योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ००१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


उत्पत्तिप्रकरणं तृतीयम्
प्रथमः सर्गः १
वाग्भाभिर्ब्रह्मविद्ब्रह्म भाति स्वप्न इवात्मनि ।
यदिदंतत्स्वशब्दोत्थैर्यो यद्वेत्ति स वेत्ति तत् ।। १
न्यायेनानेन लोकेऽस्मिन्सर्गे ब्रह्माम्बरे सति ।
किमिदं कस्य कुत्रेति चोद्यमूचे निराकृतम् ।। २
अहं तावद्यथाज्ञानं यथावस्तु यथाक्रमम् ।
यथास्वभावं तत्सर्वं वच्मीदं श्रूयतां बुध ।। ३
स्वप्नवत्पश्यति जगच्चिन्नभोदेहवित्स्वयम् ।
स्वप्नसंसारदृष्टान्त एवाहं त्वं समन्वितम् ।। ४
मुमुक्षुव्यवहारोक्तिमयात्प्रकरणात्परम् ।
अथोत्पत्तिप्रकरणं मयेदं परिकथ्यते ।। ५
बन्धोऽयं दृश्यसद्भावाद्दृश्याभावेन बन्धनम् ।
न संभवति दृश्यं तु यथेदं तच्छ्रणु क्रमात् ।। ६
उत्पद्यते यो जगति स एव किल वर्धते ।
स एव मोक्षमाप्नोति स्वर्गं वा नरकं च वा ।। ७
अतस्ते स्वावबोधार्थं तत्तावत्कथयाम्यहम् ।
उत्पत्तिः संसृतावेति पूर्वमेव हि यो यथा ।। ८
इदं प्रकरणार्थं त्वं संक्षेपाच्छृणु राघव ।
ततः संकथयिष्यामि विस्तरं ते यथेप्सितम् ।। ९
यदिदं दृश्यते सर्वं जगत्स्थावरजंगमम् ।
तत्सुषुप्ताविव स्वप्नः कल्पान्ते प्रविनश्यति ।। १०
ततः स्तिमितगम्भीरं न तेजो न तमस्ततम् ।
अनाख्यमनभिव्यक्तं सत्किंचिदवशिष्यते ।। ११
ऋतमात्मा परं ब्रह्म सत्यमित्यादिका बुधैः ।
कल्पिता व्यवहारार्थं तस्य संज्ञा महात्मनः ।। १२
स तथाभूत एवात्मा स्वयमन्य इवोल्लसन् ।
जीवतामुपयातीव भाविनाम्ना कदर्थिताम् ।। १३
ततः स जीवशब्दार्थकलनाकुलतां गतः ।
मनो भवति भूतात्मा मननान्मन्थरीभवन् ।। १४
मनः संपद्यते तेन महतः परमात्मनः ।
सुस्थिरादस्थिराकारस्तरङ्ग इव वारिधेः ।। १५
तत्स्वयं स्वैरमेवाशु संकल्पयति नित्यशः ।
तेनेत्थमिन्द्रजालश्रीर्विततेयं वितन्यते ।। १६
यथा कटकशब्दार्थः पृथक्त्वार्हो न काञ्चनात् ।
न हेम कटकात्तद्वज्जगच्छब्दार्थता परे ।। १७
ब्रह्मण्येवास्त्यनन्तात्म यथास्थितमिदं जगत् ।
न जगच्छब्दकार्थेऽस्ति हेम्नीव कटकात्मता ।। १८
सती वाप्यसती तापनद्येव लहरी चला ।
मनसेहेन्द्रजालश्रीर्जागती प्रवितन्यते ।। १९
अविद्या संसृतिर्बन्धो माया मोहो महत्तमः ।
कल्पितानीति नामानि यस्याः सकलवेदिभिः ।। २०
बन्धस्य तावद्रूपं त्वं कथ्यमानमिदं श्रृणु ।
ततः स्वरूपं मोक्षस्य ज्ञास्यसीन्दुनिभानन ।। २१
द्रष्टुर्दृश्यस्य सत्ताङ्ग बन्ध इत्यभिधीयते ।
द्रष्टा दृश्यबलाद्बद्धो दृश्याभावे विमुच्यते ।। २२
जगत्त्वमहमित्यादिर्मिथ्यात्मा दृश्यमुच्यते ।
यावदेतत्संभवति तावन्मोक्षो न विद्यते ।। २३
नेदं नेदमिति व्यर्थप्रलापैर्नोपशाम्यति ।
संकल्पजनकैर्दृश्यव्याधिः प्रत्युत वर्धते ।। २४
न च तर्कभरक्षोदैर्न तीर्थनियमादिभिः ।
सतो दृश्यस्य जगतो यस्मादेति विचारकाः ।। २५
जगद्दृश्यं तु यद्यस्ति न शाम्यत्येव कस्यचित् ।
नासतो विद्यते भावो नाभावो विद्यते सतः ।। २६
अचेत्यचित्स्वरूपात्मा यत्र यत्रैव तिष्ठति ।
द्रष्टा तत्रास्य दृश्यश्रीः समुदेत्यप्यणूदरे ।। २७
तस्मादस्ति जगद्दृश्यं तत्प्रमृष्टमिदं मया ।
त्यक्तं तपोध्यानजपैरिति काञ्जिकतृप्तिवत् ।। २८
यदि राम जगद्दृश्यमस्ति तत्प्रतिबिम्बति ।
परमाणूदरेऽप्यस्मिंश्चिदादर्शे तथैव हि ।। २९
यत्र तत्र स्थिते यद्वद्दर्पणे प्रतिबिम्बति ।
अद्यब्ध्युर्वीनदीवारि चिदादर्शे तथैव हि ।। ३०
ततस्तत्र पुनर्दुःखं जरा मरणजन्मनी ।
भावाभावग्रहोत्सर्गः स्थूलसूक्ष्मचलाचलः ।। ३१
इदं प्रमार्जितं दृश्यं मया चात्राहमास्थितः ।
एतदेवाक्षयं बीजं समाधौ संसृतिस्मृतेः ।। ३२
सति त्वस्मिन्कुतो दृश्ये निर्विकल्पसमाधिता ।
समाधौ चेतनत्वं तु तुर्यं चाप्युपपद्यते ।। ३३
व्युत्थाने हि समाधानात्सुषुप्तान्त इवाखिलम् ।
जगद्दुःखमिदं भाति यथास्थितमखण्डितम् ।। ३४
प्राप्तं भवति हे राम तत्किं नाम समाधिभिः ।
भूयोऽनर्थनिपाते हि क्षणसाम्ये हि किं सुखम् ।।३५
यदि वापि समाधाने निर्विकल्पे स्थितिं व्रजेत् ।
तदक्षयसुषुप्ताभं तन्मन्येतामलं पदम् ।। ३६
प्राप्यते सति दृश्येऽस्मिन्न च किंनाम केनचित् ।
यत्र यत्र किलायाति चित्ततास्य जगद्भ्रमः ।। ३७
द्रष्टाथ यदि पाषाणरूपतां भावयन्बलात् ।
किलास्ते तत्तदन्तेऽपि भूयोऽस्योदेति दृश्यता ।।३८
न च पाषाणतातुल्या निर्विकल्पसमाधयः ।
केषांचित्स्थितिमायान्ति सर्वैरित्यनुभूयते ।। ३९
न च पाषाणतातुल्या रूढिं याताः समाधयः ।
भवन्त्यग्रपदं शान्तं चिद्रूपमजमक्षयम् ।। ४०
तस्माद्यदीदं सद्दृश्यं तन्न शाम्येत्कदाचन ।
शाम्येत्तपोजपध्यानैर्दृश्यमित्यज्ञकल्पना ।। ४१
आलीनवल्लरीरूपं यथा पद्माक्षकोटरे ।
आस्ते कमलिनीबीजं तथा द्रष्टरि दृश्यधीः ।। ४२
यथा रसः पदार्थेषु यथा तैलं तिलादिषु ।
कुसुमेषु यथाऽऽमोदस्तथा द्रष्टरि दृश्यधीः ।। ४३
यत्र तत्र स्थितस्यापि कर्पूरादेः सुगन्धिता ।
यथोदेति तथा दृश्यं चिद्धातोरुदरे जगत् ।। ४४
यथा चात्र तव स्वप्नः संकल्पश्चित्तराज्यधीः ।
स्वानुभूत्यैव दृष्टान्तस्तथा हृद्यस्ति दृश्यभूः ।। ४५
तस्माच्चित्तविकल्पस्थपिशाचो बालकं यथा ।
विनिहन्त्येवमप्येतं द्रष्टारं दृश्यरूपिका ।। ४६
यथाङ्कुरोऽन्तर्बीजस्य संस्थितो देशकालतः ।
करोति भासुरं देहं तनोत्येवं हि दृश्यधीः ।। ४७
द्रव्यस्य हृद्येव चमत्कृतिर्यथा
सदोदितास्त्यस्तमितोज्झितोदरे ।
द्रव्यस्य चिन्मात्रशरीरिणस्तथा
स्वभावभूतास्त्युदरे जगत्स्थितिः ।। ४८
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे बन्धहेतुवर्णनं नाम प्रथमः सर्गः ।। १ ।।