतः ।।. ५४
स्वप्नगन्धर्वसंकल्पनगरे कुड्यवेदनम् ।
न सन्नासद्यथा तद्वद्विद्धि दीर्घभ्रमं जगत् ।। ५५
तथा चैवंविधन्यायभावनाभ्यासनिर्मलात् ।
चिदाकाशेन निर्याति यथा भूतार्थदर्शिनः ।। ५६
न कुड्याकाशयोर्भेदो दृश्यसंवेदनादृते ।
आब्रह्मजीवकलनाद्यद्रूढं रूढमेव च ।। ५७
प्रतिभासाच्चिदाकाशे सत्त्वशून्यं भवन्ति ताः ।
प्रकचन्ति ह्यनिर्भाव्याः प्रभापिण्ड इव प्रभाः ।। ५८
पृथक्तामतिभासस्य स्वचमत्कारयोगतः ।
सर्वात्मिका हि प्रतिभा परा वृक्षात्मबीजवत् ।। ५९
बीजमन्तस्थवृक्षत्वं नानाऽनाना यथैकदृक् ।
तथाऽसंख्यजगद्ब्रह्म शान्तमाकाशकोशवत् ।। 3.80.६०
बीजस्यान्तस्थवृक्षस्य व्योमाद्वैता स्थितिर्यथा ।
ब्रह्मणोऽन्तस्थजगतः साक्षित्वाच्चित्स्थितिस्तथा ६१
शान्तं समस्तमजमेकमनादिमध्यं
नेहास्ति काचन कलाकलना कथंचित् ।
निर्द्वन्द्वशान्तमतिरेकमनेकमच्छ-
माभासरूपमजमेकविकासमास्ते ।। ६२

इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपायेषूत्पत्तिप्रकरणे क० प्रश्नभेदनं नामाशीतितमः सर्गः ।। ८० ।।