योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०२२

विकिस्रोतः तः
← सर्गः २१ योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)
सर्गः ०२२
अज्ञातलेखकः
सर्गः २३ →

द्वाविंशः सर्गः २२
श्रीदेव्युवाच ।
यथा स्वप्नपरिज्ञानात्स्वप्नदेहो न वास्तवः ।
अनुभूतोऽप्ययं तद्वद्वासनातानवादसन् ।। १
यथा स्वप्नपरिज्ञानात्स्वप्नदेहः प्रशाम्यति ।
वासनातानवात्तद्वज्जाग्रद्देहोऽपि शाम्यति ।। २
स्वप्नसंकल्पदेहान्ते देहोऽयं चेत्यते यथा ।
तथा जाग्रद्भावनान्ते उदेत्येवातिवाहिकः ।। ३
स्वप्ने निर्वासनाबीजे यथोदेति सुषुप्तता ।
जाग्रत्यवासनाबीजे तथोदेति विमुक्तता ।। ४
येयं तु जीवन्मुक्तानां वासना सा न वासना ।
शुद्धसत्त्वाभिधानं तत्सत्तासामान्यमुच्यते ।। ५
या सुप्तवासना निद्रा सा सुषुप्तिरिति स्मृता ।
यत्सुप्तवासनं जाग्रद्धनोऽसौ मोह उच्यते ।। ६
प्रक्षीणवासना निद्रा तुर्यशब्देन कथ्यते ।
जाग्रत्यपि भवत्येव विदिते परमे पदे ।। ७
प्रक्षीणवासना येह जीवतां जीवनस्थितिः ।
अमुक्तैरपरिज्ञाता सा जीवन्मुक्ततोच्यते ।। ८
शुद्धसत्त्वानुपतितं चेतः प्रतनुवासनम् ।
आतिवाहिकतामेति हिमं तापादिवाम्बुताम् ।। ९
आतिवाहिकतां यातं बुद्धं चित्तान्तरैर्मनः ।
सर्गजन्मान्तरगतैः सिद्धैर्मिलति नेतरत् ।। १०
यदा तेऽयमहंभावः स्वभ्यासाच्छान्तिमेष्यति ।
तदोदेष्यति ते स्फारादृश्यान्ता बोधता स्वयम् ।। ११
आतिवाहिकताज्ञानं स्थितिमेष्यति शाश्वतीम् ।
यदा तदा ह्यसंकल्पाँल्लोकान्द्रक्ष्यसि पावनान् ।। १२
वासनातानवे तस्मात्कुरु यत्नमनिन्दिते ।
तस्मिन्प्रौढिमुपायाते जीवन्मुक्ता भविष्यसि ।। १३
यावन्न पूरितस्त्वेष शीतलो बोधचन्द्रमाः ।
तावद्देहमवस्थाप्य लोकान्तरमवेक्ष्यताम् ।। १४
मांसदेहो मांसदेहेनैव संश्लेषमेष्यति ।
नतु चित्तशरीरेण व्यवहारेषु कर्मसु ।। १५
यथानुभव मे वैतद्यथास्थितमुदाहृतम् ।
आबालसिद्धसंसिद्धं न नाम वरशापवत् ।। १६
अवबोधघनाभ्यासाद्देहस्यास्यैव जायते ।
संसारवासनाकार्श्ये नूनं चित्तशरीरता ।। १७
उदेष्यन्ती च सैवात्र केनचिन्नोपलक्ष्यते ।
केवलं तु जनैर्देहो म्रियमाणोऽवलोक्यते ।। १८
देहस्त्वयं न म्रियते न च जीवति किंच ते ।
के किल स्वप्नसंकल्पभ्रान्तौ मरणजीविते ।। १९
जीवितं मरणं चैव संकल्पपुरुषे यथा ।
असत्यमेव भात्येव तस्मिन्पुत्रि शरीरके ।। २०
लीलोवाच ।
तदेतदुपदिष्टं मे ज्ञानं देवि त्वयाऽमलम् ।
यस्मिञ्श्रुतिगते शान्तिमेति दृश्यविषूचिका ।। २१
अत्रोपकुरु मे ब्रूहि कोऽभ्यासः कीदृशोऽथवा ।
स कथं पोषमायाति पुष्टे तस्मिंश्च किं भवेत् ।। २२
श्रीदेव्युवाच ।
यद्येन क्रियते किंचिद्येन येन यदा यदा ।
विनाभ्यासेन तन्नेह सिद्धिमेति कदाचन ।। २३
तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् ।
एतदेकपरत्वं च तदभ्यासं विदुर्बुधाः ।। २४
ये विरक्ता महात्मानो भोगभावनतानवम् ।
भावयन्त्यभवायान्तर्भव्या भुवि जयन्ति ते ।। २५
उदितौदार्यसौन्दर्यवैराग्यरसरञ्जिता ।
आनन्दस्पन्दिनी येषां मतिस्तेऽभ्यासिनः परे ।। २६
अत्यन्ताभावसंपत्तौ ज्ञातृज्ञेयस्य वस्तुनः ।
युक्त्या शास्त्रैर्यतन्ते ये ते ब्रह्माभ्यासिनः स्थिताः ।। २७
सर्गादावेव नोत्पन्नं दृश्यं नास्त्येव तत्सदा ।
इदं जगदहं चेति बोधाभ्यास उदाहृतः ।। २८
दृश्यासंभवबोधेन रागद्वेषादितानवे ।
रतिर्बलोदिता यासौ ब्रह्माभ्यास उदाहृतः ।। २९
दृश्यासंभवबोधेन विना द्वेषादितानवम् ।
तप इत्युच्यते तस्मान्न ज्ञानं तच्च दुःखतत् ।। ३०
दृश्यासंभवबोधो हि ज्ञानं ज्ञेयं च कथ्यते ।
तदभ्यासेन निर्वाणमित्यभ्यासो महोदयः ।। ३१
भवबहुलनिशानितान्तनिद्रा-
सततविवेकविबोधवारिसेकैः ।
प्रगलति हिमशीतलैरशेषा
शरदि महामिहिकेव चेतसीति ।। ३२
इत्युक्तवत्यथ मुनौ दिवसो जगाम
सायंतनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम
श्यामाक्षये रविकरैश्च सहाजगाम ।। ३३
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे विज्ञानाभ्यासवर्णनं नाम द्वाविंशः सर्गः ।। २२ ।।
चतुर्थो दिवसः ।