योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः १०१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


एकाधिकशततमः सर्गः १०१
श्रीराम उवाच ।
किमुच्यते मुनिश्रेष्ठ बालकाख्यायिकाक्रमः ।
क्रमेण कथयैतन्मे मनोवर्णनकारणम् ।। १
श्रीवसिष्ठ उवाच ।
कोऽपि मुग्धमतिर्बालो धात्रीं पृच्छति राघव ।
कांचिद्विनोदिनीं धात्रि वर्णयाख्यायिकामिति ।। २
सा बालस्य विनोदाय धात्री तस्य महामते ।
आख्यायिकां कथयति प्रसन्नमधुराक्षरम् ।। ३
क्वचित्सन्ति महात्मानो राजपुत्रास्त्रयः शुभाः ।
धार्मिकाः शौर्यमुदिता अत्यन्तासति पत्तने ।। ४
विस्तीर्णे शून्यनगरे व्योम्नीव जलतारकाः ।
द्वौ न जातौ तथैकस्तु गर्भ एव न संस्थितः ।। ५
अथात्युत्तमलाभार्थं कदाचित्समवायतः ।
विबन्धवः खिन्नमुखाः शोकोपहतचेतसः ।। ६
ते तस्माच्छून्यनगरान्निर्गता वितताननाः ।
गगनादिव संश्लिष्टा बुधशुक्रशनैश्चराः ।। ७
शिरीषसुकुमाराङ्गाः पृष्ठतोऽर्केण तापिताः ।
मार्गेऽहनि गता ग्रीष्मतापार्ताः पल्लवा इव ।। ८
संतप्तमार्गसिकतादग्धपादसरोरुहाः ।
हा तात चेति शोचन्तो मृगा यूथच्युता इव ।। ९
दर्भाग्रभिन्नचरणास्तापखिन्नाङ्गसंधयः ।
उल्लङ्घ्य दूरमध्वानं धूलिधूसरमूर्तयः ।। १०
मञ्जरीजालजटिलं फलपल्लवमालितम् ।
मृगपक्षिगणाधारं प्रापुर्मार्गे तरुत्रयम् ।। ११
यस्मिन्वृक्षत्रये वृक्षौ द्वौ न जातौ मनागपि ।
बीजमेव तृतीयस्य स्वारोहस्य न विद्यते ।। १२
विश्रान्तास्ते परिश्रान्तास्तत्रैकस्य तरोरधः ।
पारिजाततले स्वर्गे शक्रानिलयमा इव ।। १३
फलान्यमृतकल्पानि भुक्त्वा पीत्वा च तद्रसम् ।
कृत्वा गुलुच्छकैर्मालां चिरं विश्रम्य ते ययुः ।। १४
पुनर्दूरतरं गत्वा मध्याह्ने समुपस्थिते ।
सरित्त्रितयमासेदुस्तरङ्गतरलारवम् ।। १५
तत्रैका परिशुष्कैव मनागप्यम्बु न द्वयोः ।
विद्यते सरितोर्दृष्टिरन्धलोचनयोरिव ।। १६
परिशुष्का भृशं यासौ तस्यां ते सस्नुरादृताः ।
घर्मार्ता इव गङ्गायां ब्रह्मविष्णुहरा इव ।। १७
चिरं कृत्वा जलक्रीडां पीत्वा क्षीरोपमं पयः ।
जग्मुस्ते राजतनयाः प्रहृष्टमनसः स्वयम् ।। १८
अथासेदुर्दिनस्यान्ते लम्बमाने दिवाकरे ।
भविष्यन्नवनिर्माणं नगरं नगसन्निभम् ।। १९
पताकापद्मिनीव्याप्तं नीलाकाशजलाशयम् ।
दूरश्रुतसमुल्लापगायन्नागरमण्डलम् ।। २०
ददृशुस्तत्र रम्याणि त्रीणि सद्भवनानि ते ।
मणिकाञ्चनगेहानि श्रृङ्गाणीव महागिरेः ।। २१
अनिर्मिते द्वे सदने एकं निर्भित्ति तत्र वै ।
अभित्तिमन्दिरं चारु प्रविष्टास्ते नरास्त्रयः ।। २२
संप्रविश्योपविश्याशु विहरन्तो वराननाः ।
प्रापुः स्थालीत्रयं तत्र तप्तकाञ्चनकल्पितम् ।। २३
तत्र कर्परतां याते द्वे एका चूर्णतां गता ।
जगृहुश्चूर्णरूपां तां स्थालीं ते दीर्घबुद्धयः ।। २४
द्रोणैर्नवनवत्या तैस्तस्यां द्रोणेन चान्धसः ।
तत्र द्रोणशतं हीनं रन्धितं बहुभोजिभिः ।। २५
निमन्त्रितास्त्रयस्तैस्तु ब्राह्मणा राजसूनुभिः ।
द्वौ निर्देहावथैकस्य मुखमेव न विद्यते ।। २६
निर्मुखेनान्धसस्तत्र भुक्तं द्रोणशतं सुत ।
विप्रभुक्तावशेषं तु भुक्तमन्धो नृपात्मजैः ।। २७
त्रिभिस्ते राजपुत्राश्च परां निर्वृतिमागताः ।
भविष्यन्नगरे तस्मिन् राजपुत्रास्त्रयो हि ते ।
सुखमद्य स्थिताः पुत्र मृगयाव्यवहारिणः ।। २८
आख्यायिकैषा कथिता मया रम्या तवानघ ।
एतां हृदि कुरु प्राज्ञ विदग्धस्त्वं भविष्यसि ।। २९
धात्र्येति कथिता राम बालकाख्यायिका शुभा ।
तुष्टिं जगाम बालश्च शुभाख्यायिकयानया ।। ३०
एषा हि कथिता राम चित्ताख्यानकथां प्रति ।
बालकाख्यायिका तुभ्यं मया कमललोचन ।। ३१
इयं संसाररचना स्थितिमेवमुपागता ।
बालकाख्यायिकेवोग्रैः संकल्पैर्दृढकल्पितैः ।। ३२
विकल्पजालकैवेयं प्रतिभासात्मिकानघ ।
बन्धमोक्षादिकलनारूपेण परिजृम्भते ।। ३३
संकल्पमात्रादितरद्विद्यते नेह किंचन ।
संकल्पवशतः किंचिन्न किंचित्किंचिदेव वा ।। ३४
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
संकल्पकचितं सर्वमेवं स्वप्नवदात्मनः ।। ३५
राजपुत्रास्त्रयो नद्यो भविष्यन्नगरे यथा ।
यथा संकल्परचना तथेयं हि जगत्स्थितिः ।। ३६
संकल्पमात्रमभितः परिस्फुरति चञ्चलः ।
पयोमात्रात्मकोऽम्भोधिरम्भसीवात्मनात्मनि ।। ३७
संकल्पमात्रं प्रथममुत्थितं परमात्मनः ।
तदिदं स्फारतां यातं व्यापारैर्दिवसं यथा ।। ३८
संकल्पजालकलनैव जगत्समग्रं
संकल्पमेव ननु विद्धि विलासचेत्यम् ।
संकल्पमात्रमलमुत्सृज निर्विकल्प-
माश्रित्य निश्चयमवाप्नुहि राम शान्तिम् ।। ३९
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उत्पत्तिप्रकरणे बालकाख्यायिकानामैकोत्तरशततमः सर्गः ।। १०१ ।।