योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०२१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः २० योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)
सर्गः ०२१
अज्ञातलेखकः
सर्गः २२ →

श्रीदेव्युवाच ।
प्रतिभान्ति जगन्त्याशु मृतिमोहादनन्तरम् ।
जीवस्योन्मीलनादक्ष्णो रूपाणीवाखिलान्यलम् ।। १
दिक्कालकलनाकाशधर्मकर्ममयानि च ।
परिस्फुरन्त्यनन्तानि कल्पान्तस्थैर्यवन्ति च ।। २
नानुभूतं न यद्दृष्टं तन्मया कृतमित्यपि ।
तत्क्षणात्स्मृतितामेति स्वप्ने स्वमरणं यथा ।। ३
भ्रान्तिरेवमनन्तेयं चिद्व्योमव्योम्नि भासुरा ।
अपकुड्या जगन्नाम्नी नगरी कल्पनात्मिका ।। ४
इदं जगदयं सर्गः स्मृतिरेवेति जृम्भते ।
दूरकल्पक्षणाभ्यासविपर्यासैकरूपिणी ।। ५
नानुभूतानुभूता च ज्ञप्तिरित्थं द्विरूपिणी ।
पूर्वकारणरिक्तैव चिद्रूपैव प्रवर्तते ।। ६
नानुभूतेऽनुभूतत्वसंविदन्तरुदेत्यपि ।
स्वप्नभ्रमादावन्यस्मिन्पितरीव पितुः स्मृतिः ।। ७
कदाचित्स्मृतितां त्यक्त्वा प्रतिभामात्रमेव सत् ।
भाति प्रथमसर्गेषु रूपेण तदनुक्रमात् ।। ८
दृश्यं त्रिभुवनादीदमनुभूतं स्मृतौ स्थितम् ।
केषांचित्तन्वि केषांचिन्नानुभूतं स्मृतौ स्थितम् ।। ९
प्रतिभासत एवेदं केषांचित्सरणं विना ।
चिदणूनां प्रजेशत्वं काकतालीयवद्यतः ।। १०
अत्यन्तविस्मृतं विश्वं मोक्ष इत्यभिधीयते ।
ईप्सितानीप्सिते तत्र न स्तः काचन कस्यचित् ।। ११
अत्यन्ताभावसंपत्तिं विनाहन्ताजगत्स्थितेः ।
अनुत्पादमयी ह्येषा नोदेत्येव विमुक्तता ।। १२
रज्ज्वां सर्पभ्रमः सर्पशब्दार्थासंभवं स्थितम् ।
अनुत्पादमयं त्यक्त्वा शान्तोऽपि हि न शाम्यति१३
अर्धशान्तो न शान्तोऽसौ समेत्यर्थतया पुनः ।
उदेत्येकपिशाचान्ते पिशाचोऽन्यो ह्यधीमतः ।। १४
संसारश्चायमाभोगी परमेवेति निश्चयः ।
कारणाभावतो भाति यदिहाभातमेव तत् ।। १५
लीलोवाच ।
ब्राह्मणब्राह्मणीरूपे सर्गे कारणसंस्मृतिः ।
कथमभ्युत्थिता सास्य स्मरणीयमिदं विना ।। १६
श्रीदेव्युवाच ।
पितामहस्मृतिस्तत्र कारणं तस्य न स्मृतिः ।
पूर्वं न संभवत्येव मुक्तत्वात्पूर्वजन्मनः ।। १७
पूर्वं न संभवत्येव स्मरणीयमिति स्वयम् ।
पद्मजादित्वमायाति चैतन्यस्य तथास्थितेः ।। १८
अभूवमहमित्यन्यः प्रजानाथः प्रजापतेः ।
काकतालीयवत्कश्चिद्भवति प्रतिभामयः ।। १९
एवमभ्युदिते लोके न किंचिन्न कदाचन ।
क्वचिदभ्युदितं नाम केवलं चिन्नभः स्थितम् ।। २०
द्विविधायाः स्मृतेरस्याः कारणं परमं पदम् ।
कार्यकारणभावोऽसावेक एव चिदम्बरे ।। २१
कार्य च कारणं चैव कारणैः सहकारिभिः ।
कार्यकारणयोरैक्यात्तदभावान्न शाम्यति ।। २२
महाचिद्रूपमेव त्वं स्मरणं विद्धि वेदनम् ।
कार्यकारणता तेन स शब्दो न च वास्तवः ।। २३
एवं न किंचिदुत्पन्नं दृश्यं चिज्जगदाद्यपि ।
चिदाकाशे चिदाकाशं केवलस्वात्मनि स्थितम् ।। २४
लीलोवाच ।
अहो नु परमा दृष्टिर्दर्शिता देवि मे त्वया ।
रूपश्रीर्जागती प्रातः प्रभयेवेक्षणद्युतिः ।। २५
इदानीमहमेतस्यां यावत्परिणता दृशि ।
नाभ्यासेन विना तावद्भिन्धीदं देवि कौतुकम् ।। २६
यत्रासौ ब्राह्मणो गेहे ब्राह्मण्या सहितोऽभवत् ।
तं सर्गं तं गिरिग्रामं नय मां तं विलोकये ।। २७
श्रीदेव्युवाच ।
अचेत्यचिद्रूपमयीं परमां पावनीं दृशम् ।
अवलम्ब्येममाकारमवमुच्य भवामला ।। २८
ततः प्राप्स्यस्यसंदेहं व्योमात्मानं नभःस्थितम् ।
भूमिष्ठनरसंकल्पो गगनान्तः पुरं यथा ।। २९
एवं स्थिते तं पश्यावः सह सर्गमनर्गलम् ।
अयं तद्दर्शनद्वारे देहो हि परमार्गलम् ।। ३०
लीलोवाच ।
अमुना देवि देहेन जगदन्यदवाप्यते ।
न कस्मादत्र मे युक्तिं कथयानुग्रहाग्रहात् ।। ३१
श्रीदेव्युवाच ।
जगन्तीमान्यमूर्तानि मूर्तिमन्ति मुधाग्रहात् ।
भवद्भिरवबुद्धानि हेमानीवोर्मिकाधिया ।। ३२
हेम्न्यूर्मिकारूपधरेऽप्यूर्मिकात्वं न विद्यते ।
यथा तथा जगद्रूपे जगन्नास्ति च ब्रह्मणि ।। ३३
जगदाकाशमेवेदं ब्रह्मैवेह तु दृश्यते ।
दृश्यते काचिदप्यत्र धूलिरम्बुनिधाविव ।। ३४
अयं प्रपञ्चो मिथ्यैव सत्यं ब्रह्माहमद्वयम् ।
अत्र प्रमाणं वेदान्ता गुरवोऽनुभवस्तथा ।। ३५
ब्रह्मैव पश्यति ब्रह्म नाब्रह्म ब्रह्म पश्यति ।
सर्गादिनाम्ना प्रथितः स्वभावोऽस्यैव चेदृशः ।। ३६
न ब्रह्मजगतामस्ति कार्यकारणतोदयः ।
कारणानामभावेन सर्वेषां सहकारिणाम् ।। ३७
यावदभ्यासयोगेन न शान्ता भेदधीस्तव ।
नूनं तावदतद्रूपा न ब्रह्म परिपश्यसि ।। ३८
तत्र रूढिमुपायाता य इमे त्वस्मदादयः ।
अभ्यासाद्ब्रह्मसंपत्तेः पश्यामस्ते हि तत्परम् ।। ३९
संकल्पनगरस्यैव ममाकाशमयं वपुः ।
ब्रह्मैव चान्तः पश्यामि देहेनानेन तत्पदम् ।। ४०
विशुद्धज्ञानदेहार्हास्तथैते पद्मजादयः ।
ब्रह्मात्मजगदादीनामंशे संस्थानमङ्गने ।। ४१
तवाभ्यासं विना बाले नाकारो ब्रह्मतां गतः ।
स्थितः कलनरूपात्मा तेन तन्नानुपश्यसि ।। ४२
यत्र स्वसंकल्पपुरं स्वदेहेन न लभ्यते ।
तत्रान्यसंकल्पपुरं देहोऽन्यो लभते कथम् ।। ४३
तस्मादेनं परित्यज्य देहं चिद्व्योमरूपिणी ।
यत्पश्यसि तदेवाद्य कुरु कार्यविदांवरे ।। ४४
संकल्पनगरं सत्यं यथासंकल्पितं प्रति ।
संदेहं वा विदेहं वा नेतरं प्रति किंचन ।। ४५
आदिसर्गे जगद्भ्रान्तिर्यथेयं स्थितिमागता ।
तथा तदाप्रभृत्येवं नियतिः प्रौढिमागता ।। ४६
लीलोवाच ।
त्वयोक्तं देवि गच्छावो ब्राह्मणब्राह्मणी जगत् ।
सहेतीदमिदं वच्मि कथं गन्तव्यमम्ब हे ।। ४७
इमं देहमिहास्थाप्य शुद्धसत्त्वानुपातिना ।
चेतसा तं परं यामि लोकं त्वं कथमेषि तत् ।। ४८
श्रीदेव्युवाच ।
संकल्पव्योमवृक्षस्ते यथा सन्नपि खात्मकः ।
न कुड्यात्मा न कुड्येन रोध्यते नापि कुड्यहा ।। ४९
शुद्धैकसत्त्वनिर्माणं चिद्रूपस्यैव तत्किल ।
प्रतिभानमतस्तस्मात्परस्म्वाद्भिद्यते मनाक् ।। ५०
सोऽयमेतादृशो देहो नैनं संत्यज्य याम्यहम् ।
अनेनैव तमाप्नोमि देशं गन्धमिवानिलः ।। ५१
यथा जलं जलेनाग्निरग्निना वायुनानिलः ।
मिलत्येवमतो देहो देहैरन्यैर्मनोमयैः ।। ५२
नहि पार्थिवतासंविदेत्य पार्थिवसंविदा ।
एकत्वं कल्पनाशैलशैलयोः क्वाहतिर्मिथः ।। ५३
आतिवाहिक एवायं त्वादृशैश्चित्तदेहकः ।
आधिभौतिकताबुद्ध्या गृहीतश्चिरभावनात् ।। ५४
यथा स्वप्ने यथा दीर्घकालध्याने यथा भ्रमे ।
यथा च सति संकल्पे यथा गन्धर्वपत्तने ।। ५५
वासनातानवं नूनं यदा ते स्थितिमेष्यति ।
तदातिवाहिको भावः पुनरेष्यति देहके ।। ५५
लीलोवाच ।
आतिवाहिकदेहत्वप्रत्यये घनतां गते ।
तामवाप्नोत्ययं देहो दशामाहो विनश्यति ।। ५७
श्रीदेव्युवाच ।
यदस्ति नाम तत्रैव नाशानाशक्रमो भवेत् ।
वस्तुतो यच्च नास्त्येव नाशः स्यात्तस्य कीदृशः ।।५८
रज्ज्वां सर्पभ्रमे नष्टे सत्यबोधवशात्सुते ।
सर्पो न नष्ट उन्नष्टो वेत्येवं कैव सा कथा ।। ५९
यथा सत्यपरिज्ञानाद्रज्ज्वा सर्पो न दृश्यते ।
तथातिवाहिकज्ञानाद्दृश्यते नाधिभौतिकः ।। ६०
कल्पनापि निवर्तेत कल्पिता यदि केनचित् ।
सा शिला समपास्तैव या नेहास्ति कदाचन ।। ६१
परं परे परापूर्णमिदं देहादिकं स्थितम् ।
इति सत्यं वयं भद्रे पश्यामो नाभिपश्यसि ।। ६२
आदिसर्गे भवेच्चित्त्वं कल्पनाकल्पितं यदा ।
तदा ततः प्रभृत्येकसत्त्वं दृश्यमवेक्षते ।। ६२
लीलोवाच ।
एकस्मिन्नेव संशान्ते दिक्कालाद्यविभागिनि ।
विद्यमाने परे तत्त्वे कलनावसरः कुतः ।। ५४
श्रीदेव्युवाच ।
कटकत्वं यथा हेम्नि तरङ्गत्वं यथाम्भसि ।
सत्यत्वं च यथा स्वप्नसंकल्पनगरादिषु ।। ६५
नास्त्येव सत्यनुभवे तथा नास्त्येव ब्रह्मणि ।
कल्पनाव्यतिरिक्तात्मतत्स्वभावादनामयात् ।। ६६
यथा नास्त्यम्बरे पांसुः परे नास्ति तथा कला ।
अकलाकलनं शान्तमिदमेकमजं ततम् ।। ६७
यदिदं भासते किंचित्तत्तस्येव निरामयम् ।
कचनं काचकस्येव कान्तस्याऽतिमणेरिव ।। ६८
लीलोवाच ।
एतावन्तं चिरं कालमेते देवि वयं वद ।
भ्रामिताः केन नामापि द्वैताद्वैतविकल्पनैः ।। ६९
श्रीदेव्युवाच ।
अविचारेण तरले भ्रान्तासि चिरमाकुला ।
अविचारः स्वभावोत्थः स विचाराद्विनश्यति ।। ७०
अविचारो विचारेण निमेषादेव नश्यति ।
एषा सत्तैव तेनान्तरविद्यैषा न विद्यते ।। ७१
तस्मान्नैवाविचारोऽस्ति नाविद्यास्ति न बन्धनम् ।
न मोक्षोऽस्ति निराबाधं शुद्धबोधमिदं जगत् ।। ७२
एतावन्तं यदाकालं त्वयैतन्न विचारितम् ।
तदा न संप्रबुद्धा त्वं भ्रान्तैवाभव आकुला ।। ७३
अद्यप्रभृति बुद्धासि विमुक्तासि विवेकिनी ।
वासनातानवं बीजं पतितं तव चेतसि ।। ७४
आदावेव हि नोत्पन्नं दृश्यं संसारनामकम् ।
यदा तदा कथं तेन वास्यन्ते वासनापि का ।। ७५
अत्यन्ताभावसंपत्तौ द्रष्टृदृश्यदृशां मनः ।
एकध्याने परे रूढे निर्विकल्पसमाधिनि। ।। ७५
वासनाक्षयबीजेऽस्मिन्किंचिदङ्कुरिते हृदि ।
क्रमान्नोदयमेष्यन्ति रागद्वेषादिका दृशः ।। ७७
संसारसंभवश्चायं निर्मूलत्वमुपैष्यति ।
निर्विकल्पसमाधानं प्रतिष्ठामलमेष्यति ।। ७८
विगतकलनकालिमाकलङ्का
गगनकलान्तरनिर्मलाम्बनेन ।
सकलकलनकार्यकारणान्तः
कतिपयकालवशाद्भविष्यसीति ।। ७९

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे विश्रान्त्युपदेशो नामैकविंशः सर्गः ।। २१ ।।