योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः १०९
← सर्गः १०८ | योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्) सर्गः १०९ अज्ञातलेखकः |
सर्गः ११० → |
नवोत्तरशततमः सर्गः १०९
राजोवाच ।
तस्मिंस्तदा वर्तमाने कष्टे विधिविपर्यये ।
अकालोल्वणकल्पान्ते नितान्तं तापदायिनि ।। १
जनाः केचन निष्क्रम्य सकलत्रसुहृज्जनाः ।
गता देशान्तरं व्योम्नः शरदीव पयोधराः ।। २
देहावयवसंलीनपुत्रदाराग्र्यबन्धवः ।
शीर्णाः केचन तत्रैव च्छिन्ना इव वने द्रुमाः ।। ३
भक्ताः केचन च व्याघ्रैर्निर्गतास्तु स्वमन्दिरात् ।
अजातपक्षकाः श्येनैः खगा नीडोद्गता इव ।। ४
प्रविष्टाः केचिदनलं ज्वलितं शलभा इव ।
केचिच्श्वभ्रेषु पतिताः शिला शैलच्युता इव ।। ५
अहं तु तान्परित्यज्य श्वशुरादीन्स्वकं क्षमम् ।
कलत्रमात्रमादाय कृच्छ्राद्देशाद्विनिर्गतः ।। ६
अनलाननिलांश्चैव भक्षकांस्तक्षकानपि ।
वञ्चयित्वा भयान्मृत्योः सदारोऽहं विनिर्गतः ।। ७
प्राप्य तद्देशपर्यन्तं तत्र तालतरोस्तले ।
अवरोप्य सुतान्स्कन्धान्नानानर्थानिवोल्वणान् ।। ८
विश्रान्तोऽस्मि चिरं श्रान्तो रौरवादिव निर्गतः ।
दीर्घदावनिदाघार्तो ग्रीष्मे पद्म इवाजलः ।। ९
अथ चाण्डालकन्यायां विश्रान्तायां तरोस्तले ।
सुप्तायां शीतलच्छाये द्वौ समालिड्य दारकौ ।। १०
पृच्छको नाम तनयो ममैकः पुरतः स्थितः ।
अत्यन्तवल्लभोऽस्माकं कनीयान्मौग्ध्यवानिति ।। ११
स मामुवाच दीनात्मा वाष्पपूर्णविलोचनः ।
तात देह्याशु मे मांसं पातुं च रुधिरं क्षणात् ।। १२
पुनःपुनर्वदन्नेवं स बालस्तनयो मम ।
प्राणान्तिकीं दशां प्राप्तः साक्रन्दो हि पुनः क्षुधा ।। १३
तस्योक्तं तु मया पुत्र मांसं नास्तीति भूरिशः ।
तथापि मांसं देहीति वदत्येव स दुर्मतिः ।। १४
अथ वात्सल्यमूढेन मया दुःखातिभारिणा ।
तस्योक्तं पुत्र मन्मांसं पक्वं संभुज्यतामिति ।। १५
तदप्यङ्गीकृतं तेन देहीति वदता पुनः ।
मन्मांसभक्षणं क्षीणवृत्तिनाऽऽश्लेषवृत्तिना ।। १६
सर्वदुःखापनोदाय स्नेहकारुण्यमोहिना ।
तस्य तामार्तिमालोक्य मया दुःखातिभारिणा ।। १७
सोढुं तामापदं तीव्रामशक्तेन हतात्मना ।
मरणायातिमित्राय कृतोऽन्तर्निश्चयो मया ।। १८
तत्र काष्ठानि संचित्य चितां रचितवानहम् ।!
चिता चटचटास्फोटैः स्थिता मदभिकाङ्क्षिणी ।। १९
तस्यां तु यावदात्मानं चितायां निक्षिपाम्यहम् ।
चलितोऽस्मि जवात्तावदस्मात्सिंहासनान्नृपः ।। २०
ततस्तूर्यनिनादेन जयशब्देन बोधितः ।
इति शाम्बरिकेणायं मोह उत्पादितो मम ।। २१
अज्ञानेनेव जीवस्य दशाशतसमन्वितः ।
इत्युक्तवति राजेन्द्रे लवणे भूरितेजसि ।। २२
अन्तर्धानं जगामाशु तत्र शाम्बरिकः क्षणात् ।
अथेदमूचुस्ते सभ्या विस्मयोत्फुल्ललोचनाः ।। २३
नायं शाम्बरिको देव यस्य नास्ति धनैषणा ।
दैवी काचन मायेयं संसारस्थितिबोधिनी ।। २४
मनोविलासः संसार इति यस्यां प्रतीयते ।
सर्वशक्तेरनन्तस्य विलासो हि मनोजगत् ।। २५
सर्वशक्तेर्विचित्रा हि शक्तयः शतशो विधेः ।
यद्विवेकि मनोऽप्येष विमोहयति मायया ।। २६
विज्ञातलोकवृत्तान्तः क्व नामायं महीपतिः ।
क्व सामान्यमनोवृत्तियोग्यो विपुलसंभ्रमः ।। २७
न च शाम्बरिकेच्छेयं माया मनसि मोहिनी ।
अर्थस्य सिद्ध्यै चेहन्ते नित्यं शाम्बरिकाः किल ।। २८
यत्नेन प्रार्थयन्तेऽर्थं नान्तर्धानं व्रजन्ति भो ।
इति संदेहवेलायां संस्थिता लुलिता वयम् ।। २९
श्रीवसिष्ठ उवाच ।
सभायामवसं तस्यामहं राम तदा किल ।
तेन प्रत्यक्षतो दृष्टं मयैतन्नान्यतः श्रुतम् ।। ३०
इति बहुकलनाविवर्धिताङ्गं
जयति चिरं विततं मनो महात्मन् ।
शममुपगमिते परस्वभावे
परममुपैष्यसि पावनं पदं यत् ।। ३१
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० दे० उ० इन्द्रजालोपाख्याने चण्डालत्वव्यपगमो नाम नवोत्तरशततमः सर्गः ।।१०९।।