सामग्री पर जाएँ

योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ००२

विकिस्रोतः तः
← सर्गः १ योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)
सर्गः ००२
अज्ञातलेखकः
सर्गः ३ →


द्वितीयः सर्गः २
श्रीवसिष्ठ उवाच ।
इदमाकाशजाख्यानं श्रृणु श्रवणभूषणम् ।
उत्पत्त्याख्यं प्रकरणं येन राघव बुध्यसे ।। १
अस्ति ह्याकाशजो नाम द्विजः परमधार्मिकः ।
ध्यानैकनिष्ठः सततं प्रजानां च हिते रतः ।। २
स चिरं जीवति यदा तदा मृत्युरचिन्तयत् ।
सर्वाण्येव क्रमेणाह भूतान्यद्मि किलाक्षयः ।। ३
एनमाकाशजं विप्रं न कस्माद्भक्षयाम्यहम् ।
अत्र मे कुण्ठिता शक्तिः खङ्गधारा इवोपले ।। ४
इति संचिन्त्य तं हन्तुमगच्छत्तत्पुरं तदा ।
त्यजन्त्युद्यममुद्युक्ता न स्वकर्माणि केचन ।। ५
ततस्तत्सदनं यावन्मृत्युः प्रविशति स्वयम् ।
तावदेनं दहत्यग्निः कल्पान्तज्वलनोपमः ।। ६
अग्निज्वालामहामालां विदार्यान्तर्गतो ह्यसौ ।
द्विजं दृष्ट्वा समादातुं हस्तेनैच्छत्प्रयत्नतः ।। ७
नचाशकत्पुरो दृष्टमपि हस्तशतैर्द्विजम् ।
बलवानप्यवष्टब्धुं संकल्पपुरुषं यथा ।। ८
अथागत्य यमं मृत्युरपृच्छत्संशयच्छिदम् ।
किमित्यहं न शक्नोमि भोक्तुमाकाशजं विभो ।। ९
यम उवाच ।
मृत्यो न किंचिच्छक्तस्त्वमेको मारयितुं बलात् ।
मारणीयस्य कर्माणि तत्कर्तृणीति नेतरत् ।। १०
तस्मादेतस्य विप्रस्य मारणीयस्य यत्नतः ।
कर्माण्यन्विष्य तेषां त्वं साहाय्येनैनमत्स्यसि ।। ११
ततः स मृत्युर्बभ्राम तत्कर्मान्वेषणादृतः ।
मण्डलानि दिगन्तांश्च सरांसि सरितो दिशः ।। १२
वनजङ्गलजालानि शैलानब्धितटानि च ।
द्वीपान्तराण्यरण्यानि नगराणि पुराणि च ।। १३
ग्रामाण्यखिलराष्ट्राणि देशान्तर्गहनानि च ।
एवं भूमण्डलं भ्रान्त्वा न कुतश्चित्स कानिचित् ।। १४
तान्याकाशजकर्माणि लब्धवान्मृत्युरुद्यतः ।
वन्ध्यापुत्रमिव प्राज्ञः संकल्पाद्रिमिवापरः ।। १५
समपृच्छदथागत्य यमं सर्वार्थकोविदम् ।
परायणं हि प्रभवः संदेहेष्वनुजीविनाम् ।। १६
मृत्युरुवाच ।
आकाशजस्य कर्माणि क्व स्थितानि वद प्रभो ।
धर्मराजोऽथ संचिन्त्य सुचिरं प्रोक्तवानिदम् ।। १७
धर्मराज उवाच ।
आकाशजस्य कर्माणि मृत्यो सन्ति न कानिचित् ।
एष आकाशजो विप्रो जातः खादेव केवलात् ।। १८
आकाशादेव यो जातः स व्योमैवामलं भवेत् ।
सहकारीणि नो सन्ति न कर्माण्यस्य कानिचित् ।। १९
संबन्धः प्राक्तनेनास्य न मनागपि कर्मणा ।
अस्ति वन्ध्यासुतस्येव तथाऽजाताकृतेरिव ।। २०
कारणानामभावेन तस्मादाकाशमेव सः ।
नैतस्य पूर्वकर्मास्ति नभसीव महाद्रुमः ।। २१
नैतदस्यावशं चित्तमभावात्पूर्वकर्मणाम् ।
अद्य तावदनेनाद्यं न किंचित्कर्म संचितम् ।। २२
एवमाकाशकोशात्मा विशदाकाशरूपिणि ।
स्वकारणे स्थितो नित्यः कारणानि न कानिचित् ।।२३
प्राक्तनानि न सन्त्यस्य कर्माण्यद्य करोति नो ।
किंचिदप्येवमेषोऽत्र विज्ञानाकाशमात्रकः ।। २४
प्राणस्पन्दोऽस्य यत्कर्म लक्ष्यते चास्मदादिभिः ।
दृश्यतेऽस्माभिरेव तन्न त्वस्यास्त्यत्र कर्मधीः ।। २५
संस्थिता भावयन्तीव चिद्रूपैव परात्पदात् ।
भिन्नमाकारमात्मीयं चित्स्तम्भे शालभञ्जिका ।। २६
तथैव परमार्थात्सखात्मभूतः स्थितो द्विजः ।
यथा द्रवत्वं पयसि शून्यत्वं च यथाम्बरे ।। २७
स्पन्दत्वं च यथा वायोस्तथैष परमे पदे ।
कर्माण्यद्यतनान्यस्य संचितानि न सन्ति हि ।। २८
न पूर्वाण्येष तेनेह न संसारवशं गतः ।
सहकारिकारणानामभावे यः प्रजायते ।। २९
नासौ स्वकारणाद्भिन्नो भवतीत्यनुभूयते ।
कारणानामभावेन तस्मादेष स्वयंभवः ।। ३०
कर्ता न पूर्वं नाप्यद्य कथमाक्रम्यते वद ।
यदैष कल्पनां बुद्ध्या मृतिनाम्नीं करिष्यति ।। ३१
पृथ्व्यादिमानयमहमिति यस्य च निश्चयः ।
स पार्थिवो भवत्याशु ग्रहीतुं स च शक्यते ।। ३२
पृथ्व्यादिकलनाभावादेष विप्रो न रूपवान् ।
दृढरज्ज्वेव गगनं ग्रहीतुं नैव युज्यते ।। ३३
मृत्युरुवाच ।
भगवञ्जायते शून्यात्कथं नाम वदेति मे ।
पृथ्व्यादयः कथं सन्ति न सन्ति वद वा कथम् ।।३४
यम उवाच ।
न कदाचन जातोऽसौ न च नास्ति कदाचन ।
द्विजः केवलविज्ञानभामात्रं तत्तथा स्थितः ।। ३५
महाप्रलयसंपत्तौ न किंचिदवशिष्यते ।
ब्रह्मास्ते शान्तमजरमनन्तात्मैव केवलम् ।। ३६
शून्यं नित्योदितं सूक्ष्मं निरुपाधि परं स्थितम् ।
तदा तदनु येनास्य निकटेऽद्रिनिभं महः ।। ३७
संविन्मात्रस्वभावत्वाद्देहोऽहमिति चेतति ।
काकतालीयवद्भ्रान्तमाकारं तेन पश्यति ।। ३८
स एष ब्राह्मणस्तस्मिन्सर्गादावम्बरोदरे ।
निर्विकल्पश्चिदाकाशरूपमास्थाय संस्थितः ।। ३९
नास्य देहो न कर्माणि न कर्तृत्वं न वासना ।
एष शुद्धचिदाकाशो विज्ञानघन आततः ।। ४०
प्राक्तनं वासनाजालं किंचिदस्य न विद्यते ।
केवलं व्योमरूपस्य भारूपस्येव तेजसः ।। ४१
वेदनामात्रसंशान्तावीदृशोऽपि न दृश्यते ।
तस्माद्यथा चिदाकाशस्तथा तत्प्रतिपत्तयः ।। ४२
कुतः किलात्र पृथ्व्यादेः कीदृशः संभवः कथम् ।
एतदाक्रमणे मृत्यो तस्मान्मा यत्नवान्भव ।। ४३
ग्रहीतुं युज्यते व्योम न कदाचन केनचित् ।
श्रुत्वैतद्विस्मितो मृत्युर्जगाम निजमन्दिरम् ।। ४४
श्रीराम उवाच ।
ब्रह्मैष कथितो देवस्त्वया मे प्रपितामहः ।
स्वयंभूरज एकात्मा विज्ञानात्मेति मे मतिः ।। ४५
श्रीवसिष्ठ उवाच ।
एवमेतन्मया राम ब्रह्मैष कथितस्तव ।
विवादमकरोन्मृत्युर्यमेनैतत्कृते पुरा ।। ४६
मन्वन्तरे सर्वभक्षो यदा मृत्युर्हरन्प्रजाः ।
बलमेत्यब्जजाक्रान्तावारम्भमकरोत्स्वयम् ।। ४७
तदैव धर्मराजेन यमेनाश्वनुशासितः ।
यदेव क्रियते नित्यं रतिस्तत्रैव जायते ।। ४८
ब्रह्मा किल पराकाशवपुराक्रम्यते कथम् ।
मनोमात्रं च संकल्पः पृथ्व्यादिरहिताकृतिः ।। ४९
यश्चिद्व्योमचमत्कारः किलाकारानुभूतिमान् ।
स चिद्व्योमैव नो तस्य कारणत्वं न कार्यता ।। ५०
आकाशस्फुरदाकारः संकल्पपुरुषो यथा ।
पृथ्व्यादिरहितो भाति स्वयंभूर्भासते तथा ।। ५१
निर्मले व्योम्नि मुक्तालीसंकल्पस्वप्नयोः पुरम् ।
अपृथ्व्यादि यथा भाति स्वयंभूर्भासते तथा ।। ५२
न दृश्यमस्ति न द्रष्टा परमात्मनि केवले ।
स्वयंचित्ता तथाप्येष स्वयंभूरिति भासते। ।। ५३
संकल्पमात्रमेवैतन्मनो ब्रह्मेति कथ्यते ।
संकल्पाकाशपुरुषो नास्य पृथ्व्यादि विद्यते ।। ५४
यथा चित्रकृदन्तःस्था निर्देहा भाति पुत्रिका ।
तथैव भासते ब्रह्मा चिदाकाशाच्छरञ्जनम् ।। ५५
चिद्व्योमकेवलमनन्तमनादिमध्यं
ब्रह्मेति भाति निजचित्तवशात्स्वयंभूः ।
आकारवानिव पुमानिव वस्तुतस्तु
वन्ध्यातनूज इव तस्य तु नास्ति देहः ।। ५६
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे आद्यसृष्टिकर्तृवर्णनं नाम द्वितीयः सर्गः ।। २ ।।