योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०७७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


सप्तसप्ततितमः सर्गः ७७

श्रीवसिष्ठ उवाच ।
एतस्मिन्नन्तरे तत्र किरातजनमण्डले ।
हस्तहार्यतमःपिण्डा बभूवासितयामिनी ।। १
नीलमेघपटच्छन्ना निरिन्दुगगनान्तरा ।
तमालवनसंपिण्डा मांसलोड्डीनकज्जला ।। २
लताघनतया ग्रामकोटरैकान्ध्यमन्थरा ।
गृहचत्वरसंबाधे नगरे नवयौवना ।।
चत्वरेषु तमःपिण्डी प्रजिह्मीकृतदीपिका ।
कुञ्चितच्छिद्रनिष्क्रान्ताऽऽदीपिकारोचिराजिता ।।४
सुवयस्येव कर्कट्याः परिनृत्यत्पिशाचिका ।
मत्तवेतालकङ्कालकाष्ठमौनमिवास्थिता ।। ५
सुषुप्तमृगभूतौघघननीहारहारिणी ।
मन्दमन्दमरुत्स्पर्शलसत्प्रालेयसीकरा ।। ६
सरःसु विवटद्वारि काकभेकतरङ्गिता ।
अन्तःपुरेषु रमणरणन्नारीनरानना ।। ७
जङ्गलेषु जगज्वाला जटालज्वलनोज्ज्वला ।
केदारेष्वम्बुसंसेकपृष्ठपाकमिलच्छला ।। ८
नभस्थलेक्षितस्पन्दप्रविविक्तर्क्षचक्रिका ।
वनेषु विसरद्वातपतत्पुष्पफलद्रुमा ।। ९
श्वभ्रेषु कौशिकस्यान्तर्वायसव्याहतारवा ।
तस्कराक्रान्तपर्यन्तग्राम्याक्रन्दनकर्कशा ।। १०
विपिने विपिनामौना नगरे सुप्तनागरा ।
वनेषु विसरद्वाता नीडेष्वस्पन्दपक्षिका ।। ११
गुहासु सुप्तसिंहाढ्या कुञ्जेषु स्वपदेणका ।
खे सावश्यायनिकरा विपिने मौनचारिणी ।। १२
कज्जलाम्भोदमध्याभा काचशैलोदरोपमा ।
पङ्कपिण्डान्तरघना खड्गच्छेद्यान्ध्यमांसला ।। १३
प्रलयानिलविक्षुब्धकज्जलाचलचञ्चला ।
एकार्णवमहापङ्कपर्वतोदरमेदुरा ।। १४
अङ्गारकोटरघना सौषुप्तपदसुन्दरी ।
अज्ञाननिद्रानिबिडा भृङ्गपृष्ठच्छदच्छविः ।। १५
तस्यां रजन्यां भीमायां किरातजनमण्डले ।
मन्त्रिणा सह भूपालस्तस्मिन्नवसरे तदा ।। १६
निर्जगाम सुधीरात्मा नगरात्सुप्तनागरात् ।
अटवीं विक्रमो नाम विषमां वीरचर्यया ।। १७
अटव्यां कर्कटी सा तौ चरन्तौ राजमन्त्रिणौ ।
अपश्यद्धृतधैर्यास्त्रौ वेतालालोकनोन्मुखौ ।। १८
अथ सा चिन्तयामास लब्धो भक्षो ह्यहो मया ।
मूढावेतावनात्मज्ञौ भारो देहः किलानयोः ।। १९
इहामुत्र च नाशाय मूढो दुःखाय जीवति ।
यत्नाद्विनाशनीयोऽसौ नानर्थः परिपाल्यते ।। २०
अपश्यतः स्वमात्मानं मृतिर्मूढस्य जीवितम् ।
मरणेनोदयोऽस्यास्ति पापासंपत्तिहेतुतः ।। २१
आदिसर्गे च नियमः कृतः पङ्कजजन्मना ।
हिंस्राणां भोजनायास्तु मूढात्मानात्मवानिति ।। २२
तस्मादिमौ मयैवाद्य भोक्तव्यौ भोज्यतां गतौ ।
अभव्य एव निर्दोषं प्राप्तमर्थमुपेक्षते ।। २३
कदाचित्ताविमौ स्यातां गुणयुक्तौ महाशयौ ।
तादृङ्न रविनाशो हि स्वभावान्मे न रोचते ।। २४
तदेतौ संपरीक्षेऽहं यदि तादृग्गुणान्वितौ ।
तद्भक्षं न करोम्येतौ न हिंस्या गुणिनः क्वचित् ।। २५
अकृत्रिमं सुखं कीर्तिमायुश्चैवाभिवाञ्छता ।
सर्वाभिमतदानेन पूजनीया गुणान्विताः ।। २६
अपि नङ्क्ष्यामि देहेन नैव भोक्ष्ये गुणान्वितम् ।
सुखयन्ति हि चेतांसि जीवितादपि साधवः ।। २७
अपि जीवितदानेन गुणिनं परिपालयेत् ।
गुणवत्संगमौषध्या मृत्युरप्येति मित्रताम् ।। २८
यत्राहमपि रक्षामि राक्षसी गुणशालिनम् ।
तत्रान्यः को न कुर्यात्तं हृदि हारमिवामलम् ।। २९
उदारगुणयुक्ता ये विहरन्तीह देहिनः ।
धरातलेन्दवः सङ्गाद्भृशं शीतलयन्ति ते ।। ३०
मृतिर्गुणितिरस्कारो जीवितं गुणिसंश्रयः ।
फलं स्वर्गापवर्गादि जीविताद्गुणिसंश्रितात् ।। ३१
तस्मादिमौ परीक्षेऽहं कयाचित्प्रश्नलीलया ।
किंमात्रज्ञानकावेताविति तामरसेक्षणौ ।। ३२
आदौ विचार्य सगुणागुणलेशयुक्तिं
पश्चात्स्वतोऽधिकतरं च गुणैर्यदि स्यात् ।
कुर्यात्ततः समुपपत्तिवशेन दण्डं
दड्यस्य युक्तिसदृशं घनसंभवेन ।। ३३

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे क० राक्षसीविचारो नाम सप्तसप्ततितमः सर्गः ।। ७७ ।।