योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०१४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः १३ योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)
सर्गः ०१४
अज्ञातलेखकः
सर्गः १५ →

श्रीवसिष्ठ उवाच ।
इत्थं जगदहंतादिदृश्यजातं न किंचन ।
अजातत्वाच्च नास्त्वेव यच्चास्ति परमेव तत् ।। १
परमाकाशमेवादौ जीवतां चेतति स्वयम् ।
निःस्पन्दाम्भोधिकुहरे सलिलं स्पन्दतामिव ।। २
आकाशरूपमजहदेवं वेत्तीव हृद्यताम् ।
स्वप्नसंकल्पशैलादाविव चिद्वृत्तिरान्तरी ।। ३
पृथ्व्यादिरहितो देहो यो विंराडात्मको महान् ।
आतिवाहिक एवासौ चिन्मात्राच्छनभोमयः ।। ४
अक्षयः स्वप्नशैलाभः स्थिरस्वप्नपुरोपमः ।
चित्रकृत्स्थिरचित्तस्थचित्रसैन्यसमाकृतिः ।। ५
अनिखातमहास्तम्भपुत्रिकौघसमोपमः ।
ब्रह्माकाशेऽनिखातात्मा सुस्तम्भे शालभञ्जिका ।। ६
आद्यः प्रजापतिः एवं स्वयंभूरिति विश्रुतः ।
प्राक्तनानां स्वकार्याणामभावादप्यकारणः ।। ७
महाप्रलयपर्यन्तेष्वाद्यकालपितामहाः ।
मुच्यन्ते सर्व एवातः प्राक्तनं कर्म तेषु किम् ।। ८
सोऽकुड्य एव कुड्यात्मा दृश्यादृश्यः स्वयंस्थितः ।
न च दृश्यं न च द्रष्टा न स्रष्टा सर्वमेव च ।। ९
प्रतिशब्दपदार्थानां सर्वेषामेष एव सः ।
तस्मादुदेति जीवाली दीपाली दीपकादिव ।। १०
संकल्प एव संकल्पात्किलैति क्ष्मादिवर्जितः ।
आदिमादिव निःशून्यः स्वप्नात्स्वप्नान्तरं यथा ।। ११
अस्मादेकप्रतिस्पन्दाज्जीवाः संप्रसरन्ति ये ।
सहकारिकारणानामभावाच्च स एव ते ।। १२
सहकारिकारणानामभावे कार्यकारणम् ।
एकमेतदतो नान्यः परस्मात्सर्गविभ्रमः ।। १३
ब्रह्मवाद्यो विराडात्मा विराडात्मेव सर्गता ।
जीवाकाशः स एवेत्थं स्थितः पृथ्व्याद्यसद्यतः ।। १४
श्रीराम उवाच ।
किं स्यात्परिमितो जीवो राशिराहो अनन्तकः ।
आहोस्विदस्त्यनन्तात्मा जीवपिण्डोऽचलोपमः ।। १५
धाराः पयोमुच इव शीकरा इव वारिधेः ।
कणास्तप्तायस इव कस्मान्निर्यान्ति जीवकाः ।। १६
इति मे भगवन्ब्रूहि जीवजालविनिर्णयम् ।
ज्ञातमेतन्मया प्रायस्तदेव प्रकटीकुरु ।। १७
श्रीवसिष्ठ उवाच ।
एक एव न जीवोऽस्ति राशीनां संभवः कुतः ।
शशशृङ्गं समुड्डीय प्रयातीव हि ते वचः ।। १८
न जीवोऽस्ति न जीवानां राशयः सन्ति राघव ।
न चैकः पर्वतप्रख्यो जीवपिण्डोऽस्ति कश्चन ।। १९
जीवशब्दार्थकलनाः समस्तकलनान्विताः ।
नेह काश्चन सन्तीति निश्चयोऽस्तु तवाचलः ।। २०
शुद्धचिन्मात्रममलं ब्रह्मास्तीह हि सर्वगम् ।
तद्यथा सर्वशक्तित्वाद्विन्दते याः स्वयं कलाः ।। २१
चिन्मात्रानुक्रमेणैव संप्रफुल्ललतामिव ।
ननु मूर्ताममूर्ता वा तामेवाशु प्रपश्यति ।। २२
जीवो बुद्धिः क्रियास्पन्दो मनोद्वित्वैक्यमित्यपि ।
स्वसत्तां प्रकचन्तीं तां नियोजयति वेदने ।। २३
साऽबुद्धैव भवत्येवं भवेद्ब्रह्मैव बोधतः ।
अबोधः प्रेक्षया याति नाशं न तु प्रबुध्यते ।। २४
यथान्धकारो दीपेन प्रेक्ष्यमाणः प्रणश्यति ।
न चास्य ज्ञायते तत्त्वमबोधस्यैवमेव हि ।। २५
एवं ब्रह्मैव जीवात्मा निर्विभागो निरन्तरः ।
सर्वशक्तिरनाद्यन्तो महाचित्साररूपवान् ।। २६
सर्वानणुतया त्वस्य न क्वचिद्भेदकल्पना ।
विद्यते या हि कलना सा तदेवानुभूतितः ।। २७
श्रीराम उवाच ।
एवमेतत्कथं ब्रह्मन्नेकजीवेच्छयाखिलाः ।
जगज्जीवा न युज्यन्ते महाजीवैकतावशात् ।। २८
श्रीवसिष्ठ उवाच ।
महाजीवात्म तद्ब्रह्म सर्वशक्तिमयात्मकम् ।
स्थितं तथेच्छमेवेह निर्विभागं निरन्तरम् ।। २९
यदेवेच्छति तत्तस्य भवत्याशु महात्मनः ।
पूर्वं तेनेष्टमिच्छादि ततो द्वित्वमुदेति यत् ।। ३०
पश्चाद्द्वित्वविभक्तानां स्वशक्तीनां प्रकल्पितः ।
अनेनेत्थं हि भवतीत्येवं तेन क्रियाक्रमः ।। ३१
तं विनानुदये त्वासां प्रधानेच्छैव रोहति ।
शक्त्या ह्यजातया ब्राह्म्या नियमोऽयं प्रकल्पितः ।। ३२
यस्या जीवाभिधानायाः शक्त्यपेक्षा फलत्यसौ ।
प्रधानशक्तिनियमानुष्ठानेन विना न तु ।। ३३
प्रधानशक्तिनियमः सुप्रतिष्ठो न चेद्भवेत् ।
तत्फलं शक्त्यधीनत्वान्नेहितानां क्वचिद्भवेत् ।। ३४
एवं ब्रह्म महाजीवो विद्यतेऽन्तादिवर्जितः ।
जीवकोटि महाकोटि भवत्यथ न किंचन ।। ३५
चेत्यसंवेदनाज्जीवो भवत्यायाति संसृतिम् ।
तदसंवेदनाद्रूपं समायाति समं पुनः ।। ३६
एवं कनिष्ठजीवानां ज्येष्ठजीवक्रमाक्रमैः ।
समुदेत्यात्मजीवत्वं ताम्राणामिव हेमता ।। ३७
अत्रान्तरे महाकाश इत्थमेष गणोऽप्यसन् ।
स्वात्मैव सदिवोदेति चिच्चमत्करणात्मकः ।। ३८
स्वयमेव चमत्कारो यः समापद्यते चितः ।
भविष्यन्नामदेहादि तदहंभावनं विदुः ।। ३९
चितो यस्माच्चिदालेहस्तन्मयत्वादनन्तकः ।
स एष भुवनाभोग इति तस्यां प्रबिम्बति ।। ४०
परिणामविकारादिशब्दैः सैव चिदव्यया ।
तादृग्रूपादभेद्यापि स्वशक्त्यैव विबुध्यते ।। ४१
अविच्छिन्नविलासात्म स्वतो यत्स्वदनं चितः ।
चेत्यस्य च प्रकाशस्य जगदित्येव तत्स्थितम् ।। ४२
आकाशादपि सूक्ष्मैषा या शक्तिर्वितता चितः ।
सा स्वभावत एवैतामहंतां परिपश्यति ।। ४३
आत्मन्यात्मात्मनैवास्या यत्प्रस्फुरति वारिवत् ।
जगदन्तमहंताणुं तदैषा संप्रपश्यति ।। ४४
चमत्कारकरी चारु यच्चमत्कुरुते चितिः ।
स्वयं स्वात्मनि तस्यैव जगन्नाम कृतं ततः ।। ४५
चितश्चेत्यमहंकारः सैव राघव कल्पना ।
तन्मात्रादि चिदेवातो द्वित्वैकत्वे क्व संस्थिते ।। ४६
जीवहेत्वादिसंत्यागे त्वं चाहं चेति संत्यज ।
शेषः सदसतोर्मध्ये भवत्यर्थात्मको भवेत् ।। ४७
चिता यथादौ कलिता स्वसत्ता सा तथोदिता ।
अभिन्ना दृश्यते व्योम्नः सत्तासत्ते न विद्महे ।। ४८
विश्वं खं जगदीहाख्यं खमस्ति विबुधालयः ।
साकारश्चिच्चमत्काररूपत्वान्नान्यदस्ति हि ।। ४९
यो यद्विलासस्तस्मात्स न कदाचन भिद्यते ।
अपि सावयवं तस्मात्कैवानवयवे कथा ।। ५०
चितेर्नित्यमचेत्याया निर्नाम्न्या वितताकृतेः ।
यद्रूपं जगतो रूपं तत्तत्स्फुरणरूपिणः ।। ५१
मनो बुद्धिरहंकारो भूतानि गिरयो दिशः ।
इति या यास्तु रचनाश्चितस्तत्त्वाज्जगत्स्थितेः ।। ५२
चितेश्चित्त्वं जगद्विद्धि नाजगच्चित्त्वमस्ति हि ।
अजगत्त्वादचिच्चित्स्याद्भानाद्भेदो जगत्कुतः ।। ५३
चितेर्मरीचिबीजस्य निजा यान्तश्चमत्कृतिः ।
सा चैषा जीवतन्मात्रमात्रं जगदिति स्थिता ।। ५४
चित्तात्स्वशक्तिकचनं यदहंभावनं चितः ।
जीवः स्पन्दनकर्मात्मा भविष्यदभिधो ह्यसौ ।। ५५
यच्चिच्चित्त्वेन कचनं स्वसंपाद्याभिधात्मकम् ।
स्वविकारैर्व्यवच्छेद्यं भिद्यते नो न विद्यते ।। ५६
चित्स्पन्दरूपिणोरस्ति न भेदः कर्तृकर्मणोः ।
स्पन्दमात्रं भवेत्कर्म स एव पुरुषः स्मृतः ।। ५७
जीवश्चित्तपरिस्पन्दः पुंसां चित्तं स एव च ।
मनस्त्विन्द्रियरूपं सत्सत्तां नानेव गच्छति ।। ५८
शान्ताशेषविशेषं हि चित्प्रकाशच्छटा जगत् ।
कार्यकारणकादित्वं तस्मादन्यन्न विद्यते ।। ५९
अच्छेद्योऽहमदाह्योऽहमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽहमिति स्थितम् ।। ६०
विवदन्ते तथा ह्यत्र विवदन्तो यथा भ्रमैः ।
भ्रमयन्तो वयं त्वेते जाता विगतविभ्रमाः ।। ६१
दृश्ये मूर्ते ज्ञसंरूढे विकारादि पृथग्भवेत् ।
नामूर्ते तज्ज्ञकचिते चित्खे सदसदात्मनि ।। ६२
चित्तरौ चेत्यरसतः शक्तिः कालादिनामिकाम् ।
तनोत्याकाशविशदां चिन्मधुश्रीः स्वमञ्जरीम् ।। ६३
स्वयं विचित्रं स्फुरति चिदण्डकमनाहतम् ।
स्वयं विलक्षणस्पन्दं चिद्वायुरण्डजात्मकः ।। ६४
स्वयं विचित्रं कचनं चिद्वारि न निखातगम् ।
स्वयं विचित्रधातुत्वं श्रेष्ठाङ्गमपि निर्मितम् ।। ६५
स्वविचित्ररसोल्लासा चिज्ज्योत्स्ना सततोदिता ।
स्वयं चिदेव प्रकटश्चिदालोको महात्मकः ।। ६६
स्वयमस्तं गते बाह्ये स्वज्ञानादुदिता चितिः ।
स्वयं जडेषु जाड्येन पदं सौषुप्तमागता ।। ६७
स्वयं स्पन्दितयास्पन्दिचित्त्वाच्चिति महानभ ।
चित्प्रकाशप्रकाशो हि जगदस्ति च नास्ति च ।। ६८
चिदाकाशैकशून्यत्वं जगदस्ति च नास्ति च ।
चिदालोकमहारूपं जगदस्ति च नास्ति च ।। ६९
चिन्मारुतपरिस्पन्दो जगदस्ति च नास्ति च ।
चिद्धनध्वान्तकृष्णत्वं जगदस्ति च नास्ति च ।। ७०
चिदर्कालोकदिवसो जगदस्ति च नास्ति च ।
चित्कज्जलरजस्तैलपरमाणुर्जगत्क्रमः ।। ७१
चिदग्न्यौष्ण्यं जगल्लेखा जगच्चिच्छङ्खशुक्लता ।
जगच्चिच्छैलजठरं चिज्जलद्रवता जगत् ।। ७२
जगच्चिदिक्षुमाधुर्यं चित्क्षीरस्निग्धता जगत् ।
जगच्चिद्धिमशीतत्वं चिज्ज्वालाज्वलनं जगत् ।। ७३
जगच्चित्सर्षपस्नेहो वीचिश्चित्सरितो जगत् ।
जगच्चित्क्षौद्रमाधुर्यं जगच्चित्कनकाङ्गदम् ।। ७४
जगच्चित्पुष्पसौगन्ध्यं चिल्लताग्रफलं जगत्। ।
चित्सत्तैव जगत्सत्ता जगत्सत्तैव चिद्वपुः ।। ७५
अत्र भेदविकारादि नखे मलमिव स्थितम् ।
इतीदं सन्मयत्वेन सदसद्भुवनत्रयम् ।। ७६
अविकल्पतदात्मत्वात्सत्तासत्तैकतैव च ।
अवयवावयविता शब्दार्थौ शशशृङ्गवत् ।। ७७
अनुभूत्यपलापाय कल्पितो यैर्धिगस्तु तान् ।
न विद्यते जगद्यत्र साद्र्यब्ध्युर्वीनदीश्वरम् ।। ७८
चिदेकत्वात्प्रसङ्गः स्यात्कस्तत्रेतरविभ्रमः ।
शिलाहृदयपीनापि स्वाकाशे विशदैव चित् ।। ७९
धत्तेऽन्तरखिलं शान्तं संनिवेशं यथा शिला ।
पदार्थनिकराकाशे त्वयमाकाशजो मलः ।। ८०
सत्तासत्तात्मतात्वत्तामत्ताश्लेषा न सन्ति ते ।
पल्लवान्तरलेखौघसंनिवेशवदाततम् ।। ८१
अन्यानन्यात्मकमिदं धत्तेऽन्तश्चित्स्वभावतः ।
समस्तकारणौघानां कारणादि पितामहः ।। ८२
स्वभावतो कारणात्म चित्तं चिद्ध्यनुभूतितः ।
न चासत्त्वमचेत्यायाश्चितो वाचापि सिद्ध्यति ।। ८३
यदस्ति तदुदेतीति दृष्टं बीजादिवाङ्कुरः ।। ८४
गगन इव सुशून्यभेदमस्ति
त्रिभुवनमङ्ग महाचितोऽन्तरस्याः ।
परमपदमयं समस्तदृश्यं
त्विदमिति निश्चयवान्भवानुभूतेः ।। ८५
इत्युक्तवत्यथ मुनौ दिवसो जगाम
सायतनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम
श्यामाक्षये रविकरैश्च सहाजगाम ।। ८६
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे ब्रह्मप्रतिपादनं नाम चतुर्दशः सर्गः ।। १४ ।।