योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ११८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


अष्टादशोत्तरशततमः सर्गः ११८
श्रीवसिष्ठ उवाच ।
इमां सप्तपदां ज्ञानभूमिमाकर्णयानघ ।
नानया ज्ञातया भूयो मोहपङ्के निमज्जसि ।। १
वदन्ति बहुभेदेन वादिनो योगभूमिकाः ।
मम त्वभिमता नूनमिमा एव शुभप्रदाः ।। २
अवबोधं विदुर्ज्ञानं तदिदं सप्तभूमिकम् ।
मुक्तिस्तु ज्ञेयमित्युक्तं भूमिकासप्तकात्परम् ।। ३
सत्यावबोधो मोक्षश्चैवेति पर्यायनामनी ।
सत्यावबोधो जीवोऽयं नेह भूयः प्ररोहति ।। ४
ज्ञानभूमिः शुभेच्छाख्या प्रथमा समुदाहृता ।
विचारणा द्वितीया तु तृतीया तनुमानसा ।। ५
सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका ।
पदार्थाभावनी षष्ठी सप्तमी तुर्यगा स्मृता ।। ६
आसामन्ते स्थिता मुक्तिस्तस्यां भूयो न शोच्यते ।
एतासां भूमिकानां त्वमिदं निर्वचनं श्रृणु ।। ७
स्थितः किं मूढ एवास्मि प्रेक्ष्येऽहं शास्त्रसज्जनैः ।
वैराग्यपूर्वमिच्छेति शुभेच्छेत्युच्यते बुधैः ।। ८
शास्त्रसज्जनसंपर्कवैराग्याभ्यासपूर्वकम् ।
सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा ।। ९
विचारणाशुभेच्छाभ्यामिन्द्रियार्थेष्वसक्तता ।
यात्र सा तनुता भावात्प्रोच्यते तनुमानसा ।। १०
भूमिकात्रितयाभ्यासाच्चित्तेऽर्थे विरतेर्वशात् ।
सत्यात्मनि स्थितिः शुद्धे सत्त्वापत्तिरुदाहृता ।। ११
दशाचतुष्टयाभ्यासादसंसङ्गफलेन च ।
रूढसत्त्वचमत्कारात्प्रोक्ताऽसंसक्तिनामिका ।। १२
भूमिकापञ्चकाभ्यासात्स्वात्मारामतया दृढम् ।
आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् ।। १३
परप्रयुक्तेन चिरं प्रयत्नेनार्थभावनात् ।
पदार्थाभावनानाम्नी षष्ठी संजायते गतिः ।। १४
भूमिषट्रुचिराभ्यासाद्भेदस्यानुपलम्भतः ।
यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः ।। १५
एषा हि जीवन्मुक्तेषु तुर्यावस्थेह विद्यते ।
विदेहमुक्तिविषयस्तुर्यातीतमतः परम्।। १६
ये हि राम महाभागाः सप्तमीं भूमिकां गताः ।
आत्मारामा महात्मानस्ते महत्पदमागताः ।। १७
जीवन्मुक्ता न सज्जन्ति सुखदुःखरसस्थितौ ।
प्रकृतेनार्थकार्याणि किंचित्कुर्वन्ति वा न वा ।। १८
पार्श्वस्थबोधिताः सन्तः सर्वाचारक्रमागतम् ।
आचारमाचरन्त्येव सुप्रबुद्धवदक्षतम् ।। १९
आत्मारामतया तांस्तु सुखयन्ति न काश्चन ।
जगत्क्रियाः सुसंसुप्तान्रूपालोकाः स्त्रियो यथा ।।२०
भूमिकासप्तकं चैतद्धीमतामेव गोचरम् ।
न पशुस्थावरादीनां न च म्लेच्छादिचेतसाम् ।। २१
प्राप्ता ज्ञानदशामेतां पशुम्लेच्छादयोऽपि ये ।
सदेहा वाप्यदेहा वा ते मुक्ता नात्र संशयः ।। २२
ज्ञप्तिर्हि ग्रन्थिविच्छेदस्तस्मिन्सति हि मुक्तता ।
मृगतृष्णाम्बुबुद्ध्यादि शान्तिमात्रात्मकस्त्वसौ ।।२३
ये तु मोहात्समुत्तीर्णा न प्राप्ताः पावनं पदम् ।
आस्थिता भूमिकास्वासु स्वात्मलाभपरायणाः ।। २४
सर्वभूमिगताः केचित्केचिद्द्वित्रैकभूमिकाः ।
भूमिषद्रुगताः केचित्केचित्सप्तकभूमिकाः ।। २५
भूमित्रयगताः केचित्केचिदन्त्या भुवं गताः ।
भूचतुष्टयगाः केचित्केचिद्भूमिद्वये स्थिताः ।। २६
भूम्यंशभाजनाः केचित्केचित्सार्धत्रिभूमिकाः ।
केचित्सार्धचतुर्भूगाः सार्धषडभूमिकाः परे ।। २७
विवेकिनो नरा लोके चरन्त इति भूमिषु ।
ग्रहायतनतापस्य दृशावेशेषु संस्थिताः ।। २८
ते हि धीराः सुराजानो दशास्वासु जयन्ति ये ।
तृणायतेऽत्र दिग्दन्तिघटाभटपराजयः ।। २९
ये तासु भूमिषु जयन्ति हि ये महान्तो
वन्द्यास्त एव हि जितेन्द्रियशत्रवस्ते ।
सम्राड्विराडपि च यत्र तृणायते वै
तस्मात्परं जगति ते समवाप्नुवन्ति ।। ३०
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूत्पत्तिप्रकरणे ज्ञानभूमिकोपदेशो नामाष्टादशोत्तरशततमः सर्गः ।।११८।।